भूतोत्पत्तिविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
जननी प्रादुर्भाव इति तद्भेदे जातिभेदकः ॥ १ ॥
उद्भिदं स्वेदजं चैव मण्डजं च जरायुजम् ।
एवं चतुर्विधं प्रोक्तं जातिभेदं ततः शृणु ॥ २ ॥
प्। ११४३)
भूमिमुद्भिद्य सञ्जाता उद्भिदः स्थावरादिकाः ।
तृणगुल्मलताद्याश्च उद्भिदश्च प्रकीर्तिताः ॥ ३ ॥
स्वेदजाः स्विद्यमानेभ्यो * * * * दिमत्कुणाः ।
स्त्रियाद्याश्च पिपील्याद्या स्वेदजाश्च प्रकीर्तिताः ॥ ४ ॥
अण्डजाः पक्षिणस्सर्पा गोधामत्स्याश्च कच्छपाः ।
नक्रा ग्राहाश्च ते सर्वे चाण्डजाश्चेति कीर्तिताः ॥ ५ ॥
जरायुजश्च ग्राम्यातः क्रमतस्थूनि सम्भवाः ।
जरायुजाश्च मूलं वै चौषध्या जायते भृशम् ॥ ६ ॥
प्राप्तकाले तु संसिक्ता भूमिरुष्म समन्विता ।
वायुना व्यूहमानासा व्योम्नि जीवत्वमागता ॥ ७ ॥
प्। ११४४)
यथार्तवानि बीजानि सं * * * * * पुनः ।
उच्छ्रनातार्द्रदुर्भं च मूलभागमियात्क्रमात् ॥ ८ ॥
तन्मूलादं कुरोत्पत्तिरङ्कुरार्पण निष्कृतिः ।
पर्णनालं ततः काण्डं काण्डोक्त प्रसवं पुनः ॥ ९ ॥
कुसुमात्क्षीरसम्पत्तिः * * * ण्डुलनिष्कृतिः ।
तण्डुलानां तु पाकात्तु त्रियन्त्यौषधजातयः ॥ १० ॥
तदायवाद्यस्सप्तदशशणान्ताश्च प्रकीर्तिताः ।
फलपाकावसानान्तास्तथा चौषधिजातयः ॥ ११ ॥
ओषधीनां रसं चैव षड्विधं परिकीर्तितम् ।
प्। ११४५)
भोज्यं भक्ष्यं च लेह्यं च शोष्यं पेयं च पिञ्च्छिलम् ।
मधुराम्रे च लवणं तिक्तं कटुकषायकम् ॥ १३ ॥
एवं षड्रस संयोगाद् अन्नं ग्राम्यास्तु भुञ्जते ।
आसाद्यामाशयं प्राप्य प्राणादि स्थापितं क्रमात् ॥ १४ ॥
पुनर्दग्धं भवेदन्नं वायुना च विशेषतः ।
अन्नांशं भुजलांशन्तु तोयासो वह्निरूर्जितः ॥ १५ ॥
प्राणवायुजलस्याथ शनैरग्नि * * * * ।
अग्निनात्वार्थ्यतेतोयं तेनान्नस्यापि पाचनम् ॥ १६ ॥
पृथगंश पृथक्कीटं पुनश्च द्विविधं भवेत् ।
किट्टं द्वादशमार्गेण वह्निरङ्गात्प्रवर्तते ॥ १७ ॥
प्। ११४६)
श्रोत्रनेत्रघ्राणजिह्वा शिश्नो मेढ्रगुदं नखाः ।
मलाशयाः कफस्वेदौ विण्मूत्रा द्वादश स्मृताः ॥ १८ ॥
हृदयाम्भोजसम्बद्धाः सर्वा नाड्यस्समन्ततः ।
प्राणवायुश्च नाडीनां मुखे सूक्ष्मरसं क्षिपेत् ॥ १९ ॥
तेनापि रसनेनैव नाड्या प्र * श्च पूर्यते ।
नाडीनां मध्यमे प्राणशरीरः श्लेष्मणो रसः ॥ २० ॥
पच्यन्ते पाकमानाश्च भवेत्पाकद्वयं पुनः ।
रसतस्त्वक्च रुधिरं मांसं रक्तात्तु जायते ॥ २१ ॥
मांसं मेदतस्नायुस्नायोरस्थीनि वै क्रमात् ।
मज्जा तु जायते पश्चाच्छुक्लोऽप्यत त्रिधा भवेत् ॥ २२ ॥
प्। ११४७)
अन्नस्य रेतश्शुक्लं स्याच्छुक्लाद्देहस्य सम्भवः ।
प्राजापत्य * * * नै ऋतुकाले विशेषतः ॥ २३ ॥
निर्दोषं योनिगं शुक्लं योषिद्रक्तेन मिश्रितम् ।
शुक्तान्नरान्तस्थो जीवः करणसंयुतः ॥ २४ ॥
गर्भाशयं प्रविशति प्रीत्या स्वैरेव कर्मभिः ।
एकाहामिश्रितं तत्तु कलाख्यङ्गं च गच्छति ॥ २५ ॥
कललात्पञ्चरात्रेण बुद्बुदत्वं प्रपद्यते ।
सप्तरात्रोविमाद्भूत्वा बुद्बुदात्पेशिकां व्रजेत् ॥ २६ ॥
चतुर्दशदिनात्पेशि रक्तं मांसात्मना दृढा ।
पञ्चविंशदिनात्पश्चाद् बीजाङ्कुरसमुद्भवः ॥ २७ ॥
प्। ११४८)
तत्पुनर्मांसमात्रेण पञ्चधाजायते तदा ।
शिरो ग्रीवा च स्कन्धश्च पृष्ठवंशस्तथोपरम् ॥ २८ ॥
पाणिपादं तथा पार्श्वं कटिर्गात्रं तथैव च ।
मासद्वयात्क्रमेणैव भवत्येवाङ्गनिष्कृतिः ॥ २९ ॥
मासेनैव च जायन्ते सर्वाङ्गाङ्कुरसन्धयः ।
अङ्गुल्यश्च चतुर्मासाज्जठराणा * * शकम् ॥ ३० ॥
पञ्चमे मासि वक्त्रं च नासाकर्णौ तथैव च ।
गुह्यं च दन्तपङ्क्तिश्च जायते च न खाङ्कुराः ॥ ३१ ॥
कर्णादीनामपिच्छिद्रं षण्मासादेव जायते ।
पायुर्मेढ्रमुपस्थं च नाभिर्वंशास्थिरेव च ॥ ३२ ॥
प्। ११४९)
गात्रेषु सन्धयो ये च सप्तमे मासि जज्ञिरे ।
अङ्गप्रत्यङ्ग सम्पूर्णशिरोभाग समन्वितः ॥ ३३ ॥
अष्टमे मासिके चैव विस्पष्टाङ्गश्च जायते ।
नवमे मासि सम्प्राप्ते सम्पूर्णज्ञान वारुणः ॥ ३४ ॥
षड्विधेन रसेनैव मातुराहारजैः पुनः ।
नान्तरालेन संव्याप्तपोषजा याति नित्ययः ॥ ३५ ॥
सुखदुःखं विजानाति निद्रां स्वपं पुराकृतम् ।
जरश्चाभं मृतश्चाभः जन्मजन्म पुनः पुनः ॥ ३६ ॥
यज्जन्मपरजन्मस्यार्थे कृतं कर्म शुभाशुभम् ।
एकाकी तेन दह्येहं गतास्ते फलभोगिनः ॥ ३७ ॥
प्। ११५०)
यदा योग्याः प्रमुद्येऽहं तं प्रपद्ये महेश्वरम् ।
अशुभक्षयकर्तारम्परं मुक्ति प्रदायकम् ॥ ३८ ॥
गर्भस्थः कीटजालैश्च पीड्यमानो मुहुर्मुहुः ।
येन येन प्रकारेण गर्भवासो न जायते ॥ ३९ ॥
तेन तेन प्रकारेण शिवस्याराधनं भवेत् ।
गर्भस्थश्चिन्तयन्नित्यं यदि वा निर्गतो भवेत् ॥ ४० ॥
इत्येवं चिन्तया खिन्नो गर्भदुःखेन पीड्यते ।
मोक्षं विचिन्तयञ्जीवी कर्मपाशानुगः ॥ ४१ ॥
बृहच्छिलाभिराक्रान्तः क्वचिद्दुःखेन तिष्ठति ।
जीवोपि तद्वन्महतावेष्टितश्च जरायुणा ॥ ४२ ॥
प्। ११५१)
संसारसागरे मग्नो दुःखमास्ते समाकुलः ।
गर्भादिकेनच्छन्नाङ्गव्याकुलः पुमान् ॥ ४३ ॥
वह्निना लोहकुम्भस्तु यथा कश्चित्प्रपद्यते ।
अथाप्य प्रश्चिते गर्भः कुम्भे तु जठराग्निना ॥ ४४ ॥
प्रतप्तलोहजातीभिः विभिन्नस्य निरन्तरम् ।
दुःखं यज्जायते तस्य तद्गर्भेषु गुणं भवेत् ॥ ४५ ॥
गर्भवासात्परं वासं कष्टं नैवात्र विद्यते ।
अग्निघोरं महादुःखं बहुलं देहिनामिदम् ॥ ४६ ॥
जङ्गमस्थावराणां तु गर्भाणामनुरूपतः ।
गर्भात्कोटिगुणं दुःखं योनियन्त्र प्रपीडनात् ॥ ४७ ॥
प्। ११५२)
सम्पीडितसमस्तांशो दुःखार्तोऽपि भयान्वितः ।
तिलषत्पीड्यमाणस्य यन्त्रेणैव समन्ततः ॥ ४८ ॥
गर्भान्निष्क्रममाणस्य प्रबलैस्सूतिमारुतैः ।
महद्दुःखं भवत्येव जायमानस्य तस्य वै ॥ ४९ ॥
तिलेक्षुबन्धयन्त्रेण पीडितास्सारवर्जिताः ।
तद्वन्निस्सारमापन्नो विवशोऽधः पतत्यसौ ॥ ५० ॥
अस्थिपक्षतुलास्तम्भं स्नायुबन्धनयन्त्रितम् ।
रक्तमांसमृदा लिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ५१ ॥
लोमकेशतृणच्छन्नं व्याधीनां च निकेतनम् ।
वदनैक महाद्वारं गवाक्षाष्टकभूषितम् ॥ ५२ ॥
प्। ११५३)
अधरोष्टिकवाटं च जिञ्जमिह्वार्गलावृतम् ।
सिरास्वेद प्रवाहं च श्लेष्म पद्मपरिप्लुतम् ॥ ५३ ॥
परितः क्लेशसंयुक्तं कालानल समन्वितम् ।
कामक्रोधेन्धनाक्रान्तं व्यसनैश्चापि मर्दितम् ॥ ५४ ॥
भोगतृष्णातुरं डम्भरागद्वेषवशानुगम् ।
सङ्कटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥ ५५ ॥
विण्मूत्र रक्तसिक्ताङ्गमुद्वेन च समुद्भवेत् ।
प्रधानास्थीनि वै त्राणि शतान्यधिकमष्ट वै ॥ ५६ ॥
सार्धां च सोरोम कोट्यं पञ्चपेशिशितानि च ।
द्विसप्तति सहस्राणां नाडीभिरभितो वृतम् ॥ ५७ ॥
प्। ११५४)
मेदः प्रस्थद्वयं प्रोक्तं देहिनां नन्दिकेश्वर ! ॥ ५८ ॥
मूत्राणां च पुरीषाणां सङ्ख्यासख्यानमादिशेत् ।
इति देहं * * * * ह्येव स्यान्नित्यमात्मनः ॥ ५९ ॥
विशुद्धस्यापि मलिनं कर्मबन्धाद्विनिर्मितम् ।
शुलशोणितसंयोगाद् देह उत्पद्यते यतः ॥ ६० ॥
पुरीषपूर्णकुम्भस्य शुद्धिः कुत्रोपलभ्यते ।
शोध्यमानोऽपि देहोयम् अशुचिः स्याद्वि निश्चयः ॥ ६१ ॥
हृद्यानि सुरभीण्याशु यत्प्राप्यशुचिर्भवेत् ।
अशुद्धित्वं क्षणाद्याति किमन्यदशुचिर्भवेत् ॥ ६२ ॥
प्। ११५५)
यस्य स्रोतांसि सततं सूक्ष्मैर्नाडी मुखैस्सदा ।
स्रवन्ति पूति गन्धानि किमन्यदशुचिर्भवेत् ॥ ६३ ॥
एवंविधे शरीरेऽपि न विरज्यति कश्चन ।
चन्दनागरुकर्पूरकुङ्कुमाद्यनुलेपितम् ॥ ६४ ॥
न जहाति स्वकं गन्धं श्वपुच्छमिवनामितम् ।
सर्वदा शोध्यमानोपि शुद्धिं नैवाधि गच्छति ॥ ६५ ॥
जिघ्रन्नपि सुदुर्गन्धं पश्यन्नपि स्वकं मलम् ।
नान्यद्विरागहेतुः स्याच्छरीरादिह विद्यते ॥ ६६ ॥
जगत्सर्वं विशुद्धं वै देह एवाशुचिः परम् ।
भावशुद्धिर्विशुद्धिर्वै शुद्धये कथितं मया ॥ ६७ ॥
प्। ११५६)
भावहीने कृताशुद्धिर्भाव शुद्धिर्विशुद्धिदा ।
गङ्गातीर्थैश्च मृद्भारैमृज्यते पर्वतोपमैः ॥ ६८ ॥
दीर्घकालमशुद्धः स्याद् भावशुद्धि विहीनकः ।
शुद्धतीर्थ सहस्रैस्तु स्नातो भावविहीनकः ॥ ६९ ॥
तेनापि नैव शुद्धः स्यात् श्वदृतिः क्षालितायथा ।
दुष्टात्मावह्नि योगेऽपि न शुद्धः कुत्रचिद्भवेत् ॥ ७० ॥
स्वर्गं मोक्षं च नास्त्येव केवलं देहनाशनम् ।
शौचं परं भावशुद्धिप्रमाणं सर्वकर्मसु ॥ ७१ ॥
भावेनालिङ्गिता भार्या दुहिता वान्यथा यथा ।
मानवा भिद्यते बुद्धिरभिन्नेष्वेव वस्तुषु ॥ ७२ ॥
प्। ११५७)
नन्दिन्सर्वत्र पुत्रस्तु स्तनं ध्यायन्यथा यथा ।
पतिस्तदेव ध्यायन्वै कामार्द्र हृदयो भवेत् ॥ ७३ ॥
परिष्वक्तापि यद्भार्या भावहीना न कामयेत् ।
अभावेन परं तस्माद्भावस्सर्वस्य हेतुक ॥ ७४ ॥
चेतश्शुद्धिर्विशुद्धिर्वै किमन्यैश्शै * * * रैः ।
दाहशुद्ध्या च सर्वं च लभते नात्र संशयः ॥ ७५ ॥
ज्ञानाम्बुनामलात्पुंसां सद्वैराग्यमृदा पुनः ।
अविनारागविण्मूत्रलेपगन्धविशोशधनम् ॥ ७६ ॥
स्वभावतः शरीरे तु मलभाण्डमिदं परम् ।
त्वङ्मात्र सारनिस्सारं रम्भास्तम्भनिभं परम् ॥ ७७ ॥
प्। ११५८)
एवं शरीरं यत्प्राज्ञः प्रबुद्धः शिथिली भवेत् ।
संसारसागरं घोरं करोत्येव न संशयः ॥ ७८ ॥
एवमेतन्महाकष्टं गर्भदुःखं प्रकीर्तितम् ।
अज्ञातशेषां पुंसां तु नानाकर्मवशात्पुनः ॥ ७९ ॥
यास्मृतिर्गर्भवासे तु सास्मृतिस्तु प्रणश्यति ।
सङ्क्षयद्योनि मार्गेण निर्गच्छन्नवशो भवेत् ॥ ८० ॥
प्रणवेनैव मरुता स्पृष्टो मोहवशानुगः ।
स्मृतिभ्रंशश्च जायेत पूर्वकर्मवशात्तदा ॥ ८१ ॥
तूर्णं सन्तायतेजान्तो रतिस्तत्रैव जन्मनि ।
लोभेन रक्तो मूढश्च स्वमात्मानं न वि ॥ ८२ ॥
प्। ११५९)
नेत्रयुक्तोऽपि सद्वस्तु नेक्षते च कदाचन ॥ ८३ ॥
शुद्धे समे पथि तथा गच्छन्स्पन्दति च ध्रुवम् ।
संसारे क्लिश्यते लोभ मोहक्रोध वशानुगः ॥ ८४ ॥
व्यक्तेन्द्रियविहीनत्वात् बाल्ये दुःखं महद्भयम् ।
वक्तुं कर्तुं न शक्नोति स्वेचेच्छन्नपि सत्क्रियाम् ॥ ८५ ॥
दन्ताना मुद्गमे काले व्याधीनां दुःखमाप्नुयात् ।
बाल्ये तु वहुमिश्चैव बालरोगैर्विशेषतः ॥ ८६ ॥
क्षुद्बुभुक्षापरीताङ्गः क्वचित्तिष्ठति चारटन् ।
मोहान्मूत्रपुरीषादीन् भक्षयेद्बाल्यभावतः ॥ ८७ ॥
प्। ११६०)
कर्णवेधे च कौडीरे मातापित्रोश्च ताडनात् ।
अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात् ॥ ८८ ॥
कामज्वरेण सन्नाङ्गो यौवने मोहपीडितः ।
ईर्ष्यया च महद्दुःखं मोहात्तस्यैव जायते ॥ ८९ ॥
जायते तस्य नेत्रस्य दुःखमेव न संशयः ।
निद्रां न विन्दते रात्रौ कामाग्नि परितापितः ॥ ९० ॥
दिवापि सौख्यं नास्त्येव वित्तचित्तन्नचिन्तया ।
योषित्सक्तस्य देहस्य पुंसो ये शुक्ल बिन्दवः ॥ ९१ ॥
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामितस्य च ।
कण्डूयनाग्नितापेन यद्भवेत्स्तिषु तद्विषु ॥ ९२ ॥
प्। ११६१)
यादृशं मन्यते सौख्यं कण्डूयन विनिर्गमात् ।
तादृशं सौख्यमेवैति नान्यस्त्रीषु न विद्यते ॥ ९३ ॥
तद्वत्स्त्रीष्वपि तद्विद्धि न सौख्यं परमार्थतः ॥ ९४ ॥
विण्मूत्रस्य सकृत्सर्गाद् यादृशं स्यात्सुखं तथा ।
कान्तासुतद्वज्ज्ञातव्यम् अन्यैः कल्पितमन्यथा ॥ ९५ ॥
अवस्तभूतनारीषु पापानामाश्रयासु च ।
सुखं नास्ति विचारोस्ति यदि तस्य विशेषतः ॥ ९६ ॥
अवमानेन सम्मानं वियोगे नष्ट सङ्गमः ।
जरया यौवनं कष्टं क्वसौख्यमनुपद्रवम् ॥ ९७ ॥
प्। ११६२)
वलीपलितपालित्यैः शिथिलीकृतविग्रहः ।
अन्योन्यं यौवने प्रतिवर्धनं स्त्रीनरं प्रति ॥ ९८ ॥
तद्गात्रं जरया ग्रस्तम् अप्रियत्वं व्रजेत्क्षणात् ।
जरया शिथिलीभूतं स्वमात्मानं निरीक्षयेत् ॥ ९९ ॥
न विरज्येतकस्तस्माद् आज्ञो नास्तीति विद्यते ।
पुत्रमित्रकलत्रादिबन्धुभिर्जरया वृतः ॥ १०० ॥
दुराचाररतैश्चैव भृत्यैश्च परिभूयते ।
न जीर्येताथ धर्मार्थ काममोक्षफलं पुनः ॥ १०१ ॥
यौवने धर्मरक्षां च कुर्यात्तन्नन्दिकेश्वर ! ।
व्याधीनामाकरं देहं वातपित्तकफात्मकम् ॥ १०२ ॥
प्। ११६३)
यस्माद्व्याधिस्वरूपोयमात्मनश्च शरीरकम् ।
शरीरेस्मिन्मृत्युशतं शतमेकेन संयुतम् ॥ १०३ ॥
तेषामेकस्तु कालाख्योऽप्यन्तेप्यागन्तवामताः ।
आगन्तवो भैषजाद्यैः शान्तिं गच्छन्ति नेतरे ॥ १०४ ॥
जपहोमादिभिस्सर्वैर्न प्रशाम्यति कालजः ।
विविधा मृतयश्चापि शस्त्रसर्पविषाणिभिः ॥ १०५ ॥
नगलैराभिचारैश्च कीनाशनगृहं व्रजेत् ।
कालमृत्युवशं जन्तुं न कश्चिदपि रक्षति ॥ १०६ ॥
न तपो न जपो नार्चा नौषधा दानमेव वा ।
रसायनवरैर्योगैः कालं दैवत्वमाप्नुयात् ॥ १०७ ॥
प्। ११६४)
तथापि दीर्घकालेपि कालः कालं न यत्यसौ ।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ॥ १०८ ॥
नास्ति मृत्युसमो रोगः सर्वेषामपि देहिनाम् ।
सत्पुत्रमित्रभार्यादिराज्यैश्वर्यादिकानपि ॥ १०९ ॥
असार्थांश्चापि शत्रूंश्च संहरेन्मृत्युराक्षसः ।
प्र * * * * * * ध्य प्यशनिषष्टिरेव वा ॥ ११० ॥
प्रथमायुस्समारभ्य मध्ये मृत्योर्वशङ्गतः ।
मध्ये रात्रिं मृतिस्तुल्या सर्वेषां प्राणिनामयम् ॥ १११ ॥
बालभावेपि मोहेऽपि यौवने कामपीडितः ।
वार्धक्ये जरया ग्रस्तो मध्ये व्याधिशतैरपि ॥ ११२ ॥
प्। ११६५)
कामक्रोधैश्च मोहैश्च मदमात्सर्यकैरपि ।
देहजैश्शत्रुभिस्सर्वैः सर्वदा बाध्यते नरः ॥ ११३ ॥
जीवितेऽपि ततः प्रातो बाधामूत्रपुरीषयोः ।
रात्रौ तु सर्वदाजन्तोः सुखं किञ्चिन्न विद्यते ।
व्याध्यादि बाधयो घोरं मरणं च स गच्छति ॥ ११५ ॥
ततोऽपि जन्मकोटीषु जायते कर्मचोदितः ।
अन्योन्य मातृपितृत्व पितृत्वज्ञातिशब्दकैः ॥ ११६ ॥
कलत्रभृत्यपश्वादिजातिभेदेन विद्यते ।
कर्मणां साहचर्याच्च ऋणमात्रादि सम्भवः ॥ ११७ ॥
प्। ११६६)
तस्मान्मातृपितृत्वादिनास्ति नास्ति यथार्थतः ।
धर्माद्ययेपि योगं च देहेन च समाप्नुयात् ॥ ११८ ॥
एवं जरायुर्निर्दिष्टो स्तनोशः परमार्थतः ।
मृत्युदुःखं च यद्भूतं तद्वच्छतगुणाधिकम् ॥ ११९ ॥
ग्रवाबाधश्च यामातस्त्रातापि परितापितः ।
सर्पास्यगतमण्डूक इव क्रन्दन्मुहुर्मुहुः ॥ १२० ॥
बन्धुभिश्च कलत्रैश्च मातृभिः पितृभिस्तथा ।
सेवितोऽपि मुखेनैव शुष्येताति समुच्छ्वसन् ॥ १२१ ॥
पादान्तेऽपिशिरः कृत्वा शिरोन्ते पादमेव च ।
प्। ११६७)
खट्वाया भूमिमन्विच्छन् भूमेः खट्वां पुनर्व्रजेत् ।
शुष्कन्धपिप तोयावमानस्य मृतः कस्य भविष्यति ॥ १२३ ॥
एवञ्जपनार्वस्वं च मुक्तलज्जो महीतले ।
मूत्रविष्ठानुलिप्ताङ्गो म्रियते मृत्युना पुनः ॥ १२४ ॥
घोरचोरगजाध्वानो दह्य देहं क्रमाद्व्रजेत् ।
मनस्विनः प्रार्थनां तु मरणादधिकं भवेत् ॥ १२५ ॥
क्षणिकं मरणे दुःखम् अनन्त प्रार्थनावृतम् ।
नित्यव्याधिस्तु क्षुद्व्याधि * * * * * मिदम् ॥ १२६ ॥
अन्नपानमहौषद्ध्या शमं गच्छति नान्यथा ।
तक्षवृ विधिरत्यन्त बलसंहारकारणम् ॥ १२७ ॥
प्। ११६८)
तदभावे तु म्रियते व्याध्यौषधमिदं परम् ।
व्याध्यौषधमिदं ज्ञेयं परमार्थेन पण्डितैः ॥ १२८ ॥
त्यक्तसङ्गश्च यश्शेते सर्वकार्योमृतोपमः ।
सौख्यं तत्र न विद्येत तमसाच्छादितात्मनः ॥ १२९ ॥
सौख्यं कुतः प्रबोधेपि कार्यैरूवहितात्मनः ।
गजाश्वसेवा वाणिज्य गोरक्षणपरिश्रमैः ॥ १३० ॥
अर्थार्जनाय दुःखी स्याद् रक्षणे लब्ध * * * ।
नष्टा गावः कृषिर्भग्ना धनधान्यविनाशिताः ।
कण्ठादिभिर्गृहं भग्नं पार्थिवादिशतैर्नृपैः ॥ १३२ ॥
प्। ११६९)
बालापत्या च मे पत्नी छिन्नं वै कः करिष्यति ।
कन्यानां कीदृशां चैव पराचिन्ताभिभूतवान् ॥ १३३ ॥
कुटुम्बरक्षणं कर्तुं चिन्ता सन्तति बाधितः ।
तस्य ज्ञानं श्रुतिश्शीलं गुणाश्च विनयन्तथा ॥ १३४ ॥
आमपात्राम्बुवद्दोहैस्सार्धं नाशं व्रजत्यसौ ।
पार्थिवत्वे कुतस्सौख्यं कीदृशं तत्सुखं भवेत् ॥ १३५ ॥
सर्वेषामेव जन्तूनां समानीय भवेद्भयम् ।
तत्रैकार्थाभिलाषित्वं शत्रुत्वमिति कीर्तितम् ॥ १३६ ॥
एकमासाभिलाषित्वाच्छन्नाजीवि परस्परम् ।
सवैर ष्यो नृपतिः न कश्चित्सामगीतले ॥ १३७ ॥
प्। ११७०)
मेघैश्चापि तिरस्कारो रवश्चापि क्वचित्क्वचित् ।
मेघाः प्रभञ्जनेनैव वायुवीर्यं च पर्वतैः ॥ १३८ ॥
पर्वता वह्निना दग्धा वह्निस्तोयेन निर्जितः ।
आदित्य पादैरम्भांसि शोषं गच्छन्ति नित्यशः ॥ १३९ ॥
अजस्यैकदिनं सर्वं नाशं गच्छति वै ध्रुवम् ।
विरिञ्चोऽप्य परैस्सार्धं परार्धद्वयकालतः ॥ १४० ॥
परार्धद्वयकालश्च शिवे नाशं च गच्छति ।
सर्वातिशयवीर्यं च नास्ति संसारमण्डले ॥ १४१ ॥
जगत्पतिं विहायैवमव्ययं सर्वगं विभुम् ।
एवं विदित्वा सर्वं वै चा विज्ञानं विवर्जयेत् ॥ १४२ ॥
प्। ११७१)
तस्माज्जगत्त्रये नास्ति कः शूरः कश्च पण्डितः ।
सर्ववित्कोपि नास्त्येव मुक्तोर्ध्वापि न कुत्रचित् ॥ १४३ ॥
यो यद्वस्तु विजानाति सस्वस्थश्च स पण्डितश्च ।
सर्वत्र सर्वदा नास्ति प्रभाव सदृशः पुनः ॥ १४४ ॥
प्रभावः कस्य चिन्नास्ति स्थितस्सातिशयत्वतः ।
असुरैनिर्जिता देवा असुरा अमरैर्जिताः ॥ १४५ ॥
इतरेतरयोगेन स्थितौ जयपराजयौ ।
प्रस्थमात्रान्नसन्तृप्तो वसनद्वय संयुतः ॥ १४६ ॥
येन शय्यासनं चैकं विशेषं दुःखकल्पते ।
सप्तभूमयुते गेहे खट्वायामेकदेशके ॥ १४७ ॥
प्। ११७२)
निपाते विद्यते यस्मात् केशाय बहुविस्तरम् ।
राज्ञोतिमात्रमानं वै केशायाभरणं भवेत् ॥ १४८ ॥
सुगन्धलेपनादीनि मलभावं च गच्छति ।
गीतं सर्वप्रलपितं नृत्तमुन्मत्त चेष्टितम् ॥ १४९ ॥
राज्यभोगैः कुतस्सौख्यं निश्चयं च विजानतः ।
पार्थिवानां च सर्वेषाम् अन्योन्यविजिगीषया ॥ १५० ॥
रज्यैश्वर्यादिभिस्सौख्यं विद्यते न कदाचन ।
सौख्यं कुतोपि हि स्वर्गे विलोक्यातिशयस्त्रियम् ॥ १५१ ॥
उपर्युपरि देवानामन्योन्यातिशयस्थितिः ।
क्षयात्पुण्यफलानां तु नराणां पतनं भवेत् ॥ १५२ ॥
प्। ११७३)
न किञ्चित्क्रियते कर्म तत्र दोषो महान्भवेत् ।
छिन्नमूलस्तत्कुर्यात्तद्वदवश्यं पतति क्षितौ ॥ १५३ ॥
स्वर्गे सौख्यं न किञ्चित्स्या * * * * * * * तः ।
स्वस्वानुभव मध्ये च पुण्यकर्मफलक्षयात् ॥ १५४ ॥
रौरवादिषु घोरेषु पतत्येवाथ कर्मतः ।
वाङ्मनः कायिकैश्चापि घोरैश्च विविधैरपि ॥ १५५ ॥
स्थावरत्वं प्रपद्यते तीवैश्चोदनयासनैः ।
कुठाराद्यैश्च शस्त्रैश्च क्लेदनैस्ताडनैरपि ॥ १५६ ॥
फणिशाखाफलानां तु पतनं चण्डमारुतैः ।
भेदनं मर्दनं चैव करिभिश्चान्यदेहिभिः ॥ १५७ ॥
प्। ११७४)
दावाग्नि तापशोषैश्च स्थावरत्वे महद्भयम् ।
बहुक्षात्रं च सर्पाणां * * * खञ्चदारुणम् ॥ १५८ ॥
पाशेन बन्धनं चैव दुष्टानां च विशेषतः ।
कीटादीनां च मरणमकस्मात्तु दिने दिने ॥ १५९ ॥
सरीसृपाणां सर्वेषाम् एवं दुःखं च जायते ।
श्वापदानां च सर्वेषां वर्षशीतातपाद्भयम् ॥ १६० ॥
भारोद्वहन दुःखं च शिक्षायुद्धादिपीडनम् ।
स्वकीय यूथविरहो नवानयनबन्धनम् ॥ १६१ ॥
पश्वादीनां च सर्वेषाम् एवं दुःखस्य सम्भवः ।
इत्येवमादिभिर्दुःखै व्याप्तं यस्माच्चराचरम् ॥ १६२ ॥
प्। ११७५)
निरयादि मनुष्याणां तद् * * * * व्रजेद्बुधः ।
स्कन्धात्तत्स्कन्धयेद्भारं विश्रमन्गच्छते यथा ॥ १६३ ॥
तस्माल्लोकमिदं सर्वं दुःखाद्दुःखेन शाम्यति ।
नानायोनिसहस्रैस्तु पुण्यकर्मवशाद्भवेत् ॥ १६४ ॥
स्वर्गेऽपि रोगा विविधा * * * * न संशयः ।
शिरश्छिन्नस्य वज्रस्य पुनस्सन्धितमेव च ॥ १६५ ॥
तद्वच्छिष्यशिरो रोगी यज्ञ एव न संशयः ।
मार्ताण्डभानोः कुष्ठित्वं जलरोगं प्रचेतसः ॥ १६६ ॥
रवेर्दशनवैकल्यम् इन्द्रस्य स्तम्भने भुजे ।
भगस्यन्दि क्षयरोगी क्षयरोगित्वमेव च ॥ १६७ ॥
प्। ११७६)
सदा ज्वरि तु दक्षो वै विष्णोः कालुष्यमेव च ।
ब्रह्मणश्च शिरश्छेदः सर्वेषामपि विद्यते ॥ १६८ ॥
बाधा कल्पे च कल्पे च लयाच्च भवति ध्रुवम् ।
परार्धद्वयकालान्ते ब्रह्मणो भवेत् ॥ १६९ ॥
दक्षस्य दारिकां पौत्रीं ब्रह्मा कामितवान्यतः ।
क्रोधेना जया देवी योगस्थाप्यशपत्प्रभुः ॥ १७० ॥
धात्रा रागादि दोषैश्च जायते तत्र वै शृणु ।
दुःखानि च समस्तानि स्थितान्येव न संशयः ॥ १७१ ॥
दुःखाभिभूतो निपतेद् दुःखादाकुलितः क्षणात् ।
निर्वेदाद्ग्लानिमापन्नो वैराग्यं च समाप्नुयात् ॥ १७२ ॥
प्। ११७७)
निरीहो निस्पृशस्सद्यो निस्पृहो मोक्षमाप्नुयात् ।
दुःखाद्विजन्मनः पुंसां तल्लवान्मोक्षमेव च ॥ १७३ ॥
येन केन प्रकारेण शिवलोकं च तद्गुरुः ।
चतुर्दश च जन्म स्याद् देवत्वाच्चाष्टधा युतः ॥ १७४ ॥
पैशाचादि च सम्प्रोक्ता मनुष्याः पशवः पुनः ।
स्थावरं चैवमेतेषु चतुर्दशसु तत्र वै ॥ १७५ ॥
तपोभिर्धर्मिभिर्दानैः हर्षैस्तु च * * * रपि ।
पैशाचं राक्षसं हित्वा देवयोनिषु जायते ॥ १७६ ॥
पुण्यपापसमं चैव मनुष्यत्वं प्रपद्यते ।
ईषत्पुण्यैश्च वा पापैः स्वमायातिशयेन च ॥ १७७ ॥
प्। ११७८)
पशुन्धनत्वमाप्नोति मृगजन्ममथ शृणु ।
रागद्वेषैर्मृगत्वं च जायते नन्दिकेश्वर ॥ १७८ ॥
जन्मवैचित्र्यतः पक्षिजातित्वं च प्रपद्यते ।
वै गाकाःसञ्जाताः सर्पादिकृमिकीटकाः ॥ १७९ ॥
द्रोहात्तृणादिजातित्वं मोहाच्छोकाच्च पादपाः ।
एतेषां सर्वजातीनां धर्माधर्मादयोर्ध्वतः ॥ १८० ॥
पुण्यपापानुसारेण सर्वयोनिषु जायते ।
पश्वादीनां च जन्मत्वं सम्प्राप्तमृतिमान्नरः ॥ १८१ ॥
पश्चात्कीनाशनं प्राप्य तस्याज्ञा जन्मभोगदा ।
पृथिवीगन्धतन्मात्रा न समापद्यते तले ॥ १८२ ॥
प्। ११७९)
रसगन्धसमायुक्तं रूपमग्नौ प्रपद्यते ।
रसगन्धस्वरूपाणि स्पर्शं मारुति गच्छति ॥ १८३ ॥
एतैश्चतुर्भिराकाशैः शब्दनन्मात्रकं व्रजेत् ।
पञ्चतन्मात्रकाश्चाशु मनस्तत्वं प्रपद्यते ॥ १८४ ॥
षडिन्द्रियाणि सर्वाणि बुद्धितत्वं समाप्नुयात् ।
सप्तैतानि त्वहङ्कारे व्याप्नोतीत्यष्टकानि वै ॥ १८५ ॥
पुर्यष्टकं देहमिति कल्पितं नन्दिकेश्वर ।
अस्य देहस्य मध्ये च पुरुषः शब्दतत्वयुक् ॥ १८६ ॥
शिवाज्ञया च चित्तेस्य सन्निधौ द्विविधं भवेत् ।
शरीरं सुकृतैश्चैव दुष्कृतैश्च तथैव च ॥ १८७ ॥
प्। ११८०)
सुकृतैश्च सुखं देहि दुष्कृतैर्यातनातुरम् ।
एवं मरणमाख्यातमुत्पत्तिस्तदनन्तरम् ॥ १८८ ॥
पुर्यष्टकत्वमापाद्य न तस्येव पतत्यसौ ।
आकाशाद्वायुरापन्नो वायोर्वह्निः सृजत्यसौ ॥ १८९ ॥
अग्नेरापश्च सम्प्राप्य जलं भूमिं सृजत्यसौ ।
उद्भिदानां च सर्वेषां स्वेदजानां तथैव च ॥ १९० ॥
स्वस्वयोग्यत्वमापन्नं त्रित्वमापन्नपुत्रकम् ।
जरायुजश्चाण्डजश्चोपि वौषड्जानाति माप्नुयात् ॥ १९१ ॥
अन्नं पित्रोस्तथा भोज्यं तस्मिन्सममभूत्पुनः ।
रसाच्छ्रोणितमुत्पन्नं शोणितान्मांस सम्भवः ॥ १९२ ॥
प्। ११८१)
मांसान्मेदश्च सञ्जातं मेदसः स्नायुरेव च ।
स्नाय्वां मज्जा तु सञ्जाता तन्मज्जाच्छुक्ल सम्भवः ॥ १९३ ॥
अन्नादि शुक्लपर्यन्तं क्रमादात्मापरत्यसौ ।
शुक्लेन सार्धं मातुश्च योनौ रक्तं पतत्यसौ ॥ १९४ ॥
एवं विधैस्तु मरणैः पुनर्मरणमाप्नुयात् ।
पुनश्च जन्म सम्प्राप्य पुनः पञ्चत्वमृच्छति ॥ १९५ ॥
इत्यचिन्त्य विश्वसादाख्ये भूतोत्पत्तिविधिरेकानाशीतितमः पटलः