७६

प्। १११७)

अथ वक्ष्ये विशेषेण जातिनिर्णयरूपकम् ।
विद्यातत्वाख्यलिङ्गं वै मायाशक्तिश्च पीठिका ॥ १ ॥

आत्मनामुत्तमौ चैव विष्णुवेधाख्यरूपिणौ ।
पुरुषोत्तमं तु वामे तु सव्ये ब्रह्माणमेव च ॥ २ ॥

विद्यातत्वपदं चैव स्थितिकारणमेव च ।
विष्णवे च विशेषेण स्थितिकारणमेव च ॥ ३ ॥

आत्मतत्वाधिपत्यं च सृष्टिकर्माप्यजाय वै ।
ब्रह्मातल्लिङ्गबुध्या तु जठरे तु चराचरम् ॥ ४ ॥

जनयामास वै विश्वं चतुःस्मृत्वा तु पूर्वकम् ।
पुरुषाघोरवामेशसद्यमन्त्रक्रमात्तदा ॥ ५ ॥

प्। १११८)

दिव्यागमाश्च वेदाश्च लिङ्गमूर्धन्यजायत ।
सृष्टौ तु प्रथमे देवा मनुष्य पशुपक्षिणः ॥ ६ ॥

सरीसृपाश्च वृक्षाश्च वल्लीगुल्मादयस्तथा ।
ब्राह्मणाख्याः समाख्याताः कवयश्चाप्यनेकशः ॥ ७ ॥

द्वितीयाः क्षत्रिया जाताः तृतीया वैश्यजातयः ।
तुर्याः शूद्राश्च वर्णाःस्युः एवं जाताश्चतुर्विधाः ॥ ८ ॥

जातिसङ्कल्पमात्रं वै तत्वतो नास्ति जातिकम् ।
ये जाताः शिरसोभागं पूर्वं बाहुद्वितीयकम् ॥ ९ ॥

ऊरु स्तृतीया पादश्च चतुर्थो दृश्यते यथा ।
सृष्टिरूपं ब्रह्मरूपं तस्माद्ब्रह्माङ्गजातयः ॥ १० ॥

प्। १११९)

मुखे जातो ब्राह्मणः स्यात्क्षत्रियो बाहुजस्तथा ।
ऊर्वोश्च जातो वैश्यः स्यात्पादयोः शूद्र एव च ॥ ११ ॥

विद्यारक्षणमानेन कारणाद्ब्रह्मसंहितम् ।
क्षत्रियं रक्षणार्थाय भूतिसंरक्षणाय च ॥ १२ ॥

ममत्व वृद्धये चैव क्षत्रसञ्ज्ञमुदीरितम् ।
धनरक्षाभिमानेन वैश्यसञ्ज्ञत्वजातिकम् ॥ १३ ॥

धान्योत्पत्यै ममत्वं च शूद्रसञ्ज्ञमुदीरितम् ।
नवखण्डेषु वर्षेषु भारते वर्ष एव च ॥ १४ ॥

जातिभेदमिदं कल्प्यमन्यदेशेषु नास्ति तत् ।
तस्मात्तत्कल्पनामात्रं जातिभेदमितिक्रमम् ॥ १५ ॥

प्। ११२०)

उच्चनीचक्रमादत्र जातिभेदं च कल्पितम् ।
अध्ययन मध्यापनं यजनं याजनं तथा ॥ १६ ॥

दानं प्रतिग्रहं चैव तेषां षट्कर्म चोच्यते ।
प्राणिनामस्त्र शस्त्रेण रक्षां कुर्यात्तु सर्वदा ॥ १७ ॥

जगतः पालनं दुष्टनिग्रहं शिष्टपूजनम् ।
नृपाणां वृत्तिरित्युक्ता तेषां मात्सर्यसम्भवे ॥ १८ ॥

वैश्यजातेस्तु वृत्तिश्च धनधान्यादिविक्रयम् ।
तेन वर्धनकं कुर्याद् दानार्थं धनकङ्कतः ॥ १९ ॥

धान्योत्पत्तिं कृषिं चापि कुर्याच्छूद्रस्तु जीवनम् ।
एवमादि विभेदेन वृत्तिर्वै जगतो भवेत् ॥ २० ॥

प्। ११२१)

तेषां चतुर्ण्णां वृत्तिस्तु चान्योन्यं च न गच्छति ।
तस्मादुत्कर्षणाशीते त्वदतो नास्ति भेदकम् ॥ २१ ॥

धर्ममित्यनुलोमांश्च शृणुत्वं नन्दिकेश्वर ! ।
द्विजेन कन्यायां जाता * * * * * * च्यते ॥ २२ ॥

द्विजेनोपनीतं कुर्यान् नित्यकर्म द्विजस्य वै ।
अथर्व प्रोक्तमार्गेण शान्तिकं पौष्टिकं भवेत् ॥ २३ ॥

रथं गजं हयं चैव वाहनं तु नृपाज्ञया ।
आयुर्वेदमथवं च ज्ञात्वा गुरुमुखेन तु ॥ २४ ॥

ब्राह्मणादि चतुर्णां तु रोगान्ज्ञात्वा चिकित्सयेत् ।
सेनापत्यं चमूनां च कुर्यादादिव संयुतम् ॥ २५ ॥

प्। ११२२)

एते पञ्चकुलाजाता दीक्षायामुत्तमो भवेत् ।
द्विजस्य वैश्यकन्यायां जातोऽम्बष्ठेति विश्रुतः ॥ २६ ॥

द्विजेनोपनी * * * * * कर्मसु तत्परः ।
ब्राह्मणादि चतुर्णां तु रोगान्हस्तेन संस्पृशेत् ॥ २७ ॥

सवर्णस्य नियोगेन चिकित्सां कुर्यात्ततः परम् ।
शल्यक्रिया च कर्तव्या पीतकं चलनं तथा ॥ २८ ॥

विप्रस्य शूद्रकन्यायां जातः पारशवः स्मृतः ।
कुलशास्त्रोक्तमार्गेण भद्रकालीं समर्चयेत् ॥ २९ ॥

चित्रकर्म च विद्या च नृत्तगीतं च वाद्यकम् ।
तथा मर्दकवृत्तिश्च मुद्राभाग्यं तथैव च ॥ ३० ॥

प्। ११२३)

शूलं च रुद्रवाद्यं च सङ्ग्राह्यातोद्यवाद्ययुक् ।
गृहे गृहेऽपि * * * टेहि देहीति याचयेत् ॥ ३१ ॥

एवं समाचरेन्नित्यं यावदामरणान्तिकम् ।
नृपस्य वैश्यकन्यायां जातो माहिष उच्यते ॥ ३२ ॥

नृपभण्डारकर्तृत्वं वैश्यवृत्तिस्तथैव च ।
नृपस्यान्तः पुरे रक्षा * * * * पजीवनः ॥ ३३ ॥

नृपस्य शूद्रकन्यायां जातश्चोग्र इति स्मृतः ।
विप्रक्षत्रियविट्छूद्रशुश्रूषां कारयेत्तदा ॥ ३४ ॥

नृपाज्ञया तु दण्ड्याश्च दण्डयेदविचारतः ।
वैश्यस्य शूद्रकन्यायां जातः कारविकः स्मृतः ॥ ३५ ॥

प्। ११२४)

लेखप्र * * * * * द्राज्ञां तेनोपजीवनम् ।
ब्रह्माणमर्चयेन्नित्यं गृहमध्ये विशेषतः ॥ ३६ ॥

ताम्बूल क्रमुकादीनां विक्रयाजीवनः पुनः ।
सवर्णादध उत्पन्नाः पञ्चैते चानुलोमकाः ॥ ३७ ॥

एते दीक्षाविधौ * * * * * स्तेद्विशेषतः ।
कुलसम्बन्धजातत्वा न्नयोग्याः पशवस्तथा ॥ ३८ ॥

कामस्य दुश्चरित्रत्वात् कल्पना च विशीर्णतः ।
पापभेदात्तु सञ्जातं प्रतिलोमाद्यनेककः ॥ ३९ ॥

ब्राह्मण्यां ब्राह्मणस्यैव प्रमाणाद्गूढसापिहिम् ।
व्याख्या विप्र स्यात् तन्तुधारण मात्रकम् ॥ ४० ॥

प्। ११२५)

क्षौद्रहिम्मु तथा पूपं जलतैलं च सैन्धवम् ।
बीजद्रव्याणि सर्वाणि सर्जसारं च गुल्गुलु ॥ ४१ ॥

सर्वाणि गन्धद्रव्याणि कृष्णव्या * * * * था ।
अन्यानि चौषधादीनि क्रय विक्रय जीवनम् ॥ ४२ ॥

स एव पति संयुक्ते कुण्डाख्ये तद्वियोगतः ।
गोलकाख्यो भवेदेवं वृत्तिः पूर्ववदेव हि ॥ ४३ ॥

नृपाणां ब्राह्मणस्यैव चोराज्जातोभि ।
तं ज्योतिषं चैव भूततन्त्रोऽर्थनिश्चयः ॥ ४४ ॥

आयुर्वेदमथाष्टाङ्गं सामुद्रीलक्षणं तथा ।
ज्ञात्वा सर्वं च तेनैव जीवनं नन्दिकेश्वर ! ॥ ४५ ॥

प्। ११२६)

चौर्याद्विप्रस्य वैश्यायां जातौ वैकम्भुकः स्मृतः ।
मृत्पात्रं प्रतिमां चित्रसुधाकर्म तथैव च ॥ ४६ ।

मोहिनीं पूजनं कुर्यात् कुलशास्त्र विधानतः ।
शान्तस्तारं दण्डपालहेमकेश्यर्चनं तथा ॥ ४७ ॥

सूतके प्रेतके वापि यजेच्चोपनिते तथा ।
नाभेरुद्धूलनं तेषां भक्तिरितीरिता ॥ ४८ ॥

चौर्याद्विप्रस्य शूद्रायां जातः शूद्रक उच्यते ।
वने व्याल मृगादीनां सङ्ग्रहादुपजीवनम् ॥ ४९ ॥

वैश्यस्य चौर्याद्वैश्यायां जनितो मणिकारकः ।
शङ्खानां विक्रयं कुर्याच्छङ्खानां वलयक्रयी ॥ ५० ॥

प्। ११२७)

वैश्यकुण्डो मणिकारो गोलकः शङ्खकारकः ।
वैश्यस्य चौर्याच्छूद्रायां जातः कटकरो भवेत् ॥ ५१ ॥

विष्णोरभ्यर्चनं कुर्यात् कटवृत्तिस्तु जीवनम् ।
शूद्रस्य चौर्याच्छूद्रायां जातो मालवकः स्मृतः ॥ ५२ ॥

स्याख्य गजादीनां तृणभारं तु दाहयेत् ।
एष वै शूद्रकुण्डः स्याद्गोलको वृत्तिरुच्यते ॥ ५३ ॥

राज्ञः कैङ्कर्यकं कुर्यात् तेन जीवनमन्वहम् ।
चतुर्दश च सम्प्रोक्ता अनुलोमक्रमात्तदा ॥ ५४ ॥

कुलबन्धि कुम्भकारो दीक्षायामपरे समाः ।
प्रतिलोमं करीपश्चाच्छृणुत्वं नन्दिकेश्वर ॥ ५५ ॥

प्। ११२८)

ब्राह्मण्यां क्षत्रियस्यैव विधिना यदि जायते ।
पूजितं प्रतिलोमेषु स सूतो नाम नामतः ॥ ५६ ॥

तस्य वृत्तिः पुराणादौ बोधनं पाञ्चरात्रकम् ।
विष्णुतन्त्रोक्तमार्गेण पूजयेच्च जनार्दनम् ॥ ५७ ॥

रथाङ्गं च भवं चैव वाहयेच्च नृपाज्ञया ।
नृपस्य भोजनार्थाय कारयेत्पाचनक्रियाम् ॥ ५८ ॥

वैश्यस्य विप्रकन्यायां जातो मातङ्ग उच्यते ।
सर्वेषां कीर्तनं कृत्वा वन्दनं च विशेषतः ॥ ५९ ॥

वैश्यस्य क्षत्रकन्यायां जातस्त्वायोगवः स्मृतः ।
वृत्तिवस्त्रं च कस्यं च क्रयविक्रयणाद्भवेत् ॥ ६० ॥

प्। ११२९)

शूद्रस्य नृपकन्यायां जातः पुष्कल उच्यते ।
सोमं चैव सुरां चैव सङ्गृह्य क्रय विक्रयम् ॥ ६१ ॥

मृदङ्गादि महाशब्दं वादयेद्गेय संयुतम् ।
शूद्रस्य वैश्यकन्यायां जातः स्थपति रुच्यते ॥ ६२ ॥

देवानां सदनं चैव विप्रादीनां गृहं तथा ।
रत्नकार्याणि सर्वाणि रुग्णाद्याभरणं तथा ॥ ६३ ॥

प्रतिमानं च सर्वेषाम् अस्त्रशास्त्राणि सर्वतः ।
पात्राणि विविधादीनि आभासं सौधकार्यकम् ॥ ६४ ॥

विन्यासं वास्तुदेशेषु शल्योद्धारं तथैव च ।
लक्षणेन कृतं सर्वं तेषां यदुपजीवनम् ॥ ६५ ॥

प्। ११३०)

प्रतिलोम इमे प्रोक्तास्तेषां सङ्कर उच्यते ।
ब्राह्मण्यां ब्राह्मणस्यैव स्वगोत्रे चैव जायते ॥ ६६ ॥

सोपि चण्डाल इत्युक्तस्तथाचारं शृणुष्वथ ।
ग्रामस्य कोशमात्रे तु वासस्तस्य भवेत्पुनः ॥ ६७ ॥

कुरभान्गर्दभांश्चैव कुक्कुराणां च लक्षणम् ।
श्मशानवस्त्रं सङ्गृह्य तस्याच्छादनकं भवेत् ॥ ६८ ॥

मृत्पात्रे भोजनं कार्यमायसाभरणं तथा ।
गोचर्मखण्डैश्शय्या च महिषस्याजिनेऽपि वा ॥ ६९ ॥

पूर्वाह्ने संविशेद्ग्रामम् अपराह्ने न संविशेत् ।
गदाधरो ग्रामशुद्धिं कुर्यात्प्रेताग्रयात्रके ॥ ७० ॥

प्। ११३१)

भद्रकाल्यास्तु यात्रायां ग्रामकार्ये तथैव च ।
चण्डालवाद्यं सङ्गृह्य भक्षणं च भवेत्ततः ॥ ७१ ॥

सन्यासो प्रेतविप्रस्य कश्चित्पात्रेषु जातकः ।
सोऽपि चण्डाल इत्युक्तः तस्याचारः पुरोक्तवत् ॥ ७२ ॥

शूद्रस्य जातो विप्रायां चण्डालस्य प्रसिद्धिकः ।
पूर्वचण्डालवृत्तिः स्याज्जीवितं च तथैव च ॥ ७३ ॥

शूद्रस्य तु नृपायां वै जातो बैलवनामवान् ।
स्पृसस्सहवर्णैस्तु * * * * तं च वाद्यकम् ॥ ७४ ॥

सर्वेषां प्रेक्षणं चैव तेन वृत्तिरुदाहृता ।
शूद्रस्य वैश्यायां सञ्जातः श्वकिकाख्यात इष्यते ॥ ७५ ॥

प्। ११३२)

यन्त्रेण तैलाद्युत्पाद्य तैलपिण्याकविक्रयम् ।
क्षारेण लवणेनैव विक्रयो जीवनं मतम् ॥ ७६ ॥

सङ्करं प्रतिलोमानामुक्तं प्रत्यपि सङ्करम् ।
ब्राह्मणान्क्षत्रियाज्वैश्यान्शूद्रान्वैश्यविसन्तिहि ॥ ७७ ॥

तेषु ब्राह्मण वाक्यस्य विप्रायां जायते तदा ।
सात्यकर्णक इत्युक्ते व्यभिचारविधानवित् ॥ ७८ ॥

तदेव क्षत्रियायोगादादावन्तेति कीर्तितः ।
शत्रूणां वश्यकार्यं च मन्त्र तन्त्र क्रियादिभिः ॥ ७९ ॥

तस्य वृत्तिश्च कथिता वैश्यायाः पुष्पकाः स्मृतः ।
औषधानि च मन्त्राणि गृह्यं * * दीकांश्चरेत् ॥ ८० ॥

प्। ११३३)

वानप्रस्थस्य वैश्यायां जातो वैखानसः स्मृतः ।
विष्णुं सम्पूजयेन्नित्यं कटवृत्तिस्तु जीवनम् ॥ ८१ ॥

शूद्रायां तु तथा जातः तक्षकाख्यं तु प्रेमणः ।
क्षत्रियस्यैव कार्याणि जीवनं तस्य चोच्यते ॥ ८२ ॥

प्रात्यस्य राजन्यस्यापि ब्राह्मणां च निकस्तु सः ।
तन्नाम खल्ल इत्युक्तं चोररूपेण केशवः ॥ ८३ ॥

प्रेर्यवृत्तिर्नृपाणां तु भवेत्तेनैव जीवनम् ।
तदैव क्षत्रियोयोगाज् जातो मल्ल इतीरितः ॥ ८४ ॥

अन्यराजन्यवृत्तिं तु ज्ञात्वा राज्ञे निवेदयेत् ।
तेन जीवनमित्युक्तं स प्रविश्य दिने दिने ॥ ८५ ॥

प्। ११३४)

सूतिकाभवनं चैव रक्षाभूतं च कारयेत् ।
वैश्यायां तु ततो जातो मैत्रकाख्य इतीरितः ॥ ८६ ॥

सोगताश्व समाविश्य कर्तृदेवान्समर्चयेत् ।
तथैव वृषलीयोगाज् जातो भागवतः स्मृतः ॥ ८७ ॥

तस्मात्सात्विक इत्युक्तो विष्ण्वाराधन वृत्तिकः ।
प्रात्यवर्गस्समाख्यातः सङ्करात्सङ्करं शृणु ॥ ८८ ॥

विप्रचोरोग्रकन्याया जातस्सुमतिकः स्मृतः ।
राज्ञस्तु कुञ्जराणां तु पालनं वृत्तिरुच्यते ॥ ८९ ॥

द्विजस्याम्बष्ठकन्यायां जातः स्वाभिरिकः स्मृतः ।
अजगो महिषाणां तु पालनं जीवनं भवेत् ॥ ९० ॥

प्। ११३५)

द्विजस्यायोगवीयोगाज् जातो हि यव उच्यते ।
तत्कर्मकार इत्युक्तः तेषां नाविकवृत्तिका ॥ ९१ ॥

विप्रस्य बैलवायोगाज्जातः कुक्कुट उच्यते ।
तन्तुवायक्रियां कुर्यात् तेन जीवनमुच्यते ॥ ९२ ॥

काणस्त्रीहेष्य संयोगाज्जातस्तु दृचिकारकः ।
देवानामुत्सवे यज्ञे विधिना चित्रकादिकान् ॥ ९३ ॥

दृढं संरक्षणं कुर्यात् तेन वृत्तिरुदीरिता ।
स्थपत्यम्बष्ठ संयोगाज्जातो वैणव उच्यते ॥ ९४ ॥

आचरेद्वैणवं वृत्तं तेन जीवनमुच्यते ।
वैणव स्थपतीयोगाद् आपिण्डिक इतीरितः ॥ ९५ ॥

प्। ११३६)

राजद्रोहि मनुष्याणां बाधां कुर्याद्विशेषतः ।
बाह्यरक्षा तु कर्तव्या तेनैवास्य तु जीवनम् ॥ ९६ ॥

मागधायोगवीयोगाज्जातश्शौरुण्डनामकः ।
आर्द्रवं कर्तृविधिना कृत्वा मत्क्रयविक्रयम् ॥ ९७ ॥

व्याघ्रं मृगं शशं कृष्णं सङ्गृहेज्जालकादिना ।
मांसविक्रयणं कुर्यात् तेन जीवनमुच्यते ॥ ९८ ॥

पुष्करे योगवीयोगाज्जातो नाविक उच्यते ।
तस्य नाविकवृत्तिः स्याद्यावदाजीवमेव तु ॥ ९९ ॥

स्थपतीयोगवीयोगाज्जातो मैत्राख्यकः स्मृतः ।
घण्टाताडनकं कुर्यात् प्रातरेव महाध्वनिम् ॥ १०० ॥

प्। ११३७)

क्षत्रियाणां तु बोधार्थं तज्जीवं परमीरितम् ।
अम्बष्ठस्य तु विप्रायां जातो नाविक उच्यते ॥ १०१ ॥

विन्धौ तुरण्डकादीनां कारणं जीवनं भवेत् ।
अम्बष्ठस्य नृपायां तु जातो नाविक उच्यते ॥ १०२ ॥

चतुर्वर्णानुलोमानां वपनं नाभ्यधो भवेत् ।
विप्रायां महिषस्यैव जातो वैणव उच्यते ॥ १०३ ॥

वैणवी तस्य वृत्तिस्तु न्वन्नालीनासमन्वितम् ।
ब्राह्मणादि नृपाणां तु वासनं शयनादिकम् ॥ १०४ ॥

वर्ण सम्बन्धनं कृत्वा तेन जीवन मुच्यते ।
नृपायां चूचुकस्यैव जातो वैवत्स्यबन्धकः ॥ १०५ ॥

प्। ११३८)

जालेन सूत्रयन्त्रेण मत्स्यानाहृत्य विक्रयम् ।
वैदेहकस्य विप्रायां जातको रजकः स्मृतः ॥ १०६ ॥

निर्लेपनं च वस्त्राणां तेन वृत्तिरुदीरिता ।
आयोगवस्य विप्रायां जातस्ताम्रक उच्यते ॥ १०७ ॥

ताम्रेण सर्वकार्यं तु कृत्वा तत्क्रयविक्रयम् ।
नृपायां योगकस्यैव जनितो बन्धकः स्मृतः ॥ १०८ ॥

वस्त्रदोषाद्विनिर्मुक्ता शुद्धिं कृत्वोऽथ जीवनम् ।
वृषल्यो ममथस्यैव जातः कुक्कुट उच्यते ॥ १०९ ॥

गोपुराणां तु संशुद्धिं कृत्वा तेनोपजीवनम् ।
अम्बष्ठायां विदेहस्य जातो बैल इतीरितः ॥ ११० ॥

प्। ११३९)

लाटयत्पटभादीनि शुद्धिं कृत्वा तु मुष्टिना ।
इन्द्रजालादिलीलाश्वकुर्यात्तेनोपजीवनम् ॥ १११ ॥

तस्यैव निषधीयोगाज्जातस्त्वगत उच्यते ।
वने व्यालमृगादीनि कन्दमूलान्यनेकशः ॥ ११२ ॥

औषधानि च सर्वाणि विक्रयाज्जीवनं भवेत् ।
चण्डालस्य तु विप्रायां जातः स्यपव उच्यते ॥ ११३ ॥

श्मशान वासस्संवेष्ट्य चर्मणा कर्णदेशके ।
पूर्वाह्ने ग्राममासाद्य अपराह्ने निवेशनम् ॥ ११४ ॥

सर्वं मलं व्यपोह्याथ शुनां मांसं च कारकः ।
चर्मणा पादरक्षादि कृत्वा तत्क्रय विक्रयम् ॥ ११५ ॥

प्। ११४०)

वैदेहस्य नृपायां तु जातिस्सूतिक उच्यते ।
सूचिनाबन्धयेद्वस्त्रान्यथा युक्तोपजीवनम् ॥ ११६ ॥

पुष्करस्य तु विप्रायां जातस्त्वापश्वभक्षकः ।
नष्टद्रव्याणि सर्वाणि यत्नात्सङ्गृह्यते ततः ॥ ११७ ॥

गुरूल्काश्वापचेञ्चाश्व म्लेच्छादिपनकादयः ।
जातिभेदमिदं प्रोक्तं क्रमात्तन्नन्दिकेश्वर ! ॥ ११८ ॥

व्रात्यपुत्राश्च दशका दीक्षायामथ माधवाः ।
उत्तमानां च मध्यास्तु पञ्चपञ्चाधिमामनुः ॥ ११९ ॥

अधमाधमकाश्चापि दशप्रोक्ता विशेषतः ।
चतुस्त्रिंशच्च ये मर्त्याः कुलसम्बन्धिनस्तथा ॥ १२० ॥

प्। १६४१)

हीनाचारयुताश्चापि क्रूरकर्मयुता अपि ।
हीनवृत्तियुतानेव दीक्षायां वर्जयेद्गुरुः ॥ १२१ ॥

दीक्षाद्ययोग्यजातीकाप्यकल्पेन च भस्मना ।
त्रिपुण्ट्रां कितदेहाश्चरुद्राक्षमणिधारिणः ॥ १२२ ॥

अमन्त्रकाः स्वयं पश्चाच्छिवभक्तियुतान्परान् ।
लिङ्गिनं च सदा भक्त्या दूरतः प्रणमादिकाः ॥ १२३ ॥

कृत्वाशिवालयाद्यं च स्वस्वजात्यनुसारतः ।
यथोचितं तथा कुर्यात्तेन स्वर्गमवाप्नुयात् ॥ १२४ ॥

पश्चाद्भूमौ तु सञ्जाय दीक्षया मोक्षमाप्नुयुः ।
दीक्षितो विधिनोलिङ्गी नैष्ठिकोऽपि विशेषतः ॥ १२५ ॥

प्। ११४२)

तस्य जातेस्तु सम्बन्धो नास्त्येवं नन्दिकेश्वर ! ।
भौतिकस्य विशेषेण लोकाचार समन्वयात् ॥ १२६ ॥

पूर्वजात्या तु वक्तव्यमिति शास्त्र विनिश्चयः ।

इत्यचिन्त्य विश्वसादाख्ये जातिनिर्णयविधिरष्टसप्ततितमः पटलः