७५

प्। ११०५)

अथ वक्ष्ये शिवश्राद्धमेकोद्दिष्टाख्यमेव च ।
आशौचान्ते दिने प्राप्ते एकोद्दिष्टं विधीयते ॥ १ ॥

अग्निसञ्चयनादेव दशाहैकादशाह्नि वा ।
तथैकहेतिकानान्तु कर्तव्यं श्राद्धमुत्तमम् ॥ २ ॥

स्वस्वजात्यनुरूपेण कर्तव्यं लौकिकं भवेत् ।
दशाहे द्वादशाहे च विप्रक्षत्रिय शुद्धि वै ॥ ३ ॥

पञ्चादशाहे वैश्यानां शूद्राणां मासमेव हि ।
पितृवत्सर्वजातीनां दीक्षितानां च शुद्धि वै ॥ ४ ॥

मासं प्रतिसमायावद् एकोद्दिष्टमिदं भवेत् ।
एकोद्दिष्टं विशेषेण चैकमर्घ्यं पवित्रकम् ॥ ५ ॥

प्। ११०६)

अग्निकार्यविधिस्तत्र कर्तव्यः श्राद्धकर्मणि ।
श्राद्धपक्षेषु तिथिषु श्राद्धं सर्वासु साधयेत् ॥ ६ ॥

अनन्तेशश्च सूक्ष्मश्च शिवेशं च सुसञ्ज्ञकैः ।
एकनेत्रैक रुद्रश्च त्रिमूर्तिष्विति भौतिके ॥ ७ ॥

त्रिमूर्त्त्यादिविलोमेन मात्रादित्रितयं भवेत् ।
शिवोत्तमाद्यनन्तेशात्पित्रादि त्रितयं क्रमात् ॥ ८ ॥

श्रीकण्ठश्च शिखण्डी च विश्वेदेवौ समीरितौ ।
षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ॥ ९ ॥

लिङ्गिनो ब्राह्मणाद्याश्च श्रद्धया शिवदीक्षितः ।
शिवश्राद्धविहीनश्चेत् पिशाचत्वं स विन्दति ॥ १० ॥

प्। ११०७)

द्वारे वै भस्मनिचये चान्तरिक्षे तथैव च ।
ऋक्षाणि त्रीणि चैकं च प्रेतभूतस्स तिष्ठति ॥ ११ ॥

नैष्ठिकानां विशेषेण नैष्ठिकाश्च भवन्ति वै ।
ईशस्सदाशिवश्शान्तः शिवश्राद्धे तपस्विनः ॥ १२ ॥

रुद्रश्चानातता नाम विश्वेदेवौ स्थितौ द्वयोः ।
निर्वाण दीक्षितानां तु रुद्रांशानामतोन्यथा ॥ १३ ॥

तत्र नन्दिमहाकालौ विश्वेदेवौ गणौ द्वयोः ।
स्कन्दचण्डगणाधीशा गणास्त्रिषु यथाक्रमम् ॥ १४ ॥

एवं च विधिविष्ण्वीशा विश्वेदेवा यमारुणौ ।
सर्वत्र पञ्चभावेऽपि पुरुषद्वयमुच्यते ॥ १५ ॥

प्। ११०८)

शिरस्तद्धविभागेन त्रयमेकत्र कल्पयेत् ।
पर्वशेषेषु चाष्टम्यां मातृपक्षविधिः स्मृतः ॥ १६ ॥

पूर्वेद्युरादरेणैव गौरवेण निमन्त्रयेत् ।
आह्वाययेत्ततोन्यस्मिन्दिने सायाह्नकेऽपि वा ॥ १७ ॥

शुक्लपक्षे तु पूर्वाह्ने कृष्णे साद्यपराह्नके ।
कृतनित्यविधिश्शुद्धभावो वै * * * * * ॥ १८ ॥

कङ्कणे प्राक्समं कुर्याद्वेदाश्रं मण्डलद्वयम् ।
दक्षिणोत्तर संस्थानं भस्ममात्रं करान्तकम् ॥ १९ ॥

वारुण्यां वर्तुलं तद्वद् विश्वेदेवौ च पूजयेत् ।
पितृदेवं दक्षिणतः पश्चिम संस्थितम् ॥ २० ॥

प्। ११०९)

देवद्वये यवान्दद्यात् सकुशान्पैतृयोस्तिलान् ।
श्वेतपुष्पैः क्रमात्तत्र चतुरश्र क्रमाद्यशेत् ॥ २१ ॥

यवैर्द्वयोस्त्रयाणां तु दद्यादर्घ्यं तिलैस्सह ।
निमित्तार्थे तिलैस्सार्धं रुण * * * दापयेत् ॥ २२ ॥

स्वाहा स्वधान्तकैर्मन्त्रैः स्वनामप्रणवान्वितैः ।
दक्षिणे वामदेवेन पादौ प्रक्षालयेन्मृदा ॥ २३ ॥

दद्यादाचमनं सौम्ये स्वाहान्ते तु प्रवेशयेत् ।
वामेन शुद्धेष्वासनेषु चैतान्नैवं निवेशयेत् ॥ २४ ॥

द्वयं पूर्वाननं पूर्वं ततस्त्रयमुदङ्मुखान् ।
द्रव्यमर्घ्याम्बुना प्रोक्ष्य प्रार्थयेत्तान्समाहितः ॥ २५ ॥

प्। १११०)

यथा श्राद्धं करिष्येहं कुरुष्वेति समासतः ।
द्वाभ्या * * * जान्तेन सव्येनासनयोः कुशान् ॥ २६ ॥

त्रयाणामपसव्येन सर्वत्रैवं विधो विधिः ।
आवाहयेद्यथानाम्नः पञ्चापि तदनन्तरम् ॥ २७ ॥

द्वामे शाभ्यां च रक्षायै तिलैः कार्याप्यनुक्रमात् ।
सान्निध्यार्ध्यमघोरेण सपुष्पाम्बु कुशाक्षतैः ॥ २८ ॥

द्वाभ्यां त्रिभ्यस्तमीशेन दद्याद्भूमिषु जानुकः ।
यवैः पादादिमूर्धान्तं बहुरूपेण पूजयेत् ॥ २९ ॥

तिलैस्तत्रयतैन शिरः प्रभृति पूजयेत् ।
गन्धं पुष्पं च वामेन रूपिणा धूपदीपकम् ॥ ३० ॥

प्। ११११)

दत्वेशेन पवित्राद्यं ब्रूयात्सम्पूर्णमस्त्विति ।
अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ॥ ३१ ॥

संश्रावयेत्ततस्तांश्च पात्रं कृत्वा विधानवित् ।
पितृस्थानमसन्त्यक्त्वा न्युब्जपात्रमधो न्यसेत् ॥ ३२ ॥

मृष्टान्नभोजनं कार्यं भक्तियुक्तो दृढव्रतः ।
कोद्रवं लवणं सर्वं तथा जम्बूफलानि च ॥ ३३ ॥

कूश्माण्डा लाबुवार्तालं माहिषं क्षीरमेव च ।
बीजपूरकषायाणि मरीचिं पिप्पलीमपि ॥ ३४ ॥

कृतं च लवणं सर्ववंशाग्रं च विवर्जितम् ।
वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च ॥ ३५ ॥

प्। १११२)

आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।
कुलस्थं पादसंस्पृष्टं शुष्कं पर्युषितं च यत् ॥ ३६ ॥

पिण्याकमधितं चापि तथाति लवणं च यत् ।
हस्तदत्तानि तु स्नेहाल्लवणव्यञ्जनानि च ॥ ३७ ॥

दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्विषम् ।
निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् ॥ ३८ ॥

बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेत् ।
अन्तर्जानु विशेषेण तथैवाचमनं भवेत् ॥ ३९ ॥

उत्तरे शिवपूजा च दक्षिणे पिण्डयोजनम् ।
मध्ये वह्नि सपर्या वै कर्तव्या नन्दिकेश्वर ! ॥ ४० ॥

प्। १११३)

अपसव्योपवीती च पित्रर्थे च विशेषतः ।
ॐ सोमाय पितृमते * * * * * * * * ॥ ४१ ॥

सर्वपाकाग्रमादाय हुत्वाग्नौ पितृयज्ञके ।
आं कव्यवाहनाय स्वधा नमः * * * * * ॥ ४२ ॥

एतेन जुहुयादग्नौ पिण्डत्रयमनन्तरम् ।
पातेषु हुतशेषान्नमाददीत नरं जपन् ॥ ४३ ॥

एवमग्नौ च करणं मधुरान्नं घृतप्लुतम् ।
अघोरेण च शुध्यर्थं पुंसा दद्याच्च संस्पृशत् ॥ ४४ ॥

न्युब्जं सव्यतदङ्गुष्टम् अभूतायां न सङ्गतम् ।
वामं मृत्युञ्जयं वापि परितो भ्रामयेज्जपन् ॥ ४५ ॥

प्। १११४)

अपामशनमस्त्रेण प्रदद्यात्पाणिपल्लवे ।
वाचंयमाः प्रभुञ्जीरंस्तेषु ध्वजमितीरिताः ॥ ४६ ॥

कर्ता तिष्ठेज्जपन्नीशं स्ते * * स्तादृशाननाः ।
भक्त्याथितींश्च सम्पूज्य तत्कालेनापि चालयेत् ॥ ४७ ॥

अन्नमादाय तृप्तास्थ मणित्वान्नमतः शनैः ।
तदन्नं प्रतिनेद्भूमौ दद्यादापस्सकृत्सकृत् ॥ ४८ ॥

उच्छिष्ट निकटे कुर्याद् गोमयेनाथ मण्डलम् ।
अजातेन च सन्दर्भान् वामेन विकिरेत्तिलान् ॥ ४९ ॥

त्रयं सर्वान्न पिण्डानां सतिलं दक्षिणामुखः ।
दर्भैः परिक्रमाद्दद्यादीशाद्यैर्मन्त्रकैः क्रमात् ॥ ५० ॥

प्। १११५)

वामदेवेन मन्त्रेण तोयधारां विनिक्षिपेत् ।
पूजयेद्गन्धपुष्पाद्यैः प्रणमेन्नन्दिकेश्वर ! ॥ ५१ ॥

क्षमयित्वोप संहृत्य समाचम्य विधानवित् ।
पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ॥ ५२ ॥

दद्याच्च दक्षिणां तेभ्यः कुर्यात्पात्रमुदाननः ।
सर्वान्प्रदक्षिणीकृत्य प्रणम्य विसृजेत्पुनः ॥ ५३ ॥

पङ्क्तिभ्यो मध्यपिण्डं च दद्यद्रुद्रसुताप्तये ।
ब्राह्मणायाथ वा तोये वह्नौ गो वृषभे तथा ॥ ५४ ॥

पिण्डांस्त्रीनपि दद्याद्वै निक्षिपेन्नन्दिकेश्वर ! ।
तत्तन्मनुष्याः पितरो दैत्याः श्राद्धे कृते यदि ॥ ५५ ॥

प्। १११६)

मन्त्राः शिवान्वगाः वर्धयन्ति कुलद्वयम् ।
शिवश्राद्धे कृते देवाः पितरश्च विशेषतः ॥ ५६ ॥

वर्धयन्ति कुलद्वन्द्वं नात्र कार्या विचारणा ।
पश्चाल्लिङ्ग प्रतिष्ठां वा प्रतिष्ठां वापि पैतृकीम् ॥ ५७ ॥

भित्तिचित्रं च वा कुर्यात्प्रतिष्ठा पूर्ववद्भवेत् ।
प्रासादगोपुरादीनि पूर्ववत्तत्र कारयेत् ॥ ५८ ॥

पञ्चावरणकैरेवं भवेदेव प्रतिष्ठितम् ।
अर्चनादिविशेषास्तु पूर्ववन्नन्दिकेश्वर ! ॥ ५९ ॥

इत्यचिन्त्य विश्वसादाख्ये शिवश्राद्धविधिपटलः ॥