अथान्त्येष्टिविधिं वक्ष्ये साधकाचार्यपुत्रकाः ।
एतेषां मरणान्तस्य विधिरन्त्येष्टिरुच्यते ॥ १ ॥
प्। १०८८)
तत्वशुद्धिविहीनाभिरिष्टिरन्त्येष्टिरुच्यते ।
आर्द्रं वंशादिभि * * * मनोप्यत्र शोभिते ॥ २ ॥
पुष्पमालाभिसंयुक्ते कुर्याच्छङ्करवालुके ।
स्वर्गसोपानयुक्ते च शवमारोपयेत्ततः ॥ ३ ॥
अपसव्योपवीतिभिर्दीक्षितैस्तुल्यजातिभिः ।
संस्कन्धैशस्त्रमन्त्रं च जपयुक्तैश्च धारयेत् ॥ ४ ॥
लाजाग्निकेश शुद्धे तु भूताग्रे चावतारयेत् ।
दक्षिने प्रेतशिरसं विधायैव विशेषतः ॥ ५ ॥
चतुर्हस्तयुतं कूटं तत्कुर्यात्प्रपयान्वितम् ।
सर्वालङ्कार संयुक्तं सर्वमाला सुशोभितम् ॥ ६ ॥
प्। १०८९)
कुण्डं कुर्याद्विधानेन चतुरश्रैकमण्डलम् ।
षडङ्गुलोच्छ्रितं वायौ तन्मृदा स्थण्डिलं भवेत् ॥ ७ ॥
चतुष्करं चिताख्यातं कुण्डं दक्षिणतो भवेत् ।
विस्तीर्णाकारयुक्ताढ्याम् अष्टाङ्गुलविहीनकम् ॥ ८ ॥
कुण्डादित्रयमालिप्य गोमयाम्बुभिरेव च ।
गुरुः स्नातः कृतन्यासो गृहीतास्त्राद्यहस्तकम् ॥ ९ ॥
कृत्वा प्रदक्षिणं चापि स्थण्डिलं तमुदङ्मुखम् ।
अपसव्यकृत न्यासो हेतिमन्त्रेण रक्षितः ॥ १० ॥
मौनी कृतान्तर्यजनो मन्त्रपित्रास्त्रवर्धनीम् ।
तदम्बु * * * क्षेत्रे पञ्चविंशतिकोष्ठके ॥ ११ ॥
प्। १०९०)
श्वेतैः पीतैश्च रक्तैश्च कृष्णैश्शुभ्रैर्यथाक्रमम् ।
पृथिव्यादि यथारूपं पञ्चवर्णैर्विभूषितम् ॥ १२ ॥
वंशज्वरादि सम्पन्ने वास्तुदेवं च विन्यसेत् ।
ब्रह्माणं पञ्चकोष्ठे च विन्यसेन्मध्यकोष्ठके ॥ १३ ॥
नैरृत्यां * * नीश्राद्धं विष्णुकोष्ठं चतुष्टये ।
अग्निकोणे चतुष्केपि रुद्रं ज्वलन संयुतम् ॥ १४ ॥
चतुष्कोष्ठे वायुकोणे वायुना समनीश्वरम् ।
तच्चतुष्के तथैशान्यां गगनेन सदाशिवम् ॥ १५ ॥
पूर्वादिदिक्स्वकोष्ठेषु नक्रादींश्चतुरो यजेत् ।
स्वनाम्ना च नमोन्तेन स्वाहान्तेन बलिं ददेत् ॥ १६ ॥
प्। १०९१)
ॐ ब्रह्मणे वास्त्वधिपतये नमः ।
इति भूमौ च विन्यस्य ब्रह्माणं विधिना यजेत् ॥ १७ ॥
ॐ हां विष्णवे नम इति ।
वारि विष्णौ तु सम्पूज्य गोविन्दं नन्दिकेश्वर ॥ १८ ॥
ॐ हां रुद्राय नम इति वह्निं सम्पूजयेदपि ।
ॐ हाम् ईश्वरायनम इति वायौ चेशं समर्चयेत् ॥ १९ ॥
ॐ हां सदाशिवाय नमः । व्योम्नि-
सदाशिवेत्यादि मन्त्रैश्च ऐशान्यां वर्धनीं न्यसेत् ॥ २० ॥
मन्त्रं पाशुपताख्यं वै सम्यगेवं समर्चयेत् ।
अष्टकुम्भानि चिन्त्या च परितः स्थापयेद्गुरुः ॥ २१ ॥
प्। १०९२)
ऐन्द्रादि चाष्टदिक्ष्वेव दिक्पालानां युधैर्यजेत् ।
दत्वैश्वर्यादिपीठं च स्थण्डिलाब्जगमध्यगम् ॥ २२ ॥
मनोन्मन्यादिवामान्त शक्तिचक्रं प्रपूजयेत् ।
विकीर्यतिलभस्मादि चेशं साङ्गं प्रपूजयेत् ॥ २३ ॥
प्रक्षिप्य दक्षिणे कुण्डे जनयेत्प्रागिवानलम् ।
ईशं सम्पूज्य हुत्वाग्नौ हुनेत्पूर्वावसानिकम् ॥ २४ ॥
प्रदक्षिणमथान्यादि कोणेषु निखनेत्क्रमात् ।
अस्त्रमन्त्रेण सञ्जप्त्वा रक्तसूत्रेण वेष्टयेत् ॥ २५ ॥
ऊर्ध्वमूलानधोग्रांश्च शुष्ककाष्ठीयकालकान् ।
इन्धनैश्चितिमापूर्य सकुशैः कुसुमैस्तिलैः ॥ २६ ॥
प्। १०९३)
पूजयेदस्त्रराजेन विपरीतघटावृतम् ।
प्रेतं मृद्गोमयाम्भोभिः संस्नाप्योद्धूल्य चानयेत् ॥ २७ ॥
दद्याद्वस्त्रोपवीतं च पूर्ववत्तानपेक्षया ।
अथात्र धारणाशुद्धे गन्धपुष्पादिपूजिते ॥ २८ ॥
महाजालप्रयोगेण जीवमादाय विन्यसेत् ।
ॐ हुं हां हां हां हुम् अमुकात्मने नमः ॥ २९ ॥
विद्यादेहं च तद्देहमस्तके वदने हृदि ।
नाभावधश्शरीरे च शान्त्यतीतादिकाः कलाः ॥ ३० ॥
विन्यस्य विद्यातत्वं च शक्तिचक्रं तथा शिवम् ।
चैतन्य सन्निधानाय शतं मूलेन होमयेत् ॥ ३१ ॥
प्। १०९४)
समादाय निवृत्त्यादि यौगपद्यक्रमेण वै ।
अग्नौ सम्पूज्य संयोज्य शिवाद्यावाहनादिकम् ॥ ३२ ॥
कृत्वा त्वासन विश्लेषौ जीवस्य कर्षणादिकम् ।
शिवात्मानं च तत्रस्थदीक्षावत्सर्वमाचरेत् ॥ ३३ ॥
तन्त्राधिकारभोगं च लयं स्रोतो विनिष्कृतम् ।
निष्कृतिश्च तिरोधानं पशोः पाशविमोचनम् ॥ ३४ ॥
मर्दनं वर्तुलाकारं पादीदाहुतिकां क्रियाम् ।
कारणावाहनं तद्वद् अधिकार समर्पणम् ॥ ३५ ॥
आत्मनो मृतिकर्माणि कृत्वा गुणविवर्जिते ।
योजनाद्भावनानीतशिवे चैतन्यमव्यये ॥ ३६ ॥
प्। १०९५)
स्थण्डिले सन्नियोज्याग्नौ शवदक्षिण मस्तकम् ।
चितावृत्तानमारोप्य विदधीतसदिन्धनैः ॥ ३७ ॥
सन्दीपयेच्चितां पश्चात् कुण्डमध्यगताग्निना ।
शिरः प्रदेशे ज्वलिते चोत्तरास्यो हुनेत्पुनः ॥ ३८ ॥
पूर्णाहुतिं च वह्नौ च यजेत्तन्नन्दिकेश्वर ! ।
त्वमग्नेर्दक्षिणः काले कालेनैवं शतं हुतम् ॥ ३९ ॥
गृहाणमन्त्रसम्पूतां शाव्यालेतां महात्मभिः ।
अनेनैव तु मन्त्रेण दत्वा पूर्णाभवान्तिकम् ॥ ४० ॥
दीप्ताग्नौ सृक्सृवौ पश्चात्प्रक्षिपेतावधोमुखौ ।
वर्धनीं शस्त्रजप्तां तु वामांसे सन्निवेशयेत् ॥ ४१ ॥
प्। १०९६)
सन्निवेश्य ततो यायात् प्रत्यग्द्वार प्रदक्षिणम् ।
विमुञ्चन्निक्षिपेत्तत्र यत एव समुद्धृता ॥ ४२ ॥
सरितश्च तटं गत्वा पश्चादनव लोकयेत् ।
स्नात्वा प्रास्तीर्य सन्दर्भानपसव्यं विधाय च ॥ ४३ ॥
ॐ हां शुद्धात्मनीशो भव स्वाहा ।
ॐ हां शुद्धात्मन् सदाशिवो भव स्वाहा ॥ ४४ ॥
ॐ हां शुद्धात्मन् शान्तो भव स्वाहा ।
पितृतर्पणमेतैस्तु मन्त्रैः कुर्यात्समाहितः ॥ ४५ ॥
स्नात्वा गुरुरघोरेण शतमावर्तयेज्जपम् ।
द्विगुणं स्कन्धदातारस्ततो यास्यनियाश्रयम् ॥ ४६ ॥
प्। १०९७)
तत्र देवं समभ्यर्च्य तदुद्दिश्य विशेषतः ।
प्रथमेऽह्नि तृतीये वा कुर्यात्सञ्चयनं चितेः ॥ ४७ ॥
क्षीरपूर्णं च करकं तोयपूर्णमथापि वा ।
आदाय तत्र संस्थाप्य चित्या काष्ठत्रयं ददेत् ॥ ४८ ॥
क्रमेण पादमारभ्य शिरोन्तं ककुदीकृताम् ।
निश्शब्दं स्थापयेत्तस्य विधिना नन्दिकेश्वर ॥ ४९ ॥
तस्मात्प्रदेशमादाय सरितां नीरदेशके ।
निधाय विधिना खात्वा स्थापयेन्नन्दिकेश्वर ! ॥ ५० ॥
अथ दुर्मरणं चात्र पुनर्दहनमिष्यते ।
दीक्षाहीनस्य मरणे शिवदीक्षायुतस्य च ॥ ५१ ॥
प्। १०९८)
जीवन्तोऽपि च वाञ्छापे मृतदीक्षा विधीयते ।
शस्त्रैर्मृगैर्गजैश्चैव वारिभिर्विषभक्षणैः ॥ ५२ ॥
भित्तिवृक्षादिपतनैः हस्तनाडनभेदनैः ।
सर्पदंशनकैश्चैव रज्जुबन्धनमारणैः ॥ ५३ ॥
अन्यैरेता दृशैरेषां मरणे पूर्ववत्क्रिया ।
अविद्यमान देहानां तथा विकलदेहिनाम् ॥ ५४ ॥
क्षयकुष्ठपिशाचादिमरणे नन्दिकेश्वर ! ।
अपस्मारग्रहादीनां दर्शनान्मरणादपि ॥ ५५ ॥
ततः कुशैश्च दारुभिः पलाशोत्थैश्च पल्लवैः ।
षट्त्रिंशदथवा कुर्यात्प्रतिमां तु सलक्षणाम् ॥ ५६ ॥
प्। १०९९)
पिष्टेन पञ्चगव्येन कारयेद्गोमयैस्सह ।
इष्टमानेन कर्तव्यं तस्यां कर्म यथाक्रमम् ॥ ५७ ॥
हुम्फडन्तास्त्रमन्त्रेण पञ्चगव्यशिवान्तथा ।
किन्तु सर्पिर्मधुक्षीरधाराभिस्तां च सेचयेत् ॥ ५८ ॥
स्वात्मदक्षिणभागे वै प्रतिमां कुसुमासने ।
संस्थाप्य करवीरोत्थमुकुलैन्या समाचरेत् ॥ ५९ ॥
यथा स्थानं च तत्वानि सर्वाण्यपि च विन्यसेत् ।
अथवा व्योम संस्थेन गोमयेन च भस्मना ॥ ६० ॥
पञ्चगव्येन सम्मार्ज्य प्रतिमां कारयेत्सुधीः ।
भूर्जपत्रे कृतं नाम लिखित्वा हृदये न्यसेत् ॥ ६१ ॥
प्। ११००)
कूपं विचिन्त्य हृदये वामदक्षिणभागके ।
शुद्धां च पिङ्गलां चापि सुषुम्नां तत्र भावयेत् ॥ ६२ ॥
वामां ज्येष्ठां च रौद्रीं च शक्तित्रयसुतन्न्यसेत् ।
धर्माधर्मौ च कर्माणि सर्वाण्यपि च विन्यसेत् ॥ ६३ ॥
महाजालकमन्त्रेण संस्थितं यत्र कुत्रचित् ।
ॐ हं हां हुम् अनेन मन्त्रेण कृष्याण वामायेयम् ॥ ६४ ॥
कर्माख्यकमलत्रयम् ।
एतत्तर्पणबन्धाय स्वस्वनाम्ना च होमयेत् ॥ ६५ ॥
पञ्चपञ्चाहुतिं कृत्वा विन्यसेन्मस्तकावधि ।
परं शिवं शिरो देशे शक्तिं बिन्दुं च वक्त्रके ॥ ६६ ॥
प्। ११०१)
ललाटे तदधोनादं महेशं घण्टिकोपरि ।
कण्ठे सदाशिवं विद्याद्बाहुसन्धिषु विन्यसेत् ॥ ६७ ॥
अष्टविद्येश्वराणां तु मण्डलं वामपार्श्वके ।
मायां दक्षिणपार्श्वे तु कालतत्वं च विन्यसेत् ॥ ६८ ॥
कलां तदुत्तरे देशे हृदये नीललोहितम् ।
तत्रैव शुद्धविद्यां च पु * * गस्तथोच्यते ॥ ६९ ॥
नाभौ प्रकृति तत्वं च विन्यसेच्च यथाक्रमम् ।
सूक्ष्माणि पृष्ठदेशे च गुणत्रय समन्वितम् ॥ ७० ॥
पुरुषत्रयं नाभिमेढ्रे चान्तरं विन्यसेत्सुधीः ।
त्रिकस्सन्धिषु बुद्धिः स्यान्मेढ्रेऽहङ्कारकं न्यसेत् ॥ ७१ ॥
प्। ११०२)
व्योमवागीश्वरीं चैव वायुं योन्यन्तरालके ।
चित्ते चाग्निमधोभागे वरुणं तत्र विन्यसेत् ॥ ७२ ॥
तत्वे वै बुद्धिगगनवायुं ज्वलनरूपिणे ।
पञ्चाष्टकानां रुद्राणां न्यासं तस्मादधोमहि ॥ ७३ ॥
तद्बहिश्शतरुद्रांश्च लोकपालांश्च तत्र वै ।
गुल्फाते चापि लोकादौ ब्रह्मविष्णुपितामहान् ॥ ७४ ॥
गुल्फादधस्तात्पातालसप्तकं विन्यसेत्क्रमात् ।
कुले तु नरकान्सर्वान् विन्यस्याङ्गुष्ठमूर्धनि ॥ ७५ ॥
कालाग्निमेवं स्थाने तु मूर्धाद्यङ्गुष्ठकान्तकम् ।
परश्शिवादिकालाग्नि तत्वान्यपि च विन्यसेत् ॥ ७६ ॥
प्। ११०३)
गन्धादिभिस्समभ्यर्च्य कलां दीक्षां विधाय च ।
पूर्णाहुत्या शिवस्कन्तमात्मानं तु परश्शिवम् ॥ ७७ ॥
परिपूर्ण समग्रे च मधुक्षीरघृतप्लुतम् ।
पूर्णां हुत्वा च जुहुयाद् अग्नौ सम्पूर्णमानसः ॥ ७८ ॥
पश्चात्तां प्रतिमां चापि दहेत्पूर्वोक्तमार्गतः ।
भद्रे त्रिपदनक्षत्रे भृग्वङ्गार बृहस्पतौ ॥ ७९ ॥
दहने मरणे चैव तत्कुलस्य क्षयं भवेत् ।
तत्र वै दोषनाशाय पुनर्दहनमाचरेत् ॥ ८० ॥
तपस्सन्यासिनां चापि दामः परमहंसिनाम् ।
लोकाग्निमुदराग्नौ च समारोपणतः पुराः ॥ ८१ ॥
प्। ११०४)
बाह्याग्निकार्यभावाच्च शाययेल्लक्षणैस्सह ।
खननेऽप्यपदं चापि दैर्ध्यं वेदकरं भवेत् ॥ ८२ ॥
हस्तद्वयं च विस्तारमधः खातं चतुष्करम् ।
अग्निकार्यं विना सर्वं कर्म पूर्ववदाचरेत् ॥ ८३ ॥
शिवाग्नि कार्य संयुक्तयतीनां तेन सन्दहेत् ।
खनने दहने चैव दण्डकौपीन संयुतम् ॥ ८४ ॥
तत्र देशेऽपि लिङ्गादिप्रतिष्ठामपि कारयेत् ।
तन्मूर्तिं वापि पीठं वा भित्तिचित्रमथापि वा ॥ ८५ ॥
कूटप्रासादकं वापि तत्र देशे च कारयेत् ।
आवाहनादिबल्यन्तं दीपान्तं वापि पूर्ववत् ॥ ८६ ॥
इत्यचिन्त्यविश्वसादाख्ये अन्त्येष्टिविधिद्विसप्ततितमः पटलः ॥