मठप्रतिष्ठां वक्ष्यामि शृणुत्वं नन्दिकेश्वर ! ।
मण्टपं मण्डलं कुण्डं पूर्ववत्कारयेद्गुरुः ॥ १ ॥
अनुग्रहाय लोकानां लिङ्गभूता प्रतिष्ठिता ।
उत्तरेष्वेकतमे चैव मठादीनि प्रकल्पयेत् ॥ २ ॥
प्। १०७७)
आगन्तुकानां सर्वेषां नैष्ठिकानां निवासभूः ।
अन्नपानीयसंयुक्तं केवलं वा मठं मतम् ॥ ३ ॥
कर्णसूत्रद्वयेनैव संयुतं पीठमिष्यते ।
पूर्वोक्तवास्तुना ये तु पादास्ते सम्प्रकीर्तिताः ॥ ४ ॥
एतत्पदं मठादीनां तच्च ग्रामादियोग्यताम् ।
रात्रौ वाथ दिवा वापि गृहदेवाल यादिषु ॥ ५ ॥
देवालये च ग्रामादौ शिवविप्रो विशिष्यते ।
स्वगृहे त्वनुशैवं तु महायान्तरशैलकौ ॥ ६ ॥
स्थण्डिलं कारयेत्तत्र अष्टपत्रं सकर्णिकम् ।
वस्त्रयुग्मावृतं स्कन्धे शिवकुम्भं द्विजश्शिवः ॥ ७ ॥
प्। १०७८)
मन्दिरे विन्यसेत्तत्वं शक्तिं विन्यस्य धारिकाम् ।
आत्मतत्वमधोभागे ब्रह्मासावधि विन्यसेत् ॥ ८ ॥
सद्यतत्वं न्यसेन्मध्ये बुद्धितत्वपदानुगम् ।
तदूर्ध्वे शिवतत्वं स्याच्छुद्धविद्यावसानकम् ॥ ९ ॥
करणत्रितयं न्यस्त्वा शिवं साङ्गं च विन्यसेत् ।
तत्वोपस्थापनं शुद्धिं प्रोक्षणं स्पर्शनं जपम् ॥ १० ॥
सान्निध्यं रोधनं पूजा सन्धानं प्रति तत्वकम् ।
एवं सर्वत्र विधिवद्विधानं पूर्वतां व्रजेत् ॥ ११ ॥
शुभलग्नं समासाद्य विन्यसेद् ध्वजमादरात् ।
मन्दिरं स्थापयेत्पश्चात् फलाद्यैः शुभवस्तुभिः ॥ १२ ॥
प्। १०७९)
दारुतृणादि सञ्छन्ने मन्त्रे न्यासोऽत्र कथ्यते ।
शिवकुम्भं च संस्थाप्य लेपयेद्गोमयेन तत् ॥ १३ ॥
बाह्ये चाभ्यन्तरे चापि पुष्पगन्ध सुशोभितम् ।
पताका तोरणादींश्च कुर्यात्तत्र विशेषतः ॥ १४ ॥
सुहृद्भिवहभिस्सार्धं तत्कर्ता गुरुपूजकः ।
यजमानस्सुलग्ने तु स्नातश्च कृतमङ्गलः ॥ १५ ॥
चतुष्कामं न्यसेद्धीमावेदिकाया मुदङ्मुखात् ।
ब्राह्मणानां च दानं च दैवज्ञाय विशेषतः ॥ १६ ॥
शिल्पिने च ततो दद्याद् यथाविभव विस्तरम् ।
पूजयेत्पूर्वतः कुम्भान्वास्तु द्विकरमण्टपे ॥ १७ ॥
प्। १०८०)
ज गत्यां पादपीठे च जङ्घा चैव कपोतके ।
भेदेन च यथा सङ्ख्यान्निवृत्त्यादिकलां न्यसेत् ॥ १८ ॥
हृदयेन समभ्यर्च्य शक्तिदिक्पालकानपि ।
व्य * पान्स्वस्वसञ्ज्ञाभिः पूजयेद् ध्यान पूर्वकम् ॥ १९ ॥
वह्निगेहं समासाद्य तर्पयेद्वास्तु देवताः ।
निवृत्त्यादि कलाश्चापि द्वारपालान्स्वमन्त्रकैः ॥ २० ॥
दत्वा दिग्बलिमाचम्य सकलीकृतविग्रहः ।
मधुराम्रकपित्थैश्च बीजापूरफलैस्तथा ॥ २१ ॥
बदरामलवार्ताकनारङ्गलिकुचादिभिः ।
संस्थाप्य स्नापयेत्कुम्भजलैरुपरि चालयम् ॥ २२ ॥
प्। १०८१)
विभूति स्थिरहेत्वर्थं सन्तानादिविवृद्धये ।
कीर्त्यर्थं कीर्तयेन्नाम कर्तृनामपुरस्सरम् ॥ २३ ॥
एकं मठं सुसञ्ज्ञातं कुर्याद्वै देशिकोत्तमः ।
एवं मठप्रतिष्ठा च कार्या वै नन्दिकेश्वर ॥ २४ ॥
पुष्करिण्याः प्रतिष्ठां तु वक्ष्ये सङ्क्षेपतः शृणु ।
वास्तुदेवं समभ्यर्च्य चतुरश्रे विशेषतः ॥ २५ ॥
रुद्रभाजित कोणेषु पूज्याः स्त्रीपदिकाः क्रमात् ।
ईशान पितृवायूनां दिशमारभ्य च क्रमात् ॥ २६ ॥
एकैक पदमारूढाः पर्जन्याद्या यथाक्रमम् ।
आप * करकोष्ठस्था मरीच्या द्वादशानुगाः ॥ २७ ॥
प्। १०८२)
ब्रह्माणं मध्यदेशे तु पञ्चविंशतिकोष्ठके ।
वास्तुं यजेत्प्रतिष्ठायां वारुण्यां मण्टपे शुभे ॥ २८ ॥
परिगृहीत भूमध्ये प्रारभेत्तु यथाविधि ।
मूर्त्त्यङ्गयुक्ततारेण तन्नाम्ना च समर्चयेत् ॥ २९ ॥
दलाष्टसितपद्मे वै कालाग्निं मध्यतो यजेत् ।
हाटकेशं बलिं शान्तिबलिनाथमठेदयम् ॥ ३० ॥
महाब्धिं कलशाम्भोधिं विरूपाक्षं च पूजयेत् ।
पूर्वपत्रक्रमादीशे भ्रुकुटीश्चरमण्टपः ॥ ३१ ॥
अनन्ताद्यास्ततो गर्ते कार्कोटान्तानिकाणुभिः ।
यज्ञमण्टपबाह्ये तु पूजयेच्चरकीमुखान् ॥ ३२ ॥
प्। १०८३)
गृह्या लोकादिनाथांश्च रौप्यनागाष्टकं तथा ।
तत्रानन्तमहापद्मौ तक्षकं गुलिकं तथा ॥ ३३ ॥
शङ्खं च वासुकिं पद्मं कार्कोटं चाष्ट विन्यसेत् ।
कृत्वा पूजां न्यसेत्पश्चात्पूर्वादिक्रमतस्ततः ॥ ३४ ॥
षडौषधीश्च निक्षिप्य परितः फणिनस्तथा ।
मत्स्याक्षीं च सभां चैव सृष्ट्याख्यां चापि तत्र वै ॥ ३५ ॥
कूर्मं च पञ्चरत्नानि रसगन्धाम्बु पञ्चकम् ।
अर्घ्याम्बु पञ्चगव्यं च पुष्करिण्यां परिक्षिपेत् ॥ ३६ ॥
खानतो द्विगुणं पादहीनमध्ये च वाधिकम् ।
हुम् आम् अनन्तनागाय नागाधिपतये नमः ॥ ३७ ॥
प्। १०८४)
अस्त्रतोयेन संस्थाप्य अस्त्रेणाप्यधिवासयेत् ।
क्षुरिकायावतार्याथ क्षिपेद्वामेन वारिणा ॥ ३८ ॥
रौप्यं पाशं समादाय कपिलापृष्ठसङ्गतः ।
यजमानांस्तरेस्तस्यां गुरुः पाशुपतं जपेत् ॥ ३९ ॥
तत्र सन्तरणान्तेन तीर्णा वैतरणी नदी ।
अष्टोत्तरशतं हुत्वा रूपिणीं च विशेषतः ॥ ४० ॥
प्रचेतसं तु सन्तर्प्य विधिना नन्दिकेश्वर ।
देवेशं वामदेवाख्यं चरुन्तेभ्योऽवसाधयेत् ॥ ४१ ॥
दद्यात्पूर्णाहुतिं तत्र चरुणा शिवमन्त्रतः ।
गुरवै गौरियं देया वस्त्रसम्भूषणादिभिः ॥ ४२ ॥
इत्यचिन्त्यविश्वसादाख्ये मठ पुष्करिणीविधि स्त्रिसप्ततितमः पटलः ॥