प्। १०७०)
अथ वक्ष्ये विशेषेण जीर्णलिङ्गस्य चोद्धृतिम् ।
लिङ्गं भूत्याश्रयं भूयाज्जीर्णोद्धारं विनाभवेत् ॥ १ ॥
उत्तरे जीर्णलिङ्गं च महापुण्यबलोद्बणम् ।
जीर्णदण्डमनिर्मूलं लक्षणेन विहीनितम् ॥ २ ॥
मानहीनं च स्फुटिका शान्त्याद्येन विदूषितम् ।
सम्पुटं व्यङ्गलिङ्गं च नदीतीरान्तरं पुनः ॥ ३ ॥
इत्यादि दोषदुष्टं च लिङ्गं सन्त्यज्य बुद्धिमान् ।
पीडितं चैव वृषभं चालिं च चलितं तथा ॥ ४ ॥
निम्नमृत्युच्चविषमं दिङ्मूढस्वं च वा ततः ।
एवं विधिं च सञ्ज्ञाप्य निर्वाणं च भवेद्यदि ॥ ५ ॥
प्। १०७१)
नद्यादिक प्रवाहेण यदि संह्रियतेऽपि वा ।
विध्युक्तकर्मणा तत्र संस्थाप्यं च विशेषतः ॥ ६ ॥
सुस्थितं दुस्थितं वापि शिवलिङ्गं न चालयेत् ।
शान्तेन स्थापितं लिङ्गं सहस्रेण तु पालयेत् ॥ ७ ॥
पूर्णादिभिश्च संयुक्तं जीर्णाद्यस्य * * * तम् ।
पूजया रहितं यद्वा तत्सन्धिरपि दुस्थिरम् ॥ ८ ॥
शतेन स्थापनेत्यादेरयमर्थो विवर्जितः ।
स्थापितं यदि सम्मोहाल्लिङ्गं निम्नादितां व्रजेत् ॥ ९ ॥
सहस्रादिभ होमेन पालन्तुश्च तदा मतम् ।
परित्यक्तां शिलायोगं निर्वाणं च स लक्षणम् ॥ १० ॥
प्। १०७२)
संसक्तमुत्तरे मन्त्री मन्त्रैवं स्थापनाय च ।
विधिना चलितं तत्तत् प्रागुक्तफलसिद्धये ॥ ११ ॥
ईशे यमे च कुर्यात्तु मण्टपं लक्षणान्वितम् ।
द्वारतोरण पूजां च द्वारपूजादि पूर्ववत् ॥ १२ ॥
स्थण्डिलेशं समभ्यर्च्य मन्त्रं तर्पण पूर्वकम् ।
वास्तुदेवं समभ्यर्च्य दिक्पालानां बलिं क्षिपेत् ॥ १३ ॥
देशिकोपि समाचम्य भोजयेल्लिङ्गविप्रकान् ।
देवं संस्थापयेत्पश्चाल्लिङ्गं दुष्टमिदं विभो ॥ १४॥
अस्य चोद्धारणे शान्तिस्स्यादित्यस्तिभवेच्छया ।
तस्मादस्त्रविधानेन समधिष्टं महेश्वर ! ॥ १५ ॥
प्। १०७३)
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ।
मध्वाज्य क्षीरदूर्वा च मूलेनाष्टोत्तरं शतम् ॥ १६ ॥
लिङ्गं ततश्च सम्पूज्य पूजयेत्स्थण्डिलं तथा ।
ॐ व्यापकेश्वरायेति नुत्यन्तं शिवमर्चनम् ॥ १७ ॥
ॐ व्यापकेश्वराय हृदयाय नमः ।
ॐ व्यापकेश्वराय शिरसे नमः ॥ १८ ॥
ॐ व्यापकेश्वराय शिखायै वषट् ।
ॐ व्यापकेश्वराय कवचाय हुम् ॥ १९ ॥
ॐ व्यापकेश्वराय नेत्रत्रयाय वौषट् ।
ॐ व्यापकेश्वराय अस्त्राय फट् ॥ २० ॥
प्। १०७४)
एवं पञ्चाङ्ग मन्त्रेण सम्यगभ्यर्च्य शङ्करम् ।
अस्त्रमन्त्रेण तन्त्रस्थं सत्वं संश्रावयेद्गुरुः ॥ २१ ॥
सत्वको * * * * * लिङ्गमाश्रित्य तिष्ठति ।
लिङ्गं त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छति ॥ २२ ॥
विद्याविद्येश्वरैर्यत्र शम्भुरत्रभविष्यति ।
पाशुपतास्त्रमन्त्रेण जुहुयात्तु सहस्रकम् ॥ २३ ॥
प्रतिभागं विशेषेण शुभतोयेन मोक्षयेत् ।
काशैस्सम्मार्जयेत्पश्चाद्दत्वार्थं च विशेषतः ॥ २४ ॥
फलमेनं ततस्तत्र तत्वाधिपमनन्तरम् ।
मूर्तिमूर्तीश्वरा लिङ्गपिण्डिकांस्तु विशेषतः ॥ २५ ॥
प्। १०७५)
विसृज्य स्वर्णपाशेन वृषस्कन्धस्त्वया तया ।
खट्वाङ्गं तु ततो नीत्वा शिवमस्तु गृणञ्जनैः ॥ २६ ॥
तज्जले निक्षिपेन्मन्त्री पुष्ट्यर्थं होमयेच्छतम् ।
दिक्पालतर्पणं कुर्याद् वास्तुशुद्ध्यै शतं शतम् ॥ २७ ॥
विधाय रक्षां तद्धाम्नि महापाशुपतास्त्रतः ।
लिङ्गं तन्मात्रतस्तत्र विधिवत्स्थापयेद्गुरुः ॥ २८ ॥
ब्राह्मणैमुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितः ।
जीर्णं वाप्यथवा भग्नं धिनापि न चालयेत् ॥ २९ ॥
एवं विधिश्च कर्तव्यो जीर्णधाम समुद्धृतौ ।
खड्गमन्त्रगणा * * कारयेदन्य मन्दिरम् ॥ ३० ॥
प्। १०७६)
सङ्कोचे मरणं प्रोक्तं विस्तारे तु धनक्षयम् ।
तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्कार्यं तत्प्रमाणकम् ॥ ३१ ॥
विधिनाजीर्णपूर्णानामुद्धारं च विधीयते ।
नोचेदनर्थकं तत्तु विधिना तत्समाचरेत् ॥ ३२ ॥
इत्यचिन्त्यविश्वसादाख्ये जीर्णोद्धारविधिरेकोन सप्ततितमः पटलः ॥