६८

प्। १०३०)

अघेशश्चान्यतो मन्त्री सत्यं नैवाप्नुयाद्ध्रुवम् ।
आषाढादि चतुर्दश्याम् अथ श्रावणभाद्रयोः ॥ १ ॥

सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च ।
त्रिषु मासेषु चैतेषु मुख्यमध्याधम क्रमात् ॥ २ ॥

पवित्रमेकं कर्तव्यम् अन्यथा दोषकारकम् ।
क्षीराम्बुधौ हरिस्साक्षा सुप्तये त्रिमासिके ॥ ३ ॥

आषाढादिकमासे वै पवित्रं कारयेत् क्रमात् ।
त्रिविधं तद्विजानीयान् नैमित्तिकमिदं परम् ॥ ४ ॥

दिवसं प्रति कर्तव्यं हेतुत्वात्तु विशेषतः ।
नैमित्तिकमिदं नाम पवित्रकमिति स्फुटम् ॥ ५ ॥

प्। १०३१)

नित्ये तु नित्य पूजायां पत्रपुष्प कुशादिभिः ।
पवित्रमन्यकालेऽपि कल्पयेदन्वहं प्रति ॥ ६ ॥

वह्नौ ब्रह्मणि गौर्यां वै विघ्ननाग गुहेषु च ।
अर्के च शूलिनीता च चण्डिकायां यमं तथा ॥ ७ ॥

इन्द्रे च विष्णौ कामौ च महादेवे पितृष्वपि ।
समारभ्य प्रतिपदि यावत्पञ्चशतं क्रमात् ॥ ८ ॥

हैमजं राजतं ताम्रं कृतादिषु यथा क्रमम् ।
कलौ युगे च कार्पास तन्तुना च पवित्रकम् ॥ ९ ॥

त्रिगुणी स्त्रिगुणी कुर्याद् द्विजकन्यादिकृत् कृतम् ।
सूत्रं शुभं च घौतं च शोषितं तन्तु कल्पयेत् ॥ १० ॥

प्। १०३२)

क्षौमपद्मजवल्कोत्थ पट्टदर्भशणोद्भवम् ।
सूत्रं मौञ्ज्यादि सम्भूतं योग्यं तत्र पवित्रके ॥ ११ ॥

अर्केन्दु वह्न्यजे नागे स्कन्दसादाख्य विश्वतौ ।
तद्बहिस्तन्तुभिश्चैव कारयेत्तु पवित्रकम् ॥ १२ ॥

अष्टोत्तरशतेनैकं सूत्राणां स्यात् पवित्रकम् ।
इत्थं त्रीणि तदर्धेन विंशत्या वाथ सप्तधा ॥ १३ ॥

सूत्रैरेकाशीत्या वा त्रिंशता वाष्टयुक्तया ।
तुल्यग्रन्थ्यन्तरैश्चैव कर्तव्यं शतपञ्चकैः ॥ १४ ॥

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि वै ।
अथवालिङ्गविस्तारमानानि चतुरङ्गुलैः ॥ १५ ॥

प्। १०३३)

तमर्च्य पिण्डिका स्पर्शं चतुर्थं सर्वतात्विकम् ।
गङ्गावतारकं चापि कुर्यात्किङ्किणि कान्वितम् ॥ १६ ॥

सूत्रशुद्धिरजातेन गुह्यकेन सुरञ्जितम् ।
अघोरेण तु शुद्धिर्वै वक्त्रमन्त्रेण पूजयेत् ॥ १७ ॥

हरिचन्दनकर्पूर कस्तूरी कुङ्कुमैस्तथा ।
निशागैरिकराजैश्च रञ्जयेत्तु पवित्रकम् ॥ १८ ॥

दशग्रन्थिं न्यसेच्चैवमथवा सूत्रसङ्ख्यया ।
यथा शोभमन्तरालमेक द्विचतुरङ्गुलम् ॥ १९ ॥

पौरुषप्रकृतिर्वीरा चतुर्थीत्वं च राजता ।
जायान्या विजया षष्ठी अजिता च सदाशिवा ॥ २० ॥

प्। १०३४)

मनोन्मनी ततः प्रोक्ता दशमी सर्वतोमुखी ।
अधिकावा यथा शोभं कर्तव्या ग्रन्थयः शुभाः ॥ २१ ॥

बाणलिङ्गे च लोहे स्थण्डिले च भुवि ।
रत्नजे च यथा योगं पवित्रं कारयेद्गुरुः ॥ २२ ॥

रविचण्डेश वह्नीनां तन्तुश्च शिववद्भवेत् ।
एतेषां देवतानां च पवित्रं कारयेद्गुरुः ॥ २३ ॥

पुस्तके निजमूर्तौ च गुरावीशे गणेश्वरे ।
एकैकद्वारदिक्पाल कलशादिषु विन्यसेत् ॥ २४ ॥

पवित्रं नवहस्तान्तमेक हस्तादिषु क्रमात् ।
दशभिर्दशभिग्रन्थिरष्टाविंशतितो भवेत् ॥ २५ ॥

प्। १०३५)

अन्तराल द्व्यङ्गुलादि क्रमादेकाङ्गुलोत्तराः ।
ग्र * * * नमप्येषां ग्रन्थिविस्तारसंयुतम् ॥ २६ ॥

सप्तम्यां तु त्रयोदश्यां कृतनित्यविधिः शुचिः ।
रक्तैः क्षौमैश्च पुष्पैश्च भूषयेन्मखमन्दिरम् ॥ २७ ॥

सन्ध्यां नैमित्तिकं कुर्यात्तर्पणं च विशेषतः ।
र * * मर्चयेत् तत्र सूत्रिते भूप्रदेशके ॥ २८ ॥

प्रणवार्घ्यकरः स्वामी सकलीकृतविग्रहः ।
प्रोक्ष्य द्वाराणि चास्त्रेण क्रमात्पूर्वादितोऽर्चयेत् ॥ २९ ॥

ॐ शान्तिकलाद्वाराय नमः । ॐ हां निवृत्तिकलाद्वाराय नमः ।
ॐ हां प्रतिष्ठाकला द्वाराय नमः ॥ ३० ॥

प्। १०३६)

पूर्वादुत्तर पर्यन्तं क्रमाद्दिक्षु कलायजेत् ।
तथैव द्वारशाखासु द्वे द्वेषु च यथा क्रमम् ॥ ३१ ॥

नन्दिनं च महाकालं भृङ्गिणं च विनायकम् ।

रक्षासूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् ।
कङ्कतं कुङ्कुमं तैलम् अञ्जनं दर्पणं तथा ॥ ३३ ॥

ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् ।
आसनं पादुके पात्रं नागपट्टातपत्रकम् ॥ ३४ ॥

ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये ।
साज्यं चरुं च पूर्वंस्या सान्तं गन्धादिकं नरे ॥ ३५ ॥

प्। १०३७)

असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् ।
समादाय पवित्राणि प्रोक्षितान्यर्घ्य वारिणा ॥ ३६ ॥

कृष्णा जिनादिनाच्छाद्य स्मरन् संवत्सरात्मकम् ॥ ३७ ॥

कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् ।
स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ॥ ३८ ॥

पवित्राण्य हि सं * * * *णामेक विंशतिः ।
यागधर्मवृषस्थान प्रासादानल संश्रयम् ॥ ३९ ॥

करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् ।
पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् ॥ ४० ॥

प्। १०३८)

समाचम्य कृतन्यास प्रणी * * * तार्घकम् ।
दद्याद्गन्ध पवित्रं तु नन्द्यादि द्वारपालके ॥ ४१ ॥

प्रविश्य कस्तुनाद्याय ब्रह्मणेऽपि ददेत्ततः ।
शास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः ॥ ४२ ॥

शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च ।
अभ्यर्च्य विधिवद् * * * * शिकाङ्घ्रिपदाम्बुजम् ॥ ४३ ॥

पूजयेद्गन्ध पुष्पैश्च दत्वा तां च पवित्रके ।
पञ्चाशदौषधीलिप्तं नरोमानविवर्जितम् ॥ ४४ ॥

पुष्पदूर्वादि संयुक्ते धूपितं च विशेषतः ।
एकग्र * * * * ढ्य चतुर्वर्गफलोदयम् ॥ ४५ ॥

प्। १०३९)

मात्राभिमन्त्रितं तन्तुविधायाञ्जलिमद्यमम् ।
अमन्त्रिणापतं ह्येति देशिकोपि यजेद्यथा ॥ ४६ ॥

ॐ समस्तं विधिवच्छिद्र पूरणेशमखं प्रति ।
प्रभवात्मत्रयं मित्वा त्वदिच्छाव्याप्तिकारकम् ॥ ४७ ॥

त * * * नुनानी हि यजतश्चिदचित्पते ।
सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीदमे ॥ ४८ ॥

आमन्त्रितोसि देवेश सह देव्या गणेश्वरैः ।
मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः ॥ ४९ ॥

निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् ।
नियमं च करिष्यामि परमेश तवाज्ञया ॥ ५० ॥

प्। १०४०)

आमन्त्रादेवमित्येव रेचकानात्म दीक्षितम् ।
मूलं शिवान्तमुच्चार्य तच्छिवाय निवेदयेत् ॥ ५१ ॥

जप्तैःस्तोत्र प्रमाणैश्च तोषयेत्परमेश्वरम् ।
तृतीयांश्च चरोर्हुत्वा तदतीत शिवाग्नये ॥ ५२ ॥

ततः पूर्वादि दिग्वासिभ्यो दिगीश मातृगणरुद्र-
क्षेत्रपालेभ्यः स्वाहेति ॥ ५३ ॥

आसां नाम्नादिभेदेन सर्वदिक्षु बहिर्बलिम् ।
अथ दद्यात्तु वायव्यं क्षेत्रपालबलिं गुरुः ॥ ५४ ॥

आचम्य विधिवच्छिद्रपूरकं होममाचरेत् ।
पूर्णाहुतिं व्याहृतिं च हुत्वा रुन्धति पावकम् ॥ ५५ ॥

प्। १०४१)

तत्र ॐ हाम् अग्नये स्वाहा । ॐ हां सोमाय स्वाहा ।
ॐ हाम् अग्नीषोमाभ्यां स्वाहा । ॐ हाम् अग्नये स्विष्टकृते स्वाहा ॥ ५६ ॥

कुर्यादाहुतिभिश्चैवं चतुर्भिर्नन्दिकेश्वर ! ।
देव्यास्तु स्थण्डिलेभ्यर्च्य वह्नौ कृतदनन्तरम् ॥ ५७ ॥

नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर ! ।
अस्त्रमन्त्रेण संशुद्धं शिवमन्त्रेण * * * ॥ ५८ ॥

ॐ हां नन्दिने नमः । ॐ हां महाकालाय नमः ॥ ५९ ॥

ॐ हां भृङ्गिणे नमः । ॐ हां विनायकाय नमः ।
ॐ हां वृषभाय नमः । ॐ हां देव्यै नमः ॥ ६० ॥

प्। १०४२)

ॐ हां चण्डाय नमः ।
इत्येवं क्रमतोऽभ्यर्च्य द्वारपालादिकान् न्यसेत् ॥ ६१ ॥

पूर्वद्वारेत्र संविश्य पूजयेन्नन्दिकेश्वर ।
भूतशुद्धिर्विशेषार्घ्यं चोशीरं प्रोक्षणादिकः ॥ ६२ ॥

पूर्ववद्वाङ्गसंहारम् अहमन्त्रा यथा विधिः ।
कुसुमैरक्षतैर्दूर्वा चन्दनाद्यैर्मृदादिभिः ॥ ६३ ॥

कृत्वा तु शिवहस्तं वै स्वशिरस्यधिरोपयेत् ।
शिवोहमिति सर्वत्र ज्ञानमग्रे प्रजानता ॥ ६४ ॥

ज्ञानमग्रकरोत्यर्वं भावयेद्गुरुरुत्तमः ।
आसाद्य राक्षसीं काष्ठां प्रक्षिपेदुत्तरायणे ॥ ६५ ॥

प्। १०४३)

पञ्चगव्यमधो धाम समन्ताद्याग मण्टपम् ।
चतुर्ष्वथान्त्य संस्कारैर्लक्षणाद्यैस्सु संस्कृतैः ॥ ६६ ॥

राजादि विकिरेद्द्रव्यं कुशकूर्चकुमू भवेत् ।
वर्धनीं चासनार्थाय तानत्रैव प्रकल्पयेत् ॥ ६७ ॥

वास्तुदेवं च नैर्-ऋत्यां लक्ष्मीं द्वारे च पूजयेत् ।
पूर्वाद्यभिमुखं कुम्भं सर्वधान्योपरि स्थितम् ॥ ६८ ॥

प्रणवेन वृसारूढं सिह्मस्थां पार्वतीं ततः ।
शिवमन्त्रैस्समभ्यर्च्य वर्धन्या मन्त्रमर्चयेत् ॥ ६९ ॥

इन्द्राद्यजादि दिक्पालदशकांश्च समर्चयेत् ।
कुम्भञ्चानु गांसम्यग्वर्धनीं च तथैव च ॥ ७० ॥

प्। १०४४)

गुरुः शिवाज्ञां संश्राव्य पूर्वादीशान गोचरम् ।
मूलमन्त्रं समुच्चार्य अविच्छिन्नाम्बुधारया ॥ ७१ ॥

वर्धनीं भ्रामयेदेनां रक्षार्थं हेमरूपिणीम् ।
घटं पूर्वं समारोप्य वर्धनीं तस्य पार्श्वतः ॥ ७२ ॥

कुम्भे च सङ्ग्रहेत् स्नाके यजेद्देवं स्थिरासने ।
तारासवस्थ वर्धन्याम् आसनं च तदा द्वयोः ॥ ७३ ॥

भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।
ज्ञानखड्गं घटे न्यस्य मूलाणुञ्च जपेत्तदा ॥ ७४ ॥

वर्धन्यां तद्दशांशेन रक्षां विज्ञापयेदिति ।
लम्बोदरं तु नैर्-ऋत्यां पूजयेत्तु चतुर्भुजम् ॥ ७५ ॥

प्। १०४५)

सायुधं पद्मरागाभं प्रत्यूहध्वंसनं परम् ।
गुरुमैशानके भागे स्थापयेत्तदनन्तरम् ॥ ७६ ॥

देशिकं शिववत्पूज्य सर्वज्ञान प्रदेशिकम् ।
विधिवत् स्थापयेत् पश्चाद् गन्धतोयैस्तथाम्बुभिः ॥ ७७ ॥

देवं सम्पूजयेत् पश्चाद् विधिना द्वारपालकैः ।
कुण्डसंस्कारपूर्वं तु शिवाग्निं परिपूजयेत् ॥ ७८ ॥

विध्युक्त चरुकं कुर्यात् सम्पाताहुति शोधितम् ।
देववह्न्यात्मभेदेन त्रिधा दर्व्या विभाजयेत् ॥ ७९ ॥

भागद्वयं शिवाग्नौ तु दत्वा चात्मार्थमेककम् ।
पूर्वोक्तदन्तकाष्ठं च दद्यात्क्षीरतरूद्भवम् ॥ ८० ॥

प्। १०४६)

कवचेन नरेणैव पूर्वतो दन्तधावनम् ।
दातव्यं रूपिणा भस्म दक्षिणे शिखयाऽथवा ॥ ८१ ॥

मृत्तिकां पञ्चगव्यं च * * * * सुगन्धि वै ।
पुष्पमीशानके कुर्याद् आग्नेय्यान्दिशि रोचनम् ॥ ८२ ॥

राक्षसे नागरुं चैव चातुर्जातं च मारुते ।
सर्वाणि होमद्रव्याणि सद्यो जाते कुशैस्सह ॥ ८३ ॥

अक्षसूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् ।
कङ्कतं कुङ्कुमं तैलम् अञ्जनं दर्पणं तथा ॥ ८४ ॥

ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् ।
आसनं पादुके पात्रं नागपट्टातपत्रकम् ॥ ८५ ॥

प्। १०४७)

ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये ।
साज्यं चरुं च पूर्वंस्यासान्न गन्धादिकं नरे ॥ ८६ ॥

असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् ।
समादाय पवित्राणि प्रोक्षितान्यर्घ्यवारिणा ॥ ८७ ॥

नीत्वा तु संहितामन्त्र पूतानि ज्वलनात्पुनः ।
कृष्णाजिनादिनाच्छाद्य स्मरन्संवत्सरात्मिकम् ॥ ८८ ॥

कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् ।
स्वेति हेति प्रयोगेन मन्त्रसंहितया पुनः ॥ ८९ ॥

पवित्राप्य हि संशोध्य वारणामेक विंशतिः ।
यागधाम वृषस्थान प्रासादानल संश्रयम् ॥ ९० ॥

प्। १०४८)

करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् ।
पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् ॥ ९१ ॥

समाचम्या कृतन्यास प्रणिपत्य कृतार्थकम् ।
दद्यान्गन्धपवित्रं तु नन्द्यादि द्वारपालके ॥ ९२ ॥

प्रविश्यकस्तुनाद्याय ब्रह्मणो विददेत् ततः ।
सास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः ॥ ९३ ॥

शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च ।
अभ्यर्च्य विघ्नराजं च देशिकाङ्घ्रि पदाम्बुजम् ॥ ९४ ॥

पूजयेद्गन्धपुष्पेण दत्वान्नं च पवित्रके ।
पञ्चाशदौषधीलिप्तमानोन्मान विवर्जितम् ॥ ९५ ॥

प्। १०४९)

पूष्पदूर्वादि संयुक्ते धूपितं च विशेषतः ।
एकग्रन्थ्यल्प सूत्राढ्यं चतुर्वर्गफलोदयम् ॥ ९६ ॥

मन्त्राभिमन्त्रितं तन्तु विधायाञ्जलिमध्यतः ।
आमन्त्रिणापदं ह्येतद् देशिकोऽपि यजेद्यथा ॥ ९७ ॥

ॐ समस्थविधिवच्छिद्र पूरणेशमखं प्रति ।
प्रभवामन्त्रयामित्वा त्वदिच्छा व्याप्तिकारिका ॥ ९८ ॥

तत्सिद्धिमनुजानीहि जातं च चिदचित्पते ।
सर्वथा सर्वदा शम्भो नमस्तेस्तु प्रसीदमे ॥ ९९ ॥

आमन्त्रितोसि देवेश ! सहदेव्या गणेश्वरैः ।
मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः ॥ १०० ॥

प्। १०५०)

निवेदयाम्यहं तुभ्यं प्रभाते पवित्रकम् ।
नियमं पञ्च करिष्यामि परमेश तवाज्ञया ॥ १०१ ॥

अमन्त्रादेवमित्येवं रेचकेनामृती कृतम् ।
मूलं शिवान्तमुच्चार्यं तच्छिवाय निवेदयेत् ॥ १०२ ॥

जपैस्तोत्रैः प्रणामैश्च तोषयेत् परमेश्वरम् ।
तृतीयांशं चरोर्हुत्वा तदतीत शिवान्नयेत् ॥ १०३ ॥

पूर्वादि दिग्वासिभ्यो दिगीशमातृगणरुद्रक्षेत्रपालेभ्यः स्वाहेति ॥ १०४ ॥

आसां साम्नादि भेदेन सर्वदिक्षु बहिर्बलिम् ।
अथ दद्यात्तु वायस्यं क्षेत्रपालबलिं कुरु ॥ १०५ ॥

प्। १०५१)

आचम्य विधिवच्छिद्र पूरकं होममाचरेत् ।
पूर्णाहुतिं व्याहृतिं च हुत्वारुन्धित पावकम् ॥ १०६ ॥

तत्र ॐ हाम् अग्नये स्वाहा । ॐ हां सोमाय स्वाहा ।
ॐ हाम् अग्नीषोमाभ्यां स्वाहा । ॐ हाम् अग्नये स्विष्ट- ॥ १०७ ॥

कृते स्वाहा ।
कुर्यादाहुतिभिश्चैव चतुर्भ्यं नन्दिकेश्वर ॥ १०८ ॥

देवं तत्स्थण्डिलेभ्यर्च्य वह्नौ तु तदनन्तरम् ।
नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर ॥ १०९ ॥

अस्त्रमन्त्रेण संशुद्धिं शुद्धपात्रेण कङ्कणम् ।
हृदयाख्येन मन्त्रेण पवित्राण्यधिरोपयेत् ॥ ११० ॥

प्। १०५२)

षडङ्गेन कलामन्त्रैः ब्रह्माङ्गैर्वा यथा विधि ।
अङ्गमन्त्रैर्विशेषेण जपं कुर्यात्समाहितः ॥ १११ ॥

भक्तियुक्तश्शिवं नत्वा रक्षणार्थं समर्चयेत् ।
पुष्पधूपादिभिश्चैव सम्पूज्य विधिना तदा ॥ ११२ ॥

सिद्धान्तपुस्तकं चार्च्य विधिना नन्दिकेश्वर ! ।
भक्त्या पदान्तिकं गत्वा गुरोर्दद्यात्पवित्रकम् ॥ ११३ ॥

बहिर्निर्गत्य चाचम्य गोमये मण्डलत्रये ।
पञ्चगव्यं चरुं दन्तधावनं च विनिक्षिपेत् ॥ ११४ ॥

विधिनाचम्य सान्निध्य कृतसङ्गीतजो गुरुः ।
स्वपदेन स्मरन्नीशं मुमुक्षुर्दर्भसंस्तरे ॥ ११५ ॥

प्। १०५३)

मुमुक्षुरप्यनेनैव प्रकारेणाभि संविशेत् ।
केवलं भस्मशय्यायां सोपवासस्समाहितः ॥ ११६ ॥

पवित्रस्याधिवासोऽयं विधिरत्र समाहितः ।
उत्थाय प्रातराचम्य कृतप्रातस्समाहितः ॥ ११७ ॥

कृतसन्ध्याविधिर्मन्त्री प्रविशेद्यागमण्डपम् ।
पवित्राणि समादाय चाविसर्जित दैवतम् ॥ ११८ ॥

शुद्धपात्रे समारोप्य चैशान्यां कृतमण्डले ।
देवं विसृज्य निर्माल्यमपनीय च तद्बहिः ॥ ११९ ॥

नित्यकर्म च कृत्वा तु पूर्ववच्छिवभूतले ।
शिवकुम्भे च वर्धन्यां द्वारदिक्पालवह्निषु ॥ १२० ॥

प्। १०५४)

आदित्यं पूर्वमभ्यर्च्य विधिनान्नन्दिकेश्वर ! ।
कुर्यात्पूजां सविस्तारां नैमित्तिक विधान्विताम् ॥ १२१ ॥

मनूनां तर्पणं कुर्यात् प्रायश्चित्तं शिरोणुना ।
हुत्वा चाष्टोत्तरं पश्चाच्छतं पूर्णाहुतिं पुनः ॥ १२२ ॥

दत्वा पवित्रमर्कस्य समाचम्य विधानवित् ।
द्वारपालादि दिक्पालकुम्भवर्धनिकासु च ॥ १२३ ॥

सन्निधाने ततः शम्भोरुपविश्यति शासने ।
दद्यात् पवित्रमात्मार्थं गणाय गुरुपङ्कजे ॥ १२४ ॥

पवित्रकमथादाय किञ्चित्कलश सम्मुखम् ।
स्मरन्कलात्मकं देवं प्रब्रूयादिति शङ्करम् ॥ १२५ ॥

प्। १०५५)

कलात्मना त्वया देव यदिष्टं मामके विधौ ।
क्लिष्टं कृतं समुद्दिष्टं धृतं गुप्तं च यत्कृतम् ॥ १२६ ॥

तदस्तु क्लिष्टमक्लिष्टं सुसम्पुष्टमसत्कृतम् ।
सर्वात्मा वायुना शम्भो त्वत्सूत्रेण त्वदिच्छया ॥ १२७ ॥

ॐ पूरय पूरय मखं प्रति नियमेश्वराय स्वाहा ।
आत्मतत्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥ १२८ ॥

उच्चार्य मूलमाद्यन्तं पवित्रेणार्चयेच्छिवम् ।
विद्यातत्वे च विद्यान्ते पालिते विष्णुकारणे ॥ १२९ ॥

ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।
शिवान्ते शिवतत्वेथ रुद्रकारणपालिते ॥ १३० ॥

प्। १०५६)

शिवान्तं मूलमुच्चार्य पवित्रमधिरोपयेत् ।
सर्वकारण बाल्येषु सर्वतत्वेषु सुव्रतम् ॥ १३१ ॥

मूलं लया * * * * दद्याद्गङ्गावतारकम् ।
मुमुक्षूणां पवित्रं तु चात्मविद्याशिवे क्रमात् ॥ १३२ ॥

भुभुक्षूणां च सम्प्रोक्ते शिवविद्यात्मभिः क्रमात् ।
स्वाहान्तं वा नमोऽन्तं वा मन्त्रैरेषामुदीरयेत् ॥ १३३ ॥

देशिकस्सर्वदेवानां पवित्रं कुर्यात्पुनः ।
ॐ हाम् आत्मतत्वाधिपतये शिवाय स्वाहा ॥ १३४ ॥

ॐ हां विद्यातत्वाधिपतये शिवाय स्वाहा ।
ॐ हां शिवतत्वाधिपतये शिवाय स्वाहा ॥ १३५ ॥

प्। १०५७)

एवं क्रमेण देवाय पवित्रं कारयेद्बुधः ।
ॐ हां सर्वतत्वाधिपतये शिवाय स्वाहा ॥ १३६ ॥

अनेनैव तु मन्त्रेण कुर्याद्गङ्गावतारकम् ।
भक्त्या पुष्पकरद्वन्द्वं गुरवे विनिवेदयेत् ॥ १३७ ॥

त्वं स्थितिस्सर्वदेवानां स्थितस्त्वं च चराचरम् ।
अन्तं वारेण भूतानां दृष्ट्वातः परमेश्वरः ॥ १३८ ॥

कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
मन्त्रहीनं क्रियाहीनं वृत्तहीनं च यत्कृतम् ॥ १३९ ॥

जपहोमार्चने हीनं कृत्यं नित्यं मया तव ।
उत्कृतं कृतिहीनं च तत्पुराथ महेश्वर ! ॥ १४० ॥

प्। १०५८)

सुपूतस्तं सुरेशानं पवित्रं पापनाशनम् ।
त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमम् ॥ १४१ ॥

खण्डितं यन्मयादेव ! पदं वैकुल्ययोगतः ।
एकीभवतु तत्सर्वं तत्वज्ञार्थ सूत्रग्रन्थितम् ॥ १४२ ॥

जपन्निवेद्य देवस्य भक्त्या स्तोत्रं निवेद्य च ।
प्रणम्यामूलचित्तेन सन्तुष्टं भावयेच्छिवम् ॥ १४३ ॥

चतुस्त्रीरण्यथ द्वौ वा तासां मासार्धमेव वा ।
सप्ताहं पञ्चरात्रं वा त्र्यहमेकाहमेव वा ॥ १४४ ॥

गुरूणां वाथयोद्दिष्टं गृहीत्वा नियमं तथा ।
प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं प्रति ॥ १४५ ॥

प्। १०५९)

यावत्तस्थौ शिवेप्येवं पवित्राणां चतुष्टयम् ।
समभ्यर्च्य समारोप्य पुष्पधूपाक्षतादिभिः ॥ १४६ ॥

अन्तर्बलिं पवित्रं च रुद्रादिभ्यो निवेदयेत् ।
शिवं स्तुत्वा प्रविश्यान्तर्वन्दित्वा तं क्षमापयेत् ॥ १४७ ॥

होमं प्रायश्चित्तकं च कृत्वा हुत्वा च पायसम् ।
पूर्णाहुतिं शनैर्हुत्वा पतिस्थं पितृशेच्छिवम् ॥ १४८ ॥

व्याहृत्या वा हुतिं कुर्याद् मध्यान्निष्ठुरयानिलम् ।
सुदित्येभ्योऽथ दत्वा वै चाहुतीनां चतुष्टयम् ॥ १४९ ॥

दिक्पालेभ्यस्ततो दत्वा स पवित्रं बहिर्बलिम् ।
पवित्रं च ततो न्यस्येत् सम्यक् सिद्धान्तपुस्तके ॥ १५० ॥

प्। १०६०)

ॐ हां भूस्वाहा ॐ हां भुवः स्वाहा ।
ॐ हां सुवः स्वाहा ॐ हां भूर्भुवस्सुवः स्वाहा ॥ १५१ ॥

व्याहृतीभिश्चतुर्भिश्च जुहुयाद्देशिकोत्तमः ।
ॐ हाम् अग्नये स्वाहा ॐ हां सोमाय स्वाहा ॥ १५२ ॥

ॐ हाम् अग्नीषोमाभ्यां स्वाहा ॐ हामग्नये स्विष्टकृते स्वाहा ।
एवं क्रमादाहुतिभिः जुहुयात्तदनन्तरम् ॥ १५३ ॥

शिववद्देशिकं पूज्य मुद्राभूषण वस्त्रकैः ।
आयान्ते देशिके तेषां सद्यः प्रीणाति शङ्करः ॥ १५४ ॥

गुरुरेव परं दैवं गुरुरेव परागतिः ।
गुरुसन्तोषणान्नान्यद् विद्यते नन्दिकेश्वर ! ॥ १५५ ॥

प्। १०६१)

हृदालम्बि पवित्रं तु गुरावरोपयेत् तदा ।
अर्धवक्षादिकान्सर्वान् भोजयेत् तदनन्तरम् ॥ १५६ ॥

वस्त्राभरणशय्यादि भक्त्या तेषां समर्चयेत् ।
देवेशोचितदानेन प्रीयतां मे सदाशिवः ॥ १५७ ॥

दानादिकं च कृत्वा तु पवित्राण्याहरेद्विभोः ।
पूजयेदष्ट पुष्पेण भक्त्या तं च विसर्जयेत् ॥ १५८ ॥

नित्यनैमित्तिकं कुर्याद् विस्तरेण यथा विधि ।
समारोप्य पवित्राणि प्रणम्याग्नौ शिवं यजेत् ॥ १५९ ॥

ततोऽस्त्रेण प्रायश्चित्तं हुत्वा पूर्णाहुतिं यजेत् ।
शिवाय मुक्तिकामस्तु कुर्यात्कर्मसमर्पणम् ॥ १६० ॥

प्। १०६२)

त्वत्प्रसादेन कर्मेदं ममास्तु फलसाधकम् ।
भुक्तिकामस्तु कर्मेदमस्तु मे नाथ बन्धनः ॥ १६१ ॥

वह्निस्थानादि योगेन शिवो मे योजयेच्छिवम् ।
मन्त्रपूतं हृदि न्यस्य विसृजेत् पावकं पुनः ॥ १६२ ॥

प्रविश्यान्तस्समाविश्य कुम्भानुगत मन्त्रकान् ।
सापेक्षं च शिवे योज्य क्षमस्वेति विसर्जयेत् ॥ १६३ ॥

दिक्पालांश्च विसृज्याथ दापयेत् तत्पवित्रकम् ।
यद्यस्मिंश्चण्ड पूजां च कुर्याद्दत्वा पवित्रकम् ॥ १६४ ॥

निर्माल्यादिकमेतस्मै सपवित्रं समर्पयेत् ।
चण्डेशं स्थण्डिले वापि पीठे वा पूर्ववद्यजेत् ॥ १६५ ॥

प्। १०६३)

यत्किञ्चिद्वापिकं कर्म कृतं न्यूनाधिकं मया ।
तदस्तु परिपूर्णं मे चतुराधि शिवाज्ञया ॥ १६६ ॥

चण्डेशमिति विज्ञाप्य विसृजेन्नन्दि वन्दनैः ।
अलं कूपेऽथवा तोये तन्निर्माल्यं विनिक्षिपेत् ॥ १६७ ॥

चण्डेशमेवं सम्पूज्य गोमयेनोपलेपयेत् ।
विशोध्य शुद्धदेहस्सन् स्नापयित्वा शिवं व्रजेत् ॥ १६८ ॥

पञ्चयोजनतश्चार्वाक् पवित्रं गुरुसन्निधौ ।
अनेन विधिना कुर्याल्लभते वाञ्छितं फलम् ॥ १६९ ॥

पवित्रमेवं कर्तव्यं विधिना नन्दिकेश्वर ! ।

इत्यचिन्त्य विश्वसादाख्ये पवित्रविधिरेकोन सप्ततिः पटलः ॥