प्। १०२२)
स्फुरत्तारक सङ्काशं द्वादशान्तासमं भवेत् ।
निक्षिपेत् कुम्भगर्भे च न्यस्य तन्त्रान्निवासिकम् ॥ ६ ॥
विग्रहं तद्गुणानां च बोधकं च कलादिकम् ।
क्ष्म्यान्तं च शेखरं तत्वं प्रान्तं तत्र निवेशयेत् ॥ ७ ॥
दशनाडीर्दश प्राणान् इन्द्रियाणि त्रयोर्दश ।
तत्रन्तदधिपाश्चापि प्रणवाद्यैः स्वनामभिः ॥ ८ ॥
स्वकार्यकारणत्वेन मायाकालनियामिकान् ।
विद्येशान् प्रेरकाच्छम्भुं प्रेरकश्च स्वयं वरैः ॥ ९ ॥
अङ्गानि च विनिक्षिप्य निरुध्यद्रोधमुद्रया ।
स्वर्णाद्याद्भवपुरुषं * * * पुरुषान्तरम् ॥ १० ॥
प्। १०२१)
चैतन्यस्य च सम्बन्धः प्रासादे वक्ष्यतेऽधुना ।
शुलनासा समाप्तौ तु पूर्ववेद्याश्च मध्यतः ॥ १ ॥
आनन्दं शक्तिपद्मे च विन्यसेत्प्रणवेन तु ।
पूर्णाद्येकतमं पूतं पञ्चगव्येन संयुतम् ॥ २ ॥
मधुक्षीरयुतं कुम्भं न्यस्तरत्नादिपञ्चकम् ।
गन्धलिप्तं सवस्त्रं च गन्धपुष्पप्रधूपितम् ॥ ३ ॥
आम्रपल्लववक्त्राढ्यं हृदाहृत्पद्मकं न्यसेत् ।
पूरकेण समादाय सकलीकृतविग्रहः ॥ ४ ॥
सर्वात्माभिन्नमात्मानं स्थाणुन स्वात्ममारुतः ।
बोधायनात्मवाञ्च्छम्भोरेक केतुं ततो गुरुः ॥ ५ ॥
प्। १०२३)
पञ्चगव्य कषायाद्यैः पूर्ववत्संस्कृतं ततः ।
समारोप्य च शय्यायां ध्यात्वा रुद्रमुपान्तिमे ॥ ११ ॥
शिवमन्त्रेण तस्मिंश्च व्यापकत्वेन विन्यसेत् ।
होमं तु सन्निधानाय प्रोक्षणं स्पर्शनं जपम् ॥ १२ ॥
सन्निरोध्यारोधनं सर्वं भागत्रयविभागशः ।
प्रकृत्यन्तं विधायैव कुम्भे तान्विनिवेशयेत् ॥ १३ ॥
चूलिके ध्वजदण्डे च ध्वजेदेवकृतन्तथा ।
प्रतिष्ठा च ततोद्दिष्टा तथेदानीमिहोच्यते ॥ १४ ॥
ब्रह्माङ्गार्ध प्रवेशाद्वा यामं सर्वार्धवेशनात् ।
पैष्टिके दारुजं शूलं शैलजे धाम्नि शैलजम् ॥ १५ ॥
प्। १०२४)
कर्तव्यो लिङ्गमानेन कुम्भे वा प्रोक्तमानतः ।
स च त्रिशूलयुक्तस्तु ग्रहशूलानि होमतः ॥ १६ ॥
ईशः शूलस्समाख्यातो यस्तु शूलस्य वेष्टकम् ।
शुक्रैर्ग्रहैरसैर्वापि हस्तैर्दण्डस्तु सम्मतः ॥ १७ ॥
बीजपूरकयुक्तेन क्रमादुक्तेन मार्गतः ।
चित्रोज्वलं च सङ्घातो यद्द्विजङ्घार्धतो भवेत् ॥ १८ ॥
यदि वा दण्डमानस्तु भवेद्द्वारं यदृच्छया ।
पीठस्य वेष्टकं शुक्रैः * * * * * * * * ॥ १९ ॥
उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्तु सः ।
रालजो वंशजो यद्वा यद्वासुन्दरिवल्लभः ॥ २० ॥
प्। १०२५)
कार्यश्शुभस्ततो वापि स भवेत्सर्व कामदः ।
अयमारोप्यमाणस्तु रूणमायाति वा यदि ॥ २१ ॥
जयमानविरोधं वा यद्द्वारज्ञो भवेद्भयम् ।
पूर्ववच्छान्तिहोमं च बहुरूपेण वा भवेत् ॥ २२ ॥
पूजां च द्वारपालादि मन्त्राणां तर्पणं तथा ।
विधाय रूपकं दण्डं स्थापयेदस्त्रमन्त्रतः ॥ २३ ॥
ध्वजं सम्प्रोक्ष्य तेनैवं * * * च विशेषतः ।
प्रासादस्थापनं कुर्यान् मृत्कषायादि वारिभिः ॥ २४ ॥
संलिप्याच्छाद्य शय्यायां विन्यसेत् पूर्ववद्गुरुः ।
लिङ्गवच्चूलिङ्का न्यासे विज्ञानार्चाक्रियां तथा ॥ २५ ॥
प्। १०२६)
विशेषादाचतुर्थी च न च दण्डस्य कल्पना ।
दण्डं तथात्म तत्वं च विद्यातत्वमतः परम् ॥ २६ ॥
लञ्चापि पूजयेन्मन्त्री सान्निध्ये संहिताणुभिः ।
ध्वजे यत्प्रतिभागन्तु पीठं तैस्तैस्तु मन्त्रकैः ॥ २७ ॥
संस्कारणं यच्चकूचि द्रव्यन्यथा कृतम् ।
अस्त्रयागविधानेन तत्सर्वमुपदर्शितम् ॥ २८ ॥
प्रासादे कारितास्नादि * * * * * भूषिते ।
जङ्घायोदितदूर्ध्वे तु त्रितत्व * * * * * ॥ २९ ॥
सर्वतत्वमयं ध्यात्वा शिवं च व्यापकं न्यसेत् ।
अनन्तं कालरुद्रं च ध्यायेत्तच्चरणाम्बुजैः ॥ ३० ॥
प्। १०२७)
कूश्माण्ड जटकोपेत पातालतरकैस्सह ।
भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम् ॥ ३१ ॥
ब्रह्मात्मकमिति ध्यात्वा जङ्घायां च विभावयेत् ।
जल तेजोऽनिलव्योम पञ्चाष्कसमन्वितम् ॥ ३२ ॥
सर्वावरणसञ्ज्ञं च बुद्धयोन्यष्टकान्वितम् ।
योन्यष्टक समायुक्तं न्यासावधि गुणत्रयम् ॥ ३३ ॥
कुम्भस्थं पुरुषं सिह्मे रागञ्चापि क्रमान्न्यसेत् ।
मञ्जिरीवेदिकायां विद्याधिक चतुष्टयम् ॥ ३४ ॥
कुण्डे मायां सरुद्रां च विद्यां वामलसारके ।
तत्कलशेश्वरं बिम्बं विद्येश्वरमनन्तरम् ॥ ३५ ॥
प्। १०२८)
जटाजूटे लसच्चन्द्र शकलं शूलधारिणम् ।
इच्छाज्ञानक्रियां चापि दण्डे नाद्यं च विन्यसेत् ॥ ३६ ॥
ध्वजे तु कुण्डली शक्तिमेवन्धाम विभावयेत् ।
जघन्यां धामसन्धाय लिङ्गपिण्डिकया यथा ॥ ३७ ॥
पूर्ववत्सर्वमन्त्रोऽपि विधिनापूर्य कल्प्य च ।
ब्रह्मघोषैस्तूर्य घोषैः वेदमङ्गलगीतिभिः ॥ ३८ ॥
गुरुमूर्तिधरैस्सर्वं सिवशूलं ध्वजं तथा ।
स्वमन्त्रैश्च समुत्थाप्य विन्यसेच्छक्तिपकजे ॥ ३९ ॥
आधारे रत्नका कुत्स्था ध्वजं तत्र निवेशयेत् ।
यजमानो ध्वजे लग्ने सुहृद्भिर्बन्धुभिस्सह ॥ ४० ॥
प्। १०२९)
ग्रामप्रदक्षिणं कृत्वा अभीष्टफलमश्नुते ।
ध्यायन्गुरुः पशुपतिं स्थिरमस्त्राधिपैर्युतम् ॥ ४१ ॥
अधिपाश्शस्त्रयुक्ताश्च रक्षणाय निरोधयेत् ।
न्यूनाति दोषशान्त्यर्थं हुत्वा दत्वा च तत्फलम् ॥ ४२ ॥
गुरवे दक्षिणां दद्याद् यागदोष निवृत्तये ।
प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ॥ ४३ ॥
तावद्युगसहस्राणि कर्तुर्भोगभुजः फलम् ।
तत्कोटि गुणितं पुण्यं प्रासादे ध्वजरोपणात् ॥ ४४ ॥
इत्यचिन्त्य विश्वसादाख्ये ध्वजारोहणविधि पटलः ।