६५

प्। १००७)

अथ वक्ष्ये विशेषेण भक्तानां स्थापनं शिवे ।
विप्रक्षत्रिय विट्च्छूद्रास्त्वन्तरालास्त्रियोऽपि वा ॥ १ ॥

शिवभक्ति समापेता जीवन्तो वा मृताश्च वा ।
कृत्वा तेषां प्रतिकृतिं प्रतिष्ठाप्य समाचरेत् ॥ २ ॥

शैव पाशुपताश्चैव महाव्रतधराश्च ये ।
कौमाररौरवाद्यैश्च येन मार्गेण दीक्षिताः ॥ ३ ॥

तेषां तेनैव मार्गेण स्थापनाद्यं विधीयते ।
सर्वेषामपि शैवानां स्थापनं द्विविधं मतम् ॥ ४ ॥

स्वप्रधानं पराङ्गं च रत्नगर्भं विशेषतः ।
अग्रहारे पुरादौ वा नदीतीरे वनेऽपि वा ॥ ५ ॥

प्। १००८)

उद्याने पुष्करिण्यादौ सर्वतो वा मनोरमे ।
स्थानेऽन्यत्र च कर्तव्यं स्वप्रधानस्य मन्दिरम् ॥ ६ ॥

देवालये येतारवादौ तत्र कल्पित मन्दिरे ।
परिवार समोपेतं स्वप्रधानं च कारयेत् ॥ ७ ॥

देवालयादौ सर्वत्र मालिकामण्टपादिषु ।
परिवारविहीनं तु कल्पितं त्वङ्गमिष्यते ॥ ८ ॥

त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ।
एकविंशति हस्तान्तं विमानव्यास इष्यते ॥ ९ ॥

आयामोत्सेधगर्भाद्यं मण्टपाद्यं तथा परम् ।
प्राकारं गोपुराङ्गण्य मालादीनां निरीक्षणम् ॥ १० ॥

प्। १००९)

प्रथमेष्टाविधानं च गर्भसंस्थापनं तथा ।
मूर्धेष्टकाविधानं च पूर्ववत्समुदीरितम् ॥ ११ ॥

तदात्वं शिवलिङ्गं वा प्रतिमावा शिवस्य तु ।
विघ्नेशगुहनन्द्यादि प्रतिमाकृतिमेव वा ॥ १२ ॥

हेमराजत ताम्रादि हैमैर्लोहैश्च दारुभिः ।
मृद्भिर्वा कारयेद्धीमान् सर्वमा * * * * * ॥ १३ ॥

भित्तौ चित्रे पटे वापि कल्पयेन्नन्दिकेश्वर ।
लिङ्गं वा चोक्तमार्गेण प्रतिमां वापि कारयेत् ॥ १४ ॥

मानाङ्गुलोक्तमार्गेण हर्म्यादीन्कारयेद्गुरुः ।
सर्वलक्षणसंयुक्तं सर्वमानोपशोभितम् ॥ १५ ॥

प्। १०१०)

द्वारगोपुरसंयुक्तं प्रासादींश्च प्रकल्पयेत् ।
तस्मिन्प्रति कृतिं कुर्याद्गतरुद्रानुकूलतः ॥ १६ ॥

लिङ्गं च तद्विधातव्यं विधिना रत्नगर्भके ।
अष्टतालेन मानेन प्रतिकृत्यां विधीयते ॥ १७ ॥

बद्धपद्मासनारूढं वाहनादौ स्थितं तु वा ।
आसनं मानविस्तारं सर्वलक्षण संयुतम् ॥ १८ ॥

मुण्डी जटी बद्धकेशः शिखी वा मकुटान्वितः ।
क्षत्रियश्चेद्विधातव्यं सर्वभूषणभूषितम् ॥ १९ ॥

यथेष्टायुधसंयुक्तं नमस्कारेण वा युतम् ।
स्त्रियः श्वेतदुकूलैश्च भूषणैर्भूषयेत्पुनः ॥ २० ॥

प्। १०११)

लक्षणं चैवमाख्यातं प्रतिष्ठाद्यं निगद्यते ।
प्रतिमोक्त प्रकारेण मधूच्छिष्टादिकं चरेत् ॥ २१ ॥

अयुगन्य * * * र्वे रत्नन्यासादिकं तथा ।
नेत्रस्योन्मीलनं चापि विधिना विधिना कारयेद्गुरुः ॥ २२ ॥

मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ।
स्थण्डिलोपरि पीठं च प्रणवं कल्पयेद्गुरुः ॥ २३ ॥

तस्मिन्घटं प्रतिष्ठाप्य प्रतिमान्यासमाचरेत् ।
सुवर्ण वसुभाराभ्यां कृष्णमण्डलमालिखेत् ॥ २४ ॥

तेजामण्डलमालिख्य नेत्रं यूकप्रमाणकम् ।
नेत्रमन्त्रं समुच्चार्य क्रियामेनां समाचरेत् ॥ २५ ॥

प्। १०१२)

हेमदूर्वादलैर्नेत्रैः * * * * भिषेचयेत् ।
घृतेन मधुना वापि द्वयं सम्पूर्य दर्शयेत् ॥ २६ ॥

वस्त्रैर्वा चर्मजैरेव शयनं पञ्चकं हि वै ।
अनन्ताधारधर्माद्यामथोद्यासनकल्पनम् ॥ २७ ॥

तारेण मानुषं पीठं कल्पयेन्नन्दिकेश्वर ।
जलाधिवासितं बिम्बं स्नानवेद्यां न्यसेत्पुनः ॥ २८ ॥

विष्ठरे वरसंस्नानं विधिना कारयेद्गुरुः ।
वस्त्रैराभरणैर्माल्यैः भूषयेत्प्रतिमां पुनः ॥ २९ ॥

कौतुकं बन्धयित्वा तु शयनोपरि विन्यसेत् ।
पूर्वशीर्षं न्यसेद्बिम्बं तस्योत्तरे कुम्भं च कारयेत् ॥ ३० ॥

प्। १०१३)

अजपामन्त्र संयुक्तं जीवन्यासं च कारयेत् ।
व्योमाक्षरैश्च संयुक्तैः पञ्चब्रह्मषडङ्गकैः ॥ ३१ ॥

अङ्गनानां प्रतिष्ठायां शक्तिबीजं च कारयेत् ।
तत्तद्बीजेन कर्तव्यं पञ्चब्रह्मषडङ्गकम् ॥ ३२ ॥

जयादिसहिते तत्र प्रत्येकं वर्ण विन्यसेत् ।
स्त्रीप्रतिष्ठा स्वमन्त्राश्चेद्वर्धन्यां तु प्रकीर्तितम् ॥ ३३ ॥

पृथ्व्यादिपञ्चकं चैव मनोऽहङ्कारबुद्धयः ।
परिवारघटे पूजा स्वष्टौ वा वसवो मताः ॥ ३४ ॥

स्त्रीणां दिशस्तु पूर्वास्तैर्दैत्यानां परिकीर्तिताः ।
पूर्वाद्यष्टघटे वापि पुरुषे लोकपालकान् ॥ ३५ ॥

प्। १०१४)

गन्धपुष्पादिभिः पूज्य तत्वतत्वेश्वरान् न्यसेत् ।
आत्मविद्याशिवाख्यं तु तत्वत्रयमुदीरितम् ॥ ३६ ॥

आत्मानमन्तरात्मानं परमात्मानमेव च ।
क्रमेणाधिपतित्वेन पूजयेन्नन्दिकेश्वर ॥ ३७ ॥

स्त्रीणामप्येवमेव स्यादाहुतिक्ष्मादयो मताः ।
निवृत्त्याद्या मूर्तिपाःस्युरष्टमूर्तौ विशेषतः ॥ ३८ ॥

दिक्पालमूर्तिपास्तत्र तद्वदङ्गानि विन्यसेत् ।
अकारादिक्षकारान्तं मातृकान्यासमाचरेत् ॥ ३९ ॥

आत्ममन्त्रेण विन्यासं जीवन्यासमुदीरितम् ।
तेनैवाङ्गन्तु विन्यस्य गन्धपुष्पादिनार्चयेत् ॥ ४० ॥

प्। १०१५)

वस्त्रेण वर्मणाच्छाद्य होमकर्म समाचरेत् ।
कुण्डसंस्कारकं * * * * णां जीवतर्पणम् ॥ ४१ ॥

पूर्वोक्तविधिना कृत्वा समिदाज्यादिशेषकम् ।
ब्रह्मो दुबरकाश्वत्थवटाः पूर्वादिषु क्रमात् ॥ ४२ ॥

अग्न्यादिषु शमी चैव खरमायूरचिल्लकाः ।
प्रधानं ब्रह्म वृक्षं स्याच्छतं वार्धं तदर्धकम् ॥ ४३ ॥

पूर्णान्तं होमकं कृत्वा तत्वतत्वेश्वरान्न्यसेत् ।
आहुतित्रितयं कुर्यात् प्रत्येकं नन्दिकेश्वर ॥ ४४ ॥

अघोरेण शतं हुत्वा प्रायश्चित्ताय देशिकः ।
शान्तितोयेन मूर्धादि पादान्तं प्रोक्षयेत्तदा ॥ ४५ ॥

प्। १०१६)

अन्तर्बहिर्बलिं दत्वा पादप्रक्षालनं कुरु ।
देशिको मूर्तिपैःस्नात्वा प्रभाते नित्यसंयुतः ॥ ४६ ॥

सर्वाभरण संयुक्तः सोष्णीषस्सोत्तरीयकः ।
अध्येतृभिश्च दैवज्ञैः शिल्पिभिस्सहितैर्युतः ॥ ४७ ॥

द्वाराधिपांश्च सम्पूज्य कृतकुम्भार्चनो गुरुः ।
पूर्णान्तमग्निहोमं च कृत्वोत्थाप्याथ बिम्बकम् ॥ ४८ ॥

शयनं तत्र तद्बिम्बं प्रासादादानयेत् क्रमात् ।
रत्नन्यासादिसंयुक्तं स्नानश्वभ्रे निवेशयेत् ॥ ४९ ॥

तारमासनकं कृत्वा मूर्तिमन्त्रानुकल्पितम् ।
मातृकान्यासकं कृत्वा जीवन्यासं समाचरेत् ॥ ५० ॥

प्। १०१७)

स्थापितैः कुम्भतोयैश्च स्नापयेद्गन्धपुष्पकैः ।
वस्त्राद्याभरणैश्चैव मलङ्कृत्वाथ देशिकः ॥ ५१ ॥

निवेद्यं च ततो दद्यात् उपचारपुरस्सरम् ।
शिवभक्तांश्च सम्पूज्य यथा विभवविस्तरम् ॥ ५२ ॥

ततः प्रभृति सम्पूज्य शिववन्नित्यमेव वा ।
सन्मार्गमात्मको नित्यमात्म मन्त्रषडङ्गकैः ॥ ५३ ॥

बल्यन्तं वा समभ्यर्च्य भक्त्या सन्मार्गनायकः ॥ ५४ ॥

तरोजपास्वनाम्ना तु नमस्कारान्तमन्त्रकम् ।
मूलमन्त्रमितिख्यातं स्वाहान्तं चाग्निकार्यके ॥ ५५ ॥

प्। १०१८)

भक्तजन्मदिने वापि कर्तृजन्मदिनेऽपि वा ।
प्रतिमासोत्सवं कुर्याद्विभवस्यानुसारतः ॥ ५६ ॥

ध्वजारोहणपूर्वं तु कर्तव्यं कर्तुमिच्छता ।
ध्वजेऽपि वृषभं कुर्याच्छिववच्चोत्सवं भवेत् ॥ ५७ ॥

नित्योत्सवसमायुक्तं पूर्णं कृत्वा तु देशिकः ।
पूर्वोत्सवं च कर्तव्यं वशिनां नन्दिकेश्वर ॥ ५८ ॥

शिवभक्त प्रतिष्ठां च यः कुर्यान्नरपुङ्गवः ।
तस्य श्रीर्विजयो तार्च्चिरत्ने सायुज्यमाप्नुयात् ॥ ५९ ॥

इत्यचिन्त्य विश्वसादाख्ये (भक्तप्रतिष्ठाविधिः) षष्षष्टितमः पटलः ॥