अथ वक्ष्ये विशेषेण विद्यापीठ प्रतिष्ठिकाम् ।
विद्या च द्विविधा प्रोक्ता संस्कृत्यन्यात्मिका भवेत् ॥ १ ॥
प्रासादे वा मठे वापि शुद्धदेशे गृहेऽपि वा ।
भक्तोक्तस्थानके वापि सर्वतीर्थान्तरालके ॥ २ ॥
पूर्वोक्त पुस्तकं वापि अथवा लक्षणं शृणु ॥ ३ ॥
प्। ९९९)
अङ्गुलत्रयमारभ्य व्योमाङ्गुलविवृद्धितः ।
पञ्चविंशति मात्रान्तं भवेत् पुस्तकदैर्घ्यकम् ॥ ४ ॥
व्योमांशात्पादवृद्ध्या वा अर्धमात्रावसानिकम् ।
प्रमाणं च विशालं स्यात् पक्षवह्नियुतं तु वा ॥ ५ ॥
भूर्जेत्यक्तारवे वापि तालीदल समुच्चये ।
तालं वा भूर्जपत्रं वा पदादौ स्वर्णपत्रके ॥ ६ ॥
कामे शैलेन दार्वादौ * * * * क्षरैः शुभैः ।
मष्या वा धातुना वापि लिखेत् तूलिकयापि वा ॥ ७ ॥
नाराचेनापि वा कुर्याद्देशिकः शिष्य एव वा ।
शुभवारे सुनक्षत्रे सुलग्ने च प्रसन्नधीः ॥ ८ ॥
प्। १०००)
विप्राद्यदीक्षितैर्जातु शिवज्ञानं न लेखयेत् ।
अदीक्षितसकाशे च नाध्येतव्यं विशेषतः ॥ ९ ॥
नानादेश समुद्भूतैरक्षरैः कृतिसंस्कृतैः ।
लेखयेद्विशदैर्वर्णैर्जप लुक्तायतं शुभम् ॥ १० ॥
प * * * * भिस्सर्वैरसङ्कीर्णं परस्परम् ।
शिवं सुगन्धैरभ्यर्च्य मातृकां शिवरूपिणीम् ॥ ११ ॥
वस्त्राद्यैर्देशिकश्चैषु पत्रिकामपि पूजयेत् ।
गोमयालिप्त भूभागे पुष्पव्रज सुशोभिते ॥ १२ ॥
गन्धधूपादि संयुक्ते ज्वलद्दीप समन्वितम् ।
शुद्धशैव समायुक्तो लिखेद्वा पाठधारणम् ॥ १३ ॥
प्। १००१)
दीर्घकालेन जीर्णत्वाच्छिवज्ञानस्य पुस्तकम् ।
न्यूनातिरिक्त वा * * * * * * प्रमादिभिः ॥ १४ ॥
प्रमादाधीत पाठस्य नाशितस्याल्प बुद्धिभिः ।
अल्पज्ञान समोपेतैराचार्याशोधितैरपि ॥ १५ ॥
व्यर्थार्थैरप्युपेतस्य पुनरुक्तिरकारणात् ।
छन्दसातीव नष्टस्य श्रुतार्थ रहितस्य च ।
इत्येवमादिभिर्दोषैः उपेतस्य क्वचित्क्वचित् ॥ १७ ॥
यः करोति पुनस्सम्यक् संस्कारं देशिकस्सुधीः ।
शिवत * * * * द्यः स विद्या परमेश्वरः ॥ १८ ॥
प्। १००२)
न बोधयेत भक्तांस्तु शिवभक्तांस्तु बोधयेत् ।
शिवविद्यानुसारेण विद्यादानं तदुच्यते ॥ १९ ॥
संस्कृतैः प्राकृतैर्वाक्यैर्देशभाषा प्रकाशजैः ।
संस्कृत प्रभवैश्शब्दैः विशुद्धैस्संस्कृतैरपि ॥ २० ॥
देशभाष्याद्युपायैश्च तथा भूतागमैरपि ।
प्रदेशवर्तिभिर्वाक्यैर्बोधयेद्देशिकोत्तमः ॥ २१ ॥
यथा शिवस्य नैवान्तस्सम्पूर्णस्य महा * * ।
कीर्तिं श्रियं च महतीं सौख्यं मोक्षं समाप्नुयात् ।
घोरं च नरकं याति शिवज्ञानस्य नाशकः ॥ २३ ॥
प्। १००३)
शिववत्पूजयेत् पश्चाच्छिवज्ञानप्रकाशकम् ।
प्रत्यहं लेखयेद्विद्यान् यथाशक्ति सुबुद्धिमान् ॥ २४ ॥
यावत्यक्षरसङ्ख्या स्याच्छिवज्ञानस्य पुस्तके ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ २५ ॥
दश पूर्वान्समुद्धृत्य दश वंश्यांस्तु पश्चिमान् ।
मातृकस्वधर्म * * स्वार्थं स्वर्गं समेत्य च ॥ २६ ॥
स्वर्गे संस्थापितान् सर्वान्स्वयं शिवपदे वसेत् ।
अपि श्लोकं तदर्धं वा शिवज्ञानस्य वाक्यकम् ॥ २७ ॥
वाचयेच्चिन्तयेद्वापि लिखेद्वालेखयेत्तु वा ।
शृणुयादेक चित्तस्तु तदर्थमपि धारयेत् ॥ २८ ॥
प्। १००४)
अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्यफलं महत् ।
शिवज्ञानाभियुक्तस्य भोजनाच्छादनं महत् ॥ २९ ॥
आसमाप्तेस्तु संरक्षां विद्यादानं फलं भवेत् ।
वश्येन्नकार * * येऽथ तदेव फलमश्नुते ॥ ३० ॥
यस्य राज्ये शिवज्ञान व्याख्यानं वर्तते सदा ।
स राजा वर्तते राष्ट्रं स नृपोऽप्यजितो भवेत् ॥ ३१ ॥
राष्ट्रराजगुरुनेतान् सेनापत्येऽन्य कर्मणि ।
पुरोहितत्वे सर्वेषां राजकार्येत्यदर्शने ॥ ३२ ॥
दीक्षितास्तेऽपि सर्वेवै योगान्यन्येऽपि केचन ।
तस्मात् सिद्धान्तशैवेन शुद्धशैव विदारणात् ॥ ३३ ॥
प्। १००५)
शान्तिकं पौष्टिकं कर्म नेयं राजा विशेषतः ।
एवं विद्या प्रभावत्वात् पावनं च शृणुष्व वै ॥ ३४ ॥
त्रयस्तन्तु समन्तं स्यात् त्रयस्त्रिंशत्कराणुना ।
विद्याशाला विशालास्यात्प्रासादे वाथ मण्डपे ॥ ३५ ॥
एकशालादिभेदेन शालोपलक्षणान्विता ।
विद्यापीठस्य विस्तारः सप्ताङ्गुलि विशालतः ॥ ३६ ॥
सर्वलक्षण संयुक्तं मानोन्मानयुतं परम् ।
चतुरश्चस्तमो पास्याद् आयामाग्रं तु वा भवेत् ॥ ३७ ॥
विध्युक्तासनके चान्ये शिवज्ञानं यजेद्गुरुः ।
प्रोक्षयेत् पञ्चगव्येन शिवज्ञानाख्यविद्यताम् ॥ ३८ ॥
प्। १००६)
मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तान्निवेशयेत् ।
आसनाद्यं विधेयं च मूर्तिमूर्तीश संयुताः ॥ ३९ ॥
शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।
मध्ये तु शिवकुम्भं तु पार्श्वयोर्मकरद्वयम् ॥ ४० ॥
विद्येशांस्तत्र सम्पूज्य पूर्ववद्धोममाचरेत् ।
मन्त्रन्यासं गुरुः कृत्वा मध्ये तु परमं शिव ॥ ४१ ॥
पट्टिकायां न्यसेत्तत्र देवीं परमसुन्दरीम् ।
इत्यचिन्त्यविश्वसादाख्ये विद्याप्रतिष्ठाविधिः पञ्च षष्टिः पटलः ॥