परार्थं विषये चैव नित्योत्सवविधिं शृणु ।
दक्षिणतस्तु कर्तव्यं वामे वा शुद्धभूतले ॥ १ ॥
प्। ९८०)
प्रासादे मण्डपे वापि गोमयालेपनं भवेत् ।
अस्त्रेण प्रोक्षणं कृत्वा पात्रं लक्षण संयुतम् ॥ २ ॥
सौवर्णं राजतं ताम्रं कांस्यं मृण्मययान्वितम् ।
रन्ध्राङ्गुलं समारभ्य व्योमाङ्गुलविवर्धनात् ॥ ३ ॥
द्वात्रिंशदङ्गुलान्तं तु पात्राणां मानकं भवेत् ।
सुवृत्तं चासनोपेतं कर्णिकादलराजितम् ॥ ४ ॥
तत्पार्श्वे रससप्ताष्ट ग्रहदिग्रहभाजने ।
एकद्वित्रिचतुष्पञ्चषट् * * * * का भवेत् ॥ ५ ॥
शेषेन मानमाख्यानं विकाराष्टदलं मतम् ।
अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ॥ ६ ॥
प्। ९८१)
तद्वतोषु समोपेतं पात्रं केवलमेव वा ।
कुडुम्बद्वयमारभ्य कुडम्बाध्या विधि ॥ ७ ॥
तण्डुलं कल्पयेदन्न लिङ्गार्थं समुदाहृतम् ।
अन्नलिङ्गं त्रिकालेपि प्रातर्मध्याह्नकेषु च ॥ ८ ॥
पुष्पलिङ्गं तु पूर्वाह्ने मध्याह्ने वाथ कल्पयेत् ।
प्रदोषेक्षतलिङ्गं स्यात् तत्र पाशु * * * * ॥ ९ ॥
चन्द्रशेखरसंयुक्ते तद्विहीने मेव हि ।
त्रिधा पाशुपतो ज्ञेयो मिश्र शान्तोग्रभेदतः ॥ १० ॥
द्विहस्तश्च चतुर्हस्तः सौम्यस्सौम्येक्षणान्वितः ।
विद्युन्मालानिभश्चेतो जटामकुटमण्डितः ॥ ११ ॥
प्। ९८२)
वरदाभयपाणिर्वा सर्वलक्षणसंयुतः ॥ १२ ॥
पाशाक्षमालां हित्वा वै पद्मं घण्टां क्रमेण वै ।
योजयेत् सौम्यमूर्तिः स्याद्रत्नगर्भं विशेषतः ॥ १३ ॥
रौद्रं पाशुपतं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
शूलमूलाभये दक्षे शूलाग्रवरदान्वितः ॥ १४ ॥
रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् ।
त्रिशूलास्त्रकरं वौषट् त्रिधा रौद्रीं स्मरन्यजेत् ॥ १५ ॥
एतन्मिश्रं तु मिश्रः स्यात्परशुं शूलमावहन् ।
दक्षे पाशं मृगं वामे त्वन्यथा च निगद्यते ॥ १६ ॥
प्। ९८३)
त्रिशूलमभयं सव्ये पाशं च वरदप्रभम् ।
दधद्द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ॥ १७ ॥
पुष्पाक्षतान्न लिङ्गेषु * * * पूजमन्त्रतः ।
अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ॥ १८ ॥
सपीठगोलकाकारे पीठे वा कृतमर्चयेत् ।
अन्नलिङ्ग प्रमाणे तु मूलाग्ने समविस्तरे ॥ १९ ॥
करावधि प्रमाणान्ते सर्वलक्षण लक्षिते ।
स्थिलीकामानदण्डेन सहितं वा समर्चयेत् ॥ २० ॥
इन्दुशेखरमूर्तिः स्यात् प्रतिमालक्षणेन तु ।
पादुकात्र्यङ्गुले तस्मादङ्गुलादङ्गुलैर्घनात् ॥ २१ ॥
प्। ९८४)
तिथिमात्रावसानं तु तयोर्देव्य * * र्तितः ।
दैर्घ्यानुसारतः कुर्याद्विस्तारोस्यार्ध उच्छ्रयः ॥ २२ ॥
अष्टांशावनतो मध्यमनेनुपानकम् ।
तयोस्तु वृषभः पूज्यः स्नानान्तो वा प्रकीर्तितः ॥ २३ ॥
समन्ताल्लोकपाः पूज्याः पूर्वादीशावसानके ।
नवाङ्गलिङ्ग संयुक्तमथ नित्योत्सवं नयेत् ॥ २४ ॥
सर्वैरेतैस्समायुक्त नित्योत्सवमथाचरेत् ।
द्वाभ्यां त्रिभिश्चतुर्भिर्वा पूर्वाह्ने च प्रदोषके ॥ २५ ॥
मध्याह्ने केवलं पूज्योऽथवा पाशुपताह्वयः ।
रङ्गे वा शिबिकायां वा परिचारकमूर्धसु ॥ २६ ॥
प्। ९८५)
आरोप्य सुकृतं देवं वितानेन समन्वितम् ।
छत्रचामर संयुक्तं नानाध्वजसमायुतम् ॥ २७ ॥
नृत्तगीत समायुक्तं प्रदक्षिणमथाचरेत् ।
आद्यं प्रदक्षिणं कुर्याद् भृङ्गिणी तालसंयुतम् ॥ २८ ॥
वृषस्य वृषलम्बं स्याद् भृङ्गिणीतालवह्नितालकम् ।
मातॄणां चन्द्रतालं स्या विघ्नेशं धरकी भवेत् ॥ २९ ॥
उत्कटं च ग्रहे प्रोक्तं ज्येष्ठायां पुन्नितालकः ।
तटप्रभारं दुर्गायां विषमश्चिन्त चण्डिके ॥ ३० ॥
ग्रामे वा नगरे वापि बाह्यप्राकार एव वा ।
द्वितीयभ्रमणं ह्येतन् महापीठप्रदक्षिणम् ॥ ३१ ॥
प्। ९८६)
एकं वापि द्वयं वापि त्रयं वा शम्बरीयुतम् ।
अथवा बलिपीठे तु ब्रह्मतालसमन्वितम् ॥ ३२ ॥
गजतालेन संयुक्तं द्वयं कुर्यात्प्रदक्षिणम् ।
पैशाचे ज्वलमेवं स्याच्छावरी तालसंयुतम् ॥ ३३ ॥
गोपुरे वाद्यहीनं स्याच्छङ्खध्वनि समन्वितम् ।
दक्षिणे भृङ्गिनी तालं कौशिकेन समन्वितम् ॥ ३४ ॥
चालोफाणि समायुक्तं शाङ्करे ढक्करी मता ।
एवं प्रदक्षिणं कृत्वा तृतीयं धाम संविशेत् ॥ ३५ ॥
प्रक्षालिताङ्घ्रयस्सर्वे प्रविशेयुः शिवालये ।
अथवा मण्टपादौ तु पीठसंस्थानमत्क्रमात् ॥ ३६ ॥
प्। ९८७)
वाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।
एवं लिङ्गात्समास्तित्य लिङ्गदक्षे निवेशयेत् ॥ ३७ ॥
शिवस्य पादौ वा पूज्यौ पादुके दक्षवामके ।
अन्यासामपि देवीनां देवानां मूलबिम्बवत् ॥ ३८ ॥
रूपान्तरं स्वयं सिद्धं नित्योत्सवमथाचरेत् ।
सम्पाद्यं तेन नित्यं तु नित्योत्सवमथाचरेत् ॥ ३९ ॥
तदस्त्रमन्नलिङ्गादौ पूजनीयं स्ववाहनम् ।
पादुकाद्वितयं पूज्यं नित्योत्सवविधि क्रमात् ॥ ४० ॥
इत्यचिन्त्य विश्वसादाख्ये नित्योत्सवविधिरेकषष्ठिः पटलः ॥