स्थापनं तव नन्दीश ! भुक्तिमुक्तिफलप्रदम् ।
त्रिणेत्रं चतुर्भुजं शान्तं कृताञ्जलि पुटस्थितम् ॥ १ ॥
प्। ९७८)
मृगं च परशुं चैव करालम्बित वेत्रकम् ।
जटामकुट संयुक्तं नमाशुश्रिं * * * * खम् ॥ २ ॥
वामे तु सुयशादेवी संयुक्तं लक्षणान्वितम् ।
बालेन्दुशेखरं चैव कालकण्ठविराजितम् ॥ ३ ॥
बालसूर्य प्रतीकाशं रुद्राक्षैर्लक्षणान्वितम् ।
देवीं च श्यामवर्णाभां सर्वालङ्कारसंयुताम् ॥ ४ ॥
अङ्कुरं रत्नविन्यासमधिवासादिकं तथा ।
शयनारोपणं चैव पूर्ववन्नन्दिकेश्वर ॥ ५ ॥
देवस्य पुरतः कुम्भान्वेदिमुद्दिश्य वर्धनीम् ।
वसुकुम्भान् न्यसेद्दिक्षु * * रांश्चापि पूजयेत् ॥ ६ ॥
प्। ९७९)
त्रितत्वमष्टमूर्तिश्च मूर्तीशान् शिववन् न्यसेत् ।
वामबीजाङ्ग संयुक्त देवं देव्याश्च शक्तिमत् ॥ ७ ॥
होमकर्म विधातव्यं पूर्ववद्रत्नगर्भकम् ।
प्रभाते मूर्तिपैस्सार्धं स्नापयेद्विधिना गुरुः ॥ ८ ॥
गन्धपुष्पादिकं सर्वं नैवेद्यान्तं तथैव च ।
ततः प्रभृतिनन्दीशमर्चयेद्भक्ति संयुतः ॥ ९ ॥
इत्यचिन्त्यविश्वसादाख्ये नन्दिकेश्वरस्थापनविधिः षष्टितमः पटलः ॥