५९

विद्यान्तासनशर्य * गंस त्रयमथो न्यसेत् ॥ १ ॥

प्। ९७१)

ईश्वरं तत्र विन्यस्य व्योमादि क्ष्मान्तपञ्चकम् ।
शुद्ध्यादि पूर्ववत्कुर्यात् कृत्वा पिण्डं च पूर्ववत् ॥ २ ॥

स देश पदपर्यन्तं विन्यस्तं रत्नपञ्चकम् ।
शक्त्या च सर्वतो मुख्यास्संस्थाप्य विधिवत्ततः ॥ ३ ॥

स्थाणुना विधिवत्सूर्यं शक्त्यन्तं स्थापयेद्गुरुः ।

सूर्यमन्त्रास्तुष्टव्या स्था * * * * * * * * ।

आरामे चालये वापि पुण्यदेशे मनोरमे ।
आत्मार्थं च परार्थं च स्थापनं च विधीयते ॥ ६ ॥

प्। ९७२)

परार्थे व्यचलत्वं वै विशेषत्वाच्च कीर्तितः ।
मण्टपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ! ॥ ७ ॥

पूर्वादीशान पर्यन्तं परिवारमथोच्यते ।
उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं नमम् ॥ ८ ॥

वि * * * * * * * * * * * * * भवेत् ।
विकटं भीमसञ्ज्ञं च द्वारपार्श्वे प्रकल्पयेत् ॥ ९ ॥

कुम्भोदकं च निर्माल्य धारणं चैव देशिके ।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥ १० ॥

अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः ।
अष्टमूर्त्यधिपा ह्येते अथवा हस्तिवक्त्रकः ॥ ११ ॥

प्। ९७३)

विमेख

भूतरूपौ द्वारपालौ द्विभुजौ हलदण्डकौ ।
दंष्ट्राकरलवदनौ * * * स्कन्दपादकौ ॥ १२ ॥

मध्य पद्मे गणाध्यक्षं सर्वतारोपशोभितम् ।
गजाननो महाकायः प्रलम्बोदर संयुतः ॥ १३ ॥

व्यालयज्ञोपवीती च हृस्वज।घाद्वयान्वितम् ।
सन्ध्याभ्रसन्निभोवापि नीलनीररुहप्रभः ॥ १४ ॥

तप्तकाञ्चन सङ्काशः शुद्धस्फटिक सन्निभः ।
श्यामवर्णमयो वापि यथेष्टफलयोगतः ॥ १५ ॥

पाशाङ्कुशौ स्वदन्तं च लड्डुकं चोत्पलं तथा ।
किरीट मकुटोपेतं शुक्लयज्ञोपवीतवान् ॥ १६ ॥

प्। ९७४)

सर्वाभरण संयुक्तो नेत्रत्रय विराजितः ।
पीठस्थं मूषिकस्थं वा सिह्मस्थं वाथ कल्पयेत् ॥ १७ ॥

बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।
जलाधिवासनं कुर्याल्लम्बकूर्च समन्वितम् ॥ १८ ॥

अष्टकुम्भन् न्यसेत् पश्चान्नर्मदाद्यष्टतीर्थकम् ।
कुण्डानि पञ्चकं चैवमथवा परिकल्पयेत् ॥ १९ ॥

शिल्पिनोद्वासनं कृत्वा पुण्याहं वाचयेद्द्विजैः ।
जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ॥ २० ॥

मण्डपस्योत्तरे भागे स्नपनं पूर्ववच्चरेत् ।
रक्षासूत्रं च बध्वा तु मूलमन्त्रं पठेद्बुधः ॥ २१ ॥

प्। ९७५)

संशिरोदेशपरितो परितोऽष्टघटान् न्यसेत् ।
नवरत्नादिकं न्यस्त्वा वासाभ्यां क्रमवेष्टनम् ॥ २२ ॥

पात्रहोमादिपुष्पाद्यैस्तर्पयेज्जुहुयात्ततः ।
समिदाज्य चरूंश्चैवम् अष्टद्रव्यैश्च होमयेत् ॥ २३ ॥

सहस्रमर्धमर्धं वा शतमष्टोत्तरं तु वा ।
मूलमन्त्राद्दशाङ्गानां * * * * न्तु विक्रिया ॥ २४ ॥

मूर्तिपानां तदर्धं स्यात् तत्वतत्वेशहोमकम् ।
स्वस्वमन्त्रेण शान्त्यर्थं प्रोक्षणं कारयेद्गुरुः ॥ २५ ॥

दर्भैस्संस्पर्शनं वापि प्रतिभागं समाचरेत् ।
आसीनासनमेवं हि प्रातःकाले गुरुः स्वयम् ॥ २६ ॥

प्। ९७६)

नित्यकर्मद्वयं कृत्वा मण्डलादि प्रवेशनम् ।
उद्धृतं विघ्नराजानं कुम्भ वह्न्यादिमर्चयेत् ॥ २७ ॥

प्रायश्चित्तमघोरेण शतं वा होममाचरेत् ।
पूर्णाहुतिं च जुहुयात् प्रविशेद्भगवान्गुरुः ॥ २८ ॥

रत्नौषध्यादि संयुक्तां शिलां ब्रह्ममयीमपि ।
पूर्णान् न्यस्त्वा ततः पश्चाद्विघ्नराज प्रतिष्ठितम् ॥ २९ ॥

प्रायोद्विघ्नस्य मूलेन मन्त्रेण च समर्चयेत् ।
सुमुहूर्ते विशेषेण मन्त्रन्यासादिकं चरेत् ॥ ३० ॥

चलं चेत् स्नानवेद्यां तु मन्त्रन्यासादिकं भवेत् ।
तत्तत्कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ ३१ ॥

प्। ९७७)

तत्वमूर्त्त्यादि विन्यासं पूर्ववत्कारयेद्गुरुः ।
एवं च स्नपनं कृत्वा नैवेद्यं च निवेदयेत् ॥ ३२ ॥

आचार्यं पूजयेत् पश्चान्मूर्तिपांश्च विशेषतः ।
वस्त्रहेमाङ्गुलीयाद्यैः स्तोषयेद्गुरु मूर्तिपान् ॥ ३३ ॥

विघ्नेशस्थापनात् सर्वसिद्धयश्च भवन्ति हि ।

इत्यचिन्त्य विश्वसादाख्ये विघ्नेश स्थापनविधि पटलः ॥