५७

प्। ८७७)

अथ वक्ष्ये विशेषेण प्रतिष्ठालक्षणं परम् ।
शिवमन्त्रैर्यथा योगं पीठशक्तिं शिवं तथा ॥ १ ॥

पिङ्गं शिव इति ख्यातस्तद्योगं भोगमोक्षदम् ।
तद्योगं च प्रतिष्ठाद्याः पञ्चभेदा मयोदिताः ॥ २ ॥

वैर्णारिश्चाग्निसंयोगः प्रतिष्ठेत्यादितोदिताः ।
विष्ठरे च यथायोगं निर्नेशास्थापनं भवेत् ॥ ३ ॥

लिङ्गद्विभेद भेदस्य स्थितिस्थापनमेव हि ।
उत्तापनास्यलिङ्गस्य प्रोद्धारगमनोद्यताः ॥ ४ ॥

लिङ्गमारोप्य यस्यां वै संस्कारः क्रियते यदा ।
आस्थापनाख्य चैवं तु पञ्चधा तु शिवं श्रिता ॥ ५ ॥

प्। ८७८)

विष्ण्वादीनां प्रतिष्ठानाम् आस्थायोत्थाप्यभेदतः ।
पञ्चधा तत्र विहिता यथा योगं क्रमाद्भवेत् ॥ ६ ॥

प्रासादादीनि कर्माणि भूपरीक्षा भवेत्तदा ।
शुक्ला रक्ता च पीता च कृष्णाप्येवं चतुर्विधा ॥ ७ ॥

आज्यगन्धा * * * * * * रक्तसुगन्धिनी ।
सुधागन्धा यथा सङ्ख्या ब्राह्मणाद्या वसुन्धरा ॥ ८ ॥

ईशपूर्णतरं किञ्चित् स्तवयुक्तं प्रशस्यते ।
उक्तवर्णमृदोऽलाभे वर्णावाधारमुच्यते ॥ ९ ॥

हस्तमात्रे तु कले तु मृदमादाय तां पुनः ।
अपदन्त मृदा चैव पूरयेदधिका भवेत् ॥ १० ॥

प्। ८७९)

अघोरास्त्रेण मन्त्रेण सहस्रं विधिना तदा ।
भूमिं भुवि स्थलीं कृत्वा शोधयेत्कुङ्कुमैस्तथा ॥ ११ ॥

रेवाहोमाक्षताद्यैश्च कुर्यात्सर्वं क्रमात्तदा ।
पूर्वकुम्भे तथैशानं * * मध्ये शिवं यजेत् ॥ १२ ॥

अभ्यर्च्य वास्तुतोयेन कुण्डलादींश्च योजयेत् ।
रक्षो ग्रहाद्बहिः पूज्या * * * विधिना क्षिपेत् ॥ १३ ॥

संहृत्य पूज्यं कुम्भे तु सुलग्ने वह्निकोष्ठके ।
क्षौद्रसिक्तेनखर्दाल मुखेन * * * नयेत् ॥ १४ ॥

मृत्क्षेपं राक्षसे भागे वा वटे कुम्भतोयकम् ।
सुस्नाप्य तां भुवः पश्चात्कुद्दालाद्यं प्रपूजयेत् ॥ १५ ॥

प्। ८८०)

वस्त्रयुग्मेन संवेष्ट्य द्विजसन्ध्येन्य कुम्भकम् ।
विधाय पञ्चघोषानि स्वस्तिवाचनकैरपि ॥ १६ ॥

विप्राशीर्भिर्विशेषेण पूर्वसीमान्तराश्चसि ।
पुरस्यथाक्त तत्रैव क्षणं स्थित्वा प्रसन्नधीः ॥ १७ ॥

परिभ्रमेत्तु परितः सीमान्ताङ्कं विधाय च ।
ईशानं तन्तुकु * * * द्रुकुम्भ परिभ्रमात् ॥ १८ ॥

अर्घ्यदानादिदं प्रोक्तं वामेक्तं नन्दिकेश्वर ।
एवं कृते तु भूमेऽस्तु परिग्रहमुदीरितम् ॥ १९ ॥

कर्मरान्तजरान्तन्तु शल्यशेषनिवृत्तये ।
खनित्वाऽप्यथ राज्ञात्वा श * * न्विधिनोद्धरेत् ॥ २० ॥

प्। ८८१)

महीचक्राख्यचक्रेण शल्यं ज्ञात्वा विशेषतः ।
गुरूबलिवयत्रस्थस्तत्र वै होमशल्यकम् ॥ २१ ॥

शुक्रे गुरौप्यसीवक्त्रे कृतां सीसादि चन्द्रकैः ।
मन्दश्चेदायसं शल्यं * * * * * वेत्तदा ॥ २२ ॥

कंसादि शल्यमार्के तु ज्ञात्वा शल्यं समुद्धरेत् ।
तत्काल प्रश्रजानां तु अक्षराणि भवन्ति हि ॥ २३ ॥

अकारश्च इकारश्च उकारस्तदनन्तरम् ।
एकारश्च तथोकारं पञ्चाकारमिदं भवेत् ॥ २४ ॥

एतेषु गुणयोगेन ग्रहपञ्चकमेव हि ।
पृथ्वीजलं वह्निर्मरुत् व्योम चैव यथाक्रमम् ॥ २५ ॥

प्। ८८२)

अकारादिषु वर्णेषु संयोज्यनन्दिकेश्वर ।
सूरे च गुरुकाव्ये च भूसुते बुध एव च ॥ २६ ॥

शशीशनिरिति ह्येवमक्षराणां क्रमं भवेत् ।
एवं विनीत्वा तैरेवं शल्यादिकमुदाहरेत् ॥ २७ ॥

ध्वजश्च धूमसिंहौ च वृषारासर एव च ।
द्विपञ्च वायसीश्चापि पूर्वादिषु यथा क्रमम् ॥ २८ ॥

शल्यप्रमाणकं सर्वं कर्तुरङ्गविचेष्टया ।
तत्पार्श्वस्थानशल्यानां ज्ञानन्तच्छल्यचक्रतः ॥ २९ ॥

ग्रहाणां फलमालोक्य वदेच्छल्यमशेषकम् ।
शल्यमुक्तं तु स्थानेपि शीघ्रमन्दत्वकारणात् ॥ ३० ॥

प्। ८८३)

प्रोक्ष्याशीर्भिः करापूपैः अष्टाङ्गुलमृतं ददौ ।
आपूर्य पादोनखातत्वं जरैर्मुद्गारकाहतैः ॥ ३१ ॥

तां भुवास्व * * * त्य सुप्लवां कारयेत्तदा ।
वक्ष्यमाणं मण्डपञ्च यावत्सामान्यकाख्यकः ॥ ३२ ॥

सम्पूज्य तोरणेशा च प्रत्यग्द्वारेण संविशेत् ।
शिलाशुद्ध्यादिकं कुर्यात्कुण्डमण्डलशुद्धिदम् ॥ ३३ ॥

कुम्भं च वर्धनीयुक्तं लोकपालशिवार्चनम् ।
गर्भाधानादिकं सर्वं वह्नेश्चापि तु पूर्ववत् ॥ ३४ ॥

कर्ता तु पूजितो यायाच्छिला स्नानाय मण्डपम् ।
शिलाप्रासादलिङ्गस्य पादार्धादि सञ्ज्ञकाः ॥ ३५ ॥

प्। ८८४)

उच्छ्रिताष्टाङ्गुलाः शस्ताः चतुरश्रकरायताः ।
पाषाणानां शिलां कुर्यात्तदर्धश्चेष्टकाथ वा ॥ ३६ ॥

प्रासादस्य शिलाशैलैरिष्टकामजपूरितैः ।
अङ्गिनासनवज्राद्यैः पञ्च वा पञ्चकाङ्कितैः ॥ ३७ ॥

नन्दा भद्रा जयारिक्ता पूर्णा वै पञ्चमी शिला ।
आसांवतो महापद्मः शङ्खो मकरकस्तथा ॥ ३८ ॥

समुद्रश्चेति पञ्चमी निधिकुम्भाः क्रमाद्भवेत् ।
नन्दा भद्रा जया पूर्णा अजिता चापराजिता ॥ ३९ ॥

विजयामङ्गलाख्या च धरिणी नामवी शिला ।
सुभद्रश्च विभद्रश्च सुन्दरं पुष्पनन्दनः ॥ ४० ॥

प्। ८८५)

जयोऽथ विजयश्चैव कुम्भकर्णस्तथोत्तरः ।
निधिक्रमा अमी प्रोक्ता नवानां तु यथाक्रमम् ॥ ४१ ॥

प्रवणं चासनं दत्वा त्वस्त्रेणाविश्य ताडयेत् ।
कवचे नाद्य सर्वासाम् अवकुण्ठनमुच्यते ॥ ४२ ॥

मृद्गोमय गोमूत्रैः क्षालयेद्गन्धवारिणा ।
हुम्फडन्तेन चास्त्रेण मलस्नानं विधीयते ॥ ४३ ॥

पञ्चगव्येन पञ्चामृतेन विधिना स्नानमाचरेत् ।
पश्चात्तु गन्धतोयेन स्वनामाङ्कित गन्धतः ॥ ४४ ॥

फलरत्नसुवर्णानां शृङ्गं च सलिलैः पुनः ।
लेपयेच्चन्दनेनैव अस्त्रेणच्छादयेच्छिलाः ॥ ४५ ॥

प्। ८८६)

विमुक्तमासनं तत्र भवेद्यागप्रदक्षिणम् ।
हृदयेन तु शय्यायां कुशतल्पे निवेशयेत् ॥ ४६ ॥

तत्वान्विन्यस्य सम्पूज्य पृथिव्यां तत्वसञ्चयम् ।
त्रिखण्डव्यापकं तत्र पद्मविद्याशिवान्तकम् ॥ ४७ ॥

क्रमाद्विन्यस्य विधिना न्यासोऽयन्नन्दिकेश्वर ।
बुद्ध्यादि चित्तपर्यन्तं चित्तं तन्मन्त्रकां विधौ ॥ ४८ ॥

तन्मात्राद्या धरान्तं च शिवविद्यात्मना स्थितिः ।
स्वमन्त्रेण च तत्वानि तत्वेशांश्च हृदार्चयेत् ॥ ४९ ॥

पुष्पमालादि युक्तेषु स्थानेषु च यथा क्रमम् ।
तन्मात्राणि यथा सङ्ख्यं शृणुत्वं नन्दिकेश्वर ॥ ५० ॥

प्। ८८७)

ॐ हं शिवतत्वाय च नमोऽन्तं मन्त्रकं भवेत् ।
ॐ हां शिवतत्वाधिपतये रुद्राय नम इत्यपि ॥ ५१ ॥

ॐ ह्रीं विद्या तत्वाय नमोन्तं तदनन्तरम् ।
ॐ ह्रीं विद्या तत्वाधिपतये विष्णवे नम इत्यपि ॥ ५२ ॥

ॐ हाम् आत्मतत्वाय नमोन्तमुच्चरेत् ।
ॐ हाम् आत्मतत्वाधिपतये ब्रह्मणे नम इत्यपि ॥ ५३ ॥

एवं क्रमाच्च विन्यासं कुर्यात्तत्र च वै गुरुः ।
पृथ्व्यग्नि यजमानार्क जलवाय्विन्दुखानि वै ॥ ५४ ॥

तत्र प्रविन्यसेदष्टौ मूर्तिः प्रतिशिलां शिलाम् ।
शर्वं पशुपतिं चोग्रं रुद्रं भवं महेश्वरम् ॥ ५५ ॥

प्। ८८८)

महादेवं च भीमं च मूर्तीशांश्च तथैव च ।
ॐ हां रथाधिपतये शर्वाय नमः * * * ॥ ५६ ॥

इत्येवं स्वस्वना वाचाधिपतयेन समन्वितः ।
लोकपाला * * * न्त स्वस्वमन्त्रैर्यथाक्रमम् ॥ ५७ ॥

विन्यस्य पूजयेत्कुम्भांस्तन्मन्त्रैश्च निजार्णकैः ।
इन्द्रादिलोकपालानां बीजान्यपि यथा क्रमम् ॥ ५८ ॥

धृं रूं श्रूं स्रूं क्षूमिति नमः * * * * * * * ।
नमश्शिवप्रतिष्ठासु चोत्तरं तत्क्रमेत्पुनः ॥ ५९ ॥

पञ्चानां तु विशेषेण प्रतितत्वं च विन्यसेत् ।
तन्मूर्ति सूक्ष्माः पञ्चैव धराद्यांश्चापि पूजयेत् ॥ ६० ॥

प्। ८८९)

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते वै पञ्चमूर्त्यंशान्यस्तव्यास्तासु पूर्ववत् ॥ ६१ ॥

ॐ पृथ्वीमूत्यधिपतये नमः ।
एवं मन्त्रं समुच्चार्य सम्पूज्य कलशानपि ॥ ६२ ॥

स्वनामभिश्च पञ्चैव पूजयेत् स्वस्वनामभिः ।
विधानेन निरुन्धीत न्यासो मध्यशिलाः क्रमात् ॥ ६३ ॥

प्रकारं हेतिना कुर्यात् भूतिदर्भैस्तिलैस्ततः ।
आधारशक्ति कुम्भे च सम्पूज्यन्तर्पयेत्पुनः ॥ ६४ ॥

तत्वतत्वाधिपान्मूर्तिमूर्तीशांश्च घृतादिभिः ।
अजांशशुद्धे मूलाङ्ग प्र * * * क्रमाद्धुनेत् ॥ ६५ ॥

प्। ८९०)

इन्द्रादि पूर्णाहुत्यन्तं शिष्यं शान्तिजलैः शिलाः ।
कुशैश्च पूजयेत् पश्चात् प्रतितत्वं क्रमाद्गुरुः ॥ ६६ ॥

कृत्वा सान्निध्यसन्धानं शुद्धिं कृत्वा पुनर्न्यसेत् ।
एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥ ६७ ॥

ब्रह्मांशादित्रयं चापि कुशमूलादिभिः स्पृशेत् ।
तत्वादीनां तु सन्न्यासं ह्रस्वदीर्घप्रयोगतः ॥ ६८ ॥

ॐ आत्मतत्व विद्यातत्वाभ्यां नमः ।
ॐ क्षॄं सम् ऊं शिवतत्व विद्यातत्वाभ्यां नमः ॥ ६९ ॥

आज्येन मधुना पूर्णान् ताम्रान्कुम्भान्प्रपूरयेत् ।
पञ्चगव्यादिभिस्सिक्तान् लोकपालाधिदैवतान् ॥ ७० ॥

प्। ८९१)

स्वस्वमन्त्रैश्च सम्पूज्य सन्निधौ होममाचरेत् ।
शिलानामपि सर्वासां संस्मरेदधिदेवताः ॥ ७१ ॥

विद्यारूपकृतस्नाता स्वर्णवर्णाश्रमाननाम् ।
सर्वाभरणसंयुक्ताः शिलानामधिदेवताः ॥ ७२ ॥

न्यूनाति षोडशान्त्यर्थं वास्तुभूमेऽस्तु शुद्धये ।
हेतिना पूर्णहोमान्तमाहुतीनां शतं शतम् ॥ ७३ ॥

पश्चात् प्रसादन्तास्तुभ्यं वर्तयेद्वास्तुमण्डलम् ।
चतुष्षष्टिपदे क्षेत्रे पदार्थैस्तु समे कृते ॥ ७४ ॥

कोष्ठेषु विन्यसेद्वंशादुष्टुरज्जोऽपि गोणकाः ।
द्विपदाष्षष्टि पादास्तौ तत्तद्यार्ह्यर्चयेत्तदा ॥ ७५ ॥

प्। ८९२)

अङ्कुचितं कचं वास्तु मुक्तानां मण्डलाकृतिः ।
स्मरेद्गुहादि पूजासुनिश्शेषध्व नाशनम् ॥ ७६ ॥

जानुकोर्परतासक्ते * * ति शिवाकृतिवह्निके ।
ऐशाने च शिरोदेशे राक्षसे पदयोर्युतम् ॥ ७७ ॥

हृदये चाञ्चलिं कृत्वा सत्वाख्योऽपि महासुर ।
शुक्रं क्रोधात्सुसम्पन्नं स्वयं सिंह्मन्तुमक्षमः ॥ ७८ ॥

तेनासुरेण लोकायाम् उपनीतमनेकशः ।
तस्मादस्त्रं स्थिता देवाः पूजिताश्च शुभा अमी ॥ ७९ ॥

अष्टकोणाधिपा * * कोणाष्टे षष्टसुस्थितः ।
याम्याद्यादिस्तु मध्योत्या दिक्षु चैन्द्रादिषु क्रमात् ॥ ८० ॥

प्। ८९३)

मध्ये चतुष्पदे ब्रह्मामध्ये तु पदिकाः स्मृताः ।
समस्तनाडि सम्पातो महाधर्माम्बुजं हलम् ॥ ८१ ॥

त्रिशूलं स्वस्तिको वज्रं महास्वस्तिकसम्पुटौ ।
त्रिकटोकर्मनिर्बन्धं स्तुविशुद्धपदं तथा ॥ ८२ ॥

इति द्वादशमर्माणि वास्तोरित्यादिना न्यसेत् ।
ईशाय तण्डुलं सर्पिः पर्जन्याय च वारियुक् ॥ ८३ ॥

पताकमङ्कुशं चैव जयन्ताददते * * ।

सत्याय घृत गोधूमं माषं भक्तं मृगाय च ।
अन्तरिक्षाय मांसान्नं कूर्चेष्वष्टसु पूर्वतः ॥ ८५ ॥

प्। ८९४)

क्षीराज्यं मधुसम्पूर्णं स्रुवञ्च शशिनो भवेत् ।
पूर्णे जालं हेम * नि वितथाय निवेदयेत् ॥ ८६ ॥

क्षेत्रं गृहक्षते दद्यादमरेज्यो फलोदनम् ।
गन्धं गन्धर्वराजाय जिह्वां भ्रंशाय पक्षिणा ॥ ८७ ॥

पित्र्यं नीलोदनं क्षीरं वृक्षजं दन्तधावनम् ॥ ८८ ॥

दर्भाश्च पुष्पदन्ताय रुधिरं च प्रचेतसे ॥ ८९ ॥

असुरायाब्जसम्मिश्रां सुरां चापि निवेदयेत् ।
योषेरप्याज्यमन्नं स्याद्यागाय घृतमण्डकाः ॥ ९० ॥

प्। ८९५)

लाजा * श्विममाजायां देवाष्टकमितीरितम् ।
पीतध्वजममूतोव रागाय नागकेसरम् ॥ ९१ ॥

मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतम् ।
सोमाय पायसं साज्यं शाल्यङ्गं मुद्गवे दिशेत् ॥ ९२ ॥

सपीमदितलेदित्यै पुरीमृत्य * * ष्टकम् ।
ब्रह्माणं च पुरोभागे मोदकाक्षिपयेत्फलम् ॥ ९३ ॥

मरीचये विशेषेण षट्पदस्थाय तत्र वै ।
वह्न्यन्धकोणकोष्ठेपि सवित्रे रत्नपुष्पकम् ॥ ९४ ॥

तदधः कोणकोष्ठेऽपि सवित्र * * * ष्पकम् ।
तदधः कोणकोष्ठेऽपि सावित्राश्च कुशोदकम् ॥ ९५ ॥

प्। ८९६)

षट्पदस्थिति युक्ताय विश्वते रक्तचन्दनम् ।
रक्षोधः कोणकोष्ठेपि चैन्द्रायान्नं हरिद्रया ॥ ९६ ॥

इन्द्रजयाय मिश्रान्नम् इन्द्राधस्तात्तु दापयेत् ।
वारुणा * पदाहीनमित्रेश गुलमोदनम् ॥ ९७ ॥

रुद्राश्च घृतसिद्धान्नं वायुकोणे धरापदम् ।
तदधो रुद्रदासाय मांसमार्द्रमथोत्तरे ॥ ९८ ॥

धरायने षट्पदस्थे माषनैवेद्यकं ददेत् ।
आपाय शिव कर्णाय तद्वंशायै * * त्तले ॥ ९९ ॥

क्रमाद्दद्यादाधिकारीं पूजयित्वा विधानतः ।
चतुष्पादविनष्टाय ब्रह्मणे मध्यदेशिकः ॥ १०० ॥

प्। ८९७)

एवं गव्याक्षतोपेतं चरुं साज्यं निवेदयेत् ।
ईशादि वायुपर्यन्तं कोणेश्वपि यथाक्रमम् ॥ १०१ ॥

वास्तु बाह्ये च रक्षाद्याश्चतसॄः पूजयेद्यथा ।
घृतं मांसं च रक्तैस्तु दधि पद्मं विधानके ॥ १०२ ॥

पतनाये फलं पद्मं रत्नं च विनिवेदयेत् ।
अस्थिनीपापराक्षस्योः रक्त रक्तफलानि च ॥ १०३ ॥

ततो माषोदनं प्राच्या स्कन्दाय विधिवद्ददेत् ।
अर्यम्णो दक्षिणेशाय अपूपान्कृसरैर्युतान् ॥ १०४ ॥

वामृणामामिषं रक्तम् अन्तकाय च दापयेत् ।
प्रतीच्यां बलिपिञ्छाय रक्तान्नं कुसुमानि च ॥ १०५ ॥

प्। ८९८)

पूजयेङ्गदितान्यत्र कुशमध्यक्षितैस्तिलैः ।
कुड्यादिष्वपि वर्तेत वास्त्वेकाशीतिकोष्ठके ॥ १०६ ॥

त्रिपद्या रज्जुपं कुर्याषट्पदाश्वपुरोक्तवान् ।
ईशान्या पादिकातस्मिन्नापाद्याश्चर्चकोष्ठकाः ॥ १०७ ॥

मरीचाद्याः षट्पदस्थाः ब्रह्मा नवपदे भवेत् ।
ईशानादिषु रक्ताद्याः पूर्ववत्पूजयेद्बहिः ॥ १०८ ॥

प्रत्येकं देवतानां वै आहुतित्रितयं भवेत् ।
भूतक्रूरबलिं दत्वा सुलग्ने द्यासमारभेत् ॥ १०९ ॥

न्यसेच्छक्तिं मध्यशुभे कुम्भस्नानन्तरन्त्रिकम् ।
पृथ्वीबीजेन मूलेन ह्रीं मे च धरणी शिलाम् ॥ ११० ॥

प्। ८९९)

अष्टकुम्भान्समुद्रादिदिक्षु चैन्द्रादिषु क्रमात् ।
लोकपालाणुभिर्न्यस्य स्वभेषु न्यस्तशक्तिषु ॥ १११ ॥

नादद्याश्च शिलाश्चापि क्रमात्तेषु निवेशयेत् ।
शम्बरैर्मुक्तिनाथानां यथा दिक्षु च मध्यतः ॥ ११२ ॥

अष्टौ धर्माधिकाश्चापि कोणकोणविभागशः ।
पूर्वासु चाजितद्वाश्च कर्यादिष्वथवा न्यसेत् ॥ ११३ ॥

ब्रह्माणं चोपरिन्यस्य व्यापकं च महेश्वर ।
अध्वानं चिन्तयेत्पश्चाद्योग प्रासादमव्ययम् ॥ ११४ ॥

बलिं दत्वा च वेदास्त्रं विघ्नदोषस्य शान्तये ।
शिलापञ्चक पक्षेऽपि मौनमुद्दिश्यते यथा ॥ ११५ ॥

प्। ९००)

न्यस्य मध्ये पूर्वशिलां समुद्रकुशलोद्धृतः ।
पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥ ११६ ॥

मध्यहीना चतस्रोऽपि मात्रसद्भावसम्मिताः ।
ऊर्णां तत्वं महाविद्ये सर्वसन्दोहलक्षणम् ॥ ११७ ॥

सर्वं सम्पूर्णमेवात्र कुरुष्वाङ्गिरस्सुते ।
ॐ नन्दिनन्दिनि पुंसित्वान्मन्त्राश्च स्थापयाम्यहम् ॥ ११८ ॥

प्रासादे तिष्ठ सुहृदा यावच्चन्द्रार्कतारकम् ।
आयुष्कामंश्रियं दद्याद् देहवासिषु देहिनाम् ॥ ११९ ॥

अस्मिन् रक्षा सदा कार्या प्रासादे यत्ततस्सदा ।
ॐ भद्रे * * * * * लोकानां कुरुकाश्यपि ॥ १२० ॥

प्। ९०१)

आयुर्दा कामदा देवी सुप्रसादा सदा भवेत् ।
ॐ बीजेऽत्र सदा देवि तिष्ठत्वं स्थापिता मया ॥ १२१ ॥

नित्यं जयाय भूत्यै च स्वामिनो भव भागवित् ।
ॐ रिक्ते रिक्ता दोषघ्ने सिद्धिमुक्तिप्रदे शिवे ॥ १२२ ॥

सर्वदा सर्वदेशस्थे तिष्ठास्मिन्नीशरूपिणी ।
व्योम चायतनं ध्यात्वा तत्र तत्वत्रयं न्यसेत् ॥ १२३ ॥

प्रायश्चित्तं ततो भूत्वा विधिना चोत्सृजेन्मखम् ।
शिलान्यास्य विधिस्त्वेवं प्रोक्तस्वत्रं समासतः ॥ १२४ ॥

क्रमेणैवोक्तमार्गेण विदध्यान्नन्दिकेश्वर ।
अथ वक्ष्ये विशेषेण लिङ्गस्थापनकर्मणि ॥ १२५ ॥

प्। ९०२)

मण्डपाद्यं तु सर्वं च प्रतिष्ठोपकरणं तथा ।
तत्सदा क्रियते मुक्त्यै मुक्त्यै देव दिने भवेत् ॥ १२६ ॥

चैत्र वर्जं च मासादौ प्रतिष्ठामासपञ्चके ।
करणादि क्रिये चैव जीवशुक्रोदये तथा ॥ १२७ ॥

सितपक्षे विशेषेण कृष्णाद्यं पञ्चकं शुभम् ।
रिक्तां च नवमीं षष्ठीं वर्जयित्वा चतुर्दशीम् ॥ १२८ ॥

तिथयश्शोभनाश्शेषाः पापवारविवर्जिताः ।
आर्द्राशतभिषक् चैव धनिष्ठा चोत्तरत्रयम् ॥ १२९ ॥

अनूराधा रोहिणी च पुष्या हस्तोत्तराषाढमेव च ।
पूर्वाषाढाश्च भान्याहुर्द्विजस्य च विशेषतः ॥ १३० ॥

प्। ९०३)

चित्रा पुनर्वसुश्चापि धनिष्ठा श्रवणान्विता ।
क्षत्रियस्य प्रतिष्ठायां विहितानि च तानि वै ॥ १३१ ॥

शूद्रस्यापि विशेषेण ज्येष्ठा स्वाती च फल्गुनी ।
मखा चापि विशेषेण विहितस्तारकाक्रमः ॥ १३२ ॥

त्यक्त्वा प्रासादतः पञ्चगुणभूमिं च सम्मिताम् ।
हस्तं द्वादश सोपानात् कुर्यान्मण्डलमग्रतः ॥ १३३ ॥

वेदशास्त्रं चतुर्द्वारं स्थानार्धं तु तदर्धतः ।
वेदास्य * * * न्द्रं स्याद्रौद्र्यां प्राच्युत्तरेपि वा ॥ १३४ ॥

आद्यलिङ्गत्रयाणां च विदध्यान्मण्डपत्रयम् ।
हास्तिकं लिङ्ग * * * मष्टहस्तं तु मण्डपम् ॥ १३५ ॥

प्। ९०४)

द्वितीयं लिङ्गमानस्य प्रत्येकं हस्तवृद्धितः ।
चतुर्थं लिङ्गमानस्य द्वौ द्वौ हस्तेन वर्धनम् ॥ १३६ ॥

एवं नवकरे लिङ्गे हस्तद्वाविंशतिर्भवेत् ।
दशहस्तार्कहस्ते वा हास्तिके लिङ्गमानके ॥ १३७ ॥

अन्यमण्डपकोष्ठादि द्विहस्तोऽन्तर वृद्धिदम् ।
वृद्धिपादादिलिङ्गेषु कुर्यान् मानानुसारतः ॥ १३८ ॥

बाणे च रत्नसम्भूते लोहलिङ्गे तथैव च ।
मण्डपं करमायामं विदध्यान्नन्दिकेश्वर ॥ १३९ ॥

एतेषां मण्डपं चापि प्रासादसदृशं भवेत् ।
प्रथमं घनमं स्याध्या द्वितीयं घोषसञ्ज्ञितम् ॥ १४० ॥

प्। ९०५)

विराजं च तृतीयं स्यात् काञ्चनं च चतुर्थकम् ।
रामकार्यस्ततो नन्दिन् मण्डपाः पञ्चतो भवेत् ॥ १४१ ॥

षष्ठं तु कामराजाख्यं सुखवेशोऽथ सप्तमम् ।
अष्टमं घर्घराख्यासौ ददक्षोन च मण्डपः ॥ १४२ ॥

स्थूणाः कोणं चतस्रः स्युर्द्वेद्वे द्वारे तु हास्तिके ।
विस्तीर्णे तु यथाशोभं भावयन्यन्यका अपि ॥ १४३ ॥

मध्ये वेदी चतुर्हस्ता कोणे च स्तम्भसंयुतम् ।
वेदीनां मुनिभिश्चापि साष्टाङ्गुरुरुदीरिता ॥ १४४ ॥

समुच्छ्रयेद् द्व्यङ्गुलं चेद् विस्तारस्तु करं परम् ।
आसां क्रमेण यावन्तो वर्धन्ते रविसङ्ख्यया ॥ १४५ ॥

प्। ९०६)

शान्तिके वर्धयेत्पादं विस्तारादुच्छ्रयादपि ।
एकाशीतिपदानां तु मध्येऽपि नवके तथा ॥ १४६ ॥

कुर्याद् विशेषेण तस्य बाह्येऽपि सन्त्यजेत् ।
पादादिकं चिकं दद्यात् तत्पार्श्वे कुण्डमुच्यते ॥ १४७ ॥

नव कुण्डानि वा कुर्यात् पञ्च कुण्डानि तत्र वा ।
अष्टद्विश्वष्ट कुण्डानि नवमं प्रागुदग्भवेत् ॥ १४८ ॥

चतुर्दिक्षु च कुण्डं वै शेपोवन्नस्तथोच्यते ।
अथवाप्येक कुण्डं तु रौद्र्यां प्राच्यामथापि वा ॥ १४९ ॥

पाश्चात्ये वा वरोः पश्चाद् वेदाश्रं वृत्तमेव वा ।
लिङ्गे तु हास्तिके कुण्डं हास्तिके च भवेत् तदा ॥ १५० ॥

प्। ९०७)

शेषाणामपि लिङ्गानां कुण्डं च द्वादशाङ्गुलम् ।
नवहस्ते लिङ्गके तु त्र्यंशोतीत करद्वयम् ॥ १५१ ॥

सुलिङ्गान्बाणरत्नादीन् विदध्यान्मण्टपोचितान् ।
मुष्टिमात्रे तु कुण्डे तु रत्निमात्रे तथैव च ॥ १५२ ॥

शतार्कं होमसङ्ख्या वै शकश्च रत्निको भवेत् ।
हस्तकुम्भे सहस्रं स्याद्द्विहस्तं चायुतं भवेत् ॥ १५३ ॥

वेदहस्तं तु लक्षं स्याद् द्विलक्षे षट्करं मतम् ।
अष्ठहस्ते त्रिलक्षं स्यात् तत ऊर्ध्वं न कारयेत् ॥ १५४ ॥

कुण्डानां लक्षणं चापि पूर्वमेव मयोदितम् ।
प्राच्यां प्लक्षं तु याम्ये तु उदुम्बरमुदीरितम् ॥ १५५ ॥

प्। ९०८)

औदुम्बरं प्रतीच्यां वै पदं वारुणमुत्तरे ।
शान्तिनाम च पूर्वे तु दक्षिणे भूति सञ्ज्ञकम् ॥ १५६ ॥

वारुण्यां बलसञ्ज्ञं स्यादारोग्यं चोत्तरं भवेत् ।
चतुर्णामपि रक्षाणामलाभेऽप्येवमेव वा ॥ १५७ ॥

दिक्षु सर्वासु संस्थाप्य तेषामुच्छ्रायकं शृणु ।
पञ्चषट्सप्तहस्तानि तोरणानि कनीयसाम् ॥ १५८ ॥

चतुर्णां लिङ्गमारभ्यत्रीणि लिङ्गानि मध्यमम् ।
चतुरङ्गुलद्वयं वृद्ध्या वर्धयेन्नन्दिकेश्वर ! ॥ १५९ ॥

अङ्गुल्यष्टकया वृद्ध्या नवहस्तान्तलिङ्गके ।
यवन्तवक्षरे लिङ्गं तदष्टार्धकरं भवेत् ॥ १६० ॥

प्। ९०९)

कनीयसां तोरणानां च वास्तोर्हस्त प्रमाणतः ।
मध्यमानां त्रयाणां च चतुरङ्गुलवृद्धितः ॥ १६१ ॥

उत्तमानां त्रयाणां तु परं सार्धकरो भवेत् ।
अङ्गुलद्वयवृद्ध्या वै मध्यमार्धादि षट्करम् ॥ १६२ ॥

अथवा पञ्चमांशेन सर्वेषां खातनं भवेत् ।
उच्छ्रायाद्यन्त विस्तारः उच्छ्रायसदृशं तु वा ॥ १६३ ॥

धारिताश्चापि तत्तुल्याद्बाहुल्यं तु षडङ्गुलम् ।
पञ्चहस्तं ह्यशेषाणां शेषाणामङ्गुलं प्रति ॥ १६४ ॥

वर्धयेच्च क्रमादेवं शल्यमष्टाङ्गुलं भवेत् ।

प्। ९१०)

क्रमेण मासां पिण्डं च विदध्यात्तत्समं तथा ।
पञ्चमांशेन चोच्छ्रायशूलं पक्षांश निर्मितम् ॥ १६६ ॥

तस्योच्छ्रायत्रिभागेन शूलपादाय विस्तृतिः ।
द्व्यङ्गुष्ठं प्रथमेऽप्यंशे चान्येषामङ्गुलोत्तरम् ॥ १६७ ॥

पद्मं वा स्वस्तिकं वापि लङ्कः वामहस्तके न्यसेत् ।
द्वारं प्रति विशेषेण रम्भास्तम्भं च पल्लवैः ॥ १६८ ॥

अश्वत्थपत्रैर्दर्भाभिः अलङ्कुर्यात्सुशोभनम् ।
पूर्वद्वारे तु साम्बा स्याद् भुक्तिमुक्तिप्रदायकम् ॥ १६९ ॥

देवीं देवं च चान्यानि विदध्यान्नन्दिकेश्वर ।
यजमानेच्छया वापि दक्षिणं पश्चिमं तथा ॥ १७० ॥

प्। ९११)

इन्द्रचापनिभा रक्ता कृष्णा धूम्रा शशिप्रभा ।
किराभा स्वर्णवर्णा च पताका स्फटिकोपमा ॥ १७१ ॥

ऐन्द्रादितो विधातव्या रक्तचन्द्रब्रह्मपदम् ।
नैर्-ऋत्यां नीलवर्णाभा माध्ये चित्राथ वासिता ॥ १७२ ॥

पञ्चहस्तांशजास्तत्तत् कुर्याद्विकरविस्तृताः ।
सप्तहस्ताः पताकास्तु विंशत्यङ्गुलविस्तृताः ॥ १७३ ॥

ध्वजदण्डप्रवेशास्तु करायामस्तु पञ्च वै ।
भास्तिकं चापि विख्याता स * * * * * * * ॥ १७४ ॥

दशहस्ता पताकानां पञ्चमांशनिवेशकाः ।
सप्तभिर्दशभिः कुर्याद् विंशत्यावा कपै जान् ॥ १७५ ॥

प्। ९१२)

अधमं मध्यमं श्रेष्ठं हस्तद्वितयविस्तृताः ।
अष्टहस्ताथवा ज्येष्ठा द्विकरा विस्तरेण वै ॥ १७६ ॥

क्रमाच्चेष्टास्व * * * * * दृष्टं मयानघ ।
पीठं तु ब्रह्मणो भागाद् द्विगुणं क्षीरवृक्षजम् ॥ १७७ ॥

चतुष्पादं पङ्कजाङ्कम् उच्छ्राये षोडशाङ्गुलम् ।
अथ चोक्तसमुच्छ्रायं विस्तारे द्विगुणं ततः ॥ १७८ ॥

विस्तार द्विगुणायामं भद्रपीठं कनीयसाम् ।
चतुरङ्गुल वृद्ध्या वै * * * * * * * * त् ॥ १७९ ॥

अथवा च परेषां तु नवानां विष्ठरं क्रमात् ।
त्रीणि तत्रापि दृश्यन्ते पीठेष्वेवं तु लक्षणम् ॥ १८० ॥

प्। ९१३)

अव्यक्तात्क्षत्रियद्वारात् सिन्धुतीराद्धलात्कुशात् ।
वल्मीकात्करणादन्तात् गोशृङ्गात्पद्मषण्डतः ॥ १८१ ॥

वराहाद्गोष्ठमध्यात्तु शृङ्गाटक समुद्भवात् ।
प्रशस्ता द्वादश ह्येता ग्राह्या मृत्स्ना विशेषतः ॥ १८२ ॥

अथवाष्टौ च वैकुण्ठे पिनाकी च तथैव च ।
अश्वत्थ जम्बून्यग्रोध चूतोदुम्बरकोद्भवैः ॥ १८३ ॥

त्वगभिक्षायमेवं वै पञ्चकं नन्दिकेश्वर ।
पुष्पा * * * * * * फलानि च विशेषतः ॥ १८४ ॥

तीर्थाम्बूनि सुगन्धीनि महौषधिजलं तथा ।
सस्यं च सर्वपुष्पं च फलं च स्वर्णरत्नकम् ॥ १८५ ॥

प्। ९१४)

ग्रोभाग्र वारिसानमया प्रभेदेत्पञ्चगव्यकम् ।
पञ्चामृतं तथा पिष्टं वज्रादिद्रव्यकं तथा ॥ १८६ ॥

मङ्गलार्थं च कर्पूरं रोचनागरुचन्दनम् ॥ १८७ ॥

शतमौषधिमूलानां विजया लक्षणा बला ।
गलूच्याहि बलापामा सहदेवी शतावरी ॥ १८८ ॥

वृद्धिस्सुवर्चला वृद्धिः स्नानायोक्ताः पृथक् पृथक् ।

गोधूमयवशालीनां बिल्वानां चूर्णमित्यपि ।
आलेपनार्थमिन्द्रेण चन्दनं स्नानकुम्भकम् ॥ १९० ॥

प्। ९१५)

बन्धूकोश्चोत्तरा चापि वितानद्वयमण्टपम् ।
चन्द्रोदयं विचित्रैश्च वक्त्रैरपि च कारयेत् ॥ १९१ ॥

सोपधानं सुखश्चाङ्गं कुपिकायुग्मसंयुताम् ।
धौतपुच्छद्वयपदं शयनीयद्वयं भवेत् ॥ १९२ ॥

मध्वाज्य पूर्ण पात्राणि होमसूदितशालकाः ।
त्रिद्वैकमाषिकाद्याश्च क्रमाज्ज्येष्ठादिषु त्रिषु ॥ १९३ ॥

वर्धनी पूर्ण कुम्भं च लोकपालघटानपि ।
स्वप्नार्थमेक कुम्भं च शान्त्यर्थं कुण्डसङ्ख्यया ॥ १९४ ॥

दिक्पालकुम्भकाश्चापि तद्धर्मस्तु विशेषतः ।
प्रशान्तादि घटाश्चापि वास्तुलक्ष्मी घटेशके ॥ १९५ ॥

प्। ९१६)

कलशानपि सर्वांश्च विद्या न परसंयुताम् ।
वस्त्रसाद्भूषिताश्चापि हिरण्य नवरत्नकाः ॥ १९६ ॥

गन्धवारि सुपर्णाश्च पूर्णपात्रफलान्विताः ।
प्रवाण मुखयुक्ताश्च शोभनास्यास्सलक्षणाः ॥ १९७ ॥

सर्वकुम्भा विधातव्या सवस्त्रा कुम्भतोरणाः ।
स्तम्भान्वासोभिराच्छाद्य गौरसर्षपविष्किरान् ॥ १९८ ॥

लाजांश्च सहदेवं च ज्ञानखड्गं च पूर्ववत् ।
सापिधानाश्चरूः कुम्भीं दर्वीं ताम्रेण कल्पिताम् ॥ १९९ ॥

आज्यक्षौद्रयुतं पात्रं पादाभ्यां तत्कृते तथा ।
आसनानि विशेषेण त्रिंशद्दर्भदलैर्भवेत् ॥ २०० ॥

बाहुप्रमाण युक्तानि कर्तव्यानि तथा पुनः ।
पालाशसमिधश्चापि चतुरश्चतुरो भवेत् ॥ २०१ ॥

सस्सनाडी हविः पात्रं तिलपात्राज्यकानि वै ।
मधुमन्त्राणि सर्वाणि फलविंशति संयुतम् ॥ २०२ ॥

घण्टाधूपप्रधानं च सृक्सृवौ विकटावधि ।
घृणाधि पञ्चितं शुद्धं शुष्कं * * * कालकम् ॥ २०३ ॥

व्यञ्जनार्थं तालवृन्ते मुक्तामुक्तं च पुष्करम् ।
गुल्गुलुं बिल्वपत्रं च धूमं कुङ्कुमबन्धि च ॥ २०४ ॥

सर्पिषा पूर्णदीपांश्च कल्पयेन्नन्दिकेश्वर ।
तण्डुलानि त्रिशूलं वा आज्यं गन्धं यवांस्तिलान् ॥ २३५ ॥

प्। ९१८)

कुशदर्भानते दीक्षां शान्त्यर्थं मधुरत्रयम् ।
पायसं च हविः शुद्धं कल्पयेद्विधिना पुनः ॥ २०६ ॥

याज्ञिकैः पादपोत्थैश्च समिद्भिरपि चोज्वलैः ।
दशरात्री विहीनां च * * * नन्दिकेश्वर ॥ २०७ ॥

त्रिविधा चाङ्गुली ज्ञेया मध्यमादिप्रभेदतः ।
अधमं मध्यमं श्रेष्ठं गुरोरिच्छावशाद्भवेत् ॥ २०८ ॥

दैर्घ्यं षट्त्रिंशता कुर्या अङ्गुल्या च स्रुवं तथा ।
बहुमानं प्रकुर्वीत श्रेष्ठमध्याधमक्रमात् ॥ २०९ ॥

कुर्यादेकाङ्गुल * * सृक्सुवानां च लक्षणम् ।
उक्तं पूर्वनिदानं तु किञ्चिल्लक्षणदण्डवत् ॥ २१० ॥

प्। ९१९)

तस्याष्ट सप्तभिर्वेदी कण्ठ * * स्य लक्षणम् ।
दण्डस्य नाहायामं स्याद्रसविंशतिभिर्भवेत् ॥ २११ ॥

गुणवेदाङ्गुलं कुम्भे ग्रन्थियुक्तं द्वयाङ्गुलम् ।
चतुरश्राङ्गुली तत्स्यात् तं वृत्तं द्व्यङ्गुलं खनेत् ॥ २१२ ॥

तस्याग्रकरयोर स्याद् देवी त्रिंशेन निष्कृतिः ।
आज्यनिर्गममार्गश्च कनिष्ठाम्भश्च विस्तृतिः ॥ २१३ ॥

मेखलाद्यङ्गुलावृत्ता स्रुवायामोजिताङ्गुलम् ।
दण्डाङ्गुलं द्वाविंशतिभिः तत्तं चतुरङ्गुलम् ॥ २१४ ॥

क्रमुको द्व्यङ्गुलं ख्यातः पङ्के मृगपदाकृतिः ।
दण्डस्य मुग्रो चाग्रेऽपि दण्डी कङ्कणवद्भवेत् ॥ २१५ ॥

प्। ९२०)

विकङ्कतिश्च श्रीपर्णी शिंशुपा दारुबीजकाः ।
सूच्यग्रं पादपाः प्रोक्ताः किंशुकाद्याश्च याज्ञिकाः ॥ २१६ ॥

आदित्यादिग्रहाणां च समिधोऽर्कपलाशजाः ।
खादिराः किणिभिश्चैव पिप्पलोदुम्बरोद्भवाः ॥ २१७ ॥

शमीदूर्वा कुशोद्भूता जटाधिकशतोज्वलाः ।
क्रमेण सङ्ग्रहेत् सर्वं तदलाभे यवांस्तिलान् ॥ २१८ ॥

इमानि विष्ठरादीनि कुण्डं प्रति निवेदयेत् ।
सर्वं गृहोपकरणं स्थालीं दवीं विधानकम् ॥ २१९ ॥

उलूखलं च मुसलं खड्गं च क्षुरिका तथा ।
छत्रं च चामरं चैव तालवृत्तं च दर्पणम् ॥ २२० ॥

प्। ९२१)

शिवां पतद्ग्रस्थालं यन्त्रिका पादुकाद्वयम् ।
सिन्धूरभाजनं चैव पूगफलं तथैव च ॥ २२१ ॥

ताम्बूलपेक्ष पूर्णाम्बु करण्डकयुतं तथा ।
भाजनं पञ्चनानान्त योगपट्टं च मार्जनीम् ॥ २२२ ॥

पट्टं च भूषणं चैव चन्दनाद्यनुलेपनम् ।
स्नानयोग्यं तथा सर्वमधिवासाय चानयेत् ॥ २२३ ॥

स्नातोऽधिवासयेद् शिलावेदी वृषाय च ।
मकुटं कुण्डलं चैव हारकेयूरमुद्रिकाम् ॥ २२४ ॥

विचित्रवस्त्रक्षौमादीनाहरेद्गुरु तृप्तये ।
वित्तशाठ्यं न कर्तव्यम् आचार्याय विशेषतः ॥ २२५ ॥

प्। ९२२)

तत्प्रीतिर्जगतां प्रीतिर्भवत्येव न संशयः ।
श्रीमद्गुरोः पदद्वन्द्व पूजनात् सर्वपूजनम् ॥ २२६ ॥

शस्त्रशंसनयुक्तेभ्यो मूर्तिभूतेभ्य एव च ।
तत्पादपादहीनाश्च दक्षिणाश्च भवेत्तदा ॥ २२७ ॥

दैवज्ञशिल्पिना चापि पूजा तुल्या चतसृभिः ।
पविरं कर्मणिन्नीलं मत्तिनीलं तथैव च ॥ २२८ ॥

मौक्तिकं पुष्परागं च पद्मरागं तथैव च ।
वैडूर्यमष्टकं प्रोक्तं रत्नगर्भं विशेषतः ॥ २२९ ॥

चन्दनागरुरक्ता च चन्दनोशीरमाधवाः ।
श्रीकण्ठकण्ठं च तथा शारी च शाखिनी तथा ॥ २३० ॥

प्। ९२३)

ओषधीनां गणंश्चैवं लोहानां च ततः शृणु ।
स्वर्णं ताम्रमयोवर्ग भारमारं स कार्यकम् ॥ २३१ ॥

सीसं मनश्शिला चापि हरितालमथाष्टकम् ।
तोरिकास्सर्गमाक्षीकं रसवर्जितगैरिकम् ॥ २३२ ॥

गन्धकं चाष्टमित्यष्टौ धातवश्च प्रकीर्तिताः ।
गोधूमं च तिलं चैव माषं मुद्गस्वरं तथा ॥ २३३ ॥

वार * * मकानेवं व्रीहयोऽष्टौ प्रकीर्तिताः ।
अथवाष्टकला तु पञ्चहञ्च समाहरेत् ॥ २३४ ॥

जीरकं सहदेवं च स्वर्णकालयवं तथा ।
पसर्पे तु यवाहा च पारदं स्वर्णमेव वा ॥ २३५ ॥

प्। ९२४)

कूर्म भूवृषपद्मानाम् एकं हेमादिनिर्मितम् ।
माषकं व्याप्तके कुर्यात् प्रत्येकोत्तरया तदा ॥ २३६ ॥

ज्येष्ठलिङ्गे बृहन्माषैरिति सर्वं समाहरेत् ।
पूर्वसम्भूतसम्भारैः आचार्यादींश्च पूजयेत् ॥ २३७ ॥

अथ वक्ष्ये विशेषेण स्नानं कुर्याद्गुरुस्तदा ।
नित्यक्रियां च कृत्वा तु प्राणवप्यकवस्वयम् ॥ २३८ ॥

मूर्तिभूतैस्सहायैश्च द्विजैर्गच्छेन्महालयम् ।
शान्ताख्यतोरणादींश्च सर्वं सम्पूजयेद्गुरुः ॥ २३९ ॥

प्रादक्षिण्य क्रमात्तेषां चाग्रयोद्वारपालकान् ।
पूर्वे नन्दिमहाकालौ याम्ये भृङ्गि विनायकौ ॥ २४० ॥

प्। ९२५)

प्रतीच्यां वृषभ स्कन्दौ चोत्तरे देविनन्दिकौ ।
शाखामूले च तत्रस्थैः प्रशान्तशिखरौ यदा ॥ २४१ ॥

पर्जन्यशोकनामानौ भूतसञ्जीवनावृतौ ।
धनदश्रीप्रदौ द्वौ द्वौ क्रमात्सम्पूजयेद्गुरुः ॥ २४२ ॥

प्रणवादि चतुर्थ्यन्तैः नमोन्तैः स्वस्वनामभिः ।
लोकग्रहस्वस्यद्वस्था नन्दिनं च द्वयं द्वयम् ॥ २४३ ॥

रवित्रयं युगं वेदं लक्ष्मीर्गणपतिस्तथा ।
यागमूले मराश्चैते तिष्ठन्ति प्रतितोरणम् ॥ २४४ ॥

यागसंरक्षणायैव प्रत्यूहामर्दनाय च ।
पूर्वादिति क्रमाद्वापि चायुधान्यपि चार्चयेत् ॥ २४५ ॥

प्। ९२६)

शक्तिं चापि तथा दण्डं खड्गं पाशं ध्वजं गदाम् ।
त्रिशूलं चक्रमम्भोजं पताका च यथा क्रमम् ॥ २४६ ॥

ॐ हूमिति चवोन्य वज्राय च तथैव च ।
हुम्फण्णमोऽन्तास्त्रमन्त्रं मन्त्रैरेवं समर्चयेत् ॥ २४७ ॥

ॐ हूं हूं शक्तये हुम्फण्णमः ।
ॐ ह्रूं ह्रूं दण्डाय हुम्फण्णमः ॥ २४८ ॥

एवं क्रमादनेनैव मन्त्रेण तु समर्चयेत् ।
कुमुदः कुमुदाक्षश्च पुण्डरीकाक्षश्च वामनः ॥ २४९ ॥

शङ्खकर्णस्तथा सर्वं वेत्रस्सुमुख सञ्ज्ञकः ।
सुप्रतिष्ठितनामा च गजानाग्रं विभावयेत् ॥ २५० ॥

प्। ९२७)

खड्गहस्तं शवारूढं नीलोत्पलदलप्रभम् ।
रक्तनेत्रं रक्तपानं निर्-ऋतिं राक्षसाधिपम् ॥ २५१ ॥

शरच्चन्द्र प्रतीकाशं नागपाशधरं शुभम् ।
अनेकरत्नसंयुक्तं मकरोपरि संस्थितम् ॥ २५२ ॥

वरुणं पश्चिमे भागे भावयेन्नन्दिकेश्वर ।
विलोलध्वजहस्तं च पीतश्यामतनुं शुभम् ॥ २५३ ॥

पृषदश्व स भूतानां प्राणभूतं समीरणम् ।
हयारूढं शर्व शर्वरंरीरं च कुबेरकम् ॥ २५४ ॥

हेमवर्णं गदाहस्तम् उत्तराशापतिं स्मरेत् ।
वृषारूढं तमीशानं त्रिशूलव्यालधारिणम् ॥ २५५ ॥

प्। ९२८)

शरच्चन्द्र प्रतीकाशं भस्मोद्धूलितविग्रहम् ।
त्रिलोचनं जटाचूट शरच्चन्द्रार्धशेखरम् ॥ २५६ ॥

सहस्रफणसंयुक्तं पुण्डरीकनिभेक्षणम् ।
तटित्कोटि प्रतीकाशं कूर्मारूढमनन्तरम् ॥ २५७ ॥

पूजयेत् तदधोभागे चोर्ध्वे ब्रह्माणमर्चयेत् ।
चतुर्वक्त्रं स्वर्णवर्णं हंसारूढमनौपमम् ॥ २५८ ॥

अक्षमालां च दण्डं च कमण्डलु धरं तदा ।
स्तम्भमूले घटेष्वेव वेदधर्मादिकान् न्यसेत् ॥ २५९ ॥

अथवा दिक्षु कुम्भेषु अनन्तादींश्च पूजयेत् ।
वर्धनीं पृष्ठनीं कुम्भं भ्रामयेत्तं शिवाज्ञया ॥ २६० ॥

प्। ९२९)

श्रावयेत् स्थापयेत् कुम्भं वर्धनीं तदनन्तरम् ।
कुम्भे स्थिरासनं देवं शस्त्रालुं च ध्रुवासनम् ॥ २६१ ॥

सम्पूज्य पूर्ववद् देवं संस्पृशेदुद्भवाख्यया ।
निजयागं जगन्नाथं रक्ष भक्तानुकम्पया ॥ २६२ ॥

इति संश्राव्य रक्षार्थं कुम्भे खड्गं निवेदयेत् ।
अथवा स्थण्डिले कुम्भे मण्डले शिवमर्चयेत् ॥ २६३ ॥

मण्डले च यथा पूर्वं पूजयेच्छिवमव्ययम् ।
मण्डलस्य तु मध्ये विलिखेदष्टदलाम्बुजम् ॥ २६४ ॥

आद्यंशे कर्णिका कार्या द्वितीये केसराणि वै ।
दलसन्धि तृतीयांशं चतुर्थं * * * * कम् ॥ २६५ ॥

प्। ९३०)

अङ्गुलाष्टकमानेन कर्णिका तत्र वै भवेत् ।
पद्मपत्रदलाग्राणि गात्राणि दलसन्धयः ॥ २६६ ॥

चतुरङ्गुलमानेन यथा शोभं क्रमाल्लिखेत् ।
दलाग्रं तु दलं न्यस्त्वा प्रतिवारुण मण्डलम् ॥ २६७ ॥

परिताङ्गुलेनैव कर्तव्यं नन्दिकेश्वर ।
शिवस्या सनकं तत्र वीथ्यादि सहितं भवेत् ॥ २६८ ॥

वीथ्या द्वारमथाद्येन तदर्धेनापि चाभवेत् ।
शोभानुद्वारमानेन कपालौ कृतदर्धता ॥ २६९ ॥

सिते रक्तं तथा कृष्णं रजतं पीतं पिधानकम् ।

प्। ९३१)

अयं कुलेन तत्कुर्यात् कर्णिकाश्च षडङ्गुलम् ।
शिवं तत्रैव सम्पूज्य गच्छेयुः कुण्ड सन्निधौ ॥ २७१ ।

मूर्तिपा स्वकलाश्चापि कुण्डनाभि पुरस्कृताः ।
कुण्डसंस्कारकादीनि देशिकादेशतो भवेत् ॥ २७२ ॥

जापिनोऽपि जपेयुस्ते हेतिमन्ये तु संहिताम् ।
चतुर्वेदविदो विप्राः पठेयुः शान्तिसूक्तकान् ॥ २७३ ॥

पवमानि सूसूक्तं च मैत्रं चैव वृषाकपिः ।
प्राच्यां पठेत्तु ऋग्वेदी सर्वमेतत्समं तदा ॥ २७४ ॥

पुरुषं गतिमेतानि सामवेदी तु दक्षिनः ॥ २७५ ॥

प्। ९३२)

रुद्रं पुरुषसूक्तं च श्लोकाध्यायं विशेषतः ।
यजुर्वेदी ब्राह्मणस्तु प्रतीच्यां वै समुच्चरेत् ॥ २७६ ॥

उत्तरे सर्वशीर्षं च नीलरुद्रं तथैव च ।
स्रुवसूक्तं तथैवाशु जपेदाथर्वणिस्तथा ॥ २७७ ॥

देशिको वह्निमुत्पाद्य कुण्डं प्रति विनिक्षिपेत् ।
अग्नेः प्रागादिकान्यागात् पूर्वकुण्डादिभिः क्रमात् ॥ २७८ ॥

धूपदीपं च रूपं च कृते नाग्निं समुद्धरेत् ।
देवे * * * * * * * * बोग्नौ मन्तर्पणम् ॥ २७९ ॥

सम्पत्त्यै दुर्निमित्तानां शान्तये होममाचरेत् ।
पूर्णाहुतिं क्रमाद्दत्वा पूर्ववच्चरुकुम्भकम् ॥ २८० ॥

प्। ९३३)

कुण्डं प्रति यथायोगं कारयेद्देशिकोत्तमः ।
यजमानोऽपि पूर्वोक्तभूषणैर्भूषयेच्च ताः ॥ २८१ ॥

अलङ्कृतास्तु ते सर्वे प्रययुः स्नानमण्डपम् ।
पद्मासने तु प्रायेद्याः प्रणवासनमध्यमे ॥ २८२ ॥

शिवं तत्र समावाह्य ताडयित्वा च कुण्डयेत् ।
काषायकरुणा चैव स्नाप * * * * तथा ॥ २८३ ॥

गोमूत्रगोमयैर्वापि शुद्धतोयान्तरान्तरम् ।
गन्धतोयेन फट्कारहेतिना शुद्धवारिणा ॥ २८४ ॥

भस्मना वापि संस्नाप्य पूजयित्वा विधानतः ।
पादादिकरशुद्धिश्च मूर्तिपैः कारयेद्गुरुः ॥ २८५ ॥

प्। ९३४)

तनुत्रजप्तपीतेन वाससाच्छाद्य साम्प्रतम् ।
शुद्धपुष्पैः सुसम्पूज्य नयेदुत्तर वेदिकाम् ॥ २८६ ॥

शय्यासने सुसंवेश्य कुङ्कुमारुणसूत्रकैः ।
विमृज्य विलिखेत्तत्र हेमसूच्या गुरुः स्वयम् ॥ २८७ ॥

कृत * * * * णचाङ्गकश्शिल्पि समुच्चरेत् ।
आचार्यस्त्रिंशताबोधा पादादर्धं तथापि वा ॥ २८८ ॥

शुभमङ्गं च कर्तव्यं सर्वकामार्थ सिद्धये ।
लिङ्गदैर्घ्यविकारांशे त्रिभक्ते भागहीनतः ॥ २८९ ॥

सप्तारे लिङ्गदेशस्य लिङ्गमस्तकयुग्भवेत् ।
क्षेत्राष्टं चेतु चिह्नं स्यान्मूर्ध्नि भाक्तिद्वयोच्यते ॥ २९० ॥

प्। ९३५)

वश्यभागपरिवर्तेषु चाधोभागद्वयं त्यजेत् ।
पृष्ठभागे तु सम्बद्धं लेखात् सम्भ्रमणाद्भवेत् ॥ २९१ ॥

रत्नजे लोहजे वापि नर्मदा * * * * * ।

व्यक्ते तु नयनोन्मेष लक्ष्म तत्सन्निधाय वै ।
कल्लक्ष्ममार्गमधुना घृतेनापि प्रपूरयेत् ॥ २९३ ॥

शिल्पिदोष * * * व्य पूजयेल्लिङ्गमुत्तमम् ।
शय्याभूषणपात्रादि * * * * * * * * ॥ २९४ ॥

शलाकापासनं तर्प्य शिल्पिनं यजमानकः ।
भूषणैर्विविधैरेव गोभिः क्षीरसमृद्धिभिः ॥ २९५ ॥

प्। ९३६)

सम्पूजयेत् ततो लिङ्गं धूपदीपाक्षतादिभिः ।
गायन्त्यो मङ्गलं नार्यो जीवपुत्रास्सभ्रातृकाः ॥ २९६ ॥

सव्ये च व्योमहस्तेन सूत्रेणाद्य कुशेन वा ।
स्पृष्ट्वा च रोचनां दत्वा कार्यनिर्मर्त्सनादिकम् ॥ २९७ ॥

धान्यैश्च लवणैश्चापि शुद्धैकश्शर्करादिभिः ।
सन्तोषयेच्च कर्ता तु विविधैः स्वर्णदानकैः ॥ २९८ ॥

देशिको मूर्तिपैस्सार्धं प्रणवेन हृदाथवा ।
मृत्स्नागोमयगोमूत्र भस्मभिस्सलिलान्तरम् ॥ २९९ ॥

पञ्चगव्येन संस्नाप्य पञ्चामृत पुरस्सरम् ।
काषायवारिणा चैव निर्मस्ति तदनन्तरम् ॥ ३०० ॥

प्। ९३७)

सर्वौषधिजले नैव शुभपुष्पफलान्वितैः ।
रत्नशृङ्ग सुवर्णादि वारिभिश्चाभिषेचयेत् ॥ ३०१ ॥

सहस्रधारणायेन दिव्यौषधिजलेन च ।
गङ्गादितीर्थतोयेन पददेन च वारिणा ॥ ३०२ ॥

काकार्णवादिभिः कुम्भैः शिवकुम्भजलेन च ।
निर्मत्सलं विलेपं च सुगन्धैश्चन्दनादिभिः ॥ ३०३ ॥

ब्रह्माङ्गैश्च शुभैः पुष्पैः वर्मणारक्तपीडनैः ।
अघोरेण तु नीराज्य भस्मना तिलकं भवेत् ॥ ३०४ ॥

नृत्तैश्च गीतैर्वाद्यैश्च ब्रह्मघोषादि मङ्गलैः ।
जलजीरकधात्रादि पूर्वैरप्यादिषूचितैः ॥ ३०५ ॥

प्। ९३८)

सन्तुष्टमर्चयेत्तत्र जपस्तुत्यादि मङ्गलैः ।
पुरुषेण विशेषेण समाचम्य पदा तदा ॥ ३०६ ॥

एवं देवं च सम्ब्रूयादुयतां भगवानिति ।
ततो रथं समारोप्य मण्डपं पुरमेव वा ॥ ३०७ ॥

शताङ्गाग्रे च कर्तारं देशिकप्रोक्षिते कले ।
व्रजनृष्यादिभिस्सार्धं रथमार्गानुसारिभिः ॥ ३०८ ॥

वस्त्रादि हेमरत्नादि सप्तब्रूहि * * * कान् ।
नृत्तगीतादिभिश्चैव मालाभिश्च सुगन्धिभिः ॥ ३०९ ॥

वित्तानुसारतश्चैव दीपं च परितो भवेत् ।
पूर्वं तु मण्डपद्वारं तत्र भद्रासनस्थितान् ॥ ३१० ॥

प्। ९३९)

शिवं समां च सम्पूज्य कृते स्वस्त्ययने सति ।

पश्चिमास्ये विधिस्त्वेवं पूर्वास्ये तद्विपर्ययम् ।
तत्र शस्त्रशताल्लब्ध निद्राकुम्भध्रुवासनम् ॥ ३१२ ॥

सङ्कल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ।
पश्चात् स्करं फलशिरसा च * * * * * * ॥ ३१३ ॥

पदतां च ग्रहादीनि हृदा दद्यात्स्वशक्तितः ॥ ३१४ ॥

अभ्यङ्गाय घृतक्षौद्र युक्तपात्रं पदादिगे ।
तत्र स्थितो गुरुः पश्चात् षट्त्रिंशत्तत्वसञ्चयम् ॥ ३१५ ॥

प्। ९४०)

शक्त्याद्यवनिपर्यन्तं स्वतत्वाधिपसंयुतम् ।
विन्यस्य पुष्पमालाभिः त्रिपुण्ट्रं परिकल्पयेत् ॥ ३१६ ॥

आथा सन्देश * * * * * * * * * * * ।

भूवह्नियजमानार्क जलवायु निशाकरात् ॥ ३१८ ॥

व्योममूर्ति स्वरूपास्तां न्यसेत्तदधिनायकान् ।
शर्वं पशुपतिं चोग्रं रुद्रं भवमथेश्वरम् ॥ ३१९ ॥

महादेवं च भीमं च मन्त्रस्तत्वार्थ नामकान् ।

तारं * * * * * * * * * * * * * * ।

प्। ९४१)

अथवा पञ्चमे कुण्डमूर्तिः प * * * * सेत् ।
क्ष्म * * * * * * * * * * * * * स्तथा ॥ ३२१ ॥

ब्रह्माणं विष्णुरुद्रौ च ईश्वरं च सदाशिवम् ।
सृष्टि क्रमेण भोगाय मुक्त्यर्थं विपरीतकम् ॥ ३२२ ॥

मुमुक्षोर्वनिवृत्त्याद्या अजाताद्यास्तदीश्वरः ।
तत्र द्वयं न्यसेद्वाप्य सर्वत्र द्व्यसकारणम् ॥ ३२३ ॥

विशुद्धेऽध्वनि विद्येशा न शुद्धे लोकनायकाः ।
द्रष्टव्या मूर्तिपाश्चैते भोगिनो म * * * * ॥ ३२४ ॥

थेवाष्ट * * * * * पञ्चत्रीणि यथाक्रमम् ।
कृतस्नाता * * * * चन्दनादि * * * * ॥ ३२५ ॥

प्। ९४२)

रक्तपञ्चक संयुक्तं लिङ्गस्योत्तरतः स्थितान् ॥ ३२६ ॥

लिङ्गवत्कृतविन्यासान् विधिवत् समपूजयेत् ।
कृतस्नानादिकान्तद्वा लिङ्गमूले शिवां न्यसेत् ॥ ३२७ ॥

कृतस्नानादि संस्कारं शक्त्यन्तत्व वृतं तथा ।
तारपूर्वं च मूसूंह्रीं मध्यादन्यतमेन च ॥ ३२८ ॥

क्रियाशक्तिनिभाम्पिण्डं शिशला * * * * * ।

दिक्पति * * * * त्र रक्षा * * * * क्तये ।
ॐ ह्रीं ह्रां सः ॐ हां भौरि रुद्र इत्येते स्वाहेत्यपि च पिण्डिकाम् ॥ ३३० ॥

प्। ९४३)

ॐ हाम् आधारशक्तये नमः ॐ हां वृषभाय नमः ।
धारिका दीप्तमत्युग्रा ज्योत्स्ना चेतासलोत्कटा ॥ ३३१ ॥

धात्रीविहितमूर्तीशा न्यसेद्वा पञ्चनाडिका ।
वामा ज्येष्ठा क्रियाज्ञानि चेष्टा तिस्रोऽथवा न्यसेत् ॥ ३३२ ॥

क्रियाज्ञानि * * * * * * * * * * * * ।
मा मोक्षा क्षयानिद्रा मृत्युं मायाभय थ चक्रता ॥ ३३३ ॥

आत्मविद्याशिवाख्येषु त्रिषु मूर्तिषु विन्यसेत् ॥ ३३४ ॥

अत्रापि पिण्डिका ब्रह्म शिलिधिष्ट यथाविधि ।
गौर्यादि मन्त्रकैरेव पूर्ववत्सम्प्रपूजयेत् ॥ ३३५ ॥

प्। ९४४)

कुण्डपार्श्वे ततो गत्वा न्यासं कुर्याद्यथा विधि ।
कुण्डस्य मध्ये देवेशं मेखलासु महत्स्वरम् ॥ ३३६ ॥

ना * * * * * * * * * * ष्ठे च विन्यसेत् ।
कलशे स्थण्डिले * * * * * धानमा * * ॥ ३३७ ॥

गच्छन्ति शून्यमार्गेण निस्सरन्ति समुद्गताः ॥ ३३८ ॥

शून्यमार्गेण गच्छन्ति स्वस्यतां तत्र चिन्तयेत् ।
सन्ध्येयं मूर्तिपैस्तत्र चान्योन्यं नन्दिकेश्वर ॥ ३३९ ॥

आधारशक्तिं सम्पूज्य कुण्डे सन्तर्प्य च क्रमात् ।
तत्वं तत्वेश्वरान्मूर्तिं मूर्तीशांश्च घृतादिभिः ॥ ३४० ॥

प्। ९४५)

तर्पयित्वाथ सम्पूज्य * * * संहिताणुभिः ।
पूर्णाहुत्या सहस्रं च शतं वा चापि होमयेत् ॥ ३४१ ॥

पञ्चब्रह्मषडङ्गैश्च द्रव्यकालात्मनोरतः ।
शान्तिकुम्भे जलैश्चापि प्रोक्षयेत् कुशमूलतः ॥ ३४३ ॥

संस्पृश्य लिङ्गमूलं च जपं कुर्याच्च सङ्ख्यया ।
विदध्यात् सन्निधानार्थं हृदा रोधावकुण्ठनम् ॥ ३४४ ॥

कवचेन तदा कुर्यान् मूर्तिपांश्च विशेषतः ।

प्। ९४६)

पूर्ववद्धोमसङ्ख्यादि * * * * * * * * ।

यथा सङ्ख्यं च सन्धानं तदिदानीमिहोच्यते ।
ॐ हां हां वं ॐ ॐ ॐ वां वह्निमूर्तये नमः ॥ ३४७ ॥

क्रमात्तु यजमानादि मूर्तिभिश्चापि सन्धये ।
पञ्चमूर्त्या प्येवं सन्धानं हृदयादिभिः ॥ ३४८ ॥

स्वधाबीजैश्च मूलेन ज्ञेयं तत्वत्रयात्मके ।
वृद्ध्या वृक्षेऽपि वैनं * * * गच्छ स्वयं नरैः ॥ ३४९ ॥

प्रत्येकं भागशुद्ध्यर्थं शतं होमं च शतम् ।
हुत्वा यद्यत्कृतं कर्म शिवश्रोत्रे निवेदयेत् ॥ ३५० ॥

प्। ९४७)

कर्मैतत्कथितं ह्येतत् चिच्छक्त्यै च मया प्रभो ! ।
ॐ नमो भगवते रुद्राय रुद्रामोवित्कृते ॥ ३५१ ॥

विधिं पूर्वम * * * शक्त्या पूज्यर्कगृह्यता ।
ॐ ह्रीं शाङ्करी पूरय स्वाहा * * * * * * ॥ ३५२ ॥

पिण्डिकायां न्यसेदेवमधिलिङ्गे न्यसे * * ।

आधारर * * * * * * * * * * * * ।
सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥ ३५४ ॥

एकरात्रमथोवापि यद्वा सद्योऽधिवासितम् ।
अधिवास विहीनश्चेद् योगो निष्फलमाप्नुयात् ॥ ३५५ ॥

प्। ९४८)

स्वस्वमन्त्रैश्च होतव्यमाहुतीनां शतं शतम् ।
दिग्बलिं विधिना कुर्याच्छिवकुम्भं च पूजयेत् ॥ ३५६ ॥

अधिवासविधिस्त्वेवं कृतोऽयं नन्दिकेश्वर ।

द्वारपूजां च कुर्याच्च पू * * * * * * चरेत् ।
समभ्यर्च्य च दिक्पालान्शिवकुम्भं च वर्धनीम् ॥ ३५८ ॥

लिङ्गमग्निं च सम्पूज्य अष्टपुष्पिकया क्रमात् ।
गच्छेच्छिवाज्ञया तत्र प्रासादं शस्त्रमुच्चरेत् ॥ ३५९ ॥

हुम्फडन्तास्त्रमन्त्रेण * * * नि निवारयेत् ।
लिङ्गं न मध्ये स्थातव्यं वेदघोष विशङ्कया ॥ ३६० ॥

प्। ९४९)

मध्यान्तस्तात् परित्यज्य वर्धनाय च * * * ।
तस्मादीशानमाश्रित्य शिलां मध्ये निवेशयेत् ॥ ३६१ ॥

मूलेन तामनन्ताख्य विन्यसेदचलां शिलाम् ।
अथवानेन मन्त्रेण शिवस्यासन रूपिणीम् ॥ ३६२ ॥

ॐ नरो व्यापिनि स्थिरे चले ध्रुवे ह्रीं स्वाहा ।
शिवाज्ञयात्वया चेदा स्थातव्यमिहसन्ततम् ॥ ३६३ ॥

इत्यु * * * * ध्यच्य निरुध्याद्रोधमुद्रया ।
वज्रादीनि ततो चान्तानि तथोशीरादिकौषधौ ॥ ३६४ ॥

हेमादि लोहकां * * * * * * दिकांस्तथा ।
पूर्वोक्तधान्यराशींश्च क्रमा च विरचय्य च ॥ ३६५ ॥

प्। ९५०)

प्र * * * * विक्तस्तु लोकपालेश मन्त्रकैः ।
पूर्वादिचाष्टगात्रेषु क्रमादेकैकशः क्रमात् ॥ ३६६ ॥

स्वर्णं वा ताम्रजं कूर्मं वृषं वा द्वारसम्मुखम् ।
सरित्तटमृदा युक्तं पर्वताग्रमृदादि वा ॥ ३६७ ॥

मधुकाक्षत संयुक्तम् अञ्जनेन समन्वितम् ॥ ३६८ ॥

राजतां पृथ्वीं यद्वा यद्वा व * * * * * * ।
सर्वबीजसुवर्णाभ्यां समायुक्तं विनिक्षिपेत् ॥ ३६९ ॥

हेमं चर * * * * * * * * रत्नमन्त्रतः ।
वेदे नवस्य शक्त्यादि शक्तिपर्यन्तमासनम् ॥ ३७० ॥

प्। ९५१)

कल्पयेत्पायसेनाथ क्षिपेद्गुद्गुलुवाथवा ।
स्वभूमाच्छाद्य वस्त्रेण कवचेनास्त्ररक्षणम् ॥ ३७१ ॥

दत्वा बलिं दिक्पतिभ्यः समाच्छान्ते गुरुस्सदा ।
शीलासूत्रजदोषस्य शान्तये मूलमन्त्रतः ॥ ३७२ ॥

शतं सम्यक् च जुहुयादस्त्रमन्त्रेण वाथवा ।
प्रत्येकं वास्तुदेवानां तृणेन जुहुयात्क्रमात् ॥ ३७३ ॥

हृदा देवं समुत्थाप्य मान * * * * * तैः ।
स्वबन्धुसहितः कर्ता पाश्चात्यो दैवतोऽपि वा ॥ ३७४ ॥

परिभ्रमाथ प्रासाद ग्रामादीन् क्रमशोपि वा ।
लिङ्गं स्थाप्य जलेभद्रां भद्रास्यै चार्धमुत्तमम् ॥ ३७५ ॥

प्। ९५२)

प्रासादं च नयेत्पश्चाद् रत्नगर्भं विशेषतः ।
द्वारेण द्वारबन्धे च द्वारदेशेन तद्विना ॥ ३७६ ॥

शिलाशूरे द्वारबन्धे तदूर्ध्वेनाथ तद्विते ।
द्वारस्पर्शाद्विसृज्यैव द्वारेणैव शयेत् ॥ ३७७ ॥

अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गेऽपि सर्वतः ।
गृहे प्रवेशस्तद्द्वारारिकैरपि समीरितम् ॥ ३७८ ॥

अपद्वारप्रवेशे तु गोत्रक्षयमनन्तरम् ।
कर्तुस्त्वन्तु विनाशाय मतश्शान्तिं समाचरेत् ॥ ३७९ ॥

जीर्णादिदोष दुष्टः स्यादपद्वारेण निर्मितम् ।
द्वाराभिमुख माप्यापि पीठे लिङ्गमनन्तरम् ॥ ३८० ॥

प्। ९५३)

मङ्गलैस्तूर्यनिर्घोषैरक्षतैर्दूर्वयार्चयेत् ।
प्रीतोत्तिह्याथ देशिको मूर्तिपैस्सह ॥ ३८१ ॥

चन्दनैः कुङ्कुमैर्वापि विलिप्त्वा यन्त्रधारिणम् ।
ध्यात्वैक्यं शक्तिशिवयोश्शिवयोगी च लम्बनम् ॥ ३८२ ॥

लयान्तमूलमुच्चार्य सृष्ट्यार्षश्चभ्रे निवेशयेत् ।
र्यंशेन ब्रह्मभागे वा यद्वात्र्यंशद्वयेन च ॥ ३८३ ॥

अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनम् ।
सीसकम्भमपीडायाथ दीर्घान्तार्भस्समं हितः ॥ ३८४ ॥

पूर्वश्च शृङ्गवालुकाभि स्थिर * * रूपिणीम् ।
शक्त्यन्तमूलमुच्चार्य न्यसेद्दृष्ट्वा च निष्कलम् ॥ ३८५ ॥

प्। ९५४)

लिङ्गवत् स्थाप्यमानं तु यां यां दिशमुपाश्रयेत् ।
तत्तद्दिगीशमन्त्रेण पूर्णां तं दक्षिणान्वितम् ॥ ३८६ ॥

भ्रामत्ते च स्फुटी वक्त्रे शब्दोच्चारेण संयुते ।
शतं मूलेन कर्तव्यम् अर्धवारेण वा भवेत् ॥ ३८७ ॥

अन्येष्वपि च देशेषु एवं शान्तिं समाचरेत् ।
लिङ्गोक्त न्यासके कुर्याद्दोषशान्त्यै विशेषतः ॥ ३८८ ॥

वालुकाभिश्च भूसन्धिं पूर्य यज्ञानु लेपनात् ॥ ३८९ ॥

देशिको मूर्तिपैस्सार्धं शान्ति कुम्भजलार्धतः ।
संस्नाप्य कलशैन्यस्तैस्तद्वत् पञ्चामृतादिभिः ॥ ३९० ॥

प्। ९५५)

चन्दनाद्यैः सुसंलिप्य शिवं सम्पूज्य देशिकः ।
उमामहेश मन्त्राभ्यां कौस्पर्शे लिं * * * * ॥ ३९१ ॥

च कुर्या * * * * * * * शक्तिं च पीठके ॥ ३९२ ॥

एवं क्रमाच्च विन्यस्य पूजयेज्जगदीश्वरम् ।
कुङ्कुमागरुकर्पूरैः समालभ्याथ भूषणैः ॥ ३९३ ॥

साज्यं गुग्गुलु दग्ध्वाच व्याप्यत्वेन शिवं न्यसेत् ।
धूपदीपं च नैवेद्यं हृदयेन फलानि च ॥ ३९४ ॥

निवेद्यं च ततः कुर्यात् समा * * * * * * ।

प्। ९५६)

प्रणम्यैवं बहिर्गत्वा प्रणवेन हृदाऽथवा ।
वृषभं स्थापयेत् पश्चात् पूर्व * * * * हुनेत् ॥ ३९६ ॥

ऋणादि दोषमोक्षार्थं ततो मृत्याजितं निश ।
हुत्वा शिवे * * * * शान्त्यर्थं प * * प्रभो ! ॥ ३९७ ॥

हिरण्य पशुभूत्यादि हेतवे * * * * * ।
महोत्सवं च दानं कुर्याद्दिन चतुष्टयम् ॥ ३९८ ॥

होमयेन् मूर्तिपैस्सार्धं त्रिसन्ध्यं तु दिनत्रयम् ।
तुरीये च दिने चैव पूर्णया बहुरूपिणा ॥ ३९९ ॥

चरुं च निर्वपेत्पश्चान् निवेद्यं तदनन्तरम् ।
सर्वकुण्डेषु सम्पाताहुतिं शोधितं हरेत् ॥ ४०० ॥

प्। ९५७)

तृतिये * * * * * निर्माल्यं च तदूर्ध्वतः ।
निर्माल्यापनयं कृत्वा स्नापयित्वा प्रपूजयेत् ॥ ४०१ ॥

स्वमन्त्रवर्जनं कुर्याल्लिङ्गं चैतन्य संयुतम् ।
असाधारणलिङ्गेषु क्षमस्वेति विसर्जनम् ॥ ४०२ ॥

आवाहनमभि व्यक्ति स सद्यश्शक्तिरूपतः ।
प्रतिष्ठान्ते च कर्तव्यं स्थिराद्याहुति सप्तकम् ॥ ४०३ ॥

स्थिरस्वधाप्रमेयानाम् अधिबोधस्तथैव च ।
नित्योथ सर्वगैश्चैव नीराशी तृप्तयेव च ॥ ४०४ ॥

शिवस्य सन्निधानार्थं शृणुह्येतान् प्रकीर्तितान् ।
ॐ नमः शिवाय * * * * * * * * * * ॥ ४०५ ॥

प्। ९५८)

सम्पाद्यैवं विधायैव शिवकुम्भवदव्ययम् ॥ ४०६ ॥

घटद्वयं च तन्मध्यादेक कुम्भं यथाभवम् ।
संस्नाप्य तद्द्वितीयं तु यजमानाभिषेचने ॥ ४०७ ॥

धारयेत्तु बलिं दत्वा समाचम्य बहिर्व्रजेत् ।
शिवाज्ञया बहिर्गत्वा जगती बाह्यतः शुभैः ॥ ४०८ ॥

ऐशान्यां चण्डधामापि विधिना कारयेद्गुरुः ।
भगप्रमाणयुक्ते च स्वपीठे कल्पितासने ॥ ४०९ ॥

उक्तानि पूर्वमङ्गानि ब्रह्माणि त्वयनं विना ॥ ४१० ॥

प्। ९५९)

ॐ वं सद्योजाताय हुं फण्णमः ।
ॐ सं वामदेवाय हुं फण्णमः ॥ ४११ ॥

ॐ चुम् अघोराय हुं फण्णमः ।
ॐ चें तत्पुरुषाय हुं फण्णमः ॥ ४१२ ॥

ॐ चोम् ईशानाय हुं फण्णमः ।
नमस्कारेण सन्तर्प्य निवेद्यं च जपं तथा ॥ ४१३ ॥

विज्ञाप्य भक्तिसंयुक्तो यावत् सन्निधयेत् तदा ।
तत्रत्वं सन्निधीग्राह्या देव * * * * * * ॥ ४१४ ॥

चललिङ्गे च लोहे च बाणलिङ्गे स्वयम्भुवि ॥ ४१५ ॥

प्। ९६०)

न चण्डोऽधि कृतस्तत्र विशेषाद्रत्नगर्भके ।
अद्वित भावनायुक्ते स्थण्डिले च त्रिधावधि ॥ ४१६ ॥

चण्डमेवं च संस्थाप्य चण्डदोषनिवृत्तये ।
बन्धुदारसुतैर्युक्तं कर्तारं स परिग्रहम् ॥ ४१७ ॥

स्थापयेत् पूर्वकुम्भेन स्थापको देशिकोत्तमः ।
शिववत्पूजनं कुर्याद् यजमानोऽपि देशिकम् ॥ ४१८ ॥

गुरुस्सन्तोषहीनश्चेद् यजमानोऽपि निष्फलः ॥ ४१९ ॥

मूर्तिपाश्च द्विजाश्चापि दैवज्ञं शिल्पिनं तथा ।
दक्षिणाश्च ततो दद्याद् यथा शक्त्या विशेषतः ॥ ४२० ॥

प्। ९६१)

अन्धान्कुम्भांश्च कृपणाकुष्ठव्याध्यादि पीडितान् ।
तोषयेच्च विशेषेण यजमानः स्वयं तथा ॥ ४२१ ॥

गुरुः कर्तुश्च सन्तुष्टः फलमेवं प्रदर्शयेत् ।
प्रतिमालिङ्गदेवीनां यावन्तः परमाणवः ॥ ४२२ ॥

तावद्युग सहस्राणि शिवलोके महीयते ।

यदत्र सन्मुखीभावे चोदितं भगवन्मया ।
क्षमस्व नाद्य तत्सर्वं कारुण्याम्बुनिधिर्मम ॥ ४२४ ॥

एवं देवाय विज्ञाप्य भक्तियुक्तो गुरुस्तथा ।
प्रतिष्ठां पुण्यकं यत्तु स्फुरन्नक्षत्र सुप्रभम् ॥ ४२५ ॥

प्। ९६२)

जलपुष्पकरोपेतं स्वकरेण समर्पयेत् ।
पश्चात् पाशुपतं जप्त्वा प्रणम्य शिवमव्ययम् ॥ ४२६ ॥

स्थातव्यं भवता तावद् यावत् स * * * * * ॥ ४२७ ॥

स्वस्वमन्त्रैश्च देवाश्च स्थाप्यास्तत्र विशेषतः ॥ ४२८ ॥

आद्यक्षरेण भेदाद्या तत्वव्यापितभावितः ।
साध्यादि देवा ऋषयः नक्षत्रं किं नरस्तथा ॥ ४२९ ॥

भूतत्वान् निर्मिताश्चैते विशेषान्नन्दिकेश्वर ।
गङ्गा च यमुना चैव नदी चैव सरस्वती ॥ ४३० ॥

प्। ९६३)

जलतत्व विशेषेण स्थिता वै नन्दिकेश्वर ।

मनोबुद्धिप्रदानास्ते त्रितत्व ब्रह्मणः पुनः ।

मनोधीशुद्धविद्यान्त पदं गणपतेस्तथा ।
मायान्तं रविरेवं स्यादान्तरं शक्तिरेव च ॥ ४३३ ॥

शक्त्यन्तं शिवसंस्थानं लिङ्गे चैतद्विशेषणम् ।
अर्चना * * रान्तं वै कूर्माद्यासन पूर्वकम् ॥ ४३४ ॥

पञ्चरत्नादिकं चापि गर्ते चैव विनिक्षपेत् ।
शिवलिङ्गं च कर्तव्यम् अन्यब्रह्म * * * * ॥ ४३५ ॥

प्। ९६४)

गर्भं भज्य षड्भागं पृष्ठे चैकं विसर्जयेत् ।
पञ्चमांशं तु सं * * * * * * * * * * ॥ ४३६ ॥

आसनं स्नानपाद्यादि रत्नन्यासादिकं तथा ॥ ४३७ ॥

निरम्बुभिश्च कर्तव्यं भावना मुद्रया तथा ।
चललिङ्गे विशेषेण त्रिभिर्वा पञ्चभिस्तथा ॥ ४३८ ॥

पीठेव * * * * * * * च्छायां तु ते शृणु ।
भागत्रये द्वयेवापि कर्तव्यं नन्दिकेश्वर ॥ ४३९ ॥

स पीठेष्वपि तद्वत् स्यात् लिङ्गेषु * * * * * ।
स्फुटिकादिं च संस्कारो विष्टमन्त्रेण कारयेत् ॥ ४४० ॥

प्। ९६५)

किं च ब्रह्मसिलायोगं मनसा परिकल्पयेत् ।
बाणस्वयम्भुवादीनां पीठसंस्कार वर्जनम् ॥ ४४१ ॥

स्थापनं संहितामन्त्रन्यासहोमं च कारयेत् ।
पैष्टिकम्मृण्मयादीनां क्षणलिङ्गं तथा भवेत् ॥ ४४२ ॥

प्रोक्षणादींश्च कृत्वा सम्पूजयेत्तदा ।
मन्त्रानात्मनि संस्थाप्य तज्जले प्रक्षिपेत् पुनः ॥ ४४३ ॥

संवत्सरेण त * * * * * नन्दिकेश्वर ।

इत्यचिन्त्यविश्वसादाख्ये प्रतिष्ठालक्षणः पटलः ॥