५६

प्। ८७५)

अतः परं प्रवक्ष्यामि वास्तुहोमविधिं परम् ।
स्थण्डिलं विधिना कृत्वा चतुष्षष्टि पदान्वितम् ॥ १ ॥

पूर्वादिककाल मध्ये जलभाण्डं तु विन्यसेत् ।
मध्ये चतुष्पदेनापि ब्रह्माणं तु समर्चयेत् ॥ २ ॥

अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ।
समिदाज्येन चरुणा वास्तुदेवान्स्वमन्त्रकैः ॥ ३ ॥

होमयेत्तु पृथङ्मन्त्री चत्वारिंशन्नवाथकम् ।
शङ्करश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ ४ ॥

मार्ताण्डस्सत्यको भ्रंशोप्यन्तरिक्षस्तथैव च ।
वह्निः पूषा च वितथो ग्रहक्षतयमौ तथा ॥ ५ ॥

प्। ८७६)

गन्धर्वो भृङ्गराजस्तु ऋतगो निर्-ऋतिस्तथा ।
दौवारिकश्च सावः पुष्पदन्तस्तथैव च ॥ ६ ॥

अरुणश्चासुरश्चैव रुद्रो रुद्रजयस्तथा ।
मरीचिस्सविता त्वै मित्रश्चैव धराधरः ॥ ७ ॥

च करी च विदारी च पूतना पापराक्षसी ।
स्कन्दश्चैवार्यमा चैव जम्भगः फलपिञ्छकः ॥ ८ ॥

मध्ये पूर्वं तु देवानां वास्तुहोमं स्वनामभिः ।
पर्यग्निकरणं कृत्वा षट्सदर्भैः समाहितः ॥ ९ ॥

प्रोक्षयेत्सर्वतीर्थेषु सर्वदोषप्रशान्तये ।
वास्तुहोमं च कर्तव्यं प्रतिष्ठादौ विशेषतः ॥ १० ॥

इत्य चिन्त्यविश्वसादाख्ये वास्तुहोमविधि पटलः ॥