प्। ८४९)
अतः परं व्रतं वक्ष्ये दीक्षितानां हिताय वै ।
वैदिकं शैवमित्येवं व्रतं हि द्विविधं भवेत् ॥ १ ॥
त्रैवर्णिकानां कर्तव्यमुपनीतादि वैदिकम् ।
शिवदीक्षा प्रदानं तु शैवमत्यन्तमुत्तमम् ॥ २ ॥
वाग्देवी योनिजातत्वाच्छिव पुत्रत्वकारणात् ।
विप्रादि दशवर्णानां योगित्वमुपजायते ॥ ३ ॥
ब्रह्मचारी गृही चैव वानप्रस्थोऽथ भिक्षुकः ।
चतुराश्रममेवं स्याद् गोचराणां तु पञ्चकम् ॥ ४ ॥
द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिकं तथा ।
आजन्म ब्रह्मचर्यं तु यावदामरणान्तिकम् ॥ ५ ॥
प्। ८५०)
जटी मुण्डी शिखीवाथ कौपीनी तु समेखलः ।
यज्ञोपवीती दण्डी च भस्मोद्धूलित विग्रहः ॥ ६ ॥
त्रिपुण्ट्राङ्कित देही च रुद्राक्षैश्च विभूषितः ।
त्रिकालमेककालं वा स्नानयुक्तो जितेन्द्रियः ॥ ७ ॥
सत्यवादीप्यधश्शायी क्षमायुक्तो दृढव्रतः ।
गुरुशुश्रूषणायुक्तो गुर्वाज्ञा पालने रतः ॥ ८ ॥
भिक्षाशी देहरक्षार्थमेककालं गुरोर्गृहे ।
ताम्बूलमञ्जनं चैव हरिद्रां लवणं तथा ॥ ९ ॥
पादुकां मकुटं वापि गन्धमाल्यादिवर्णनम् ।
गुरोः स्थाने वसेन्नित्यमन्यगेहे न च स्वपेत् ॥ १० ॥
प्। ८५१)
स्वस्वातन्त्र्यादिकं हित्वा गुरुस्वातन्त्र्यसंयुतः ।
पुण्यक्षेत्रं च तीर्थं च दानं कर्मादिकं तथा ॥ ११ ॥
सर्वं च गुरुकारुण्यं दर्शनं च पुनः पुनः ।
गुर्वाज्ञया विहीनं तु तपोदानादि निष्फलम् ॥ १२ ॥
नैष्ठिकं ब्रह्मचर्यं तु गृहस्थानां विधिं शृणु ।
कालं सङ्कल्प्य विधिना पूर्ववद्ब्रह्मचर्यकम् ॥ १३ ॥
अन्ते व्रतेश्वरं यागं कृत्वोद्वाहं ततश्चरेत् ।
गृहस्थाचरणं कुर्याद् द्विविधं ब्रह्मचर्यकम् ॥ १४ ॥
गृहस्थानां व्रतं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
विवाहं विधिना कृत्वा गृहिण्या सह वे युक् ॥ १५ ॥
प्। ८५२)
गुरुदेवाग्निपूजां तु नित्यं भक्ति समन्वितः ।
अतिथ्याभ्यागतानां तु यथाशक्तिं च पूजयेत् ॥ १६ ॥
गृहधर्ममशेषं च प्रासादं मठकल्पनम् ।
सन्तानवृद्धिस्सर्वं च रक्षसां च विशेषतः ॥ १७ ॥
अध्यायाध्यापनं चैव यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैवं षट्कर्म ह्यागमोदितम् ॥ १८ ॥
सदाचार्याभिषेकेण युक्तश्चेद्याजनं भवेत् ।
गृहस्थस्य तु कर्तव्यं नैष्ठिकानां तु नैष्ठिकः ॥ १९ ॥
शिखी वा बद्धकेशो वा बाह्य यज्ञोपवीतवान् ।
आतुरेण युते वापि दीक्षितस्य विशेषतः ॥ २० ॥
प्। ८५३)
रुद्राक्षहेमरत्नादि स्फटिकैरजतादिभिः ।
अलङ्कृताङ्ग यष्टिः स्याद्गन्धैर्माल्यादिभिस्तथा ॥ २१ ॥
स्त्वदाने सङ्गतिर्नित्यं मृत्युकाले विशेषतः ।
आर्थवान् षोडशादीनं सन्तानार्थाय मैथुनम् ॥ २२ ॥
गृहस्थाश्रम एवं स्यात्कर्तव्यं नन्दिकेश्वर ।
वानप्रस्थाश्रमस्थानाम् आचारं शृणु साम्प्रतम् ॥ २३ ॥
सभार्यो भार्याहीनो वा द्विविधं शिवभाषणे ।
वने संवासिनो नित्यं शाकमूलफलाशिनः ॥ २४ ॥
गृहस्थानां सपत्नीको अन्वा चैव तदेव हि ।
व्रतं भार्यावियुक्तानां " सृणुत्वं नन्दिकेश्वर ॥ २५ ॥
प्। ८५४)
कुडुम्बं पुत्रपौत्रादीन् दारान्वै मातुलां स्तथा ।
भ्रातॄन्सखींश्च जनकं जननीं च तथैव च ॥ २६ ॥
वेदं वेदाङ्गकाश्चापि यज्ञसूत्रं शिखां तथा ।
अग्निष्टोमादिकान्यज्ञान्त्रेतां चैव तथैव च ॥ २७ ॥
कामङ्क्रोधं च लोभं च मोहं मदविवादनम् ।
डम्भगन्धोक्तिकं चैवमीषणात्रयमेव च ॥ २८ ॥
सप्तपातालकप्राप्ति सप्तलोकाश्रयं तथा ।
अणिमाद्यष्टकं सर्वं वर्जयेन्नन्दिकेश्वर ॥ २९ ॥
शिवोहम्भावसंयुक्तो बाह्याभ्यन्तरशौचयुक् ।
त्रिकालस्नानसंयुक्तोप्येककालेन वा युतः ॥ ३० ॥
प्। ८५५)
भस्मोद्धूलित सर्वाङ्गो धौतकाषाय संयुतः ।
कौपीनदण्डसंयुक्तो लिङ्गार्चनपरायणः ॥ ३१ ॥
शिवयोगेन सन्तुष्टो शिवध्यानपरायणः ।
शिवानुभूति संयुक्तः सर्वक्लेश विवर्जितः ॥ ३२ ॥
प्रियाप्रियसमश्चैव समलोष्ठाश्मकाञ्चनः ।
सर्वात्ममैत्रभावश्च सदा सन्तुष्टि संयुतः ॥ ३३ ॥
स्त्रियं कुणपवत्पश्यंश्छिवभाव समन्वितः ।
अभेद्यो मत्तवान्नित्यं शिवभाव्यश्च भेदिकम् ॥ ३४ ॥
स शोको न्यस्य दुःखानि चाविश्वस्वस्य दुःखयुक् ।
चेष्टते तत्वदेवाय परदुःखेन दुःखितः ॥ ३५ ॥
प्। ८५६)
बालोन्मत्तपिशाचानामेवं गुणसमन्वितः ।
मूलमन्त्रं जपेन्नित्यं शिवध्यानपरायणः ॥ ३६ ॥
जपोपरति संयुक्तो ध्यानमेव समाचरेत् ।
ध्यानोपरति संयुक्तो पश्चान्मूलं जपेत्सदा ॥ ३७ ॥
औषधादन्नपानादीन् क्षुद्वाधा शान्तये चरेत् ।
भिक्षार्थं ग्राम संवेशं वृक्षमूले मठेऽपि वा ॥ ३८ ॥
अन्येन कल्पिते चैव वासं कुर्यान्मठादिषु ।
सन्ध्या वन्दकश्चापि यतीनां ज्ञान सन्ध्यया ॥ ३९ ॥
यतयस्त्रिविधा ज्ञेयास्तपस्वि विदुषस्तथा ।
विद्वानिति त्रिधा प्रोक्तास्तेषां भेदं शृणु क्रमात् ॥ ४० ॥
प्। ८५७)
तपोनिष्ठस्तपस्वीति तस्य युक्तिस्सु संवृतः ।
नाध्येतव्यं न साङ्कल्पं न श्रोतव्यं कथञ्चन ॥ ४१ ॥
शिष्याणां सङ्ग्रहं चैव नैव विद्या प्रकाशनम् ।
न वदेत्संस्कृतां भाषां न दण्डी चक्रमण्डलः ॥ ४२ ॥
लिङ्गं क्षणिकमभ्यर्च्य भक्तिमात्रेण संशयः ।
प्रियाप्रियं च सङ्कल्प्य समलोष्ठाश्मकाञ्चनः ॥ ४३ ॥
एकाकी वृक्षमूले वा वने वा जनवर्जिते ।
जनाद्भीति समायुक्तो वसेद्बाहूपधानकः ॥ ४४ ॥
वसनं येन केनापि तथैवाशनपानकम् ।
पाणिपात्रे वरेत्पार्श्वे याचितं तेन जीवितम् ॥ ४५ ॥
प्। ८५८)
इत्यतस्तु तपस्वी स्यात् साधको यदि नाम वाक् ।
विदुषोर्यद्यतेश्चापि वर्तनं नन्दिकेश्वर ॥ ४६ ॥
अध्यापनं चाध्ययनं श्रवणं चिन्तनं तथा ।
एवं चतुष्टयं तस्य विदुषश्च विशेषतः ॥ ४७ ॥
विद्वद्यतेर्विशेषोऽस्ति व्याख्यानं चिन्तनं भवेत् ।
सदाचार्याभिषेकेण युक्तो विद्वत्समाख्यकः ॥ ४८ ॥
यतिना स्त्रिविधं त्वं हि शैवानां चतुराश्रमाः ।
चतुराश्रमिणां मध्ये वैशेषिक व्रतं शृणु ॥ ४९ ॥
शिवश्शिखा तथा ज्योतिः सावित्री व्योमगोचरा ।
तथा सङ्ख्येन सङ्ख्यास्युर्व्र?क्तिश्चापि शृणु क्रमात् ॥ ५० ॥
प्। ८५९)
गोचराणां तु पञ्चानां प्रजावन्द्यादिकं भवेत् ।
समये मो * * * * स्वाध्यायस्सत्यवादिता ॥ ५१ ॥
ब्रह्मचारी चरेदेवं प्राजापत्यव्रतं शुभम् ।
शान्तिकं पौष्टिकं चैव सुदुषानां सदा तथा ॥ ५२ ॥
अभिस्सर्वत्र संसारान् महीपालाख्य तं व्रतम् ।
निपति * न्कणान्भूमौ भक्षणार्थमुपेतवत् ॥ ५३ ॥
कपोत वृत्तिवित्तास्तुते वै कापोतिकाः स्मृताः ।
अभ्यासात्सततं ग्रन्थमाममादि महायशान् ॥ ५४ ॥
देवताभ्यस्य जन्त्यर्थांस्ते वै तद्ग्रन्थकावृता ।
नदीतीरेऽपि वेलायां कुटीं कृत्वा निवासनम् ॥ ५५ ॥
प्। ८६०)
ब्रह्मचारिव्रतं ह्येतत् कुटिकं प्रकीर्तितम् ।
एते पञ्च व्रताः प्रोक्ताः प्रेतवेताल * * * ॥ ५६ ॥
तीर्थे जराङ्के वापि वने वा भार्यया वृतः ।
तपोत्साहसमायुक्तो वेताल प्रतिमानयुक् ॥ ५७ ॥
गत्यर्थमर्कपत्राशी पत्राहुति समन्वितः ।
वानप्रस्थाश्रमी भूमौ * * * * * * * * ॥ ५८ ॥
स्वयमुत्पन्न * * श्च हंसकास्ते अमी मताः ॥ ५९ ॥
धृतराष्ट्रव्रतं पश्चाद् ब्रह्मचर्येण संयुतः ।
योगाचार * * * * करणेन्द्रिय निर्जितः ॥ ६० ॥
प्। ८६१)
देशाद्देशान्तरं कृत्वा धृतराष्ट्रव्रती भवेत् ।
शिवज्ञानगतः पश्चाद् गूढाचारश्च संवृतः ॥ ६१ ॥
शिवैकगति निष्पापन्तदेकव्रतगो भवेत् ।
गोपाला * * * पश्चाद् गोनिवासे निवासनः ॥ ६२ ॥
पञ्चगव्यं पिबेन्नित्यं जपध्यानपरायणः ।
वायव्यतीर्थं संयुक्तः पञ्चेन्द्रिय विनिर्मितः ॥ ६३ ॥
गोपालव्रतिगो भूयात् त्रीणि मात्रधनादपि ।
नित्यं चान्द्रायणे नैव सर्वपापं विनश्यति ॥ ६४ ॥
कुटिकानां व्रतं ह्येतद् ज्ञानयोग प्रकाशनम् ॥ ६५ ॥
प्। ८६२)
धमविद्या च सहितो मठवासी जितेन्द्रियः ।
भिक्षान्नभोजनं नित्यं मठकाख्यव्रतं भवेत् ॥ ६६ ॥
देहं च तेन संरक्ष्य घुटिकाख्यो व्रती भवेत् ॥ ६७ ॥
दण्डव्रतं च तद्ग्राह्यं दण्डासन समन्वितः ।
शिवध्यान समायुक्तो दण्डतण्डं च सङ्ग्रहम् ॥ ६८ ॥
ब्रह्माद्यतव्रतं पश्चाद् ब्रह्मचर्यं च * * * ।
कुटिचारव्रतं पश्चात् स्वदारास्थितमासनः ।
सद्योचित्तधनैर्युक्तः कुटिचाराद्विशेषतः ॥ ७० ॥
प्। ८६४)
कुन्दीचाराख्यकं ह्येतद् गृहस्थानामिदं भवेत् ।
तत्र देशे वने वापि जपध्यानपरायणः ।
हंसव्रतानि साव्युक्तास्तस्मात्परम हंसकम् ॥ ७२ ॥
ग्रामैकरात्र मात्रेण पृथ्वीं च सकलामतान् ।
यतीनां परहंसानां * * * * * हेतुकम् ॥ ७३ ॥
प्रोक्तं वैशेषिकं नन्दिन् दीक्षितस्तु समाचरेत् ।
यावज्जीवं व्रती भूत्वा कालसङ्कल्पसंयुतः ॥ ७४ ॥
समाप्ते कल्पिते काले यते सद्यव्रते वरम् ।
तद्व्रतेश्वरयागं तु शृणुत्वं नन्दिकेश्वर ॥ ७५ ॥
प्। ८६५)
यागस्थानमलङ्कृत्य पुष्पमालोपशोभितम् ।
गोमयालेपनं कृत्वा मण्डलं चतुरश्रकम् ॥ ७६ ॥
भूतपद्मं लिखेत्सम्यक् श्वेताब्जं मध्यगं भवेत् ।
ऐन्द्रांशं वै पद्मकं स्याद्दक्षिणं चाञ्जनात्मकम् ॥ ७७ ॥
श्वेतं च पश्चिमे भागे * * * * * * * * थोत्तरे ।
ईशानादि क्रमेणैव मध्य पद्मादिपञ्चके ॥ ७८ ॥
पञ्चब्रह्मस्वरूपेण पूजयेद्देशिकोत्तमः ।
तत्तन्मन्त्रं शतं जप्त्वा भक्तियुक्तो व्रतेश्वरम् ॥ ७९ ॥
विज्ञाप्य व्रतमीशाय व्रतपूर्णत्व हेतवे ।
पञ्चभिः कलशैश्चैव पञ्चब्रह्मादि साधितैः ॥ ८० ॥
प्। ८६६)
तैरेव स्नापयेच्छिष्यं व्रतमित्येव देशिकः ।
व्रतेश्वरं नमस्कृत्वाच्छ्रुत्यातं श्रावयेद्व्रतम् ॥ ८१ ॥
तदभावे जपेल्लिङ्गं तदभावे विशेषतः ।
मञ्जनं मृद्भवं चैव गोमयोद्भूतलिङ्गकम् ॥ ८२ ॥
पिष्टजं सैकतोद्भूतं नदीतीरादिकोद्भवम् ।
सम्पूज्य भक्तिसंयुक्तो व्रतस्तुत्यन्तकारणात् ॥ ८३ ॥
व्योमव्यापि शिवेनैव जलेनैवं विनिक्षिपेत् ।
कपनं पर्चयित्वा तु अन्यत्सर्वं समं भवेत् ॥ ८४ ॥
अथ वक्ष्ये विशेषेण वनानां व्रतमुत्तमम् ।
विशेषः कथ्यते यन्त्रि शृणुत्वं नन्दिकेश्वर ॥ ८५ ॥
प्। ८६७)
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।
चतुराश्रमवृत्तिस्तु पूर्वमेवोदितं क्रमात् ॥ ८६ ॥
सन्यासाश्रममत्यन्तं मुक्तिदं दीक्षितं भवेत् ।
तस्मात्तद्व्रतमुक्तिस्तु नास्ति कैवल्य कारणम् ॥ ८७ ॥
ब्रह्मचार्यादि युक्तश्चेद् गृहस्थाश्रममाश्रयेत् ।
वानप्रस्थाश्रमं वापि गृहस्थानां ततोऽधिकम् ॥ ८८ ॥
वानप्रस्थाश्रम स्थानां सन्यासी तु विशिष्यते ।
एतेषामपि विन्यासं योग्यं मुख्यं विधीयते ॥ ८९ ॥
ब्रह्मचर्यव्रतस्थानां मुक्तिरत्राभिधीयते ।
पूर्वोक्त पञ्चपद्मेषु सद्योजातादि पूजयेत् ॥ ९० ॥
प्। ८६८)
तत्र संयमकौपीनं दण्डभस्मजटाः पुनः ।
व्रताङ्गपञ्चकं ह्येतत् प्रत्येकं तु शतं हुनेत् ॥ ९१ ॥
पञ्चब्रह्मषडङ्गैश्च होमयेद्देशिकोत्तमः ।
उपोषितशिरोरङ्गामुपनीयाङ्गकानि वै ॥ ९२ ॥
सद्योजातादिभिर्मन्त्रैश्चन्दनाद्याय दापयेत् ।
सम्मर्द्य विधिना चैव जलचाहेत्प्रवाहयेत् ॥ ९३ ॥
आहतं वस्त्रयुग्मं तु दद्याच्छिष्याय देशिकः ।
अन्यकामानुरूपं च कुलीनां परिणेष्यभिः ॥ ९४ ॥
एवमुक्त्वा कृतं शिष्यं गार्हस्थ्ये च नियोजयेत् ।
वानप्रस्थो गृहस्थो वा ब्रह्मचर्ययुतोऽपि वा ॥ ९५ ॥
प्। ८६९)
सन्यास व्रतसिध्यर्थं पूर्वाश्रम विमुक्तये ।
संश्रयेद्यति वृत्तं तु तं वक्ष्ये नन्दिकेश्वर ॥ ९६ ॥
पूर्वोक्त पञ्चपद्मेषु पूजां कृत्वा विधानतः ।
पादादि मूर्धपर्यन्तं दिव्यदृष्ट्या निरीक्षयेत् ॥ ९७ ॥
शिष्यं विमुक्ति सिध्यर्थं संहारन्यास पूर्वकम् ।
जटिनं शिखिनं चैव मुण्डिनं वा विधाय तम् ॥ ९८ ॥
उपवीतं त्यजेद्भूमौ जले सन्यस्तमन्त्रतः ।
मातरं पितरं पुत्रं कलत्रमुपवीतकम् ॥ ९९ ॥
शिवं विहाय सत्यं च सन्यस्तमिह तन्मया ।
एतन्मन्त्रं पठेत्पञ्चवारं सद्गुरुसन्निधौ ॥ १०० ॥
प्। ८७०)
सद्यमन्त्रेण कौपीनं काषायवसनं तथा ।
वैणवं दण्डमस्त्रेण भूतिकोशं शिवेन च ॥ १०१ ॥
भिक्षापात्रं च शिरसा कवचेनावगुण्ठनम् ।
एतैर्मन्त्रैश्च संसाध्य शिष्याय प्रददेद्गुरुः ॥ १०२ ॥
बाणलिङ्गं शिवज्ञानपुस्तकं च प्रदापयेत् ।
यावत्कालाच्छिव ज्ञानं द्रढीभवति तत्र वै ॥ १०३ ॥
यावत्कालं च कर्तव्यं श्रवणादि विशेषतः ।
एवं वदेत्तु तं शिष्यं देशिकः कृपया युतः ॥ १०४ ॥
शैवानां कृतमुक्तिस्तु सङ्क्षेपात्कथितः क्रमात् ।
बोध्याथ वान्यलिङ्गस्थास्तत्तत्समयकल्पितान् ॥ १०५ ॥
प्। ८७१)
व्रतमुक्तिविशेषांश्च शैवप्राप्तिं शृणु क्रमात् ।
शोध्योदयश्च नीबद्धिस्तत्वैकगुरुमौलिषु ॥ १०६ ॥
वेदान्ते चात्मतत्वे च आनन्दं भगवन्मुखात् ।
मायातत्वे पाशुपते विद्यातत्वे महाव्रताः ॥ १०७ ॥
सौगताद्यन्यतीर्थानां बौद्धानां मुक्तिकाविधिः ।
पञ्चरात्रं त्रिरात्रं वा सोपवासपरायणाः ॥ १०८ ॥
प्रायश्चित्तविधि तं मण्डपाद्बहिरेव च ।
शिवं सम्पूज्य विधिना भक्ति युक्तस्सदा गुरुः ॥ १०९ ॥
अमीषां व्रतचिह्नं तु देशिकोत्प्यनयत्पुनः ।
बुद्धितत्वादि वृक्ष्यन्तं होमयेत्तत्पृथक् पृथक् ॥ ११० ॥
प्। ८७२)
स्वस्वनाम्ना च मन्त्रेण हुत्वा सन्मार्गनायकः ।
बाह्यस्थितानामेतेषां नाडीयोजन संयुता ॥ १११ ॥
विधाय विधिनासम्यग्विशेषं कर्षणं तथा ।
स्वात्मन्येव स्थितं कृत्वा मूलेन स्वाहया हुनेत् ॥ ११२ ॥
तत्तत्पुण्यफलत्वं हि हेतवेऽग्नौ च होमयेत् ।
अस्त्रेणाष्ट सहस्राणि लिङ्गिनं लिङ्गिनं प्रति ॥ ११३ ॥
मूलेन प्रतितत्वानां विमुक्त्यै पञ्चपञ्चकम् ।
उद्धृत्य बुद्धितत्वानि वृत्तान्तं तं नियोजयेत् ॥ ११४ ॥
योगस्थित्यैश्च पूर्वान्तं शिवाग्नौ योजयेत्पुनः ।
अष्टोत्तरशतं हुत्वा मूलमन्त्रेण देशिकः ॥ ११५ ॥
प्। ८७३)
वृत्ताङ्गानि जलं क्षिप्त्वा तथा पाशुपतेन च ।
अथवा रागकार्योस्तु घृतमेकं क्रमं शृणु ॥ ११६ ॥
पूर्ववद्बाह्य यजनं कृत्वा सन्मार्गनायकः ।
दलाष्टकसमोपेतं पद्मं संलिख्य देशिकः ॥ ११७ ॥
क्षोङ्कारं कर्णिकामध्ये शिवमन्त्रैश्च दिग्दलैः ।
कवर्गं पूर्वोत्तरे चैव च वर्गं वायुदिग्दले ॥ ११८ ॥
तवर्गं पश्चिमे चैव नैर्-ऋते तु टवर्गकम् ।
चवर्गं दक्षिणेनैव कवर्गं वह्निदिग्दले ॥ ११९ ॥
अवर्गं पूर्वदिग्भागे योजयेद्देशिकोत्तमः ।
पञ्चब्रह्मषडङ्गैश्च स्वरैः षोडशकैरपि ॥ १२० ॥
प्। ८७४)
क्षोङ्कारं च शिवं पूज्य तत्तद्वह्नौ तु होमयेत् ।
वर्णवर्गाष्टकानां तु तर्पणाय यजेत्पुनः ॥ १२१ ॥
अग्नये चाञ्जलिं कृत्वा शिष्य चैतन्य योजनम् ।
सन्मार्गनायकः कुर्यात् पूर्ववन्नन्दिकेश्वर ॥ १२२ ॥
पूर्णाहुतिं ततः कृत्वा षडङ्गेन शतं हुनेत् ।
अग्नेराकृष्य * * * * * * * क्रमाद्गुरुः ॥ १२३ ॥
जलप्रवाहे निक्षिप्य जलाङ्गानि च सर्वशः ।
पश्चादस्त्रयुतं दत्वा दीक्षाकर्म समाचरेत् ॥ १२४ ॥
यतीनामाश्रमे चैनं भाव्यास्थो वा नियोजयेत् ।
तत्तदीक्षानुसारेण दीक्षयेत्तं विशेषतः ॥ १२५ ॥
स्थण्डिले साग्रमन्त्रादीन्विसृज्यास्त्रेण शोधयेत् ।
इत्यचिन्त्यविश्वसादाख्ये वृत्तिसिध्यादिविधिः षट्पञ्चाशत्पटलः ॥