प्। ८३२)
अतीतानि मठान्यानि देवतायतनानि च ।
लिङ्गादि पुष्करण्यादि स्थापितान्यपि केनचित् ॥ १ ॥
पूर्व प्रतिष्ठिकास्तस्य सहसा गुणितं भगम् ।
जीर्णोद्धारे शतगुणं पापनाशात्समं भवेत् ॥ २ ॥
लिङ्गान्यपि च यावन्ति पूजितान्यपि नित्यशः ।
स्थापिता पूजिता भक्त्या यावत्तेजो महीतलम् ॥ ३ ॥
तावत्सङ्ख्यासमं पुण्यं प्रासादं मठं कल्यते ।
वस्त्रं वा वृषभं वापि तुरगं वा वृषाह्वयम् ॥ ४ ॥
तैरङ्कित शरीरो यो नरमेधफलं भवेत् ।
कः पुमान तिथित्वेन लब्ध्वा नैष्ठिकमुत्सृजेत् ॥ ५ ॥
प्। ८३३)
चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।
आचार्येण तु भुक्तेन भोजिता कोटिरुच्यते ॥ ६ ॥
साधके पूजिते तत्र लक्षं पुण्यफलं भवेत् ।
पुत्रो वाप्ययुतं पुण्यं समयस्ते समग्रहम् ॥ ७ ॥
शतं माहेश्वरो भोक्ता सघृतं सोपदंशकम् ।
चारन्तण्डुलीपुष्पं च दीपं वस्त्रफलादिकम् ॥ ८ ॥
शिवाय गुरवे शैवं दद्यात् तत्तत्फलं शृणु ।
रोमतण्डुलपुष्पाणि दीपतन्तु फलानि वै ॥ ९ ॥
यावत्तद्द्रव्यसङ्ख्यानि परिसङ्ख्यानि यावति ।
तावद्युग सहस्राणि शिवलोके महीयते ॥ १० ॥
प्। ८३४)
शिवमुद्दिश्य चोद्यानं यः कुर्याद्भक्तिसंयुतः ।
पत्रं पुष्पं फलं यावत् तदुद्यानं भवेत्तदा ॥ ११ ॥
तावत्सङ्ख्येन सङ्ख्यातं शिवलोकयुतं भवेत् ।
शिवभक्तो जटी भूयाज्जटां प्रति दिने दिने ॥ १२ ॥
अश्वमेधफलं पुण्यं प्राप्यते च न संशयः ।
मुण्डी वापि शिखीवापि शिवायेति भवेद्यदि ॥ १३ ॥
नरमेधहनं पुण्यं दिनं प्रति दिनं प्रति ।
शिवभक्तस्य पूजायै योलिङ्गं दापयेद्यदि ॥ १४ ॥
तिलसङ्ख्यानि यावन्ति लिङ्गवेदी प्रमाणके ।
तावत्कल्पायुतं दिव्यं शिवलोके महीयते ॥ १५ ॥
प्। ८३५)
सूक्ष्मजन्तून्प्रतिहरन् शिवाय गुरवे तथा ।
सम्मार्जनं चैकदिनं चान्द्रायणफलं भवेत् ॥ १६ ॥
नैरन्तर्येण यः कुर्यात् पक्षं सम्मार्जनं तथा ।
शतकोटियुगं दिव्यं रुद्रलोके महीयते ॥ १७ ॥
नानादिकालिके प्राप्ते नीराजन समर्पणात् ।
कोट्यादित्य समो भूत्वा शिवलोके वसेत्सदा ॥ १८ ॥
दध्ना लिङ्गं सकृत्स्नाप्य विष्णुलोके महीयते ।
कल्पकोटि सहस्रोपदुर्जनं वाससञ्चयम् ॥ १९ ॥
घृतस्नानादि तत्सर्वं नाशमायाति तत्क्षणात् ।
लिङ्गस्नानेन मधुना सर्वपापं व्यपोहति ॥ २० ॥
प्। ८३६)
अग्निना पूजितो भूत्वा वह्निलोके महीयते ।
एवमिक्षु रसेनैववीरो धरापतिर्भवेत् ॥ २१ ॥
अभ्यङ्गैस्तिलतैलेन वायुलोके महीयते ।
यो लिङ्गं फलसारेण स्नापयेत् पापनाशनम् ॥ २२ ॥
देहान्ते पितृणां यानं गच्छत्येव न संशयः ।
सितेन भस्मना लिङ्गं स्नापनं शिववत्सदा ॥ २३ ॥
शिवलोकादि लोकेषु पूज्य एव न संशयः ।
शिवाय गुरवे चैव तुटिमात्र प्रमाणकम् ॥ २४ ॥
हैममैन्द्रपदं रत्नं ब्रह्मवल्लोकमाप्नुयात् ।
देवदारुं न मेरुं च सज्जश्रीवासकुन्दरम् ॥ २५ ॥
प्। ८३७)
श्रीफलाद्यघृतं मिश्रं धूपाल्लक्ष्मीपतिर्भवेत् ।
वित्सहस्रगुणाधिक्यं धूपयेद्गन्धसंयुतः ॥ २६ ॥
अयुतं गुद्गुलं प्रोक्तं तत्साहस्रं घृतान्वितम् ।
द्विगुणं महिषाक्षाभं शिवतुल्यफलप्रदम् ॥ २७ ॥
कृष्णागरूद्भवो धूपः सर्वपापविनाशनः ।
सुगन्धि चन्दनालेपं सकृत्कृत्वा तु लिङ्गकम् ॥ २८ ॥
वर्षकोटियुतं दिव्यं रुद्रलोके महीयते ।
चन्दनागरुतः श्रेष्ठं ततः श्रेष्ठं कमुष्णकम् ॥ २९ ॥
ततोऽधिकं कुङ्कुमं स्यादन्योन्यं चाष्टमाधिकम् ।
अन्याश्चतुर्गुणं श्रेष्ठं धूपं गुल्गुलुमिश्रितम् ॥ ३० ॥
प्। ८३८)
तदर्धं पनसादीनां फलानां सरसामपि ।
ताम्बूलं तैलकर्पूर विफलासंयुतं भवेत् ॥ ३१ ॥
शिवाय गुरवे चैव दानमत्यन्तमुत्तमम् ।
इहैव धनवाञ्च्छ्रीमान् परत्र च परां गतिम् ॥ ३२ ॥
मामृतां हैरिमररवतिमिलापटहादिकम् ।
शङ्खतालककांस्यादिकाहलं वेणुनन्दनम् ॥ ३३ ॥
शिवाय विनियोगेन शिवलोके विमानके ।
शिवतुल्यबलोपेतो वसेत्कल्पायुतं सुखी ॥ ३४ ॥
मुक्तादामत्रिशोभाढ्यं प्रासादेऽपि मठेऽपि वा ।
यः कुर्यात्सर्वलोकेषु शिववन्मोदते चिरम् ॥ ३५ ॥
प्। ८३९)
स्तोत्रं गीतं च देवाय भक्त्या परमया युतः ।
तच्छ्रोतारश्च वृक्षाश्च कृमिकीटादयस्तथा ॥ ३६ ॥
शिवसालोक्यमाप्नोति किं पुनः स्तोत्रगेयवान् ।
नृत्तं शिवाय यः कश्चित्कुरुते तत्फलं शृणु ॥ ३७ ॥
सूर्याय पूजयेद्यस्तु सेव्यमानोप्सरोगणैः ।
नृत्तगीतादि संयुक्तः शिवलोके महीयते ॥ ३८ ॥
कामादकामतो वापि भ्रूणहत्यादि पातकम् ।
तत्सर्वं शास्त्रदानेन नाथमायाद्यनिश्चयम् ॥ ३९ ॥
महापद्मविमानेन शिवलोके महीयते ।
ज्ञानयोगक्रियाचर्याः सर्वे भक्तिप्रधानकाः ॥ ४० ॥
प्। ८४०)
तस्माद्भक्तिप्रधानं तु शृणुत्वं नन्दिकेश्वर ।
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥ ४१ ॥
अभ्यर्चनं स्वयं भक्त्या ममार्थे च * * * * ।
मत्क्थाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥ ४२ ॥
ममानुस्मरणं नित्यं य मानोपजीवति ।
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते ॥ ४३ ॥
स विप्रेन्द्रो यतिः श्रीमान् वाक्पतिस्स च पण्डितः ।
न मे प्रियश्चतुर्वेदीमद्भक्तः श्वपचोऽपि यः ॥ ४४ ॥
तस्यैते यत्नतो ग्राह्यं स च पूज्यो यथाह्यहम् ।
आयान्तं शिवभक्तं वै दृष्ट्वा दद्याद्विमानकम् ॥ ४५ ॥
प्। ८४१)
तमहा सर्वदा नन्दिन् युष्मद्दर्शनवत्प्रियः ।
शिव * * * * * * दासनं श्रद्धयान्वितः ॥ ४६ ॥
विंशद्वर्षसहस्राणि चन्द्रलोके महीयते ।
गङ्गास्नानसमं पुण्यं दृष्टमात्रे न संशयः ॥ ४७ ॥
जलेन शिवभक्ताय पादप्रक्षालनं भवेत् ।
यशोवतीं समाश्रित्य मोदते युगपञ्चकम् ॥ ४८ ॥
घृतेनाभ्यज्य चोद्वर्त्य विष्णुलोके महीयते ।
शिवभक्ताय यो दद्यान् मुखवासं च भक्तितः ॥ ४९ ॥
वर्षकोटि सहस्राणि कौबेरं पुरमाप्नुयात् ।
सम्यगाचमनं कृत्वा पश्चादर्घ्य प्रदानकम् ॥ ५० ॥
प्। ८४२)
शिवभक्ताय यो दद्यात् शिवलोके महीयते ।
शिवभक्तस्य दीपस्य प्रदानं ज्ञानमुत्तमम् ॥ ५१ ॥
संवीज्य तालवृन्तेन शिवभक्तं नरं हि यः ।
वायुना पूज्यमानोऽसौ वायुलोकं स गच्छति ॥ ५२ ॥
युगकोटि सहस्राणि रुद्रलोके महीयते ।
ऊर्णं प्रावरणं दद्यात् शिवभक्ताय शक्तिमान् ॥ ५३ ॥
निष्करोमवशादेव स्वर्णदानफलं भवेत् ।
तत्तद्व्याघ्रादि चर्माणि तत्वादिफलमाप्नुयात् ॥ ५४ ॥
शिवभक्ताय यो दद्याद् भोजनं तत्फलं शृणु ।
कल्पकोटि सहस्राणि रुद्रलोके महीयते ॥ ५५ ॥
प्। ८४३)
शिवलोकादि लोकेषु शिववन्मोदते चिरम् ॥ ५६ ॥
क्रमादाक्रम्य लोकेऽस्मि राजा भवति धार्मिकः ।
अथवा ज्ञानयोगादीन् लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७ ॥
पितॄनुद्दिश्य यो भक्तः शिवभक्तांश्च भोजयेत् ।
समस्ताः पितरस्तेऽपि शिवलोके महीयते ॥ ५८ ॥
पाटल्युत्पलगन्धादि शीतलस्त्वे रियः * * ।
शिवभक्तस्य दानेन वारुणं लोकमाप्नुयात् ॥ ५९ ॥
शिवभक्ताय यो दद्यात् कमण्डल्वादिकं शुभम् ।
वर्षकोटियुतं दिव्यं विष्णुना पूजितो भवेत् ॥ ६० ॥
प्। ८४४)
विश्वभेषजवर्गादि शिवभक्ताय दानतः ।
कल्पकोटिसहस्राणि भवेत्सूर्येण पूजितः ॥ ६१ ॥
निक्षेपरक्षणं कृत्वा शिवभक्ताय यो नरः ।
शिवलोकं समाश्रित्य न पुनर्गच्छतीह सः ॥ ६२ ॥
रोगार्तशिवभक्ताय भैषज्यानि प्रयच्छति ।
युगकोटिशतं दिव्यं शिवलोके महीयते ॥ ६३ ॥
तस्माद्धारं च भक्ताय यो दद्याद्भस्म संयुतम् ।
सर्वतीर्थफलं लब्ध्वा शिवलोके महीयते ॥ ६४ ॥
योगपट्टं च यो दद्याच्छिवभक्ताय यो नरः ।
वस्त्रयुग्म सहस्रस्य दत्तस्य फलमाप्नुयात् ॥ ६५ ॥
प्। ८४५)
शिवज्ञानाभियुक्ताय शिवज्ञानस्य पुस्तकम् ।
यो दद्यात्सकलं दत्तं शिववन्मोदते चिरम् ॥ ६६ ॥
शिवशास्त्रस्याध्ययितुं फलं पुस्तकदानतः ।
कोटिकोटियुतं पुण्यं प्राप्नोत्येव न संशयः ॥ ६७ ॥
शिवज्ञानार्थं निर्णीतुं फलं वाचामगोचरम् ।
रुद्राक्ष मालादानेन शिवभक्ताय यो नरः ॥ ६८ ॥
स रुद्रपदमाप्नोति रुद्रलोके महीयते ।
शिवभक्ताय यो दद्याच्छत्र दण्डसमन्वितम् ॥ ६९ ॥
शतयोजन विस्तीर्नां पृथ्वीं भुङ्क्ते स पत्निकः ।
उपानह् शिवभक्ताय दानं कुर्यात्तु यो नरः ॥ ७० ॥
प्। ८४६)
रथादिवाहनं लब्ध्वा शिवलोके महीयते ।
उपदेशं विना यस्माच्छिव धर्मं न चारयेत् ॥ ७१ ॥
उपदेष्टानुमन्ता च कर्मकारव्रताय च ।
कृतानुपावृतं चैव पञ्च तुल्यफलाः स्मृताः ॥ ७२ ॥
एतेषामपि सर्वेषां रक्तियुक्तोत्तमोत्तमः ।
आलयादीनि सर्वाणि रक्षक्षेर्ण विहीयते ॥ ७३ ॥
माशमायाति सर्वंस्तु तस्माद्रक्षक उत्तमः ।
रक्षको हि जगत्कर्ता रक्षको हि जगद्गुरुः ॥ ७४ ॥
रक्षको हि पिता माता रक्षकस्सर्वदा सुहृत् ।
समयी दासमार्गश्च शिवभक्तिपरायणः ॥ ७५ ॥
प्। ८४७)
एतानि समयस्थस्य पर्यायवचनानि वै ।
शिवार्चकः पुत्रमार्गी पुत्रसंस्कारदीक्षितः ॥ ७६ ॥
सहमार्गश्च योगी च साधको योगदीक्षकः ।
साधकैरभिषिक्त इति तस्य पर्यायवाचकम् ॥ ७७ ॥
ज्ञानविज्ञानदीक्षां वा नानारोप्यभिषिक्तकः ।
सन्मार्गीत्येव नामानि देशिकस्यैव तत्वतः ॥ ७८ ॥
भक्तो दीक्षाकरश्चापि समयी च विशिष्यते ।
समये युक्त संस्कारं सहसा साधकोत्तमः ॥ ७९ ॥
स एव योगयुक्तश्चेत् सहसा गुणमुत्तमः ।
स एव च शिरो भूत्वा सहसा च विशिष्यते ॥ ८० ॥
प्। ८४८)
पञ्चविंशत् सहस्रं तु शिवज्ञानं हि लोहितः ।
आचार्यः प्रथमः प्रोक्तः पञ्चाशन्तु सहस्रकी ॥ ८१ ॥
मध्यमाचार्य इत्युक्तो लक्षाध्यायी तदुत्तमः ।
आगमानां च सर्वेषां सारात्साराख्यतन्त्रकम् ॥ ८२ ॥
तस्मादध्ययनादस्य सर्वाङ्गकविदां वरः ।
केवलं भक्तिमार्गे च दानं प्रोक्तमिहागमे ॥ ८३ ॥
समयादिदेशिकान्तं तु वैशिष्यादिकवत्फलम् ।
दानधर्मादि पूजासु वै वैशिष्यमिष्यते ॥ ८४ ॥
कृपया पाणिना दानं शिवभक्त समं भवेत् ।
इत्यचिन्त्य विश्वसादाख्ये पुण्य निर्णयविधिर्द्विपञ्चाशत्पटलः ॥