अथ वक्ष्ये विशेषेण पुण्यनिर्णयमुत्तमम् ।
सर्वलोकहितं पुण्यं सर्वसिद्धिप्रदायकम् ॥ १ ॥
शिखरभूरतो दृष्ट्वा नमस्कुर्याच्छिवालयम् ।
जन्मान्तरकृतं पापं तत्क्षणाद्गलति ध्रुवम् ॥ २ ॥
प्। ८१९)
दूराध्वानपदा शान्तं प्रादक्षिण्यं शिवालयम् ।
तत्क्लेशं तु शिवोप्याथ भवेत्पापौघनाशनम् ॥ ३ ॥
गुरुदेशालयात्तत्तु द्विगुणं फलमृच्छति ।
तस्माद्द्विगुणमुत्कर्षं गुरुदर्शनतो भवेत् ॥ ४ ॥
नमस्कारात्तु द्विगुणं स्तोत्रेणापि शतं भवेत् ।
आदरेण तु शुश्रूषा मोक्षाय भवति ध्रुवम् ॥ ५ ॥
अथवा भोगकामी चेत्साङ्गोपाङ्गं समाचरेत् ।
देवस्य चोत्सवे काले यः कुर्यात्तु परिश्रमः ॥ ६ ॥
पदे पदेऽश्वमेधस्य फलं तद्वद्गुरावपि ।
ध्वजारोहणकाले तु यथा कुर्वन्प्रदक्षिणम् ॥ ७ ॥
प्। ८२०)
इहैव धनवाञ्च्छ्रीमान् पुत्रपौत्रविवृद्धिमान् ।
ध्वजारोहणकाले तु वृषभस्य निवेद्यकम् ॥ ८ ॥
तद्भुक्त्वा च त्रिधा वन्ध्या लभेत्पुत्रं न संशयः ।
केवलं देवायतने प्रादक्षिण्य प्रवर्तनम् ॥ ९ ॥
सप्तजन्मकृतात्पापात् दिने नैव तु मुच्यते ।
नित्योत्सवस्य काले यः प्रदक्षिणमथाचरेत् ॥ १० ॥
रुद्रत्वं समवाप्नोति नात्र कार्या विचारणा ।
नमस्कारं यथा कृत्वा तथा लोके सुपूजितः ॥ ११ ॥
एकाङ्गं च द्वयाङ्गं च त्रयाङ्गं पञ्चमाङ्गकम् ।
अष्टमाङ्गं क्रमेणैव तत्तत्फलमवाप्नुयात् ॥ १२ ॥
प्। ८२१)
शिरसा तु नमस्कारमेकाङ्गन्त्विति कीर्तितम् ।
शिरसा दक्षहस्तेन द्वयाङ्गं च भवेदिदम् ॥ १३ ॥
करद्वयेन शिरसा त्रयाङ्गमिति कीर्तितम् ।
शिरसा पाणिपादैस्तु पञ्चाङ्गं दण्डवद्भवेत् ॥ १४ ॥
शिरसा चिबुकेनैव श्रवणद्वयजानुके ।
करद्वयेन संयुक्तमष्टाङ्गमिति कीर्तितम् ॥ १५ ॥
एवं विधैर्नमस्कारैः पञ्चभिर्नन्दिकेश्वर ।
सालोक्यं चैव सामीप्यं सारूप्यं सदृशं तथा ॥ १६ ॥
नमस्काराद्यर्चनाद्यैरेतेषां प्राप्तियोग्यता ।
स्थित्वा देवालयस्याग्रे प्रदक्षिणत्रयं स्वयम् ॥ १७ ॥
प्। ८२२)
कृत्वा सामीप्यमायाति नित्यमेव न संशयः ।
यत्र ज्ञानक्रियायोगी दिनार्घं दिवसं तथा ॥ १८ ॥
दिवसाद्यं दिनं चापि दिनद्वयमथापि वा ।
तत्तीर्थं तपसो यज्ञन्तन्मन्त्रं च पवित्रकम् ॥ १९ ॥
बुद्धिपूर्वं वसेत्सापि घटिकार्धं समाहितः ।
यत्र यत्क्रियते पापं नाशमायाति निश्चयः ॥ २० ॥
जलं शुद्धमशुद्धं वा शिवधामसमीपगम् ।
दिव्यगङ्गेति तां विद्यात् तत्र स्नायात्तु यो नरः ॥ २१ ॥
सप्तजन्मकृतं पापम् अनेनैव विनश्यति ।
देशिकाङ्घ्रिज तोयेन प्रोक्षयेन्नन्दिकेश्वर ॥ २२ ॥
प्। ८२३)
तस्य पापादिकर्माणि तत्क्षणान्नश्यति ध्रुवम् ।
आचार्योच्छिष्टकं यस्तु गुरोरादेशताच्छ्रुतः ॥ २३ ॥
तस्य शे साम्यत्वमाप्नोत्येव न संशयः ।
महापातक शान्तिस्तु नात्र कार्या विचारणा ॥ २४ ॥
सद्गुरोरङ्घ्रिसं स्पर्शात् सर्वपापैर्विमुच्यते ।
हेमादि स्वर्णदानं तु धेनूनां कोटिदानकम् ॥ २५ ॥
कन्याकोटिशतं दानं तत्तुल्यं लिङ्गदर्शनात् ।
लिङ्गसंस्पर्शनाद्भक्त्या सर्वपापैः प्रमुच्यते ॥ २६ ॥
स्पर्शवेदि स्पर्शनाल्लोहः स्वर्णत्वं नयते क्षणात् ।
तद्वत्स्पर्शनतोन्मुक्तो नात्र कार्या विचारणा ॥ २७ ॥
प्। ८२४)
गन्धपुष्पजलोद्भूतं नानापुष्पं च यो ददेत् ।
शिवभक्त्या च यत्सोपि शिवलोके महीयते ॥ २८ ॥
तद्देशे दृश्यते पुष्पं देवतोद्दिश्य निश्चयम् ।
यत्कृतं शिवं संस्मृत्य मोक्षद्वारा च वै भवेत् ॥ २९ ॥
उद्यानं देवदेवस्य यः कुर्याद्भक्ति पूर्वकम् ।
इहैव धनवाञ्च्छ्रीमान् सोऽन्ते रुद्रपदं लभेत् ॥ ३० ॥
प्रातः काले गवार्थं तु मुष्टिमात्रं ददेत् तृणम् ।
मुक्तिमाप्नोति दारिद्र्याच्छिवलोके महीयते ॥ ३१ ॥
वेदशास्त्रार्थविप्राणां कोटिदानेन यत्फलम् ।
भिक्षामात्र प्रदानेन तत्तुल्यं शिवयोगिने ॥ ३२ ॥
प्। ८२५)
अयुतं यो गवां दद्याच्छोत्रिये वेदपारगे ।
गोसञ्ज्ञातीर्थके क्षीरस्नापनेन तु तत्समम् ॥ ३३ ॥
लिङ्गं तु पञ्चगव्यैस्तु विधिना स्नापयेत्तु यः ।
काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ३४ ॥
कपिलायास्तु गव्येन घृतवारियुतेन च ।
यथा शक्त्यभिषेकं तु कृत वाञ्च्छङ्करस्य वै ॥ ३५ ॥
स रुद्रपदमाप्नोति नात्र कार्या विचारणा ।
विध्युक्तस्नपनं कुर्याद् यो नरो भक्तिसंयुतः ॥ ३६ ॥
नानाभोगांश्च भुञ्जीत शिवलोके महीयते ।
नद्यन्तस्थं जलं शीतं गन्धपुष्पविमिश्रितम् ॥ ३७ ॥
प्। ८२६)
सेचनाद्देवदत्तस्य तद्रुद्रूपदमाप्नुयात् ।
पूर्वपक्षं तु यद्द्रव्यं भोज्यं दद्याच्छिवाय वै ॥ ३८ ॥
फलपुष्पादयश्चापि धनधान्यादिवर्धनम् ।
लिङ्गे वा वृतमाया वा मण्डले भित्तिचित्रके ॥ ३९ ॥
पदे वा फलकायां वा क्षणिके मानसेऽपि वा ।
विधिनाप्तजयेल्लिङ्गं काले काले च तत् प्रियम् ॥ ४० ॥
मनसो मण्डलं श्रेष्ठं मण्डलाल्लक्षणिश्चिरम् ।
क्षणिकात्फलका श्रेष्ठा फलकायाः पटस्तथा ॥ ४१ ॥
पटामाभासमुत्कृष्ठम् आभासाद्बिम्बमुत्तमम् ।
तद्बिम्बाल्लिङ्गमुत्कृष्टं स्फटिकं बाणजं वरम् ॥ ४२ ॥
प्। ८२७)
सर्वपापहरं पुण्यं सर्वतीर्थफलं भवेत् ।
सर्वदानफलं चैव सर्वयज्ञफलं भवेत् ॥ ४३ ॥
ब्रह्महा भ्रूणहा वापि स्नेहहा गुरुतल्पगः ।
बन्धुहा बीरहा वापि मातृहा पितृहापि वा ॥ ४४ ॥
गोघ्नोऽपि वा कृतघ्नो वा पुत्र भ्रातृघ्न एव वा ।
मित्रहा वा महापापयुक्तो वा परदारिकः ॥ ४५ ॥
ज्ञानयोगी शिवं पूज्य सर्वपापैः प्रमुच्यते ।
हविर्दत्वा तु विधिना सकृत्काले शिवालये ॥ ४६ ॥
अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः ।
इहैव धनवाञ्च्छ्रीमान् सोऽन्ते मोक्षमवाप्नुयात् ॥ ४७ ॥
प्। ८२८)
यतीनां ब्रह्मचारीणां गृहस्थानां सुतामपि ।
ज्ञानयोगक्रियाध्यानाद्दानं दारिद्र्य नाशनम् ॥ ४८ ॥
पुत्रपौत्रादयश्चापि वर्धन्ते धनधान्यकम् ।
शङ्खचामरवाद्यानि दर्पणच्छत्रवाससाम् ॥ ४९ ॥
हेमताम्रादि पात्राणां दानाद्दारिद्र्यनाशनम् ।
पश्चाद्रुद्रत्वमाप्नोति नात्र कार्या विचारणा ॥ ५० ॥
धूपघण्टां महाघण्टां देवाय विनिवेदयेत् ।
यशः श्रीः ख्यात्यदारिद्र्यं सिध्यत्येव न संशयः ॥ ५१ ॥
आसनं शयनं वापि हयं वा शिबिकादिकम् ।
यो दद्याद्देवदेवाय तत्सामीप्यमवाप्नुयात् ॥ ५२ ॥
प्। ८२९)
प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा ।
देवाय कृतवान्सद्यः सारूप्यपदमाप्नुयात् ॥ ५३ ॥
राज्ञाद्याभरणादीन् दीपगन्धादिदानगः ।
कीर्तिमान्पुष्टिमान्लोके चान्ते देवं समाप्नुयात् ॥ ५४ ॥
गोचर्ममात्रकां भूमिं शिवाय विनिवेदयेत् ।
सर्वदानफलं तत्तु सर्वपापप्रणाशनम् ॥ ५५ ॥
जलसंयुक्तकेदारं सस्यार्थं दापयेद्बुधः ।
शिवाय वृक्षदानेन सर्वभोगप्रवर्धनम् ॥ ५६ ॥
यो नरः शिवयज्ञं तु कुरुते विधिपूजनम् ।
त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ ५७ ॥
प्। ८३०)
ज्ञानयोगेन देवेशं ज्ञात्वागुरुमुखेन वै ।
भक्त्या च लभते देवं पुनर्जन्म न यच्छति ॥ ५८ ॥
वापीकूपतटाकाद्यैर्देवमुद्दिश्य यत्नतः ।
कुर्वन्बहुधनाढ्यस्तु तदन्ते शिवमाप्नुयात् ॥ ५९ ॥
यश्शयनं च विधिना भक्तिपूर्वं समर्चयेत् ।
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ६० ॥
शिवादित्रयकार्याय सम्यक् प्राणान्परित्यजेत् ।
तस्यैव फलसम्पत्तिं वर्णितुं नैव शक्यते ॥ ६१ ॥
स्वभावश्च विकी चैव कृत्रिमा च त्रिधा भवेत् ।
स्वाभाविकी तु या भक्तिः इहा मुत्र सुखप्रदा ॥ ६२ ॥
प्। ८३१)
कृत्रिमा वै कृता चेत्तु सा परत्र सुखप्रदा ।
लिङ्गाद्धस्तशतं सार्धं शिवक्षेत्रमिति स्मृतम् ॥ ६३ ॥
तच्छिव क्षेत्रसामीप्ये मरणं विद्यते द्यया ।
स याति शिवसामीप्यं नात्र कार्या विचारणा ॥ ६४ ॥
अन्येषु बहुशास्त्रेषु स्वर्गमात्रफलं भवेत् ।
शिवं शास्त्रं विशेषेण भोगमोक्षौ क्लमाल्लभम् ॥ ६५ ॥
मातेन जन्मना सिद्धिं सन्मार्गं चिन्त्यरत्नके ।
तस्मात्सर्वप्रयत्नेन चिन्त्यसादाख्यमभ्यसेत् ॥ ६६ ॥
गुर्वाज्ञया च कर्तव्यं सर्वदानजपादिकम् ।
इत्यचिन्त्य विश्वसादाख्ये (पुण्यविधिः) द्विपञ्चाशत्पटलः ॥