प्। ८१२)
माघमासे तु माघर्क्षे कुर्याद्वै घृतकम्बलम् ।
कपिलाज्यं नवप्रस्थं कृमिकीटादिवर्जितम् ॥ १ ॥
नीतं नूतनं संशुद्धं सुगन्धं दीपयेद्गुरुः ।
अस्त्रेण निक्षिपेत्तोयं वारुणं बीजमुच्चरन् ॥ २ ॥
तदाज्यं पिण्डवत्कृत्वा शिवेन तदनन्तरम् ।
पञ्चामृतैः पञ्चगव्यैः विशेषस्नपनं भवेत् ॥ ३ ॥
अष्टागन्धेन तोयेन विदध्याच्छिवमव्ययम् ।
कृत्वा विशेषपूजां च स्थापयेच्छिवमव्ययम् ॥ ४ ॥
गन्धधूपादिभिश्चैव हृन्मन्त्रं सम्यगुच्चरेत् ।
घृते सम्पातहोमं च पवित्रारोपवर्त्मना ॥ ५ ॥
प्। ८१३)
कृत्वा संस्थापयेत् कुम्भं स्थण्डिले सापिधानकम् ।
कवचेनावकुण्ठ्याथ प्रातर्मध्याह्नमेव च ॥ ६ ॥
सम्पूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।
विशेषेणार्चयित्वा तु सर्वालङ्कार संयुतम् ॥ ७ ॥
धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।
लिङ्गं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् ॥ ८ ॥
गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।
दद्याद्देवं बहिश्शम्भोः ताम्बूलेन समन्वितम् ॥ ९ ॥
सन्ध्यान्ते वा परेद्युर्वा कम्बलाद्यं विसृज्य च ।
पूर्ववत्पूजयेद् देवं गुरुं सम्पूजयेत्तदा ॥ १० ॥
प्। ८१४)
दक्षिणां दापयेत्तस्य यथा विभव विस्तरम् ।
अयुगं चरमं पूर्वे कर्तव्यं वा नवाचरेत् ॥ ११ ॥
घृतकम्बलदानेन सर्वसिद्धिं समाप्नुयात् ।
इत्यचिन्त्य विश्वसादाख्ये घृतकम्बलविधिः एकपञ्चाशत्पटलः ॥