प्। ८०६)
अथ वक्ष्ये विशेषेण शिवरात्रि व्रतं पुनः ।
शिवानन्दं च तत्सर्वं व्रतानामुत्तमोत्तमम् ॥ १ ॥
ईप्सितानां च संसिद्ध्यै देव्या पूर्वमनुष्ठितम् ।
न बाधा यमराजस्य किङ्करैरपि वर्धते ॥ २ ॥
एतद्व्रतानुचारी तु नरकं च न पश्यति ।
माघमासे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ३ ॥
तद्रात्रिश्शिवरात्रिस्तु सर्वपुण्य शुभावहा ।
पूर्वेऽह्नि कृतसुस्नातः कृतकृत्य विधिश्शुचिः ॥ ४ ॥
पश्चाच्च तस्य रात्रौ तु शिवलिङ्गं च पूजयेत् ।
शिवानन्तं च सञ्जप्य कर्तव्यं नन्दिकेश्वर ॥ ५ ॥
प्। ८०७)
कृत्वा तु पञ्चशुद्धिं वै विधिना साधकोत्तमः ।
खण्डूं शमासनं तत्र सन्निधीकृत्य संयुतः ॥ ६ ॥
पाद्याचार्घ्यादिना पूज्य सन्निधीकृत्य तं शिवम् ।
गन्ध ले तु चा सव्यं पिष्टेनोद्वर्तयेत्पुनः ॥ ७ ॥
पञ्चामृतैः पञ्चगव्यैः तत्तदुक्त्याभिषेचयत् ।
पवित्रैः पञ्चभिः कुर्यापञ्चाङ्गैस्तु क्रमेण तु ॥ ८ ॥
पिष्टेन देवदेवेशम् उद्वर्त्य च पुनः पुनः ।
पूर्णेन चापि पिष्टेन रजसा स्थूपितेन च ॥ ९ ॥
वस्त्रेण शोधितेनैव साधयेदुदकेन च ।
नालिकेरोदकेनैव तत्पश्चादभिषेचयेत् ॥ १० ॥
प्। ८०८)
शुद्धवस्त्रेण सम्मार्ज्य लिङ्गं वै पीठिकान्वितम् ।
शुद्धेन वाससा चापि सम्मार्ज्याथ विधानवित् ॥ ११ ॥
यामः प्रति पृथग्द्रव्यैः गन्धाद्यैश्च शिवं यजेत् ।
चन्दनागरुकर्पूर कुङ्कुमाद्यैश्च भक्तितः ॥ १२ ॥
बिल्वैश्च जातिभिश्चैव मल्लिकोत्पलपङ्कजैः ।
दूर्वाक्षत तिलैर्वापि संयुक्त्या सम्यगर्चयेत् ॥ १३ ॥
गद्गुलुं गुरुनिर्यासं सज्जसारञ्च धूपयेत् ।
स घृतेनेन्द्र संयुक्तं वर्तिनाज्यकसंयुता ॥ १४ ॥
दीपमारात्रिकं विद्याद्विधिना नन्दिकेश्वर ।
पूर्वे तु पायसं यामे द्वितीये कृसरं भवेत् ॥ १५ ॥
प्। ८०९)
शुद्धान्नं च तृतीये तु चतुर्थे शुद्धमन्नकम् ।
अशेषैर्व्यञ्जनैर्युक्तं महाहविर्निवेद्य च ॥ १६ ॥
घृतं च शर्करा चैव घृतसाराभिमिश्रितम् ।
ताम्बूल मुखवासानि दापयेन्नन्दिकेश्वर ॥ १७ ॥
आरात्रिकं प्रदीपं च धूपयुक्तं च दापयेत् ।
शिवाग्नौ होमः कर्तव्यः कुण्डे वा स्थण्डिलेपि वा ॥ १८ ॥
शिवाग्नेर्हृदि सङ्कल्प्य चासनं विधिना गुरुः ।
सम्पूज्य तत्र देवाय जुहुयाज्ज्वलितानले ॥ १९ ॥
समिदाज्यादिभिर्लाजतिलैर्मूलाङ्गब्रह्मभिः ।
शिवाद्दशांशतोन्येषां मन्त्राणामाहुतिर्भवेत् ॥ २० ॥
प्। ८१०)
दशादि दशवृद्ध्या तु यावत्पञ्चाशदाहुतिः ।
पूर्णां कृत्वा शिवेनैव निश्छिद्र परिपूरणा ॥ २१ ॥
द्वन्दयित्वा तु तद्भस्म देवेशमभिवन्द्य च ।
पूजयेत्पुनरेवेशं यामः प्रति पुनः पुनः ॥ २२ ॥
देवं पूर्ववदभ्यर्च्य गुरुपूजां ततो नयेत् ।
दक्षिणां च ततो दद्याद्वित्तशाठ्यं विवर्जयेत् ॥ २३ ॥
लिङ्गिनश्शिवभक्तांश्च ब्राह्मणा न तिथीनपि ।
पूजयेद्भक्तितः शक्त्या पूजां सम्यक् समाप्य च ॥ २४ ॥
विष्णुब्रह्मसमं देवं शिवं परमकारणम् ।
संस्मृत्याथ भवेत्पूर्णः देवीं चापि रमां समाम् ॥ २५ ॥
प्। ८११)
सरस्वत्या रमां चापि संस्मृतापि च यद्भवेत् ।
तत्पापमखिलं चापि शिवज्ञान प्रदायकम् ॥ २६ ॥
शिवं चैव गुरुं चैव केवलं मनुजस्त्वसौ ।
एवं स्मृत्वा तु यत्मापं कृतं तदखिलं पुनः ॥ २७ ॥
शिवमायाति तद्रात्रिः पापमात्रं न संशयः ।
शिवरात्रिसमं पुण्यं न भूतं न भविष्यति ॥ २८ ॥
सर्वपापहरं नित्यं व्रतानामुत्तमोत्तमम् ।
इत्यचिन्त्य विश्वसादाख्ये शिवरात्रिपूजाविधिः पञ्चाशत्पटलः ॥