४८

प्। ७९९)

अभीष्ट सिद्धये चापि कर्तव्यं नन्दिकेश्वर ।
पयो दध्याज्यमधुभिरैक्षवैर्मधुपञ्चभिः ॥ १ ॥

पञ्चगव्यादिभिश्चैव वक्षसैः फलकारकैः ।
देवदेवं च संस्थाप्य सवेदिश्च विशेषतः ॥ २ ॥

पिष्टैरामलकाद्यैश्च विरुद्धैश्च शनैश्शनैः ।
सुगन्ध तोयैः संस्नाप्य शुद्धवस्त्रेण मार्जयेत् ॥ ३ ॥

चन्दनागरु कर्पूरैरष्टगन्धैर्विलेप्य च ।
वस्त्राद्यैर्भूषणैस्सर्वैर्भूषयेच्छिवमव्ययम् ॥ ४ ॥

गन्धपुष्पैः स्रगाद्यैश्च पूजयेन्नन्दिकेश्वर ।
इन्द्रवर्ति समायुक्ता दीपमालार्तिकं ददेत् ॥ ५ ॥

प्। ८००)

पञ्चवर्णं हविर्वापि पायसं शुद्धमेव वा ।
नानोपदंश संयुक्तं नानाफल समन्वितम् ॥ ६ ॥

ताम्बूलं मुखवासञ्च तदन्ते दापयेत्तदा ।
एलालवङ्गतक्कोलजाति कर्पूर वर्णयुक् ॥ ७ ॥

मद्विषत्खण्ड संयुक्तं मुखवासमिदं भवेत् ।
प्रणम्याध्येष्य लब्धज्ञैर्होमार्थं कुण्डमाश्रयेत् ॥ ८ ॥

समिदाज्येन चरुणा तिलेनापि समन्वितम् ।
शतमष्टोत्तरं हुत्वा पूर्णमन्त्रं समापयेत् ॥ ९ ॥

वाञ्छतो कर्मदेवाय सम्प्रार्थ्य प्रणमेत्पुनः ॥ १० ॥

प्। ८०१)

वारमेकं समारभ्य सप्ताहान्तं समाचरेत् ।
द्विगुणं त्रिगुणं चापि चतुष्पञ्चगुणं तु वा ॥ ११ ॥

षट्सप्तगुण सङ्ख्यातं कर्मसिध्यन्तमेव वा ।
विशेषपूजा चैवोक्ता पूर्वोक्तवि * * इति ॥ १२ ॥

नैमित्तिकं च कर्तव्यं नित्यान्तेऽप्य विरोधतः ।
वर्तमाने तु नित्ये तु यदा नैमित्तिकं भवेत् ॥ १३ ॥

समाप्य कलिते काले नित्यं नैमित्तिकं चरेत् ।
सन्ध्या परार्धकाले चेत् पूर्वार्धो विद्यते यदि ॥ १४ ॥

कार्यं नैमित्तिकं कालेप्यविचार्य विशेषतः ।
अल्पकालेन सन्ध्यं वै अपरार्धे समाचरेत् ॥ १५ ॥

प्। ८०२)

तन्त्र न व्याप्यनुष्ठानम् उभयत्र समाचरेत् ।
पायसं वाथ नैवेद्यं पर्य * * * मेव वा ॥ १६ ॥

विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् ।
नैमित्तिकमहच्चेद्धि समारभ्य स्वकालके ॥ १७ ॥

एकाद्यावरणान्ते तु सन्ध्या शेषं समाप्य च ।
वैदैश्च कलशे देवं सितेदवधिते क्रमात् ॥ १८ ॥

नैमित्तिकद्वयं प्राप्तौ महदादौ समाचरेत् ।
लघुं ते सदृशं तच्चेत् कामाचारो विधीयते ॥ १९ ॥

कालोऽपि द्विविधः प्रोक्तो नैमित्तिक विधौ ।

प्। ८०३)

ग्रहणादिर्महाकालः स्वल्प कालोग्रसू भवेत् ।
आदित्ये गृह्यमाने तु मुच्यमाने निशाकरे ॥ २१ ॥

भविष्यत्यथ दष्टे चेद् * * त्तनेरेकालके ।
विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ॥ २२ ॥

सिह्मेऽपि वृश्चिके कुम्भे वृषे चादौ समाचरेत् ।
अर्धमेकद्वयं चापि यामं वा घटिकामपि ॥ २३ ॥

आदाव * * * हीयत् स्नापनादिषु कर्मसु ।
आचार्यं पूजयेत्पश्चाद् वस्त्रहेमाङ्गुलीयकैः ॥ २४ ॥

यागोपयुक्त द्रव्यं तु हेमवस्त्रादिकं तथा ।
आचार्याय च तद्दद्यात् नान्यभोगाय कल्पयेत् ॥ २५ ॥

प्। ८०४)

यागावशिष्टं यद्द्रव्यं भूषणं मण्डपस्य च ।
वस्त्रं स्थण्डिकं कुम्भं * * * चैकलदायिकम् ॥ २६ ॥

तोरणं सृक् सृवाष्टौ च मङ्गलं नवरत्नकम् ।
तद्धोमचरुनैवेद्य शेषं यन्मण्डपस्य च ॥ २७ ॥

शयनं धूपं दीपश्च यदन्यत्स्नपयुक्तकम् ।
आचार्याय च तद्देयं सन्मार्गकुलनायकम् ॥ २८ ॥

निष्कादि दशनिष्कादि देशिके दक्षिणा मता ।
निष्काष्टक हान्यस्यमष्टमार्धं तदर्धकम् ॥ २९ ॥

नवधा दक्षिणा क्षुद्रक्रमे स्याद्ध्यानवित्तमे ।
नित्ये तु कल्पयेद्भक्तिं तमनस्कोषणी तथा ॥ ३० ॥

प्। ८०५)

निकामि शुक्रवारे च द्वादशी श्रवणान्विते ।
आयुष्यकरमस्ते तु रविवारे द्वितीयके ॥ ३१ ॥

गुरुवारे च पुष्यार्थी पञ्चमं मृगशीर्षके ।
सप्तम्यां च कर्तव्यं विधिना नन्दिकेश्वर ॥ ३२ ॥

व्याधिनाशाय कर्तव्यं भौमवारे रवावपि ।
जन्मत्रयविपदृक्षे प्रत्यरे षट्तथापि वा ॥ ३३ ॥

वैनाशिके चाष्टमे च पूजयेद्विधिना गुरुम् ।
शत्रुनाशाय तदृक्षे षोडशी गुणवर्धनम् ॥ ३४ ॥

एवं विशेषपूजा वै कर्तव्या नन्दिकेश्वर ।

इत्यचिन्त्यविश्वसादाख्ये विशेषपूजाविधिरेकोन चत्वारिंशः पटलः ॥