अथ वक्ष्ये विशेषेण भक्तानां पूजनं तथा ।
मोक्षार्थिनां मोक्षदं च धनार्थिनां धनप्रदम् ॥ १ ॥
जयार्थिनां जयकरं पुत्रेप्सूनां च पुत्रदम् ।
रोगिणां रोगनाशं च भक्तिहीनस्य भक्तिदम् ॥ २ ॥
अज्ञाने ज्ञानदं चैव सर्वशक्तिकरं परम् ।
स्थावरं जङ्गमं चैव द्विविधं शिवपूजनम् ॥ ३ ॥
प्। ७७५)
लिङ्गादिपूजनं तत्र परिवारं नन्दिकेश्वर ।
पूजाकालेऽपि सान्निध्यं स्थावरे शिव तेजसि ।
जङ्गमे सर्वकालं च सान्निध्यं कुरुते शिवः ॥ ५ ॥
जङ्गमस्याव मानेन स्थावरं निष्फलं भवेत् ।
दीक्षायोग्यस्तु जातीनां दीक्षितस्य विशेषतः ॥ ६ ॥
जातिभेदविशेषोऽस्ति दीक्षितानां तु सर्वदा ।
वागीश्वरीगर्भदेहं गत्वा तु शिवपुत्रकः ॥ ७ ॥
तस्यापत्यत्व सिद्धत्वाच्छैव इत्यभिधीयते ।
मलत्रयस्य नाशत्वाद् विज्ञान कलनादपि ॥ ८ ॥
प्। ७७६)
श्रेष्ठत्वं विद्यते तस्य भवेदेको विशेषतः ।
यस्य चित्तं शिवे लीनं तस्य जात्यादिकं स्मरन् ॥ ९ ॥
शिवलिङ्गे शिलाबुद्धिं कुर्वाणस्स हि पातकी ।
ज्ञान वैराग्य भक्तिश्च दीक्षितस्य च चिह्नकम् ॥ १० ॥
नामभेदादयोप्यत्र पूर्वजातिवशात्पुरा ।
प्रोक्तं तत्रापि यत्कार्यं शृणुत्वं नन्दिकेश्वर ॥ ११ ॥
राजतं ताम्रकं चापि सीसमायसकं तथा ।
वेधको घुटिकाद्याभिः सञ्जाताश्चानुयेत्तदा ॥ १२ ॥
पूर्वरूपं च सञ्ज्ञानं चिह्नत्वं नामभेदकम् ।
हेमत्वसिद्धौ सर्वं च विमानत्वं प्रपद्यते ॥ १३ ॥
प्। ७७७)
तस्माद्विप्रादिशूद्रान्तं दीक्षितानां न जातिकम् ।
भक्तानां पात्रमुख्यत्वं शृणुत्वं नन्दिकेश्वर ॥ १४ ॥
अनुपनीतः प्रथमो द्वितीयोऽप्युपनीतकः ।
वेदाध्यायी तृतीयः स्यादग्निहोत्री चतुर्थकः ॥ १५ ॥
यज्ञाद्यैश्चैव तत्रैव पञ्चमश्च प्रकीर्तितः ।
सत्रयाजी तु षष्ठः स्याद् वेदान्ती सप्तमः स्मृतः ॥ १६ ॥
उत्तरोत्तरतश्चैते श्रेष्ठा गुणसहस्रकाः ।
मुख्य वेदान्त विदुषो कोटिश्रेष्ठश्च मत्प्रियः ॥ १७ ॥
भक्त्या सदृशको नास्ति पुष्पजातिषु तद्दले ।
सर्वथा दीक्षितानां तु सदृशो नास्ति लौकिके ॥ १८ ॥
प्। ७७८)
यथा शिवस्तथा भक्तो यथा भक्तस्तथा शिवः ।
तस्मात्सर्वप्रयत्नेन दीक्षितानां च भोजनम् ॥ १९ ॥
भोगमोक्ष प्रमाणत्वात् कारणं च मम प्रियम् ।
शुद्धदेशे मनोरम्ये सालङ्कारयुते परे ॥ २० ॥
मोक्षार्थिनामन्नित्यं पञ्चविंशति सम्मितान् ।
शुद्धशैवान्समानीय गुरुवद्भक्तिसंयुतः ॥ २१ ॥
आसनं पाद्यमाचामं स्नानवस्त्रादि दानकम् ।
अन्नपानादिकं सर्वं शुद्धमानीय यत्नतः ॥ २२ ॥
परस्परमसङ्कीर्णं भोजयेद्विधिवत्क्रमात् ।
दिने दिने वा मासेवा वत्सरे वापि भोजयेत् ॥ २३ ॥
प्। ७७९)
वित्तानुसारतश्चापि पूजयेन्नन्दिकेश्वर ।
मुक्तिः प्रसाद सञ्ज्ञात्वात्तत्रैव तु न संशयः ॥ २४ ॥
त्रिंशद्भक्तजनस्यापि पूजयेद्भक्तिमान्यदा ।
करोति श्रीर्महत्येव नात्र कार्या विचारणा ॥ २५ ॥
इष्टकामस्य संसिद्धौ सप्तविंशद्दिनं भवेत् ।
अष्टाविंशच्च पुष्ट्यर्थं भक्तानां पूजनं परम् ॥ २६ ॥
विजये चापि त्रिंशच्च शत्रुनाशे च षोडश ।
अष्टोत्तरशतं चापि सर्वशान्तिकरं भवेत् ॥ २७ ॥
भूतव्याध्यादिसकलं भक्तपूजा विधानतः ।
शान्तिं गच्छति तद्गेहं वक्ष्येहन्नन्दिकेश्वर ॥ २८ ॥
प्। ७८०)
पूर्व जन्मनि तत्रैव ब्रह्महा मद्यमांस भुक् ।
सौख्यमस्माकमखिलं परेषामन्यसाधकम् ॥ २९ ॥
परदोष प्रकाशेन परश्रीः क्षीयतोऽपि च ।
गुरुमाहेश्वराणां च स्वर्णदानं विधीयते ॥ ३० ॥
स पादैकाधिकं तद्वद् ज्ञानतोऽपि गतो भवेत् ।
श्रीरुद्रैः पावमानीभिः नित्यं लिङ्गं प्रपूजयेत् ॥ ३१ ॥
गुरुचित्तं सर्वसन्तापि चोष्णत्वरयुतो भवेत् ।
चन्दनोशीरकर्पूरशीतलैरम्बुभिश्शिवम् ॥ ३२ ॥
देवीं चापि सुसंस्थाप्य पूजयेच विशेषतः ।
शान्तिहोमं तु कर्तव्यम् अष्टाविंशति भोजनम् ॥ ३३ ॥
प्। ७८१)
शिवभक्तांश्च सम्पूज्य गुरुपूजां च कारयेत् ।
दिवसे नैव शान्तिः स्याद् भक्तिश्रद्धा समन्वितः ॥ ३४ ॥
यो मोहाच्च गुरूंश्चैव परहृद्रोगकृन्नरः ।
तस्य शीतज्वरं चैव कुष्ठं चैव भयङ्करम् ॥ ३५ ॥
महोदरं वा गुल्मं च अतिसाराङ्घ्रिरोगकाः ।
रोगभेदाच्च सञ्जाता व्याधयस्तत्र शान्तये ॥ ३६ ॥
अभिषेकं पुरा कृत्वा शान्तिहोमं समाचरेत् ।
अष्टाविंशतिभक्तानां भोजनं साङ्गकं भवेत् ॥ ३७ ॥
कुष्ठे तु राजतं दानं रत्नदानं भगन्दरे ।
उपानं वाहनं चापि पादरोगे च दापयेत् ॥ ३८ ॥
प्। ७८२)
पादस्य वसुदानं च विशेषेण प्रशस्यते ।
विस्रब्धस्य विषाधानमभक्ष्यस्य व भक्षणम् ॥ ३४ ॥
अपथ्य भोजनाच्चैव देवद्रव्यापहारतः ।
फ्लन्दिलम्बश्रयञ्चेयः क्षुद्बाधां चापि जायते ॥ ३५ ॥
बह्वाशनोऽप्यभक्षाणां भक्षणाच्चापि जायते ।
अष्टोत्तरं च पञ्चाशत् भक्तानां भोजनं भवेत् ॥ ३६ ॥
शिवपूजा शान्तिहोमो गुरुपूजा तथैव च ।
स्वर्णस्य निष्कसप्तेन दानाद्गच्छन्ति शान्तिकम् ॥ ३७ ॥
ज्ञानहीनस्य चक्षूंषि प्राणिनामुद्धरेन्नरः ।
परदारांश्च रागाच्च निरीक्षेत च शोधनात् ॥ ३८ ॥
प्। ७८३)
कूटसाक्षी गुरुद्रोही नेत्ररोगी च जायते ।
महाभिषेक पूजां च शिवलिङ्गं विधाय च ॥ ३९ ॥
शान्तिहोमं समारभ्य नेत्रमन्त्रेण होमयेत् ।
उपदानं च देवाय भक्तिश्रद्धा समन्वितः ॥ ४० ॥
अष्टपञ्चाशद्भक्तानां भोजनं तु विधीयते ।
यथाशक्ति स्वर्गदातं पायसान्नं च दापयेत् ॥ ४१ ॥
नेत्ररोगादयश्चापि नेत्रं गच्छन्ति निश्चयः ।
अन्नापहारिणो नित्यं जीर्णत्वं प्रतिपद्यते ॥ ४२ ॥
महाभिषेकमीशस्य कृत्वा वै शान्तिहोमकम् ।
अष्टाविंशतिभक्तानां भोजनाच्छान्तिमृच्छति ॥ ४३ ॥
प्। ७८४)
परदाराभिगमनात् तिर्यग्योनिषु मैथुनात् ।
कन्या संयोगश्चापि विधवायास्तथैव च ॥ ४४ ॥
गुरुतल्पगतिं स्मृत्वा प्रमेहाद्यैस्तथैव च ।
तिर्याज्ञर्यादिभिश्चैव शर्करा मधुभोगकैः ॥ ४५ ॥
एवमादिभी रोगैश्च बाधा चैव भवेत्तदा ।
महाभिषेकमीशस्य भक्त्या कुर्यात्समाहितः ॥ ४६ ॥
अघोरास्त्रेण मन्त्रेण होमं कुर्याद्विचक्षणः ।
त्रिंशद्भक्तांश्च सम्पूज्य होमयेन्नन्दिकेश्वर ॥ ४७ ॥
रसभस्म तु संसेव्यं पाशशान्त्यै दिने दिने ।
मोहाद्भ्रात्रीं च जननीमभिगच्छेन्नराधमः ॥ ४८ ॥
प्। ७८५)
मधुमेहमनः पीडास्यान्नात्र कार्या विचारणा ।
शिवपूजा च कार्या तु अघोरास्त्रेण होमयेत् ॥ ४९ ॥
अघोररूपतो जप्त्वा पश्चाद्भक्तांश्च भोजयेत् ।
द्वादशाथ शतं तत्र भक्तानां भोजनं भवेत् ॥ ५० ॥
गुरुपूजा च कर्तव्या शान्तिमायुः प्रयच्छति ।
विमुखस्य गुरोराज्ञामन्यायेनान्य जिह्मकम् ॥ ५१ ॥
छेदनं पुरुषोक्तिं वाप्यसत्यस्य च सादिकम् ।
करोति तस्य रोगाश्च मुखे भवति च ध्रुवम् ॥ ५२ ॥
तस्य शान्त्यै शिवं पूज्य चिन्तामणिविचित्रकैः ।
होमेन शान्तिमागच्छेत् भक्तानां भोजनेन च ॥ ५३ ॥
प्। ७८६)
चतुरशीति भक्तानां भोजनाच्छान्तिरुच्यते ।
गुरुदोषश्रवादेव शुभबोधशिरस्तथा ॥ ५४ ॥
अशुभत्वस्य बोधत्वादश्रोतव्यस्य सात्विकः ।
कर्णकुन्तनयुक्तश्चेद् व्याधिर्वायुश्च जायते ॥ ५५ ॥
तस्य शान्तिश्च लिङ्गे च पूजाभक्तिश्च सर्वदा ।
स्तोत्रैश्च विविधैर्देवम् अघोरास्त्रेण होमयेत् ॥ ५६ ॥
अष्टाविंशतिभक्तानां भोजनाच्छान्तिरिष्यते ।
वस्त्रदानं च तेषां वै धान्यपुस्तकदानकम् ॥ ५७ ॥
गुरुदेवादिकानां तु चालेपहरणादपि ।
कम्बलाद्यपहारात्तु कर्मादेश्च विशेषतः ॥ ५८ ॥
प्। ७८७)
कुरङ्गकोलकान्तीनां तुरगाणां च रक्षिणाम् ।
हिंसने कुष्ठरोगश्च जायते नात्रसंशयः ॥ ५९ ॥
तस्य शान्तिस्तु सम्पूज्य शिवं परमकारणम् ।
आढकेन घृतेनैव पञ्चगव्यादिभिस्तथा ॥ ६० ॥
अभिषेकं च कर्तव्यमघोरास्त्रेण होमयेत् ।
अष्टाविंशति भक्तानां भोजनं च दिने दिने ॥ ६१ ॥
रसभस्म च संसेव्यं रोगशान्त्यै विशेषतः ।
गुरुतेजो विनाशित्वं परं शुभविनाशनम् ॥ ६२ ॥
प्राणिहिंसादिशीलं च परेष्टस्य विघातता ।
क्रोधाल्लोभात्तथामोहात् रोगाणां च चिकित्सिता ॥ ६३ ॥
प्। ७८८)
परदुःखे दयालुत्वं मध्येध्यादि दुर्लक्षणात् ।
श्वेकुष्ठादिभिर्बाधा जायते तत्र निष्कृतिः ॥ ६४ ॥
शिवपूजां विधानेन कृत्वा होमं समाचरेत् ।
गायत्र्या घोरास्त्र मन्त्रेण च हुनेत्तदा ॥ ६५ ॥
षडशीतेश्च भक्तानां भोजनं च विधीयते ।
श्वेतकुष्ठादिभिर्बाधा शान्तिमायाति निश्चयः ॥ ६६ ॥
षडशीतिश्च भक्तानां भोजनं च * * * * ।
देननिन्दादयालुश्च पुरपुत्रादिसम्पदम् ॥ ६७ ॥
ईष्यालुत्वं च तत्रैव परपूजावलोकनम् ।
परस्परायादन्यस्य रहस्याद्याय नास्ति तत् ॥ ६८ ॥
प्। ७८९)
इत्येवमादि दोषात्तु वो * * * श्च जायते ।
सम्पूज्य परमेशानं वागीशीपूजनं तथा ॥ ६९ ॥
दक्षिणामूर्तिमन्त्रेण वागीशीमन्त्रहोमतः ।
अष्टोत्तर सहस्राभ्यां होमं कुर्यात्तु शान्तये ॥ ७० ॥
षडशीतिश्च भक्तानां भोजनं च दिने दिने ।
यावत्प्रबोधमायाति तावद्भोजन सम्भवेत् ॥ ७१ ॥
होमादि गुरवे दद्यान् मधुना चाभिषेचनम् ।
शिवस्य तेन तत्सर्वं शान्तिमायाति निश्चयः ॥ ७२ ॥
देवद्रव्यापहारी च गुरुद्रव्यविनाशकः ।
अतीतभयमेते * * * * वथ कर्मणः ॥ ७३ ॥
प्। ७९०)
तत्प्रधानविहीनश्च याति वृद्ध्या विसर्जयेत् ।
भस्म संस्पर्शहीनस्य दानविघ्नं करोति यः ॥ ७४ ॥
दारिद्र्यादि महाबाधा जायते नात्र संशयः ।
शिवपूजारतस्यापि शिवभक्तस्य पूजनम् ॥ ७५ ॥
विनायकस्य पूजा च तन्मन्त्रं चात्र होमकम् ।
त्रिंशद्भक्तान्नदानानुभोजनाच्छान्तिरेव च ॥ ७६ ॥
तस्मादितरदेवानां साम्यबुद्धि समन्वितः ।
गुरुं च मां च मान्यत्वं बुद्धिशून्यश्च पार्वति ॥ ७७ ॥
लक्षणादिदोषे बुद्धियुक्तोऽपस्मारिको भवेत् ।
दारिद्र्यभोजनं चैव पूजां चैव विशेषतः ॥ ७८ ॥
प्। ७९१)
गुरुहोमान्त कृत्वाधी चात्रहोमं समाचरेत् ।
अघोरास्त्रेण मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ ७९ ॥
हेमरत्नादिकं सर्वं गुरवे च प्रदापयेत् ।
शीतज्वरं कुक्षिरोगं स्फोटकं पादहस्तयोः ॥ ८० ॥
तस्य शान्त्यै शिवं पूज्यमघोरेण सहस्रकः ।
होमेन शान्तिमायान्ति भक्तानां भोजनादपि ॥ ८१ ॥
त्रिंशच्च गुरुपूजा च शान्तये च विशेषतः ।
आगमादींस्तथाशास्त्रा न शुचिस्संस्पृशेत्तु यः ॥ ८२ ॥
मोहादुमूखलादींश्च न्यस्ताङ्घ्रिश्चापतिष्ठते ।
महान्तिह्वाख्यके नाम ग्राहाति प्रबलो ग्रहः ॥ ८३ ॥
प्। ७९२)
तस्याङ्घ्रिकार्यकर्ता तं प्रतिमाबोध शान्तये ।
दीर्घनिश्वासनं चापि कम्पं पुलकमेव च ॥ ८४ ॥
गमने चाप्यशक्तित्वं तस्य वै भवति ध्रुवम् ।
पूर्ववल्लिङ्गपूजा च तस्याघोरेण होमयेत् ॥ ८५ ॥
भक्तानां भोजनं चापि अष्टाविंशति तं सवेत् ।
रसभस्म तु संसेव्यं शान्तिमाशु प्रयच्छति ॥ ८६ ॥
वल्मीकभित्तिच्छिद्रपृष्ठं खात्वा सर्पादि बाध्यते ।
तं वासवग्रहो मानं ग्राहात्यस्य महाज्वरः ॥ ८७ ॥
आक्रोशो भ्रान्तिरुन्मादकुक्षिरोगश्च वै भवेत् ।
पूर्ववत्पूजयित्वा तु तस्याघोरेण होमयेत् ॥ ८८ ॥
प्। ७९३)
अष्टोत्तरशतं हुत्वा त्रिंशद्भक्तांश्च होमयेत् ।
गुरुपूजां प्रकुर्वीत वस्त्रहेमादिभिस्तथा ॥ ८९ ॥
मातापित्रोर्गुरोश्चापि बान्धवे दोषवाचकम् ।
साहसानां प्रयोगेण लम्बनगृहवैशनम् ॥ ९० ॥
तस्य चिह्नं ज्वरः कासो सश्वस्सर्वाङ्गयातकम् ।
कन्धूरेन्नपानादौ वैरस्यं गतिविभ्रमम् ॥ ९१ ॥
तस्य रोगस्य शान्त्यर्थं शिवपूजा विधीयते ।
अघोरास्त्रेण मन्त्रेण अष्टोत्तरशतं हुनेत् ॥ ९२ ॥
भोजयेच्छिवभक्तांश्च त्रिंशत्तत्रापि शान्तये ।
गुरुनिन्दारतस्याऽपि शिवनिन्दारतस्य च ॥ ९३ ॥
प्। ७९४)
ज्ञाननिन्दारतस्यापि बहुशो यस्य कस्यचित् ।
दीर्घकालं तु वातेन पित्तेन च तथैव च ॥ ९४ ॥
रोगेण दीर्घकालं तु बाधा तस्यैव जायते ।
पूर्ववच्छिवमभ्यर्च्य अघोरास्त्रेण होमयेत् ॥ ९५ ॥
अष्टसाहस्र सङ्ख्येन शिवभक्तांश्च पूजयेत् ।
त्रिंशदादिषु तच्छान्त्यैवासनं नन्दिकेश्वर ॥ ९६ ॥
तेन ते शान्तिमायान्ति गुरुपूजादि पूर्ववत् ।
एतेषां शान्तिपातेन भेदेन सकलामयम् ॥ ९७ ॥
उत्क्रान्तौ त्रिविधेनैव प्राप्तिरस्ति न दोषदृक् ।
सर्वेषामन्यकाले तु शिवादित्रयनिन्दनात् ॥ ९८ ॥
प्। ७९५)
सम्भवन्त्येव दोषाणि तस्माद्दोषाणि निस्त्यजेत् ।
शिवादित्रय कार्यार्थम् अशनं कृत्वा तु शोचति ॥ ९९ ॥
पुनरादातुमिच्छा वै सत्यसान्तग्रहग्रहि ।
शोफरोगश्च तिमिरं कुष्ठरोगं तथैव च ॥ १०० ॥
स्तनन्धयस्य क्षीरस्य पानतोऽपि च जायते ।
शिवलिङ्गं च सम्पूज्य शान्तिहोमं समाचरेत् ॥ १०१ ॥
अष्टाविंशतिभक्तानां भोजनाच्छान्ति माप्नुयात् ।
देवतानां गुरूणां च ब्राह्मणानां तपस्विनाम् ॥ १०२ ॥
व्यसनानां च काले च सम्प्राप्य स्वयमेव च ।
शान्तिकाले च दत्तं चेद् कर्णग्रहनिपीडना ॥ १०३ ॥
प्। ७९६)
तस्य हिक्का च बहुधा बधिरत्वं च विद्यते ।
तस्य शान्त्यै शिवं पूज्य नीरोगश्शान्ति पूर्ववत् ॥ १०४ ॥
शिवभक्तांश्च सम्पूज्य त्रिंशत्स्यात्तस्य शान्तये ।
गर्भयोत्तु विशेषात्तु धनग्रहा हि तद * ।
पुरीष मूत्रयोर्बन्धं छर्दिश्च भवति ध्रुवम् ॥ १०६ ॥
तस्य शान्त्ये शिवं पूज्य शान्तिहोमं समाचरेत् ।
त्रिंशद्भक्तजनानां तु भोजनाच्छान्तिरेव हि ॥ १०७ ॥
ग्रहणी काकशिशोर्भागोपद्रवश्च जायते ।
परदाराभिगमने क्लम्बाशोऽपि च जायते ॥ १०८ ॥
प्। ७९७)
तस्य शान्त्यै शिवं पूज्य अघोरास्त्रेण होमयेत् ।
रसभस्म च संसेव्यं सर्वपापविशुद्धये ॥ १०९ ॥
जन्मर्क्षे वा शुभे काले पुण्यर्क्षे च विशेषतः ।
शिवभक्तांश्च त्रिंशच्च भोजयेच्छान्तये तदा ॥ ११० ॥
व्याधिभेदान्गुरुर्बुध्वा तस्य शान्तिं च कारयेत् ।
दरिद्रश्चेन्मन्त्रजपं कुर्यात्पापविशुद्धये ॥ १११ ॥
शिवलिङ्गार्चनं चापि भक्तानां वन्दनादपि ।
रसभस्म विशेषेण व्याधिर्नाशमुपैति वै ॥ ११२ ॥
धनवांश्चेन्निरीक्षेत व्याधेश्च गुरुलाघवम् ।
यावच्च्युतिस्तावदेव शान्तिकर्म समाचरेत् ॥ ११३ ॥
प्। ७९८)
अर्थलाभेन कर्तव्यमात्मार्थं सर्वमेव हि ।
सर्वसंसाधकांशे च मानुषान्नन्दिकेश्वर ॥ ११४ ॥
तस्मात्सर्व प्रयत्नेन शान्तिकर्म समाचरेत् ।
लिङ्गार्चनं तु भक्तानां पूजनाच्छान्तिकर्मणा ॥ ११५ ॥
ऐहिके शान्तिमाप्नोति पश्चाद्रुद्रत्वमाप्नुयात् ।
पयः पानेन पित्तं च क्षुद्बाधा च निवर्तते ॥ ११६ ॥
तद्वच्छान्ति गतिश्चापि भक्तानां भोजनाद्भवेत् ॥ ११६ १।२ ॥
इत्यचिन्त्य विश्वसादाख्ये भक्तपूजनविधिः षट्चत्वारिंशत्पटलः ॥