४६

अथ वक्ष्ये विशेषेण भोजनानां नवं शुभम् ।
तत्सन्ततोपवासश्च भैक्षं तद्वदयाचितम् ॥ १ ॥

नक्तमित्येव नक्तं वै भोजनानां चतुर्विधम् ।
प्रथमं भुजक्ते काके त्वन्नपानादिसेवनम् ॥ २ ॥

अन्यकाले चान्न पानं खादेनापि विसर्जनम् ।
एतल्लक्षण संयुक्तमुपवासस्सतां मतम् ॥ ३ ॥

माधूकरी च भिक्षा तु चैकान्त परिवर्जनम् ।
अयाचितं तुश्चथा मानादरेण समर्पणम् ॥ ४ ॥

प्। ७५९)

अन्नादिभूमिपर्यन्तं या भिक्षा स्यादयाचिता ।
अन्यत्वयाचनं कृत्वा स्वकीय द्रव्यभोजनम् ॥ ५ ॥

न्यायेनोपार्जितं चापि तत्रायाचितकन्द्वयम् ।
त्रिसन्ध्यावन्दनं चापि शिवलिङ्गार्चनादिकम् ॥ ६ ॥

अग्निकार्यं च कृत्वा तु पश्चाद्विविधभोजनम् ।
तत्तद्भोजनमित्युक्तं सर्वपाप प्रणाशनम् ॥ ७ ॥

दिवा न भोजनं रात्रौ भोजनं नक्तमुच्यते ।
स दोपवासाच्छ्रेष्ठं हि भिक्षां तन्नन्दिकेश्वर ॥ ८ ॥

भैक्षादयाचितं श्रेष्ठम् अयाचितान्नक्तमुत्तमम् ।
पूर्वाह्ने देवताभुक्तिः मध्याह्ने भूरिभोजनम् ॥ ९ ॥

प्। ७६०)

अपराह्ने पैतृकं स्यात् सन्ध्यायां गुह्यकादिभिः ।
सर्ववेलामतिक्रम्य नक्तभोजनकं भवेत् ॥ १० ॥

तस्मात्सर्वानयं भोज्यभोजनात्स मुनीश्वरः ।
भिक्षाविधिं विसृज्याथ भोजनत्रितयं शृणु ॥ ११ ॥

गोमयाद्यादि संशुद्धे विविक्ते भोजनालये ।
विशुद्धपाकमानीयमंशकादि विवर्जिते ॥ १२ ॥

वौषडन्तयुतं तत्र मृत्युञ्जयमथो वदेत् ।
सप्तवारं च दर्भैश्च प्रोक्षयेज्जल बिन्दुभिः ॥ १३ ॥

पालाग्रं सर्वमुद्धृत्य शिवादित्रयकारणात् ।
चुल्लीहोमाय शेषार्धं कल्पयेद्विधिना सह ॥ १४ ॥

प्। ७६१)

शुक्लशुद्धं च कृत्वा तु वर्धनीं पूर्वयोगतः ।
नात्यग्निना चैकमत्यं रेचकेनापि वायुना ॥ १५ ॥

समादायाग्निबीजं तु कादिस्थानगति क्रमात् ।
शिवानि स्वमिति प्रोक्त्वा चुल्लिकाग्नौ तु होमयेत् ॥ १६ ॥

ॐ हाम् अग्नये नम इति मन्त्रमेवं समुच्चरेत् ।
ॐ हां सूर्याय नमः । इति ॐ हाम् । ॐ हाम् ॥ १७ ॥

विश्वेभ्यो देवेभ्यो नमः । इति ॐ हाम् अग्नये ।
स्विष्टकृतये नमः * * * * * * * * * ॥ १८ ॥

अग्न्यादि सूर्यपर्यन्तं पूजयित्वोन्नयेत्क्रमात् ।
स्वाहान्तमाहुतीर्हुत्वा क्षमयित्वा विसर्जयेत् ॥ १९ ॥

प्। ७६२)

तत्र ॐ धर्माय नमः । चलादि दक्षिणाबाहौ ।
ॐ धर्माय नमः । इति वामबाहौ । ॐ सर- ॥ २० ॥

स्वपरिवर्तना । काञ्जिनादिसन्धाय यात्रेषु जं-
जलाय श्रुताय वरुणाय नमः । ओमिति ॥ २१ ॥

जलपात्रेषु । ॐ हां विश्वराजाय नमः । इति ।
ग्रहप्रमदेवचोदिते नमः । ॐ सम्मार्जनम् । ॥ २२ ॥

कामाय कुसुमायुधाय नमः । ल्य शिरसि । ॐ ।
स्कन्दाय ग्रहाधिपतये नमः । इति मध्यस्तम्भाधस्तात् ॥ २३ ॥

एवं वास्तुबलिं दत्वा प्रादप्रक्षालनं भवेत् ।
भौतिको नैष्ठिकश्चापि तद्योगेन बलिं क्षिपेत् ॥ २४ ॥

प्। ७६३)

समं सम्यक्च्छुचिर्भूत्वा ततो ध्यानं समाविशेत् ।
तत्रैव सर्वदेवानाम् एकानां च बलिं क्षिपेत् ॥ २५ ॥

ॐ हां गृहोपकरणाय देविकायै वाहनायै नमः ।
एवं वा तत्र कर्तव्यं देशिकस्य विशेषतः ॥ २६ ॥

शिवभक्ति समायुक्तैः सदाचार युतैश्शुभैः ।
शुद्धशैवैश्च सन्मार्गतपोनिष्ठैस्सुदारुणैः ॥ २७ ॥

परस्पर समाकीर्णैः अभ्यग्रैश्च सवर्णकैः ।
एकपङ्क्त्या तु भुञ्जीत मौनीचान्तर्मनाश्शुचिः ॥ २८ ॥

हैमराजतताम्रे च लोहपात्रे सु शोधिते ।
गुरुस्स साधकश्चैव पुत्राश्च समयीक्रमात् ॥ २९ ॥

प्। ७६४)

सरोजपत्र पालाशं कदलीपनसं तथा ।
आम्रपत्रं नालिकेरं मधूकं च तथैव च ॥ ३० ॥

अन्यच्च पावनं पत्रमनिन्दितममन्त्रकम् ।
कांस्ये तु भस्मना शुद्धे सप्तधा पत्रकेऽथवा ॥ ३१ ॥

बाहुरूपाभिजप्ते च पात्रशुद्धिर्भवेत्तदा ।
पादादिसज्जभल्लात प्लक्षाश्वत्थार्क सम्भवैः ॥ ३२ ॥

एरण्डालाबुजैः पत्रैः अर्कपत्रैश्च शोभनैः ।
दुर्गन्धयुक्तैरन्यैश्च निषिद्धैर्भोजनं तु वा ॥ ३३ ॥

भौतिकस्य विशेषेण पालाशं पद्मिनीदलम् ।
अयोग्यं भोजनं तत्र भुक्तिश्चेद्दोष एव च ॥ ३४ ॥

प्। ७६५)

नैष्ठिकस्यापि तत्पात्रे भोजनं पापनाशनम् ।
स्नानं तु भस्मना चैव रेखाया रक्षणं भवेत् ॥ ३५ ॥

जानुमुच्चकरो भूत्वा मौनी वीरासनस्थितः ।
वामहस्तेन संस्पृष्ट्वा पात्रमन्येन वा स्पृशेत् ॥ ३६ ॥

पूर्णाभि मन्त्रितं पूतं श्रद्धया जठराग्निके ।
अस्त्रमन्त्रेण सन्दीप्ते जुहुयात्सघृतास्पदम् ॥ ३७ ॥

आपोशनं पुनः कृत्वा प्रणवप्राण संयुतः ।
स्वाहान्तैराहुतीः पञ्च जुहुयान्नन्दिकेश्वर ॥ ३८ ॥

नागः कूर्मोथ कृकरो देवदत्त धनञ्जयौ ।
उपप्राणाय स्वाहा * * * * * * * * * ॥ ३९ ॥

प्। ७६६)

ॐ प्राणाय स्वाहेति प्राणाहुतीर्दत्वा विधिना ।
भुक्त्वा ॐ अमृतापिधानमसि । मन्त्रेण प्रक्षा- ॥ ४० ॥

लितहस्तेन चुलुकं गृह्याचामेदिति भागैकस्तु ।
ग्रहेनैव तु पूरयेत् ॥ ४१ ॥

पानीयेनैकभागं तु पूरयेन्नन्दिकेश्वर ।
प्राणसञ्चारणार्थं तु एकभागं तु पूरयेत् ॥ ४२ ॥

शिग्रुं पलाण्डुं लशुनं क्रमुकं मधुमांसकम् ।
कूजनं हस्तदत्तं च लवणं परिवर्जयेत् ॥ ४३ ॥

भोजनानां तु म * * * तं लवणवर्जितम् ।
उदुम्बरमलाबुं तु शार्गाष्ठं च कुमारिकाम् ॥ ४४ ॥

प्। ७६७)

सौवीरं पर्युषितं च पर्युषितोपदंशकम् ।
वृन्ताकं काकुजं चैव छत्राकं बिम्बकं तथा ॥ ४५ ॥

वशञ्चिकाद्रं मरीषं प्ररोहाणि च सर्वशः ।
वर्जनीयं विशेषेण भोजनेऽप्युपदंशकः ॥ ४६ ॥

मूर्धाभिधानं नोत्कुट्य रकुद्भाभक्षणं तथा ।
न जृम्भणं च कर्तव्यं भोजने जल्पनं तथा ॥ ४७ ॥

प्रक्षालितकरेणापि नान्यस्वोर्ध्वजलं पिबेत् ।
नव * * * वक्त्रेण नवपिण्डेन चेतसा ॥ ४८ ॥

पिपीलिकामक्षिकादिनखकेशादिदूषितम् ।
दुष्टान्त मन्त्रकिञ्चिच्च त्यक्त्या च क्षालयेत्करम् ॥ ४९ ॥

प्। ७६८)

भस्म स्पृष्टिं च कुर्याच्च शुद्धये नन्दिकेश्वर ।
भुञ्जीत शेषं भुक्त्यन्ते वारिणा चामृतात्मने ॥ ५० ॥

पिधानमसिचेत्युक्त्वा प्रक्षाल्य करयोर्द्वयम् ।
पादस्य दक्षिणाङ्गुष्ठं सिञ्चेदङ्गुष्ठवारिणा ॥ ५१ ॥

मुक्तियुक्तेन तेनैव भोजनेनाटनेऽपि वा ।
भोजयीत यथा लाभं * * * णातिथीनपि ॥ ५२ ॥

दक्षिणाङ्गुष्ठ पादे वै परात्परतरो भुवः ।
आत्मा तिष्ठति तत्तत्र त्वभिषिञ्चाभिज्येष्ठया ॥ ५३ ॥

पूर्ववत्सकलीकृत्य भुक्ति दोषस्य शान्तये ।
बध्नीयान्नासिकान्तं च मुद्रघातिभिधाम् ॥ ५४ ॥

प्। ७६९)

भिक्षाविधिर्विशेषेण माधूकरमनुत्तमम् ।
ब्रह्महत्यादिपापानां नाशनं तपसोच्छ्रयम् ॥ ५५ ॥

नापितान्कारुमारभ्य तदधोजातिगेहके ।
पतितानां गृहे वापि गुरुद्रोहि गृहेऽपि वा ॥ ५६ ॥

शिवनिन्दागृहे वापि ज्ञाननिन्दा गृहेऽपि वा ।
मद्यपानि गृहे वापि भिक्षां नैवात्र कारयेत् ॥ ५७ ॥

शेषिकानां गृहे वापि न प्राप्यं च चरेद्बुधः ।
यथा मध्वाददानोऽपि पुष्पं भृङ्गो न बाधते ॥ ५८ ॥

तद्वद्भिक्षां क्षमी भूत्वा चाददीत गृहाधिपात् ।
माधूकरीं चरेद्भिक्षामेकान्नं परिवर्जयेत् ॥ ५९ ॥

प्। ७७०)

अज्ञानिनां गृहे वापि शुद्धा माधूकरी तथा ।
एकान्नं न तु भुञ्जीत बृहस्पति कुलादपि ॥ ६० ॥

प्रार्थनाद्युपरोधाद्वा भिक्षाकार्यं च दोषकृत् ।
पालाशकदलीचाम्र पनसादलकेऽपि वा ॥ ६१ ॥

भोजनार्थं तु यत्पत्रं तत्सर्वं पात्रमेव च ।
अलाभेऽलाबुपत्रं वा भिक्षापात्रं तथैव च ॥ ६२ ॥

मुमुक्षोस्तुबुरुं श्रेष्ठं बहुरूपाभिमन्त्रितम् ।
धौतपाद * * * * * * * णावकुण्ठनम् ॥ ६३ ॥

विशुद्धं भस्मना स्नानं त्रिपुण्ट्रेण विराजितम् ।
मुमुक्षोर्यदि भिक्षाशा बभुक्षुः शुक्लवस्त्रकम् ॥ ६४ ॥

प्। ७७१)

कौपीन मुत्तरीयं च परिवृत्य समाचरेत् ।
शिवं गुह्यं च भक्त्या च ध्यायेन्मौनी दृढव्रतः ॥ ६५ ॥

आज्ञां तत्र समादाय दण्डमस्त्राभिमन्त्रितम् ।
आतपत्रकरो यायाद् भिक्षार्थं च गृहान्प्रति ॥ ६६ ॥

मार्गमध्ये च निष्ठी च तन्मार्गे च समर्पणम् ।
कुत्सनं चत्यजेत् * * * * चार्वादि सङ्कुलम् ॥ ६७ ॥

भिक्षां देहीति सङ्कल्प्य पादाङ्गुष्ठाग्रनेत्रकः ।
तावत्कालं प्रतीक्षेत यावद्गोवत्सयोर्गतिः ॥ ६८ ॥

प्रसवं च समाप्नोति तत्रान्यत्र व्रजेन्मुनिः ।
गच्छन्पुनर्निवृत्तो न समाहूतो न तत्र वै ॥ ६९ ॥

प्। ७७२)

यजमानादिभिर्नीताम् आददीत पुनर्मुनिः ।
न करेण न निर्वाचा न कांस्येनाददीतताम् ॥ ७० ॥

मलयस्त्री च वृषणी गर्भिणी रोगिणी तथा ।
क्लेशिनी रोदिनीत्यादि हस्तेन तु परीलिहेत् ॥ ७१ ॥

भिक्षिकापात्र पूर्णान्तम् अवातृप्तिश्च मन्त्रके ।
जगतां शोभनं ध्यात्वा स्वाश्रमं च व्रजेत्तथा ॥ ७२ ॥

भिक्षापात्रं शुचिस्थाने स्थापयित्वाथ भिक्षुकः ।
पादप्रक्षालनं कृत्वा चोद्धूत्य सकलां तनुम् ॥ ७३ ॥

आचम्य विधिवत्पाद्यैः प्रपूज्यास्त्रेण पूजयेत् ।
चन्द्रामृतेन सम्प्रोक्ष्य मुद्रया धेनु मुद्रया ॥ ७४ ॥

प्। ७७३)

त्रिभागं कुर्यात्पश्चाद्वै देवायगुरवे तथा ।
तृतीयं भागमादाय स्वात्मनो भोजनाय वै ॥ ७५ ॥

पूर्ववद्भोजनं कुर्यात् स्वाध्यायश्च ततो भवेत् ।
सायन्तनीं च सन्ध्यां तु पूर्ववद्वन्दयेत्क्रमात् ॥ ७६ ॥

विशुद्धभूतले देशे तृणच्छन्ने मृगत्वचि ।
शार्दूल चर्म * * र्ते धापरिस्तरकं भवेत् ॥ ७७ ॥

मन्त्रन्यस्ततनुर्भूत्वा शयित्वा योगनिद्रया ।
अजपां शिव संयुक्तां चन्द्रार्कौ नाश संयुतौ ॥ ७८ ॥

कृत्वा स्वपेत्सदा योगी निद्राकालेऽपि पूजनम् ।
तुरीयं वापि सा सन्ध्या ज्ञानिनां च विशेषतः ॥ ७९ ॥

प्। ७७४)

पूर्व पश्चिमयोर्मध्ये रात्रौ तु दशनाडिकाः ।
स्वापकालमिदं प्रोक्तं पश्चात्पूर्ववदाचरेत् ॥ ८० ॥

इत्यचिन्त्य विश्वसादाख्ये (भोजनविधिः) सप्त चत्वारिंशत्पटलः ॥