अमृताभिषेकं वक्ष्यामि शृणुत्वं नन्दिकेश्वर ।
अघोरं प्रीतिदं कुर्वत्सर्वरोगनिवारणम् ॥ १ ॥
अपमृत्युजयं चैव मजरामरसिद्धिदम् ।
अमृतौघमयं चक्रं सर्वसान्द्रसुखावहम् ॥ २ ॥
अनेनाभिषेक संयुक्ते देशिकश्चन्द्रशेखरः ।
चक्रमन्त्रं ततो ध्यानं साधनं चाभिषेचनम् ॥ ३ ॥
विनियोगं यथा सर्वं तत्तद्भेदं वदाम्यहम् ।
अष्टपत्रं लिखेच्चक्रं भूपत्रादिकके तथा ॥ ४ ॥
प्। ७४५)
चन्दनागरुकर्पूररोचना कुङ्कुमं तथा ।
हिमाम्बुभिश्च संयुक्तं रसद्रव्यैश्च लेखयेत् ॥ ५ ॥
हेमकूर्चं च कर्तव्यममृतेनापि वर्त्मना ।
तद्वृते चाम्बुजद्वन्द्वं कमलाकर्णिकायुतम् ॥ ६ ॥
अमृतौघं महामन्त्रम् अनेकाक्षर संयुतम् ।
एकोद्धारयुतं चैव चिन्तामणिरिवापरम् ॥ ७ ॥
तस्योपरि ठकारं च बिन्दुयुक्तमनन्तरम् ।
सकारं च जकारं च तस्यान्ते रेफ संयुतम् ॥ ८ ॥
शिवमन्त्रं च बिन्दुं च नादं चापि तथैव च ।
प्। ७४६)
एतत् पिण्डं महामन्त्रं कर्णिका मध्यमो भवेत् ।
चन्द्ररूपं चलं चापि चतुरानन संयुतम् ॥ १० ॥
अजेशमग्नि संयुक्तं तन्मध्ये शक्तिसंयुतम् ।
सदाशिवस्य बीजं तु लिकुचेन तु संयुतम् ॥ ११ ॥
अष्टबीजयुतं पिण्डं बिन्दुनाद समन्वितम् ।
ह्रीं फं हौम् ॥
दलबाह्ये विशेषेण कलाः षोडश विन्यसेत् ॥ १२ ॥
द्वितीयं पद्मदलं केचित् तृतीयं दलकं प्रति ।
चत्रतीयस्तृतीये च चतुर्थीदल पङ्क्तिके ॥ १३ ॥
मान्तं च पञ्चमे वृत्ते वारुणं बीजमालिखेत् ।
षष्ठे तु दान्तं विन्यस्य सप्तमे शिवबीजकम् ॥ १४ ॥
प्। ७४७)
कलास्स बिन्दुकं न्यस्य तद्बहिष्ठाक्षराण्यपि ।
षोडशस्वरयुक्तानि विन्यसेत्क्रमशस्सुधीः ॥ १५ ॥
अन्यं तु मध्यमं चक्रं शृणुत्वं नन्दिकेश्वर ॥ १६ ॥
सप्तवृत्तं लिखेच्चक्रं षोडशार समन्वितम् ।
पूर्ववत्पिण्डिकामध्ये पिण्डरूपं महामनुम् ॥ १७ ॥
बहिष्षोडशपात्रेषु चतुरीयां तु विन्यसेत् ।
जकारं च ततो बाह्ये तद्बहिर्वारुणं न्यसेत् ॥ १८ ॥
सकारं तद्बहिर्वृत्ते सोमबीजं च तद्बहिः ।
सध्मराणि स विज्ञानि न्यसेच्छक्तानि पूर्वकम् ॥ १९ ॥
प्। ७४८)
देवस्य चोत्तरे भागे मण्डलं कारयेद्बुधः ।
गोमयालेपनं कृत्वा दर्पणोदरसन्निभे ॥ २० ॥
सुगन्धचन्दनाम्भोभिः प्रोक्षयेन्मण्डपादिकम् ।
सितक्षौमयुतश्शुद्धो भस्मोद्धूलितविग्रहः ॥ २१ ॥
दिव्यगन्धानुलिप्ताङ्गः सितपुष्पैरलङ्कृतः ।
निस्तुलैर्मौक्तिकैर्युक्तः शुक्लयज्ञोपवीतवान् ॥ २२ ॥
पूर्ववद्वेदि मध्ये तु श्वेतपिष्टैस्तु संयुतैः ।
कर्पूरैस्तु हिमाम्भोभिः लिखेत्पूर्वोक्त चक्रतः ॥ २३ ॥
आसनं कूर्चकं कृत्वा न्यस्त्वा न्यासत्रयं क्रमात् ।
आत्मानं शिवं च नाहं भावयित्वा विचक्षणः ॥ २४ ॥
प्। ७४९)
स्वकीय गुरुभक्तिं तु वैतद्बिम्बमयं शुभम् ।
तस्योर्ध्वे तु गुरुं ध्यात्वा तद्गात्रामृत वारिभिः ॥ २५ ॥
सिच्यमानं स्वमात्मानं भावयेन्नन्दिकेश्वर ।
ससारूप्ययुतं मन्त्रं जपं कुर्यात्समाहितः ॥ २६ ॥
एतदष्टांशंसलिलैः तर्पयेद्गन्ध संयुतैः ।
श्वेतैर्नीलैः श्वेतपुष्पैः श्वेततण्डुलकैरपि ॥ २७ ॥
सर्पिषा पायसेनापि जाति पुष्पैश्च पूजयेत् ।
शिवं चन्द्रावतं सं तं निवेद्यं पायसं परम् ॥ २८ ॥
एवं स्वाध्यकृतं मन्त्रं सर्वसिद्धिकरं परम् ।
आयुष्कामस्तुलायां च विधा स्कन्दादि पूजयेत् ॥ २९ ॥
प्। ७५०)
अपामार्गैश्च पूर्वाभिः सर्पिषा पायसेन च ।
संहृत्य जुहुयादग्नौ अपमृत्युविनाशनम् ॥ ३० ॥
पालाशसमिधैश्चापि मधुरत्रय संयुतैः ।
वारत्रयं च जुहुयात् सहस्रं च दिने दिने ॥ ३१ ॥
प्रथमं मासमेवं तु पश्चान्मासं प्रति प्रति ।
दिनत्रयं च कर्तव्यं पौर्णादिकमतो भवेत् ॥ ३२ ॥
शतायुश्च भवेद्देही देहान्ते च शिवं व्रजेत् ।
एकविंशद्दिनैश्चापि गडूच्या सिततण्डुलैः ॥ ३३ ॥
श्वेतैस्तिलैश्च जुहुयात् आरोग्ये पूर्व सङ्ख्यया ।
वृष्टिकामोऽपि पूर्वायां प्रातः स्नात्वा समाहितः ॥ ३४ ॥
प्। ७५१)
गुरोः पादारविन्दं च नमस्कृत्वाभ्यनुज्ञतः ।
परं विघ्नेश्वरादींश्च पूर्ववत्पूजयेत्पुनः ॥ ३५ ॥
लोकानां रक्षणार्थाय वृष्टिं संसाधयाम्यहम् ।
इति सङ्कल्प्य मनसा शिवभक्तांश्च भोजयेत् ॥ ३६ ॥
पूर्ववन्मण्डलादीनाम् अलङ्कारं मनोहरम् ।
तन्मध्ये वेदिकां कुर्याद् हस्तमात्रेण साधकः ॥ ३७ ॥
उच्छ्रायमपि तन्मानं तन्मध्ये शालितण्डुलैः ।
चतुर्द्रोणै स्थितं पद्मं साष्टपत्रं सपर्णकम् ॥ ३८ ॥
स्थापयेद्द्रोणतोयेन पूर्वकुम्भे सतोयकम् ।
सपल्लवापिधानं तु दुकूलद्वय संयुतम् ॥ ३९ ॥
प्। ७५२)
सुगन्धि द्रव्य संयुक्तं रजतं मूलसंयुतम् ।
मुक्तादाप परिक्षिप्तं क्षिप्तं पुष्पोपशोभितम् ॥ ४० ॥
तन्मध्ये शिवचन्द्रं च पूजयेत्पिण्डमन्त्रतः ।
श्वेतैस्सुगन्धैः पुष्पैश्च पूजयेत्तदनन्तरम् ॥ ४१ ॥
नैवेद्यं पायसेनैव कुर्यात्तन्नन्दिकेश्वर ।
वह्निं चन्द्रमसं ध्यात्वा वेतसोर्थैस्समिद्वरैः ॥ ४२ ॥
मधुरत्रय संयुक्तैः सहस्रं जुहुयात्क्रमात् ।
सप्तविंशद्दिनान्तेपि महावृष्टिर्भविष्यति ॥ ४३ ॥
अन्यत्तद्वृष्टि सम्बाधे लवणैस्तन्निवारणम् ।
वश्यकार्ये तु मधुना सर्पिषा जाति पुष्पकैः ॥ ४४ ॥
प्। ७५३)
पायसैस्साध्यदिग्भूत्वा पौर्णमास्यां च शुभ्रके ।
मूलमन्त्रं समुच्चार्य साध्यनाममतः परम् ॥ ४५ ॥
वशमानय इत्यन्तं वह्निजाया समन्वितः ।
सहस्रं जुहुयान्मन्त्रं शतमष्टोत्तरं तु वा ॥ ४६ ॥
एकविंशद्दिनान्मध्ये मनसान्ये नियोज्यतः ।
छित्वा दक्षिणपादादि वामपादावसानकम् ॥ ४७ ॥
जुहुयान्मूलमन्त्रेण मधुना सर्पिषा ततः ।
एकविंशद्दिनं चापि कृत्वा पूर्णादिकं चरेत् ॥ ४८ ॥
मध्ये रात्रे तु कर्तव्यं तस्याकर्षणकं ध्रुवम् ।
सिक्थेन वापि साध्यस्य स्वरूपाकर्षणं हुनेत् ॥ ४९ ॥
प्। ७५४)
मधूच्छिष्टेन वा कुर्याद् दीपेन परितापनम् ।
आकर्षणमिदं प्रोक्तं कौलालिक्य मृदापि वा ॥ ५० ॥
पूर्ववज्जुहुयाद्विद्वान् आकर्षणमिदं परम् ।
ज्वरदाहादिशान्त्यै च पूर्ववच्चक्रमाद्भवेत् ॥ ५१ ॥
लिखेयं च निवेद्यं च शिवं चन्द्राय दापयेत् ।
पूर्वादिभससर्पिश्च क्षीरपायस संयुतैः ॥ ५२ ॥
आहुतीभिश्च जुहुयात् प्रत्येकं च सहस्रकम् ।
एकं सप्तदिनादेव ज्वरदाहादिशान्तिके ॥ ५३ ॥
श्रीचक्रं पूर्ववत्पूज्यं बिल्वपञ्चाङ्गकैरपि ।
सप्तवारं सहस्रं च जुहुयान्महतीं श्रियम् ॥ ५४ ॥
प्। ७५५)
लभेच्च शिवचन्द्रं च पूजयेन्नन्दिकेश्वर ।
महागणपति प्रोक्तास्तीहनं चापि कारयेत् ॥ ५५ ॥
पूर्ववच्छिव चन्द्रं च कुर्यात्प्राज्ञस्तदग्रके ।
सर्पिषा पायसेनैव त्रिसहस्रं च होमयेत् ॥ ५६ ॥
इष्टं विज्ञाप्य देवाय विघ्नं दुर्गां च पूजयेत् ।
तत्रैव भवने कूपं जलमब्धिसुधोपमम् ॥ ५७ ॥
विषण्णं च समाहूय मन्त्रध्यान परायणम् ।
स्वकीयामृत संस्थानं मर्दनं विषनाशनम् ॥ ५८ ॥
अङ्गुष्ठा पादतल सन्धिषु जानुगुह्ये
नाभीषु वक्षसि कुचे गलनासिकेषु ।
नेत्रश्रुति भ्रुकुटिगण्डशिखाशिरस्सु ॥ ५९ ॥
प्। ७५६)
पुंसां वामेतरेणैव कलया परिवर्तते ।
विषादं विषदष्टं च पूर्वमुक्तं च चक्रमम् ॥ ६० ॥
शिरोर्ध्वे तस्य संस्मृत्य सुधाधाराभिषेचनम् ।
निष्कैर्द्वादशकैर्वापि तदर्धैश्च तदर्धकैः ॥ ६१ ॥
तदर्धैरर्धतो वापि पद्मं कृत्वाऽथ देशिकः ।
मण्डपस्थ जलं सर्वं पूर्ववन्नन्दिकेश्वर ! ॥ ६२ ॥
स्थण्डिलं कारयेद्धीमांश्चतुर्हस्तसमन्वितम् ।
पूर्वोक्तं च क्रमाल्लिख्य पूजयेद्भक्तिसंयुतः ॥ ६३ ॥
तन्मध्ये चामृतं कुम्भं तन्मध्ये पद्ममेव च ।
चतुष्कोणे शुभैस्तोयैस्सुगन्धैः पूरयेद्घटम् ॥ ६४ ॥
प्। ७५७)
नवरत्नसमोपेतं चूतपल्लव संयुतम् ।
ब्रह्माण्डरूपमेतत्तु बुध्वा तन्मध्यगं जलम् ॥ ६५ ॥
सुधारूपमिति ध्यात्वा तन्मध्ये शिवचन्द्रकम् ।
समभ्यर्च्य सितैः पुष्पैः होमकर्मादिशक्तिभिः ॥ ६६ ॥
सितैर्होमद्वयेनापि वेष्टयेत्तन्मनोहरम् ।
वेदघोष समायुक्तं स्तोत्रघोष समन्वितम् ॥ ६७ ॥
सर्वमङ्गलशब्दैश्च शिष्यं तमभिषेचयेत् ।
गुरुभक्तिसमायुक्तः पूजयेच्छिववत्क्रमात् ॥ ६८ ॥
हेमरत्नादिकं चापि विभवानुक्रमेण तु ।
दद्याद्भक्त्या च गुरवे नमस्कुर्याच्च दण्डवत् ॥ ६९ ॥
प्। ७५८)
पश्चात्तु शिवभक्तांश्च पूजयेत्पूर्ववत्क्रमात् ॥ ६९ १।२ ॥
इत्यचिन्त्य विश्वसादाख्ये अमृताभिषेकविधिः पञ्चचत्वारिंशत्पटलः ॥