प्। ७३०)
अथ वक्ष्ये विशेषेण रत्नगर्भाभिरक्षितुम् ।
विप्रादिषु चतुर्ष्वेवमभिषेकं तु षट्सु च ॥ १ ॥
एतेषां दशजातीनाम् आचार्यत्वं विधीयते ।
लोकानुष्ठान संवादो जातिभेदश्च निर्णयेत् ॥ २ ॥
जात्याचारेण चान्येषां पावनासन गौरवात् ।
दशदीक्षान्न जातीनामभिषेकं न कारयेत् ॥ ३ ॥
यदि नाम न वैक्ष्यैव शिवाग्नि विधिरीरितः ।
तस्माद्यतेश्च कर्तव्यं शैवमार्गे विशेषतः ॥ ४ ॥
आचार्याणां च मध्ये वै यतीनां किञ्चि दन्तरम् ।
परहंसयतीनां च तपस्सन्यासिनां च यत् ॥ ५ ॥
प्। ७३१)
अनयोरग्निकार्येषु योगत्वन्न विधीयते ।
होमं विना तयोरेवमभिषेकं विधीयते ॥ ६ ॥
पूर्वोक्तगुण संयुक्तं पूर्वदीक्षा समन्वितम् ।
श्रुतज्ञानोप संयुक्तमाचार्यगुण संयुतम् ॥ ७ ॥
तमुद्दिश्याभिषेकं च विदध्याद्देशिकोत्तमः ।
सर्वे सम्पूर्णवत्पूज्या मण्डपादिश्च पूर्ववत् ॥ ८ ॥
स्थण्डिलोपरिकुम्भाश्च अधमे शिवकुम्भकम् ।
वर्धनीं तस्य वामेन विन्यसेच्छक्ति संयुतः ॥ ९ ॥
विद्येशानष्टकुम्भेषु तस्य बाह्ये तु विन्यसेत् ।
पञ्चाशदौषधैर्वापि दशपुष्पै * * न वा ॥ १० ॥
प्। ७३२)
सहदेव्येक पत्रं तु भद्रं वैकङ्कतं तथा ।
विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमथापि वा ॥ ११ ॥
चन्दनागरुकर्पूरं ह्रीबेरं मासिरेव च ।
कुङ्कुमोशीरकन्दं च चतुर्जाति समन्वितम् ॥ १२ ॥
पञ्चरत्नौषधैर्युक्ता शालितण्डुलकैर्युता ।
शुद्धतोयेन सम्पूर्णान् चूतपल्लवशोभितान् ॥ १३ ॥
तेषु क्षारोदधिक्षीरदध्योदघृतसागराः ।
इक्षु साराम्बु शुद्धाम्बुगर्भोत्पन्नान्समुद्रकान् ॥ १४ ॥
क्रमेण बाह्ये सम्पूज्य चाष्टविद्येश्वरानपि ।
पूर्वे शिखण्डिनं चैव श्रीकण्ठोपि च कोणके ॥ १५ ॥
प्। ७३३)
त्रिमूर्तिर्दक्षिणे भागे चैकरुद्रं तु दक्षिणे ।
वारुण्यामेकनेत्रं च सूक्ष्मदंष्ट्रः कृतो भवेत् ॥ १६ ॥
अनन्तरूपमैशान्ये मध्याद्यन्ते च विन्यसेत् ।
मध्ये शिवसमुद्रं च वर्धन्यां शक्तिसागरम् ॥ १७ ॥
निवृत्त्यादिकलाभिस्तु कुम्भैः पञ्चभिरेव च ।
शिववत्पूजयेत्सर्वं मूलमन्त्राष्टवाचकैः ॥ १८ ॥
अथ वाप्येक कुम्भेन तादृशेनाभिषेचनम् ।
पञ्चकुम्भेषु विद्येशान् द्वौ द्वौ कुम्भे तु विन्यसेत् ॥ १९ ॥
समुद्राणां द्वयं चापि तद्वदेव तु विन्यसेत् ।
मध्ये च शिवकुम्भं च शिवाम्भोधिं तथैव च ॥ २० ॥
प्। ७३४)
तत्पार्श्वे वर्धनीं चापि शक्त्यम्भोधि समन्वितम् ।
मण्डपोत्तरभागे च स्नानमण्डपमुत्तमम् ॥ २१ ॥
अष्टाङ्गुलोत्थितां वेदीं द्वौ द्वौ हस्तौ च पार्श्वके ।
श्रीपर्णाद्यासने तत्र विन्यस्यार्चितमानसम् ॥ २२ ॥
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।
कुलालोदनमृद्भस्मदूर्वागोमयगोलकैः ॥ २३ ॥
सिद्धार्थघृततोयैश्च कुर्यान्निर्मथनं ततः ।
क्षीरोदानुक्रमेणैव हृदि विद्येशमन्त्रकैः ॥ २४ ॥
शिष्यं तु धारकैर्मन्त्रैः कवचैरभिषेचयेत् ।
शुद्धवस्त्रेण संवेष्ट्य निवेश्य शिवदक्षिणे ॥ २५ ॥
प्। ७३५)
पूर्वोक्ते चासने शिष्यं पुनः पूर्ववदाचरेत् ।
उष्णीषं मकुटं छत्रं पाण्डरं चामराणि वै ॥ २६ ॥
नैष्ठिकाचार्यवर्याय ददेत्तत्र तु भेदिके ।
रथाश्वगजपत्रादि करणीं कर्तरीं घटीम् ॥ २७ ॥
उभयोर्योग्यकं चैवमन्यत्तस्मात्तु दापयेत् ।
अक्षमालाकुशौ चापि स्रुक्स्रुवौ पुस्तकादि च ॥ २८ ॥
सन्मार्गपारगस्सोहमभिषेकोदये शिवे ।
तृप्तये मन्त्रजालस्य जुहुयात्पञ्च चाहुतीः ॥ २९ ॥
पूर्णाहुतिं तथा दद्यात् स्थापयेन्निजदक्षिणे ।
श्रोतव्यं च शिवज्ञानं श्रावयेच्च तदर्थितम् ॥ ३० ॥
प्। ७३६)
पूर्वोक्तगुण सम्पन्ने दीक्षां शिष्ये समापयेत् ।
स्वल्पं जपं चाग्निकार्यं स्वल्पमग्नौ च होमयेत् ॥ ३१ ॥
स्वल्प ध्यानं स्वल्पमन्त्रं जपं तत्र गुरौ भवेत् ।
आगमानां चाध्ययनं सर्वत्रैव पुलो भवेत् ॥ ३२ ॥
इत्यचिन्त्यविश्वसादाख्ये रत्नगर्भविधिरेक चत्वारिंशत्पटलः ॥