४१

समयानात्म तत्वं च शृणुत्वं नन्दिकेश्वर ।
शिवं परात्परं सूक्ष्ममप्रमेयमनुत्तमम् ॥ १ ॥

प्। ७२२)

आदावभूद् द्विधाज्ञानम् अधिकार विभेदतः ।
परात्परेण भेदेन पापेनाश्वत्थदर्शकम् ॥ २ ॥

शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ।
चैद्यं त्वपर विज्ञानं पशुपाशार्थ दर्शकम् ॥ ३ ॥

नन्दिकेश्वरः ।

बौद्धादिसमयाः केते तत्तद्भेदः कथं भवेत् ।
तत्तत्तत्वं कथं ब्रूहि तदसङ्करसङ्करम् ॥ ४ ॥

मिथ्योत्पत्तिकथां कस्मात्कथ्यतां भगवन्मम ।

ईश्वरः ।

बौद्धं च आर्हतं चैव पाञ्चरात्रं च शैवकम् ॥ ५ ॥

समयं चतुर्विधं स्यात्तु तत्तद्भेदस्तु वक्ष्यते ।
शापकं च महायानं ततः प्रत्येकनायकम् ॥ ६ ॥

प्। ७२३)

विभज्य वैभाषिकत्वं तदन्तं बन्धभेदकम् ।
लोकायतं तु तत्रैव महायानानुगामि च ॥ ७ ॥

महायाने पूर्वपक्षं लोकायतमतो भवेत् ।
प्रत्येकनायके तत्र सौत्रीतिकपदाभ्रताः ॥ ८ ॥

योगाचारस्ततस्तस्मात् तन्त्रं च मच्युतो भवेत् ।
वैभाषिकस्थितिर्द्वेधा प्रत्येकं श्रवकं तथा ॥ ९ ॥

महायानं च तत्रैव द्विविधं परमं स्मृतम् ।
परमेतानशश्चेति सुमन्त्ररथ एव च ॥ १० ॥

परतोनयस्तत्वं * सौत्रान्तिक उदाहृतः ।
द्विधा मन्त्रस्थयोगाच्चरदिरे * * * व च ॥ ११ ॥

प्। ७२४)

द्विविधस्तद्योगा च साननाश्च निराकृतिः ।
एवं माध्यमिका प्रोक्ता मा * षमाद्वयस्ततः ॥ १२ ॥

सर्वे धर्मप्रतिष्ठां हि वादिनस्ते प्रकीर्तिताः ।
बौद्धभेदस्थितं ज्ञेयं महाभेदमथोच्यते ॥ १३ ॥

लश्रावनो निष्कलङ्क अकलङ्क स्त्रिधा भवेत् ।
त्रिभिस्त्रिभिः प्रकर्तव्यमाश्रमं च चतुर्विधम् ॥ १४ ॥

गृहस्थो भिक्षुकश्चैव ब्रह्मचारी तथैव च ।
वानप्रस्थश्च इत्येते आश्रमाश्च उदाहृताः ॥ १५ ॥

वैष्णवं त्रिविधं प्रोक्तं तस्य भेदमथोच्यते ।
पञ्चरात्रं भागवतं तथा वैखानसम्मतम् ॥ १६ ॥

प्। ७२५)

इत्येवं त्रिविधं प्रोक्तं मीमांसा न्यायमेव च ।
वैशेषिकश्च साङ्ख्यश्च आत्म वा इति क्रमात् ॥ १७ ॥

वैदिकानां च तद्भेदः प्रोक्तो वामाख्यमुच्यते ।
वामं तु त्रिविधं प्रोक्तमनादिः पूर्वपश्चिमम् ॥ १८ ॥

चतुर्विधं दक्षिणं स्यान्महाव्रतमतः परम् ।
कालामुखं च कापालं तद्वत्पाशुपतं भवेत् ॥ १९ ॥

शैवश्चतुर्विधः प्रोक्तः सिद्धान्तं द्विविधं भवेत् ।
कर्मान्तमेवं ज्ञानान्तं ज्ञानमूर्ध्वं परं स्मृतम् ॥ २० ॥

चर्या चैव क्रियायोगः कर्मणां साधनं भवेत् ।
चर्याक्रिया योगयुक्तं ज्ञानं चैव भवेत्तदा ॥ २१ ॥

प्। ७२६)

शक्तिश्शिवश्च सादाख्यं मन्त्रः प्राधान्यकात्मकः ।
समाप्तकलुषत्वं च मुक्तिस्तत्रैव चोच्यते ॥ २२ ॥

कर्मावरणमेवं स्यात् तस्योर्ध्वे तु निरावृतम् ।
बिन्दुर्नादश्च शक्तिश्च परश्चैव परात्परम् ॥ २३ ॥

ब्रह्मप्राप्त्यवधिश्चैव आत्मानन्दसुखं भवेत् ।
निरावरणमेवं तु शैवभेदस्तथोत्तरः ॥ २४ ॥

एतेषामेकहोमत्वान् न दोषाय तु सङ्करः ।
एवम्भूत विशेषोऽस्ति तद्विशेषं शृणुष्व तत् ॥ २५ ॥

शिव सामान्यता रूपं शिवविग्रहमेव हि ।
विरागमार्हतं चैव अव्यक्ताद्विस्मृतं परम् ॥ २६ ॥

प्। ७२७)

ऐश्वर्यानन्दसम्प्राप्तिः पञ्चरात्रादिभेदकम् ।
शैवं परात्परं ज्ञेयं सर्वतत्वैकनायकम् ॥ २७ ॥

सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् ।
जन्मान्तरतपोभिश्च सन्मार्गज्ञान सम्भवम् ॥ २८ ॥

न लङ्घयेत्तु गुर्वाज्ञां मनोवाक्कायकर्मभिः ।
लङ्घने नरकं चैव ज्ञानचोरस्तथैव च ॥ २९ ॥

तस्मात्सर्व प्रयत्नेन गुर्वाज्ञां न च लङ्घयेत् ।
गुर्वाराधननिष्ठस्य कर्तृज्ञानं स्फुटं भवेत् ॥ ३० ॥

सप्तत्वात्सम्भवत्वाच्च तत्वमित्यभिधीयते ।
देहयुक्तस्य तत्सिद्धिर्देहान्तेपि च तस्य वै ॥ ३१ ॥

प्। ७२८)

देहयुक्तो लभेज्ज्ञानं सिद्धिर्देह विवर्जिता ।
नानाविधैरुपायैश्च वासनानां च वर्धनम् ॥ ३२ ॥

अवश्यकरणीयं च स शिवो नन्दिकेश्वर ।
शैव सिद्धान्तयुक्तस्य सञ्ज्ञां वक्ष्ये शृणुष्व तत् ॥ ३३ ॥

मठं वृक्षश्च गोत्रं च गोचरं च तथैव च ।
पूजनापञ्चकं वापि कर्मावरण युक्तके ॥ ३४ ॥

मुखन्देवं मठश्चापि दर्शनं वासनं तथा ।
पञ्चतत्वं गुहां वापि वृक्षं च वनमेव च ॥ ३५ ॥

गोत्रगोचरसन्तानद्वादशज्ञानकं भवेत् ।
ज्ञानाचरणकं त्वैवं नास्य नाम पृथक् पृथक् ॥ ३६ ॥

प्। ७२९)

मुखमीशानकं चापि दैवं शिवमिहोदितम् ।
मठं ब्रह्म च विख्यातं सन्मार्गं दर्शनं भवेत् ॥ ३७ ॥

ज्ञानादित्रयमित्याहुरावासापर्वतं तथा ।
मनोभङ्गाख्यमतुलं सिद्धिमन्त्रं गुहां तथा ॥ ३८ ॥

जगद्धक्षोवनं भूतं श्रोत्रं शुद्धसुगत्वमे ।
गोचरं शिवमन्त्रं तु सन्तानं तन्मयं भवेत् ॥ ३९ ॥

एवमादींश्च सञ्ज्ञात्वा सत्पुत्राय परं पराम् ।
बोधयेत्सर्वविज्ञानमनेनैव विचारणात् ॥ ४० ॥

इत्यचिन्त्यविश्वसादाख्ये समयलक्षणविधिश्चत्वारिंशत्पटलः ॥