४०

अतः परं प्रवक्ष्यामि दीक्षां विज्ञान संयुतम् ।
विशेषज्ञान पूर्वत्वात् विचित्रत्वाद्विजृम्भणात् ॥ १ ॥

विज्ञान दीक्षा सा प्रोक्ता दीक्षाणामुत्तमोत्तमा ।
मन्त्रहीन क्रियाहीन ध्यानहीनादिदीक्षिते ॥ २ ॥

प्। ७१०)

परिपूर्णत्व सिद्धत्वात् दीक्षाणां तु पवित्रिणी ।
दीक्षाय तच्छिवत्वं हि क्षीयते सर्वसंशयः ॥ ३ ॥

एवं विशिष्ट रूपत्वात् विज्ञानाख्येति कीर्तितः ।
अत्यन्त भक्तिसंयुक्तं गुरुदर्शनमात्रतः ॥ ४ ॥

रोमाञ्चित शरीरं च आनन्दाश्रुविलोचनम् ।
सर्वदा श्रवणोत्कण्ठं सर्वदा श्रवणोन्मुखम् ॥ ५ ॥

सर्वदा गुरुशुश्रूषा वाञ्च्छायुक्तमलोलुपम् ।
आज्ञापालन संयुक्तं सुखं वा दुःखमेव वा ॥ ६ ॥

अस्वातन्त्र्यं च तद्देहे कौलालिक मृदादिवत् ।
समुद्रपतने चैव जाह्नव्यां पतनेऽपि वा ॥ ७ ॥

प्। ७११)

व्याघ्रसर्पादिपतनेऽप्याज्ञा चेदविचारणः ।
सर्वस्वं जलधौ क्षिप्तम् इति चेत्तेन भावितम् ॥ ८ ॥

तत्कार्ये तु प्रवीणत्वं कर्तव्यानितरां सदा ।
भूमौ निक्षिप्य वित्तादी ननु वा ज्ञानमार्गणम् ॥ ९ ॥

मातरं पितरं पुत्रं भ्रातॄन्जायामशेषतः ।
विसर्जने चेत्तच्चित्तं तद्विसर्जनवल्लभम् ॥ १० ॥

विवर्जितानां सर्वेषां स्वीकारं गुरुणोदितम् ।
तत्राविचार्य दीक्षान्तम् एवमादिषु सर्वदा ॥ ११ ॥

पूर्वोक्तदीक्षासंयुक्तं शिष्यं विज्ञानदीक्षया ।
दीक्षयेत्कृपया पूर्णो गुरुस्सन्मार्गनायकः ॥ १२ ॥

प्। ७१२)

मनोव्यापारमात्रेण दीक्षया विद्यते क्रमात् ।
सा दीक्षा ज्ञानदीक्षा तु विज्ञानाख्या च वै भवेत् ॥ १३ ॥

मनोरम्ये शुभे देशे मनोरम्ये तु कालके ।
मनोरम्याखवस्थासु उभयोस्सुखसाम्ययोः ॥ १४ ॥

तदानीमेव सा दीक्षा सर्वसंसारनाशिनी ।
पञ्चाधार स्थितश्चापि गुरुदेहे व्यवस्थितः ॥ १५ ॥

गुर्वध्वमण्डले चैव गुरुमण्डलमुत्तमम् ।
सर्वसाक्षिमयं तत्तु शिवं परमकारणम् ॥ १६ ॥

पश्चाद्गुरुप्रसादेन मन्त्रन्यासादि पूर्ववत् ।
गुरोः पाणितले चैव स्थितं सकलतीर्थकम् ॥ १७ ॥

प्। ७१३)

अङ्गुष्ठमूले ब्राह्म्यं हि कराग्रे देवमन्त्रयोः ।
देवर्षिभिस्तु संसेव्यम् अङ्गुलीपर्वसन्धिजम् ॥ १८ ॥

मनुष्याणामृषीणां च कनिष्ठामूलतीर्थकम् ।
हस्तमूले तु भूतानां तीर्थमित्यभिधीयते ॥ १९ ॥

तर्जन्यङ्गुष्ठयोर्मध्ये पितृतीर्थं व्यवस्थितम् ।
सप्ततीर्थं च तद्धस्ते विद्यमानं विभावयेत् ॥ २० ॥

बिन्दुरूपाणि तीर्थानि भावयित्वा विचक्षणः ।
तस्य दक्षिण हस्तेन शिवमन्त्रेण व्यापितम् ॥ २१ ॥

वामं तु शक्तिमन्त्रेण व्यापितं भावयेद्गुरुः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्शिष्यं च कारयेत् ॥ २२ ॥

प्। ७१४)

सुखासने समावेश्य तद्दृष्टिगतमानसः ।
एवं विधो भवेच्छिष्यो भवेद्गुरुरनन्तरम् ॥ २३ ॥

मूलाधाराग्नि कुण्डोत्थं शिवाग्निं भावयेत्तदा ।
आज्ञाध्वाने च सर्पींषि चन्द्रमण्डलगां सुधाम् ॥ २४ ॥

शिवमण्डलके चैव स्रुवाग्निं स्थाप्य देशिकः ।
मनस्स्रुक् बुद्धिस्रुवं च समिधश्च कलास्तथा ॥ २५ ॥

मूलकुण्डलिना बाहुलतामुद्यम्य चोर्ध्वतः ।
इडां च पिङ्गलां चापि सोमसूर्यं च भावयेत् ॥ २६ ॥

नादस्वरूपदर्भेण चाज्यशुद्धिं विधाय च ।
पूर्वमेवाग्नि सिद्धत्वाद् विना चाग्निमुखं तथा ॥ २७ ॥

प्। ७१५)

तारशक्यं जपित्वान्ते शिवं चाप्यन्यसम्पुटम् ।
पुष्पान्तं मन्त्रमेवं स्यात् ज्ञानाहुतीरनुत्तमाः ॥ २८ ॥

ॐ हं सं सें सूर्यस्सोहमीशान तत्पुरुषाभ्याम् ।
सो हं हौं स्वाहा । ॐ ह्रीं हंसः ॐ ॥ २९ ॥

पिङ्गलानाडिमार्गेण मूलाधारे च होमयेत् ।
ॐ ह्रीं हंसः ॐ हाम् ईश्वरमयस्सोहं हौं स्वाहा ॥ ३० ॥

इडया च हुनेत्पश्चान् मूलाधारे च होमयेत् ।
ॐ ह्रीं हंसः सूर्यसोमाग्निस्सोहं हौं स्वाहा ॥ ३१ ॥

ॐ ह्रीं हंसः हुम् अघोरस्सोहं हुं स्वाहा ।
ॐ ह्रीं हंसः तत्पुरुषाभ्यां सोहं स्वाहा ॥ ३२ ॥

प्। ७१६)

ॐ ह्रीं हंसः हिं वामदेवस्सोहं हौं स्वाहा ।
ॐ ह्रीं हंसः अघोरवामदेवाभ्यां सौं हौं स्वाहा ॥ ३३ ॥

ॐ ह्रीं हंसः सं सद्योजाताय सोहं सौं स्वाहा ।
ॐ ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा ॥ ३४ ॥

ॐ ह्री। हंसः । सद्योजातवामदेवाघोर तत्पुरुषेशानेभ्यः स्वाहा ॥ ३५ ॥

एवं विधैश्च मन्त्रैस्तु एकीकृत्य तु होमयेत् ।
ॐ ह्रीं हंसस्सोहं हौं स्वाहा ॥ ३६ ॥

अनेनैव तु मन्त्रेण तृप्त्यन्तं होममाचरेत् ।
दशांशमङ्गमन्त्रेण होमयेन्नन्दिकेश्वर ॥ ३७ ॥

प्। ७१७)

ॐ ह्रीं हंसः निवृत्तिकलायै सोहं हैं स्वाहा ।
ॐ हौं सोहं हैं स्वाहा । प्रतिष्ठा कलायै सोहं हौं स्वाहा ॥ ३८ ॥

ॐ ह्रीं हंसः विद्याकलायै सोहं हौं स्वाहा ।
ॐ ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा ॥ ३९ ॥

ॐ ह्रीं हंसः शान्त्यतीतकलायै सोहं हौं स्वाहा ।
वागीश्वर्यास्तु बीजैश्च होमयेन्नन्दिकेश्वर ॥ ४० ॥

प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् ।
शिष्यचैतन्यमाकृष्य मूलाधारे च योजयेत् ॥ ४१ ॥

तस्मात्प्रदेशादाकृष्य ब्रह्मणार्घ्यं तरेत्पुनः ।
गुरुमण्डलमध्ये च सदानन्दा मृतोज्वले ॥ ४२ ॥

प्। ७१८)

शिष्यात्मानं च संयोज्य क्रमात्सन्मार्गदायकः ।
शिवरूपमिदं ध्यात्वा पुनर्मूले च योजयेत् ॥ ४३ ॥

तलादि सर्वलोकान्तं शिवनामानि होमयेत् ।
मायादिभूमिपर्यन्तम् एकत्रिंशच्च तत्वकम् ॥ ४४ ॥

अकारादि क्षकारान्तम् अक्षराणां च होमकम् ।
विलोमेन च तत्सर्वं प्रत्येकं होममाचरेत् ॥ ४५ ॥

भवादि प्रणवान्तं च चतुष्षण्णवतीपदम् ।
ॐ ह्रीं हंसः भवस्सोहं हौं स्वाहा ॥ ४६ ॥

ॐ ह्रीं हंसः भवोद्भवस्सोहं हौं स्वाहा ।
इत्येवमादिहोमं च मनसा जुहुयाद्गुरुः ॥ ४७ ॥

प्। ७१९)

निवृत्त्यादिकलाश्चैव होमयेन्नन्दिकेश्वर ।
पूर्णाहुतीश्शिवेनैव होमयेच्छिवभाविताः ॥ ४८ ॥

नेत्रत्रयं गुरुस्साक्षात् कृपानन्दोज्वलाकृतिः ।
शिवशक्त्यात्मकं बुध्वा शिष्यदेहं निरीक्षयेत् ॥ ४९ ॥

सन्ततं शिवयागार्थम् अजपामन्त्रसञ्ज्ञितम् ।
चन्द्रार्कनाशनं चापि सततं योगवर्धनम् ॥ ५० ॥

जाग्रतः स्वपतो विद्धि तिष्ठतश्च गमागमे ।
सन्ततं शिवयागं च नित्यं तिष्ठति तिष्ठति ॥ ५१ ॥

शिष्य चैतन्यमादाय गुरुमण्डलमध्यमे ।
संयोज्य तत्र संलीनं शिवं शिष्यं च भावयेत् ॥ ५२ ॥

प्। ७२०)

शिष्यदेहे च संयोज्य शिवमूर्तिं च भावयेत् ।
संहारक्रममारभ्य षडध्वानो विशेषतः ॥ ५३ ॥

सर्वं शिवेति लीनं च कुर्यात्सन्मार्गनायकः ।
वाच्यवाचकशून्यं तु मनोवाचामगोचरम् ॥ ५४ ॥

अप्रमेयमसादिभ्यमप्रपञ्चमलक्षणम् ।
आद्यन्त शून्यं कैवल्यमसञ्ज्ञमनन्तकम् ॥ ५५ ॥

परात्परं मृत्युमानं द्वैताद्वैत विवर्जितम् ।
एवं ध्यात्वा महाज्ञानी शिष्यमालिङ्ग्य निर्भरम् ॥ ५६ ॥

तन्मूर्ध्न्याधाय यत्काले अखण्डितवपुः स्मरेत् ।
आनन्दस्तस्य तत्रैव जायते च न संशयः ॥ ५७ ॥

प्। ७२१)

कम्पः स्वेदश्च पुलकः सर्वज्ञानस्य चोदयः ।
सम्पद्यते च तत्रैव शिवरूपी विशिष्यकः ॥ ५८ ॥

पुष्पमाल्यं च तत्रैव स्वमूर्ध्न्याधाय निक्षिपेत् ।
हस्ताभ्यामभिषेकं च कुर्यात्सन्मार्गदायकः ॥ ५९ ॥

विज्ञान दीक्षा हीनश्चेत् कुतो मोक्षः कुतः शिवः ।
इत्यचिन्त्यविश्वसादाख्ये विज्ञान दीक्षाविधिरेकोन चत्वारिंशत्पटलः ॥