३८

प्। ६६१)

वक्ष्यामि शृणुनन्दीश षडध्वविधिमुत्तमम् ।
तत्वाध्वा भुवनाध्वा च मन्त्राध्वा च तृतीयकम् ॥ १ ॥

क्रियाध्वा समयाध्वा च कलाध्वा षष्ठकं भवेत् ।
षडध्वभिश्च सर्वत्र व्याप्तमेव चराचरम् ॥ २ ॥

उक्त्वाध्वनः प्रसिध्यर्थं भुवनं तु कृतं मया ।
कालाग्नेःशतरुद्रान्तं ब्रह्माण्डमिति विश्रुतम् ॥ ३ ॥

रजो विलोम्यते सर्वज्वालास्पष्टार्करोचिषाम् ।
स्थाने विभागरहितः परमाणुरिहोदितः ॥ ४ ॥

तदष्टाष्टगुणस्थाने तृतीये स्यात्कचग्रहम् ।
लीक्षायुगो यवोऽप्येवं यवाष्टकमथाङ्गुलम् ॥ ५ ॥

प्। ६६२)

द्वादशाङ्गुल संयुक्तं तालं तालान्तरं ततम् ।
तालद्वयी करं प्रोक्तं तद्द्वयं च धनुर्भवेत् ॥ ६ ॥

द्विधनुर्दण्ड इत्युक्तः क्रोशस्तद्द्विसहस्रकः ।
क्रोशत्रयं च गव्यूतिर्योजनं तद्द्वयं भवेत् ॥ ७ ॥

एकं दश शतं चैव सहस्रमयुतं तथा ।
नियुतं प्रयुतं कापे बृन्दं चैव तथार्बुदम् ॥ ८ ॥

तस्मादनन्तरं स्थानं न्यर्बुदं त्वभिधीयते ।
पद्मं चैव महापद्मं शङ्खं च तदनन्तरम् ॥ ९ ॥

महाशङ्खं च वृत्तं च महावृत्तमनन्तरम् ।
समुद्रं च महत्पूर्वं समुद्राख्यमनन्तरम् ॥ १० ॥

प्। ६६३)

निखर्वं च गुरुश्चैव महावायुरनन्तरम् ।
आकाशश्च महाकाशमेवं परिमितं भवेत् ॥ ११ ॥

स्थानात्स्थानं दशगुणं परिमाणं विशेषतः ।
ब्रह्माण्डस्य कपालं तु योजनैर्न्यर्बुदैर्मतम् ॥ १२ ॥

तदूर्ध्वे हेमकालाग्नेस्तावदेव ह * * * ।
संसार चण्डते कालकोटितेजास्तथा विधैः ॥ १३ ॥

रुद्रैः परिवृतोनेकैः प्रोक्तः कालाग्निरुद्रकः ।
सर्वाध्वान तानः यस्मिन्तेजसि वर्तते ॥ १४ ॥

भयमुत्पद्यते शक्त्या संहृत्या चोदितं प्रभोः ।
तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः ॥ १५ ॥

प्। ६६४)

योजनानां सहस्रेण धूमसङ्ख्यैस्सुदारुणम् ।
कालाग्निभुवनं ह्येतत् कोटिषोडशयोजनम् ॥ १६ ॥

ततः पुटास्त्रय स्त्रिंशत् दशलक्षो न कोटयः ।
कालाग्निभुवनं ह्येतत् तस्योर्ध्वं नरकाणि वै ॥ १७ ॥

तस्यान्तराणि द्वात्रिंशल्लक्षकाणि दुरात्मनाम् ।
यातना * * * * यस्थानानि कल्पितानि हि पापिनाम् ॥ १८ ॥

तेषां नामानि वक्ष्येहं शृणुत्वं नन्दिकेश्वर ।
रौरवं च तमश्चैव शीतमुष्णं च भावकम् ॥ १९ ॥

सन्तापजाम्बुजाकालं सूत्रमष्टममुच्यते ।
प्रसिद्ध नरकाण्येते तेषामधिपतीन् शृणु ॥ २० ॥

प्। ६६५)

सूत्राख्यं कालखण्डाख्यं क्ष्माधारामम्बरीषकम् ।
तप्ताङ्गार महीनाह सन्तापाश्चेति कीर्तिताः ॥ २१ ॥

भवन्त्यष्टौ भवत्साममहाशब्दपदानुगाः ।
लाक्षा प्रलेपम्मासादन्नरुद्धासनयोच्चसाः ॥ २२ ॥

पर्वतद्वयशल्मलीतोत्प्रति दीपक्षुत्पिपासकाम् ।
क्रियमाणानि यं चैव राजानः परिकीर्तितः ॥ २३ ॥

लाभस्तम्भोथ विण्मूत्रस्तथा वैतरणी नदी ।
तामिस्राश्चायतामिस्राः कुम्भीपाकश्च रौरवः ॥ २४ ॥

महापाशानु वा वीचि * * राजराजेश्वरि ।
एषा पुटानां नरकैः सार्धयोजनसङ्ख्यया ॥ २५ ॥

प्। ६६६)

भवन्ति कोटयः * * द्वे तत्कोटिमथैव च ।
ततः कूर्माण्ड भूमिः स्यात् दिदिनावन खण्डिका ॥ २६ ॥

अयोगविततद्येन पूर्वेणार्थेन काञ्चना ।
योप्य बध्यात्पटस्तस्माद्धृदयं चार्धमायसम् ॥ २७ ॥

सहस्र योजनाक्रान्तो निरयाणां पतिस्तथा ।
कूष्माण्ड इति विख्यातो युगान्ताग्नि समप्रभः ॥ २८ ॥

वृत्ताक्षः क्रुद्धवदनो भूरिदंष्ट्रस्सुदारुणः ।
परश्वथधरश्चैव तथा भूतैश्च सेवितः ॥ २९ ॥

ततो नन्दिन् प्रवक्ष्यामि पातालानां तु सप्तकम् ।
कुलानां चैव सप्तानां पातालान्तमुदीरितम् ॥ ३० ॥

प्। ६६७)

नागाश्च राक्षसाश्चैव देवताप्सरसस्तथा ।
महातल निषण्णाश्च क्रीडन्ते निर्भरं मुदा ॥ ३१ ॥

नवलक्षाणि चोत्सेधम् अन्तरं लक्षमुच्यते ।
लक्षाणि सप्ततिश्चैव पातालानां प्रमाणतः ॥ ३२ ॥

दैत्यश्शं कुशिशुः पूर्वे प्रह्लादः शिशुपालकः ।
कर्कान्तुको हिरण्याक्षो बृहद्गर्भो बलिस्तथा ॥ ३३ ॥

काद्रवेयाः कुटिलको वासुकिर्ब * * स्तथा ।
कार्कोटकोऽथ वालाङ्गो * * * दुर्दशस्तथा ॥ ३४ ॥

विकृतो लोहिताक्षश्च यमाख्यो विकटाननः ।
करालो भीमनिर्हापि पिङ्गलश्चेति राक्षसाः ॥ ३५ ॥

प्। ६६८)

तेषामुपरि निश्शेषः पातालाधिपतिस्तथा ।
ततस्सौवर्णपातालं दशलक्षप्रमाणतः ॥ ३६ ॥

तस्मिन्नुपरिदेवेशो हाटकाख्यो महेश्वरः ।
नानाविकार संयुक्तं पुरं कोटि समावृतम् ॥ ३७ ॥

तत्सर्वं हाटकं यस्मात् तस्माद्वै हाटकेश्वरः ।
तस्योर्ध्वे नवलक्षाणि चान्तश्चेति कीर्तितम् ॥ ३८ ॥

भुवनं दशलक्षाणाम् उच्छ्रायं तु विधीयते ।
ततः कोटिशतं पृथ्वी नानाजन समाश्रयाः ॥ ३९ ॥

शैलद्वीपसरिद्वारिनिधिमण्डल मण्डिता ।
जम्बूशाककुशक्रौञ्च शार्ङ्गगोमेदश्च पुष्कराः ॥ ४० ॥

प्। ६६९)

लक्षाणि द्विगुणा द्वीपाः क्षीराद्याब्धि हरावृताः ।
क्षारक्षीरोदधिस्सर्पिरिक्षुकं च मधूदकाः ॥ ४१ ॥

स्वादूदकस्त्विति ख्याताः समुद्रास्सप्त कीर्तिताः ।
क्षीरोदस्तु द्विलक्षः स्याद् अन्यो द्विगुणतोऽधिकम् ॥ ४२ ॥

कर्मस्वर्णमयी भूमिः लोकालोकश्च पर्वतः ।
ततः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् ॥ ४३ ॥

चित्रशैलसरिद्वीपकाननोदध्यलङ्कृतम् ।
पृथ्वी भागवता ज्ञेया सर्वदा नन्दिकेश्वर ॥ ४४ ॥

भूमेर्नाभिर्जम्बु सञ्ज्ञं तद्वृत्तं लक्षयोजनम् ।
क्षीराब्धिना परिवृत्तं परिवृत्तेन तावता ॥ ४५ ॥

प्। ६७०)

तस्य मध्ये स्थितश्शैलो राजराजो हिरण्मयः ।
तिरस्कृतां शुमज्ज्योतिः मेरुस्सुरसमाश्रितः ॥ ४६ ॥

सषोडश सहस्राणि क्षितोविष्टो महीतलात् ।
नाद्रुनामानतो लक्षं मूले च षोडश स्मृतः ॥ ४७ ॥

त्रिषु पादोन्तरेष्वस्य चतुर्बद्धेषु पर्वतम् ।
नेमयः कटकाकारा निर्गता दीप्तिमत्तराः ॥ ४८ ॥

एकादश सहस्राद्या अनुसाहस्रकाः पराः ।
नैमितस्तत्र कोपान्ते लोकपाल समाश्रयाः ॥ ४९ ॥

इन्द्रस्य चक्रपाटाख्यं रत्नसर्वप्रभोज्वलम् ।
सिद्धगन्धर्वमरुतां तदधस्सर्वसंस्थितः ॥ ५० ॥

प्। ६७१)

तस्यामष्टसु शृङ्गेषु पर्यष्टौ संव्यवस्थिताः ।
प्राच्यादिष्विन्द्रमुख्यानां नाम तद्भरगर्भकम् ॥ ५१ ॥

अनेकरत्नप्रभवं विराजितनभोऽन्तराः ।
सिद्धसाध्यगरुद्युक्ता रुग्मभूरमरावती ॥ ५२ ॥

रक्तपीतमणिप्राय हेमप्रकारगोपुरा ।
तेजोवती यदाग्नेय नगरी ज्योतिषावृता ॥ ५३ ॥

लोहप्राकारसंयुक्ता मृत्योस्संयमिनी पुरी ।
कालपाशपितृव्याधि प्रेतभूतगणैर्वृता ॥ ५४ ॥

नैर्-ऋत्यां नगरी कृष्णा दैत्यैः क्रूरैश्च संवृता ।
इन्द्रनीलमहानील नीलरत्नप्रभान्विता ॥ ५५ ॥

प्। ६७२)

प्रतीच्यां वरुणस्यापि नगरी शुद्धवत्यपि ।
शुद्धस्फटिकसङ्कॢप्त तोरणध्वजसंवृतैः ॥ ५६ ॥

शुद्धमेघोपमैर्मत्स्यैः मकरैकज्वलोग्रकैः ।
गद्धबाहस्य नगरी साक्षाद्गन्धवती पुरा ॥ ५७ ॥

धौतश्वेतध्वजैर्युक्त बलेवाहुत संस्थितः ।
नगरी सा प्रभाजालैः दीप्यन्ती परितः क्रमात् ॥ ५८ ॥

सोमस्य नगरी साक्षान्मुक्तास्फटिक निर्मिता ।
महोदयाख्यायक्षैश्च गन्धर्वैश्च विशेषतः ॥ ५९ ॥

खड्गवृक्षोश्च * * * * * * * * * * * ।
देवसङ्घैःस्तुता भाति पुरैश्चैव गिरिप्रभैः ॥ ६० ॥

प्। ६७३)

ऐशान्यां नगरीसाक्षा यशोवत्यम्यभिवृता ।
अनेकरुद्र संयुक्ता नानारत्नैर्विराजिता ॥ ६१ ॥

सर्वर्तुकुसुमैर्युक्ता दिव्यदेवैनिषेविता ।
नानापक्षि समाकीर्णा नानाद्रुम विभूषिता ॥ ६२ ॥

ब्रह्मणा निर्मिता लोकपालचक्रानुवर्तिनाम् ।
भूतये स्वर्ग इत्येता गदिता स्वर्गशीलकैः ॥ ६३ ॥

ब्रह्मणो नगरी साक्षान्मनोवत्यभिधान्विता ।
चतुर्दश सहस्रैश्च योजनानां प्रविस्तृता ॥ ६४ ॥

मध्ये च लोकपालानां मेरुमध्ये सुरैर्वृता ।
याचकारारुणो नुन्नैर्गगनं हासयन्ति या ॥ ६५ ॥

प्। ६७४)

सावित्र्य स्पर्धमानेन स्वर्गकामादिवर्तिनी ।
तस्यामुपासते देवा मुनयश्च महोदयाः ॥ ६६ ॥

महायोगीश्वरी स्कन्धैः योगाद्वेतैश्च वासवैः ।
मेरोः पञ्चमदिग्भागे वैकुण्ठशिखरं भवेत् ॥ ६७ ॥

सर्वालङ्कारसंयुक्तम् ऋद्धिसिद्धि निषेवितम् ।
चतुर्दशसहस्राणि विस्तारोत्सेधमेव तु ॥ ६८ ॥

सर्वरत्नमयाभासं प्रत्यर्क प्राकारतोरणा ।
तत्रैव वसतो विष्णुः सर्वदेवगणैर्युतः ॥ ६९ ॥

भूलोकरक्षणार्थाय वसन्निति दिनात्मनः ।
ये सृष्टि स्थिति संहारान् कुर्वन्ति क्रमशस्तथा ॥ ७० ॥

प्। ६७५)

तदीशभागे तस्याद्रेः शृङ्गमादित्य सन्निभम् ।
यक्त ज्योतिष्कमित्याहुः तथा पशुपतेः प्रियः ॥ ७१ ॥

तस्य सा तुष्करं हेमरत्नचित्रेषु संस्थिताः ।
स्कन्दनन्दिमहाकाल गणेशादि महेश्वराः ॥ ७२ ॥

मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः ।
एवं लक्षण संयुक्तो राजते पर्वतेश्वरः ॥ ७३ ॥

कैलास इति विख्यातो नात्मा वै नन्दिकेश्वर ।
आर्द्रायुतगणैर्युक्तं ब्रह्माद्यैश्च सुरोत्तमैः ॥ ७४ ॥

इति मेरोरधोस्यान्ये दिक्षु ये पर्वताः स्थिताः ।
तत्संशिष्टनवद्वीपं वर्षाण्यस्मिन् शृणुष्वथ ॥ ७५ ॥

प्। ६७६)

निषधो हेमकूटश्च हिमवानचलोत्तमः ।
मेरोर्दक्षिणतो नीलः श्वेत भृङ्गी तु याम्यतः ॥ ७६ ॥

सहस्रद्वय विष्कम्भा दशोन्त्सेधमवान्तराः ।
प्रागायतास्सपर्वाणः सागराः शतकोटयः ॥ ७७ ॥

तदर्धेनाथ विष्कम्भो माल्यवान्गन्धमादनः ।
याम्योत्तरौ प्राक् प्रतिच्यैर्मेरुतस्तावदञ्चरौ ॥ ७८ ॥

पश्चान्माल्यादतः प्राच्यां वर्षं भद्रजनाकुलम् ।
सुक्तो न पकेजामालं प्रतीच्यां गन्धमादनात् ॥ ७९ ॥

निषधाज्वानि वर्णं तु याम्यतो हेमकूटतः ।
नाम्ना किं पुरुषाख्यातं हारक्तं हिमवद्गिरे ॥ ८० ॥

प्। ६७७)

सञ्ज्ञमुद * * * ताद् हिरण्यश्वेत पर्वतात् ।
यदुत्तरं शृङ्गयदः कुरुवर्षं तदुच्यते ॥ ८१ ॥

ब्रह्माणं दुर्निमित्ताश्च मेरोः स्थित्यर्थकाङ्क्षिणा ।
विष्कम्भाकारवत्तत्र पर्वतास्सुदृढास्त्वमी ॥ ८२ ॥

लक्षार्धोन्नत यस्सप्तास्तेषां पूर्वेण मन्दरः ।
वेदो हरिद्रा चूर्णाभो याम्यतो गन्धमादनः ॥ ८३ ॥

नीलोगिरि प्रतीच्यां वै सुपार्श्वं सौम्यतोरुणः ।
सहस्रयोजनोच्छ्रायास्तेषु कल्पद्रुमाः स्थिताः ॥ ८४ ॥

कम्बजमब्जोश्वत्थाश्च व्यग्रोधश्चोत्तरान्तिकाः ।
जम्बूफलरसोद्भूता मेरुपर्यन्त निम्नगाः ॥ ८५ ॥

प्। ६७८)

विशेषमूलमेवास्य कनकीकृत्यतां महीम् ।
तां पीत्वा पक्षिणः सर्वा मृगाश्शाखामृगादयः ॥ ८६ ॥

बभूवुः काञ्चना ये च सत्वास्तस्यां कृतघ्नवाक् ।
द्वीपके तु भूज्जाम्बू * * * * * * * * * ॥ ८७ ॥

प्रभावती यथा ख्यातं जम्बूद्वीपमिदं ततः ।
प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् ॥ ८८ ॥

सरोऽरुणोदकं नाम तत्र गोमाब्जमण्डितम् ।
याम्यां निम्नगे गन्धर्व * * * * * * * * ॥ ८९ ॥

नन्दनं तद्वनं तत्र सरो मानस सञ्ज्ञकम् ।
वैभ्राजं च पुले मूले सितोदश्च समावृतः ॥ ९० ॥

प्। ६७९)

देवस्यैव निषेव्येत कमलैरंशुमत्प्रभैः ।
सौपार्श्वे धृतिमान् * * * * * * * हृदयाः ॥ ९१ ॥

सौगन्धिकाम्बुज चिन्नस्सेव्यते पितृभिस्सदा ।
त्रयोदश सहस्राणां जम्बूफलरसाशिनः ॥ ९२ ॥

मेरोर्लोको पलब्धोर्द्धा जनास्सत्वशिखावृताः ।

तेजस्सत्वजनो दिव्यदेहबन्धसुखी बली ।
चन्द्रबिम्बद्युतिर्नीलाजासनो भद्रवाजिनी ॥ ९४ ॥

दशवर्ष सहस्राणि जन्मन्यायूंषि यज्वनः ।
त्रिंशाब्दश्च सहस्रायुः कामवृक्ष फलाशिनः ॥ ९५ ॥

प्। ६८०)

युग्म प्र * * पुरु * * ज्ञां पुष्पद्युतिर्जनाः ।
भूतवे सहस्रोर्ध्वावेकदिक् सन्धिलक्षणौ ॥ ९६ ॥

चन्द्रभद्राकराधिपौ चन्द्ररक्ताम्बुरुगजनौ ऐलावृतः ॥ ९७ ॥

त * * * * * रायुः फलमूलं च भोजनम् ।
अन्तर्भावं कुरुष्वेव सान्निध्यात्कतमस्तदा ॥ ९८ ॥

मध्यानि च सहस्राणि द्वादशानि हिरण्मयी ।
जनस्यैन्द्रद्विषो नित्यम् अश्वतो लाङ्कुलं फलम् ॥ ९९ ॥

तिनीलरजसस्यामा * के * * स्तशः स्थितः ।
जनस्याब्दसहस्राणि न्यग्रोधफलमश्नुतः ॥ १०० ॥

प्। ६८१)

रजतद्युति निष्पादश्ववदायुर्गिरौ जनः ।
रौक्मं किं पुरुषे प्लक्ष भोजनाब्दायुत स्थितिः ॥ १०१ ॥

इति किं पुरुषादीनि वर्षाण्येतानि तानि वै ।
नवेष्ववस्था भेदोऽस्ति विवर्षेषु कृतादिषु ॥ १०२ ॥

नवसाहस्रविस्तारं समुद्रान्तायतं तथा ।
नानाजन पदाकीर्णं जरारोगभयान्वितम् ॥ १०३ ॥

ईषत्सुखं महादुःखं जनाः कृष्यन्नभोजनाः ।
तेषां शतायुः कॢप्तिश्च चतुर्युगवशात्पुनः ॥ १०४ ॥

गुणमेवं विना * * शुभाशुभ फलार्जनम् ।
भूरादीनां समस्तानां फलभूः कर्मभूर्यतः ॥ १०५ ॥

प्। ६८२)

कर्मभूरिति विख्याता स्वर्गभूमिस्तथोपरि ।
भूमिभुक्तिफलं प्राप्य शिवं सम्प्राप्य यत्नतः ॥ १०६ ॥

तत्र भारतवर्षं च नवभागं प्रकल्पितम् ।
इन्द्रद्वीपादयस्तत्र शृणुत्वं नन्दिकेश्वर ॥ १०७ ॥

इन्द्रद्वीपकशेरुश्च ताम्रपर्णो गभस्तिमान् ।
नागद्वीपाश्च साभ्यश्च गान्धर्वो वारुणस्तथा ॥ १०८ ॥

कुमारिकाख्यो नवमो नानाद्रुमलतानुगाः ।
नानाजाति समाकीर्णा भक्ताख्ये प्रतिकीर्तिताः ॥ १०९ ॥

चातुर्वर्ण्य समायुक्तं चतुराश्रम सङ्कुलम् ।
नदानां च नदीनां च ज्ञेयाः पञ्चशतानि तु ॥ ११० ॥

प्। ६८३)

कोटितीर्थ समायुक्ताः महापुण्योदयाः शुभाः ।
हिमवदुत्तरे भागे कैलासशिखरं महत् ॥ १११ ॥

रौप्याद्रौ तु शिवो देव्या ऋषि सिद्धैस्सुसेवितः ।
सर्वालङ्कार संयुक्तः दिव्यवृक्षैरलङ्कृतः ॥ ११२ ॥

देवसाध्यमहर्नित्यं सान्निध्यमपि पर्वते ।
अष्टषष्टि महाक्षेत्रं वारणास्यादि पावनम् ॥ ११३ ॥

अङ्गद्वीपादि षड्द्वीपाः सागरे लक्ष्यवस्थिताः ।
महेन्द्रो मलयस्सह्यः शक्तिमानृक्षपर्वतः ॥ ११४ ॥

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
द्वीपालं कारसंयुक्ताः चामीकरनिभाः शुभाः ॥ ११५ ॥

प्। ६८४)

नानाविचित्रसंयुक्ता रमन्ते राक्षसेश्वरैः ।
जम्बूद्वीपं समाख्यातं लवणोदध्युतं शृणु ॥ ११६ ॥

लक्षाद्यं च सुविमलं विमलोदधिरास्पदम् ।
भूधरा द्वादशाश्चैवं प्रसिद्धं लवणोदधौ ॥ ११७ ॥

वृषभश्चैव * * * दुन्दुभिश्चैव पर्वतः ।
चक्रश्चैव तु मैनाको बलाकं दक्षिणस्तथा ॥ ११८ ॥

निम्नतापि तयोर्मध्ये चाब्धितो बडवामुखम् ।
वराहस्सोमकेतुश्च नन्दनं पश्चिमे दिशि ॥ ११९ ॥

कंसचन्द्रस्ततो द्रोणश्चोत्तरे संव्यवस्थिताः ।
लवणोदधिरित्युक्तः शाकद्वीपं ततः शृणु ॥ १२० ॥

प्। ६८५)

शाकद्वीपे ह्यधश्शेषो वपुष्मान्कुशद्वीपकौ ।
ज्योतिष्मान्क्रौञ्चद्वीपेतुशा मल्युचिमांस्तथा ॥ १२१ ॥

गोमेदेन समाप्रोक्ता पञ्चद्वीपाधिपाः स्मृताः ।
सप्त सप्त प्रजाजाता सप्तसप्तविभागशः ॥ १२२ ॥

पर्वतादि समुद्रान्तं सप्तभागः प्रकीर्तितः ।
द्वीपे तु पुष्कराख्ये तु वसानस्तु महाबलः ॥ १२३ ॥

द्वौ पुत्रौ तौ समाख्यातौ द्वीपौ तौ तत्र कीर्तितौ ।
पर्वतं वलयाकारं मानसोत्तरनामतः ॥ १२४ ॥

कृतादि युगवत्कालं शाकद्वीपादिवासिनाम् ।
सिन्दूरकान्तिमेर्वादि विस्तारं पञ्चकोदधि ॥ १२५ ॥

प्। ६८६)

सप्तलक्षादयस्सङ्ख्याः समासात्कीर्तितानि वै ।
ततो हेम महाभूमिः विस्तारं दशकोटयः ॥ १२६ ॥

देवानां क्रीडनार्थाय प्रोच्यते तत्समन्ततः ।
लोकालोकस्समाख्यातः पर्वतो वृत्तरूपवान् ॥ १२७ ॥

सहस्रयोजनारम्भः चोच्छ्रायं लक्षयोजनम् ।
लोकपालाः स्थितास्तत्र सिद्धदेव समावृताः ॥ १२८ ॥

दुर्लभश्च सतैस्सूर्यस्त्वन्धकारस्ततः परम् ।
लोकालोकं समावृत्य गर्भोदधि समुद्रराट् ॥ १२९ ॥

गर्भोदधिं समावृत्य पार्थिवावरणं स्मृतम् ।
पार्थिवं तु समावृत्य तदाहं कोटिविस्तृतम् ॥ १३० ॥

प्। ६८७)

कटराहान्महामेरुः पञ्चाशत्कोटिकः स्मृतः ।
दशदिक्षु समं ज्ञेयं प्रमाणं दशकोटयः ॥ १३१ ॥

भूलोकस्तु समाख्यातो भुवर्लोकमथ शृणु ।
लक्षयोजनमानेन सूर्यलोकं विधीयते ॥ १३२ ॥

विश्वे द्वौ वसवश्चाष्टौ रुद्रैकादशकं तथा ।
द्वादशादित्यंशुमाहुस्त्रयस्त्रिंशच्च देवताः ॥ १३३ ॥

तेपि तत्र वसन्त्येव नित्यमीश्वर सेवनात् ।
मेरुं प्रदक्षिणेनैव भुवर्लोकमिति स्मृतम् ॥ १३४ ॥

ततश्चोपरि लक्ष्ये तु चन्द्रलोकं विधीयते ।
चन्द्रार्धलक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥ १३५ ॥

प्। ६८८)

लक्षद्वये बुधं विद्याद् द्विलक्षे भार्गवः स्मृतः ।
लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः ॥ १३६ ॥

सौरिर्लक्षद्वये प्रोक्त उदयो लक्षयोजने ।
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ १३७ ॥

भृग्वङ्गिरो मरीचिश्च ऋषयस्सप्त कीर्तिताः ।
उपरिष्टाद्ध्रुवः प्रोक्तश्चैक लक्षस्य योजनात् ॥ १३८ ॥

ग्रहाणामुपरिष्टात्तु ध्रुवान्तं सर्वमेव हि ।
दश पञ्चैव लक्षाणि भूपृष्ठात्तु ध्रुवान्तकम् ॥ १३९ ॥

ततोपरि महर्लोको द्विकोटिर्योजनं मतम् ।
पञ्चाशीत्यर्धलक्षाणि जनलोकः प्रकीर्तितः ॥ १४० ॥

प्। ६८९)

अष्टकोटिस्तपोलोकः उपर्युपरि संस्थितः ।
द्वादशैव तथा कोटिः पञ्चाशत्कोटयः स्मृताः ॥ १४१ ॥

शतयोजन कोट्या वै प्रोक्तं ब्रह्माण्डधारिका ।
कपालीशाह्वयो बुद्धो वज्रदेहः प्रमर्दनः ॥ १४२ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपाः ।
इन्द्रस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ १४३ ॥

विचरन्ति महारुद्रा वह्निराज्ञासुपूजिताः ।
निर्-ऋत्यां माणवां क्रोधहत्रस्तमविलोहिता ॥ १४४ ॥

ऊर्ध्वलिङ्गो विरूपाक्षो दंष्ट्री नामफलोदयः ।
महाबलो महाबाहुर्धूमकेतुस्सुदंष्ट्रवान् ॥ १४५ ॥

प्। ६९०)

निर्-ऋतेर्बलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्ति महारुद्रा राक्षसेशेन पूजिताः ॥ १४६ ॥

बलोप्यतिबलश्चैव पाशहस्तो महाबलः ।
श्वेतोथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १४७ ॥

मेघनादस्सुनादश्च दशैते पश्चिमाश्रिताः ।
वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ १४८ ॥

विचरन्ति महादेवा वारुणेन तु पूजिताः ।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥ १४९ ॥

पञ्चान्तकः पञ्चशिखःकपर्दी मेघवाहनः ।
पावनं बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १५० ॥

प्। ६९१)

विचरन्ति महादेवा वायुराजेन पूजिताः ।
विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥ १५१ ॥

सुरेश्वरश्च सर्वेशो भूतपालो बलिप्रियः ।
सुखदो दुष्कृतश्चैव दशैते तु समासतः ॥ १५२ ॥

ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा ईशानेन सुपूजिताः ॥ १५३ ॥

विषो वृषधरोरन्तकोसेशस्वखिमाशनः ।
भूतरो कुम्भरश्चैव फणीन्द्रो वज्रदंष्ट्रकः ॥ १५४ ॥

अधोभागेऽपि विष्णोश्च बलमाक्रम्य सुस्थिताः ।
विचरन्ति महादेवा ईशानेन सुपूजिताः ॥ १५५ ॥

प्। ६९२)

शम्भुर्विभुर्गुणाध्यक्षः त्र्यक्षस्त्रिदशकादितः ।
संवाहश्च विवाहश्च नभोलिप्सुर्विचक्षणः ॥ १५६ ॥

वीरभद्रादयो देवा दशनन्दिन्प्रकीर्तिताः ।
ऊर्ध्वेपि ब्रह्मणोप्याथ आक्रम्य प्रभुशक्तिभिः ॥ १५७ ॥

विचरन्ति महादेवा ब्रह्मणा च सुपूजिताः ।
उक्तं च पृथ्वीतत्वज्ञमाप्यते त्वमथ शृणु ॥ १५८ ॥

ब्रह्माण्डोपरि तोयाख्यं तत्वं दशगुणावृतम् ।
विपदं रुद्रकोटीरविमुक्तं च महाबलम् ॥ १५९ ॥

गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुरुद्रकम् ।
पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् ॥ १६० ॥

प्। ६९३)

तन्मध्ये चाष्टहङ्कार प्रकृतिं दशगुणेन तु ।
छगलण्डद्विरण्डं च मोकोटं मुण्डकेश्वरम् ॥ १६१ ॥

कालाञ्चनं शङ्कुकण्ठं स्थूलशं च स्थलेशतम् ।
स्थानाष्टकमिदं विद्यात् पूर्वाद्यैशानमन्तकम् ॥ १६२ ॥

श्वेतं गुह्याष्टकं प्रोक्तं रक्तं गुह्यतमं भवेत् ।
गुह्याद्गुह्याष्टकं कृष्णं पवित्रं चापि धूम्रकम् ॥ १६३ ॥

शुद्धस्फटिकसङ्काशं स्थानमष्टकमीरितम् ।
एवं पञ्चाष्टकं प्रोक्तं कल्पनाभिमस्तु पार्थिवै ॥ १६४ ॥

स्वयमेव यदन्येषु वादिष्वेव च पञ्चसु ।
प्लक्षाकारं तु भुवनं भुवनेशैर्नियामितम् ॥ १६५ ॥

प्। ६९४)

एवं श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तितम् ।
अत ऊर्ध्वं भवेद्बुद्धिर्भवेद्दशगुणावृता ॥ १६६ ॥

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ।
सौम्यं प्राजेश्वरं ब्राह्म्यं देवयोन्यष्टकं स्मृतम् ॥ १६ ॥

एतत्पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ।
स्थानान्युक्तानि सर्वाणि सर्वैश्वर्ययुतानि च ॥ १६८ ॥

गुणावरणमूर्ध्वे तु बुद्धेर्दश गुणाः स्मृताः ।
अकृतं च कृतं चैव भैरवं ब्राह्ममेव च ॥ १६९ ॥

वैष्णवं त्वथ कौमारम् औमं श्रीकण्ठमेव च ।
प्रोक्तं याम्यष्टकं ह्येवं गुणावरणमाश्रितम् ॥ १७० ॥

प्। ६९५)

योगेश्वरेषु यो भक्तो योगं युज्यति तत्परः ।
तेषां स्थानानि दिव्यानि क्रमाद्गच्छन्ति योगिनः ॥ १७१ ॥

अस्यारिपतमूर्ध्वे तु स्थितं दशगुणावृतम् ।
गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणु रुद्रकम् ॥ १७२ ॥

पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् ।
क्रोधेशश्चण्ड संवर्तो ज्योतिः पिङ्गलसूरगः ॥ १७३ ॥

पञ्चान्तकैकवीरश्च शिवेन सहितेश्वराः ।
महादेवाष्टकं ह्येवम् अव्यक्तावरणास्थिताः ॥ १७४ ॥

अव्यक्तं प्रकृतिश्चैव प्रधानं च इहोच्यते ।
रुद्रः पिङ्गो गणेशानो भुवनेशपुरस्सराः ॥ १७५ ॥

प्। ६९६)

अङ्गुष्ठमात्रास्ते देवास्सङ्गुष्ठाच्छिवसञ्ज्ञकाः ।
कामक्रोधविनिर्मुक्ताः परमेश्वरभावकाः ॥ १७६ ॥

तत्रैव पुरुषा ज्ञेया रागाख्यावरणाश्रिताः ।
षट्कौशिकानि भूतानां विषयाणीन्द्रियाणि वै ॥ १७७ ॥

मनोबुद्धिरहङ्कारः त्रिगुणाश्च विशेषतः ।
एतैर्युक्तैस्तु पुरुषो रागतत्वे व्यवस्थितः ॥ १७८ ॥

विद्यातत्वं तदूर्ध्वं च रागाच्छतगुणं भवेत् ।
वामदेवोऽथ भीमश्च उग्रश्चैव भवस्तथा ॥ १७९ ॥

शर्वेशानौ च वीरश्च ईश्वरश्च प्रचण्डधृक् ।
ईश्वरो वाप्युमाभर्ता गिरिशोऽनन्त एव च ॥ १८० ॥

प्। ६९७)

कलातत्वं भवेदूर्ध्वं विद्यायां तत्ततोधिकम् ॥ १८१ ॥

वामो ज्येष्ठश्च रौद्रश्च कालश्चैव कलस्तथा ।
कलविकरणो बलविकरणो बलप्रमथन एव च ॥ १८२ ॥

सर्वभूतदमनश्च मनोन्मनस एव च ।
दशरुद्राः स्थिता ह्येते विग्रहेशान च स्मृताः ॥ १८३ ॥

अत ऊर्ध्वं नियत्याख्यं कलाशतगुणाधिकम् ।
उच्छुष्णांश्चम्बरश्चण्डो मातङ्गो घोररूपकाः ॥ १८४ ॥

यामोद्यषण्डभाचर्याः येत्याव * * * * ताः ।
निवृत्त्या शतगुणं कालं कालतत्वे व्यवस्थिताः ॥ १८५ ॥

प्। ६९८)

हालाहलश्च क्रोडश्च वाडवाख्यास्तृतीयकाः ।
स्थूलरुद्रो पटरुद्रो रुद्रो गुर्वलयस्तथा ॥ १८६ ॥

एते षट् कालतत्वे तु संस्थिता बाहुला मताः ।
कालोर्ध्वशतगुणं चैव मायातत्वमिहोच्यते ॥ १८७ ॥

सम्पुट द्वितयामासरुद्राश्चैकादश स्थिताः ।
अधश्च सम्पुटा विद्या द्रवोर्ध्वं सम्पुटा पुरा ॥ १८८ ॥

अहरीशस्तथाध्यक्षः तथा हरिप्रभुः स्मृतः ।
दशोशानस्तथा चैव प्रबलो गोपतिस्तथा ॥ १८९ ॥

अथो मायापुटस्थां तु षडृवास्ते प्रकीर्तिताः ।
क्षेमीशो ब्रह्मधामीश विद्येशास्तु तथैव च ॥ १९० ॥

प्। ६९९)

विश्वेश्वरश्शिवश्चैव अनन्तस्तु षडेव हि ।
ऊर्ध्वमायापुटस्थास्तु रुद्रास्ते विप्रकीर्तिताः ॥ १९१ ॥

तेषां मध्ये च भगवान् अनन्तेशो जगत्पतिः ।
भावयित्वाद्यचोत्पत्तिं कुरुते स्वेच्छया प्रभुः ॥ १९२ ॥

मायाद्यवनिपर्यन्तं ये रुद्रास्संस्थिताः क्रमात् ।
भुज्यन्ते तत्र तत्रैव भोगाः प्रमुदितात्मना ॥ १९३ ॥

तस्याननं समाश्रित्य शिवतत्वं समाश्रयेत् ।
मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु ॥ १९४ ॥

मायोर्ध्वं तु भवेदात्मा स्थितः शतगुणेन तु ।
तदात्माविधयश्शुद्धा सञ्ज्ञाः क्रत्वादिभिर्गणैः ॥ १९५ ॥

प्। ७००)

जगद्बीजमिदं ज्ञेयं शिवव्यक्तिकराय च ।
अर्थपञ्चकनिर्मुक्तः पुरुषो स्यात्मकस्तथा ॥ १९६ ॥

शिवप्रकाशनिर्मुक्तमात्मतत्व मुदीरितम् ।
मायाद्यवनिपर्यन्तं जीवभूतश्शिवेच्छया ॥ १९७ ॥

आदितत्वमिदं प्रोक्तं विद्यातत्वमथ शृणु ।
आत्मतत्वात्तु साहस्रं विद्यातत्वं प्रकीर्तितम् ॥ १९८ ॥

ऐश्वरं तत्वमूर्ध्वं तु सर्वतत्वोपरि स्थितम् ।
न शिवेन विना शक्तिः न शक्तिरहितश्शिवः ॥ १९९ ॥

पृथ्वी जलं च वह्निश्च वायुराकाशमेव च ।
अहङ्कारस्तथा बुद्धिर्गणमव्यक्तमेव च ॥ २०० ॥

प्। ७०१)

रागतत्वं ततस्तस्मिन् दशपञ्चेन्द्रियाणि च ।
विद्याकला च नियतिः कालतत्वमनन्तरम् ॥ २०१ ॥

मायातत्वमतश्चोर्ध्वं कालतत्वमनन्तरम् ।
शुद्धविद्या तदूर्ध्वे तु ऐशं तत्तत्वमिश्रितम् ॥ २०२ ॥

सादाख्यं बिन्दुनादश्च शक्तितत्वमतः परम् ।
शिवतत्वं परं प्रोक्तं षट्त्रिंशत्तत्वमुत्तमम् ॥ २०३ ॥

षट्त्रिंशानि च तत्वानि शिवतत्वोद्भवानि तु ।
एतान्युक्तानि तत्वानि पञ्चतत्वे स्थितानि तु ॥ २०४ ॥

ब्रह्माण्डं पृथिवि ज्ञेयं प्रकृत्यान्तं जलं स्थितम् ।
तेजो विद्यान्तमेवं हि वायुरीश्वरतत्वयुक् ॥ २०५ ॥

प्। ७०२)

व्योमशक्त्यन्तमेषां वै व्योमतत्वञ्च संस्थितिः ।
निवृत्तिः पृथिवीज्ञेया प्रतिष्ठा च जलं भवेत् ॥ २०६ ॥

विद्यातेजश्च निर्दिष्टः समायुक्तस्तथैव च ।
अतीता शान्तिर्व्योमेति कलाः पञ्च प्रतिष्ठिताः ॥ २०७ ॥

इच्छाशक्ति समुद्भूताः सर्वभूतस्य धारकाः ।
पृथिव्याद्यात्मतत्वान्तम् आत्मतत्वमुदीरितम् ॥ २०८ ॥

विद्यातत्वादि शक्त्यन्तं विद्यातत्वमुदीरितम् ।
तस्योर्ध्वं शिवतत्वं तु तत्वत्रयमुदीरितम् ॥ २०९ ॥

पृथिव्यादीनि मायान्तं मायातत्वमुदीरितम् ।
आत्मैव चात्मतत्वं स्यात् सर्वतत्व प्रभुस्ततः ॥ २१० ॥

प्। ७०३)

विद्यादि शिवतत्वान्तं शिवतत्वं परात्परम् ।
प्रकृतिः पुरुषश्चैव ईश्वरश्च त्रिधा भवेत् ॥ २११ ॥

माया प्रकृतिरित्युक्ता आत्मानं पुरुषं त्विति ।
विद्यातत्वादितत्सर्वमैश्वरं तत्वमुत्तमम् ॥ २१२ ॥

तेषु रुद्रैश्च मध्यादेस्तत्वार्धेति प्रकीर्तितम् ।
कलापञ्चक संयुक्तिरध्वनां पञ्चके तव ॥ २१३ ॥

कलाध्वेति समुद्दिष्टमध्वनां त्रयमीरितम् ।
एतस्मिन्नेव भूतानां वर्णा लवरदा स्मृताः ॥ २१४ ॥

लकारः पृथिवी ज्ञेयः वकरोजल मुच्यते ।
रेफो हि वह्निसंयुक्तो यकारो वायुरेव च ॥ २१५ ॥

प्। ७०४)

हकरो व्योमवर्णः स्यात् एवं पञ्चाक्षरं भवेत् ।
वर्णानां कलया सार्धं वर्णाध्वा ध्यानतो भवेत् ॥ २१६ ॥

वर्णात्पदाध्वकोत्पत्तिः पदाध्वानं शृणु क्रमात् ।
भावोद्भावोद्भवश्शर्वस्सर्वभूतसुखप्रदः ॥ २१७ ॥

सर्वसाध्यैककरणं ब्रह्मविष्णुरुद्रार्चितः ।
अस्तुतत्पूर्व स्थितः । साक्षिसाक्षि । ऋतु ऋतु ॥ २१८ ॥

पतङ्ग पतङ्ग । पिम्।ग पिङ्ग । ज्ञान ज्ञान । शब्द सब्द ।
सूक्ष्म सूक्ष्म । शिव शिव । ॐ नमः । शिवाय नमोनमः ॥ २१९ ॥

निवृत्तेश्च वदत्वेवमष्टाविंशतिना वदेत् ।
व्यापिन् व्यापिन् । अरूपारूप । प्रथम प्रथम ॥ २२० ॥

प्। ७०५)

तेजस्तेज । ज्योतिर्ज्योति । रूप । अथम् । अस्मभवम्
अनादे । ना ना ना ना । धू धू । ॐ भूः ॐ भुवः ॥ २२१ ॥

अनिधन अनिधन । निधनोद्भव । शिव शिव ।
परमात्मन् महेश्वर महेश्वर । महादेव महेश्वर ॥ २२२ ॥

महातेज । योगाधि पतये मुञ्च मुञ्च । प्रथम
प्रथम । शिवश्शर्वेति । । २२३ ॥

द्वात्रिंशत्पद संयुक्तां प्रतिष्ठा च विशेषतः ।
ॐ नमश्शिवाय सर्वप्रभवे ईशानमूर्धाय ॥ २२४ ॥

तत्पुरुषवक्त्राय अघोरहृदयाय वामदेव ।
गुह्याय सद्योजातमूर्तये ॐ नमोनमः ॥ २२५ ॥

प्। ७०६)

गुह्याति गुह्यगोप्त्रे अनिधन एकविंशतिः ।
विद्यायाः पदान्युक्तानि * * * * * * तत्र वै ॥ २२६ ॥

ॐ व्योमव्यापिने व्योमरूपाय सर्वव्यापिने ।
ॐ शिवाय अनन्ताय अनाथाय । अनाश्रिताय ॥ २२७ ॥

शालाथा च योगपीठसंस्थिताय नित्ययोगिने
श्यानाहाराय ॥ २२८ ॥

एवं द्वादशकं प्रोक्तं शान्त्ययोग विशेषतः ।
ओमित्येक पदं नित्यं शान्त्यतीत कलापदम् ॥ २२९ ॥

चतुर्णवति संयुक्तं पदाध्वा रत्नगर्भकम् ।
वक्ष्यते तत्र तत्राध्वा ईशानादि शिवान्तकम् ॥ २३० ॥

प्। ७०७)

ईशानः पुरुषश्चैव अघोरो वामदेवयुक् ।
सद्यमित्येव मुक्तं स्यात्पद्मब्रह्मपरं मतम् ॥ २३१ ॥

शान्त्यतीतादि पृथ्व्यन्तम् एकैकं मन्त्रमुच्चरेत् ।
हृदयं च शिरश्चैव शिखा कवचमेव च ॥ २३२ ॥

नेत्रत्रयं च तत्रैव षडध्वा च भवेत्तदा ।
नेत्रं विदान्निवृत्त्यादि शान्त्यतीतशिवान्तकम् ॥ २३३ ॥

मूलमन्त्रं शिवं प्रोक्तं मन्त्राध्वा संयुतं परम् ।
कलानां वक्ष्यते तत्र निवृत्त्याद्याश्च पञ्च च ॥ २३४ ॥

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
एताः पञ्च कलाः प्रोक्ताः पञ्चब्रह्मकलाः पुनः ॥ २३५ ॥

प्। ७०८)

ईशानस्य कलाः पञ्च प्रोक्तास्तत्पुत्रवा पुनः ॥ २३६ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
पुरुषस्य कलाश्चापि चतस्त्र इति कीर्तितः ॥ २३७ ॥

तमो मोहाक्षया निष्ठा मृत्युर्मायामया तथा ।
जरा चैवाष्टमी विद्या अघोरस्येतिताः स्मृताः ॥ २३८ ॥

लाक्षा ज्येष्ठा च रक्षा च रुद्रका च कपालिनी ।
कलकामविकरणा स्वयमी तु परिक्रिया ॥ २३९ ॥

विकरणा च कार्या च भ्रामणी मोहिनी तथा ।
वामदेवकलाश्चापि त्रयोदशकमीरितम् ॥ २४० ॥

प्। ७०९)

वृद्धि-ऋद्धिर्द्युतिर्लक्ष्मीः मेधा कान्तिः स्वरा धृतिः ।
सद्योजात कलाश्चाष्टौ अष्टत्रिंशदुदीरिताः ॥ २४१ ॥

कलाध्वा चैव मुक्तस्तु चैवं षडध्व निर्णयम् ।
षडध्वभिश्च मार्गेऽस्मिन्विशत्येव शिवं परम् ॥ २४२ ॥

एवं षडध्व विज्ञप्तिर्यस्य सा पाशहा भवेत् ।
इत्यचिन्त्य विश्वसादाख्ये (षडध्वनिर्णयः) अष्टत्रिंशत्पटलः ॥