तत्वानां निर्णयं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
रससञ्ज्ञस्य तत्वस्य सञ्ज्ञायुक्तं वदाम्यहम् ॥ १ ॥
शुद्धत्वाच्छिव सञ्ज्ञा च परत्वात्परमुच्यते ।
चिद्घनो ज्ञानपूर्णत्वात् एको सादृश्य पूर्णतः ॥ २ ॥
प्। ६४६)
सुखानन्द स्वरूपत्वात् चित्सञ्ज्ञा तस्य वैरिणः ॥ ३ ॥
चराचरस्य जगतः सोत्पत्तौ कारणं परम् ।
तस्माज्जगदेकबीजं तु सञ्ज्ञितं नन्दिकेश्वर ॥ ४ ॥
चेतना चेतनानां तु स्वस्वकर्मानुसारतः ।
सुखदुःखाद्यहम्भावं कर्मपाकं विधाय च ॥ ५ ॥
सर्वस्यानुग्रहत्वाच्च सर्वानुग्रहसञ्ज्ञकम् ।
निरज्ञानत्वात्कैवल्यात् निर्वाणस्य प्रदायकम् ॥ ६ ॥
ज्ञानक्रिया स्वभावं तु ज्ञानेच्छाशक्ति संश्रयात् ।
संसाराम्भोधिमग्नानामुत्तारात्पालनात्पतिः ॥ ७ ॥
प्। ६४७)
निवृत्त्यादि कलाभिस्तु शिवं मन्त्रतनुर्भवेत् ।
सृष्टिपालन सञ्ज्ञा च तिरोधानमनुग्रहम् ॥ ८ ॥
प्रपञ्चस्य स्वभावत्वात् पञ्चकृत्सञ्ज्ञकं भवेत् ।
एवमाद्यां प्रसङ्ख्यायां कलास्ताः सम्प्रकीर्तिताः ॥ ९ ॥
चिदचिदनुग्रहार्थाय चावोम्नोक्षस्तु शक्ति वै ।
अस्यैव चाविभागा च ज्वालेन च हविर्भुजा ॥ १० ॥
इतरेतराश्रयं चैव शिवशक्त्योरभिन्नता ।
स्वेच्छाविग्रहिणां वेत्तौ चिदचिद्रक्षणाव हि ॥ ११ ॥
परबिन्दुः पराशक्तिः मयामाया च कुण्डली ।
यूपव्योम तथैवेच्छा तस्य पर्याय वाचकाः ॥ १२ ॥
प्। ६४८)
इच्छाज्ञान क्रिया चैव शिवे स्थित्वा सदैव वै ।
शिवस्वेच्छानुरूपार्थं ज्ञानेच्छा शक्तिमादिमान् ॥ १३ ॥
स्वस्वं कार्यात्प्रकुर्वन्ति सदानुग्रह कारणात् ।
ज्ञानशक्तिः क्रियाशक्तिः समस्तं यद्विजृम्भितम् ॥ १४ ॥
सदाशिवाख्यं तत्वं तु सकलं निष्कलं भवेत् ।
क्रियाशक्त्युल्बणत्वं च ज्ञानशक्त्यापकर्षणः ॥ १५ ॥
तत्र तत्प्रसरन्नत्तुम् ईश्वराख्यमिदं भवेत् ।
क्रियाशक्त्यापकर्षं च ज्ञानशक्त्युल्बणं तथा ॥ १६ ॥
विद्यातत्वस्य चोत्पत्तिः ज्ञानगर्भाभवत्तदा ।
बिन्दोः कलाश्च सञ्जातं सर्वतत्वस्य धारकम् ॥ १७ ॥
प्। ६४९)
नद्योद्बिन्दुश्च सञ्जातौ एतौ सादाख्यमाश्रितौ ।
शुद्धानां पञ्चतत्वानां कलासम्बन्धवर्जनात् ॥ १८ ॥
उत्कर्षापकर्षणन्नास्ति शिवतत्वाच्च निश्चयम् ।
वस्तुतश्शिवतत्वस्य तत्वमन्त्रोदितं परम् ॥ १९ ॥
अनन्तचित्तशक्तित्वं शिवस्यैव स्वाभावजम् ।
ज्वाल एव हुताशस्य ज्योत्स्ना चैव हिमत्विषः ॥ २० ॥
भवेयं भवेश्शक्त्या शिवस्याह्यस्यते वपुः ।
जन्तोर्जन्मस्य मोक्षाय शिवश्शक्ति समन्वितः ॥ २१ ॥
अनादिमल सिद्धानां वस्तूनां मोक्षकारणम् ।
जडवर्गस्याप्येवमेव सर्वानुग्राहकं भवेत् ॥ २२ ॥
प्। ६५०)
शिवस्समानरूपं शिवविग्रहमेव हि ।
सकले निष्कले चैव सर्वत्रैव समानता ॥ २३ ॥
सायुज्यमिति तत्प्रोक्तं सारूप्यं मुक्तितुल्यता ।
सारूप्यं मूर्तिसारूप्यं स्वेच्छाविग्रहधारणात् ॥ २४ ॥
शिवलोकादि सम्प्राप्तिः सालोक्यं मुक्तिनामतः ।
एतच्चतुष्टयं शक्तिसायुज्यं चोत्तमं भवेत् ॥ २५ ॥
नोचेच्छिष्य परप्राप्ति हेतुकस्य विशेषतः ।
मलवासनया तस्य विद्येश्वरपदस्थितिः ॥ २६ ॥
वासना परिपाकेन दीक्षया परमाप्नुयात् ।
कर्मणोनादिभूतत्वात् भोक्तव्यं मोक्षकारणात् ॥ २७ ॥
प्। ६५१)
भुक्त्यर्थं करणं देवं भुवनं चापि सर्वशः ।
तच्छम्भुः कृतवान्भुक्त्यै करणं चापि शक्तितः ॥ २८ ॥
अनादिशक्तिसहिता माया सूक्ष्मा च व्यापिनी ।
अनादिनिधनाप्येका चैवो पादान कारणम् ॥ २९ ॥
सर्वेषां जन्मजननीं मोहसञ्जननीदृशम् ।
स्वकीयशक्तिभिश्शम्भुर्मायां विक्षोभ्य कर्मतः ॥ ३० ॥
पुरुषं प्रतिभोग्यार्थं शरीरादीन्द्रियाणि च ।
दद्याच्छिवोऽपि शक्त्या च करणेन विशेषतः ॥ ३१ ॥
अनन्तशक्तिरूपायां माया तत्काल सम्भवा ।
भूतं भवद्भविष्यच्च त्रिधारूपो भवेत्पुनः ॥ ३२ ॥
प्। ६५२)
मलानां परिपक्वानां कालश्चितस्य सम्भवः ।
पुनश्च मायानियतिं जनयामास दैवताः ॥ ३३ ॥
नियमं रूपमास्थाय खिलन्निखिलन्न देवयेत् ।
सैव माया पुनश्चैव कलामजनयत्क्रमात् ॥ ३४ ॥
अन्नास्त्रमाणवं चैव स्थूलमेकत्र भिद्य च ।
ज्ञानशक्तौ प्रतिष्ठाप्य व्यञ्जयेत्कर्तृशक्तिकाम् ॥ ३५ ॥
कमाबन्धन धात्वर्थस्तनुबन्धाय चात्मनाम् ।
कालनत्वमिदं प्रोक्तं मण्डूनां भोगकारणात् ॥ ३६ ॥
प्रच्छाद्य च ज्ञानशक्तिं कर्तृशक्ति प्रकाशनम् ।
अशुद्धाख्याल्पका चैव परेतान्नन्दिकेश्वर ॥ ३७ ॥
प्। ६५३)
सैषा कला च कालेन नियत्या सहिता पुनः ।
मायान्नियति पर्यन्तं स्वस्व व्यापारकर्मणा ॥ ३८ ॥
सम्भूय कार्यं कुर्वन्ति त्रयस्सृष्ट्यादिकोविदौ ।
कलया पुरुषाणां तु सम्भूता कर्तृशक्तिका ॥ ३९ ॥
शब्दादिविषयांश्चैव करणं च तथा भवेत् ।
सुखदुःख मोहरूपेण गुणत्रय समन्विता ॥ ४० ॥
सा विद्या चात्मनो भोग्या बुद्धिसञ्ज्ञा भवेत्तदा ।
शब्दादि विषयं चापि यदा ग्रहणबुद्धि वै ॥ ४१ ॥
सैषाभिकारणाख्या स्याद्विद्यातत्वं द्विधा भवेत् ।
क्षीरस्य खल संयोगादधीनां च तथा भवेत् ॥ ४२ ॥
प्। ६५४)
क्षीरं मथित्वात्तु नामद्वित्वं यदा भवेत् ।
तत्वविद्यैव बुद्धिः स्यात्करणं च तथैव च ॥ ४३ ॥
विष्यन्नेव पुनस्सृष्टौ वियन्ने तत्र वै शिवः ।
प्रलयान्ते तु यद्वस्तु सर्वज्ञादि गुणैर्युतम् ॥ ४४ ॥
सर्वं मयाधि निर्मुक्तं तत्तत्वमिति कीर्तितम् ।
तत्रात्मनामलं चैव बन्धजन्मत्वकारणम् ॥ ४५ ॥
मलानां वासनं चैव नाशान्मोक्षो न संशयः ।
मलानां नाशनं चैव दीक्षायाश्च भवेद्ध्रुवम् ॥ ४६ ॥
चत्वारिंशत्तु संस्कारो विप्राद्यैरप्यनुष्ठितः ।
ततस्त्वङ्गगर्भाधानमनन्तरम् ॥ ४७ ॥
प्। ६५५)
पुंसवनं च सीमन्तं विष्णो बलिमनन्तरम् ।
जातकर्म तथा नामकरणं निष्क्रमं तथा ॥ ४८ ॥
अन्नप्राशनकं चैव प्रियासङ्गमनं तथा ।
वैश्वदेवं तथोत्सर्गं पञ्चत्वेकत्व संस्कृतिः ॥ ४९ ॥
पारायणं च गोदानं स्नानमाचारकं तथा ।
अष्टादश शरीरस्य संस्कारोयमुदीरितः ॥ ५० ॥
देवयज्ञं च पित्र्यं च भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञाः प्रकीर्तिताः ॥ ५१ ॥
स्थालीपाकं चाग्रयणं श्रौतं स्मार्तं च पैतृकम् ।
पैत्रमासयुजश्चैताः सप्तैते पाकयज्ञकाः ॥ ५२ ॥
प्। ६५६)
अग्नियाधेय * * * * पौर्णमासी तथैव च ।
आग्रयणेष्टिकं चैव चातुर्मास्यादनन्तरम् ॥ ५३ ॥
निरूढपशुबन्धं च सौत्रामणिरथा मम् ।
हविर्यज्ञाश्च सप्तैते सोमसंस्थस्तथोच्यते ॥ ५४ ॥
अग्निष्टोमे अग्निष्टोम उक्थ्यः षोडशकस्तथा ।
वाजपेयोतिरात्राणि अप्तोर्यामश्च सप्तमम् ॥ ५५ ॥
चत्वारिंशत्तु संस्था वै वैदिकक्रम सुप्रियाः ।
कृतवतोप्युक्तमार्गेण दीक्षया मोक्ष एव हि ॥ ५६ ॥
नास्ति दीक्षा समं तीर्थं नास्ति दीक्षासमं तपः ।
नास्ति दीक्षा समं नीलं नास्ति दीक्षासमं धनम् ॥ ५७ ॥
प्। ६५७)
नास्ति दीक्षा समोधर्मो नास्ति दीक्षा समोगुणः ।
नास्ति दीक्षासमं ज्ञानं नास्ति दीक्षा समा स्मृतिः ॥ ५८ ॥
नास्ति दीक्षासमं श्रेयो नास्ति दीक्षासमं कुलम् ।
वासनानाशनं चापि दीक्षाज्ञानक्रियास्तथा ॥ ५९ ॥
चर्याचर्यापि चत्वारि दीक्षा संवर्धनाद्ध्रुवम् ।
वासनापरिपक्वं च वन्ध्यं कुर्याच्च वारुणम् ॥ ६० ॥
धर्माधर्मात्मिका बुद्धिः कर्मजां वासनामपि ।
शिवलिङ्गार्चनादेव नाशनाय न संशयः ॥ ६१ ॥
वासना चरणोद्भूतं पञ्चवायोर्मतस्तथा ।
हर्षश्चैव विनाशश्च शेषं चैव मनोलयान् ॥ ६२ ॥
प्। ६५८)
ज्ञाने च तालं संयुक्तं मायिकेपि चतुस्तथा ॥ ६३ ॥
नाशमेति क्रमाद्वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
शिवा भूतश्रवणाच्छिवज्ञानं प्रतिष्ठितम् ॥ ६४ ॥
नित्यानुभवतश्चैव दर्शनाच्छ्रवणादपि ।
जनिता विस्मृतिश्चापि क्षयमेति न संशयः ॥ ६५ ॥
सृष्टिकालस्य देव्याश्च कन्दर्पस्य स्वभावतः ।
स्थिरत्वात्पुरुणवर्याणां कुलयोषित्समाश्रयात् ॥ ६६ ॥
जातिमत्रावती विप्रः चण्डालकुलस्थितिः ।
दीक्षाजातिश्शिवाजातिः तुल्यजातिर्न विद्यते ॥ ६७ ॥
प्। ६५९)
सृष्टिक्रमादेव दीक्षा दीक्षया रहितः पिता ।
जगन्माता शिवा प्रोक्ता सर्वेषामात्मनां तथा ॥ ६८ ॥
कालदैर्घ्यादस्ययस्य पितृमातृ पितामहाः ॥ ६९ ॥
पुत्रमित्र कलत्राणि भातृमातुलसोदराः ।
पश्चात्तृतीयस्तुरीयः तेषां चापि सहस्रशः ॥ ७० ॥
स्वयं पित्रादिका भूतास्तस्मात्तत्तत्क्रमो न हि ।
सर्वाण्यपि च जन्तूनि एक एवादितं तथा ॥ ७१ ॥
कर्मणां साहचर्येण ऋणात्पित्रादि सर्वशः ।
तस्माद्रुचिरचिन्तादि नास्ति विज्ञानसाधने ॥ ७२ ॥
प्। ६६०)
निवृत्त्यावनि पर्यन्तं प्रातस्तत्राधिवासना ।
शरीरं तेजसा ह्यन्ते तथैवं नन्दिकेश्वर ॥ ७३ ॥
सप्तषड्वासनाकार्यं मनोवाक्काय कर्मसु ।
व्याप्य वृत्तिं करोत्येव तत्ववृत्तिं तदन्यथा ॥ ७४ ॥
नयधा च विशन्नेव शिवज्ञानं विशेषतः ।
नैवास्ति किञ्चित्कर्तव्यं वासनायुक्त कर्मसु ॥ ७५ ॥
वासनाराग सम्प्राप्ति रस्ति चेन्न स तत्ववित् ।
देशिकस्तत्व विज्ञानं ज्ञात्वा तत्वप्रकाशकम् ॥ ७६ ॥
स एव तत्वज्ञानस्य मूर्तितो मुक्तसुस्रवः ।
इत्यचिन्त्यविश्वसादाख्ये तत्वनिर्णयः सप्तत्रिंशत्पटलः ॥