३६

ज्ञानदीक्षां प्रवक्ष्यामि सत्वमुक्तिं सहेतुकीम् ।
यत्तत्वं तुच्छिवं व्याप्तिबोधकं मोहवर्जितम् ॥ १ ॥

प्। ६३८)

पूर्वदिक्षा समोपेतं शिष्याणामुत्तमं तथा ।
शरीरभेदमात्रं यत् प्राणभेदो न किञ्चन ॥ २ ॥

एवं गुरुः स्वभक्त्या च ज्ञानदीक्षां च कारयेत् ।
आणवं शक्तिसम्भूतं शाम्भवं त्रिविधं भवेत् ॥ ३ ॥

शक्तिं शाम्भवदीक्षा च क्रियते तत्त्वया मया ।
अन्यैराणव दीक्षा तु मन्दतीव्रादिभेदतः ॥ ४ ॥

मण्डपं मण्डलादिं च पूर्ववन्नन्दिकेश्वर ।
विचित्रं मण्डपं कृत्वा चोक्तद्रव्यैर्विशेषतः ॥ ५ ॥

अधिवासनवर्ज्यं वै मध्यरात्रे विशेषतः ।
सुगन्धमक्षतं पुष्पं धूपदीपं चरुं तथा ॥ ६ ॥

प्। ६३९)

सर्वद्रव्यसमायुक्तम् असङ्खं च समन्वितः ।
द्रव्यशुद्धिं ततः कृत्वा पूर्वोक्तेन विधानतः ॥ ७ ॥

मण्डलं पूरयेच्छित्वा मध्यरात्रेर्विशेषतः ।
सुगन्धपुष्पैर्धूपैश्च शिष्यमाभरणादिभिः ॥ ८ ॥

शिवचित्तं यदालब्धं कालाध्वान्तं तथैव च ।
भूतविद्या प्रवेष्टव्या ताररत्नेन देशिकः ॥ ९ ॥

शिवशक्ति सदा योगात् स्थाप्यं पञ्चामृतं तदा ।
शिवमन्त्रेण शक्त्या च जपेत्सन्मार्गनायकः ॥ १० ॥

यावज्ज्ञानमिदं बुध्वा स्थिरत्वं तावदन्तकम् ।
जपित्वा परमानन्दं गुरुज्ञानरसं परम् ॥ ११ ॥

प्। ६४०)

भावनात्तत्र यद्भूतं शिष्यवक्त्रे निधापयेत् ।
कारितं चैव तत्रैव सरसं शिष्यगोचरम् ॥ १२ ॥

प्रासादं शिवमन्त्रं स्यात् वागीशक्तिं च मन्त्रकम् ।
पूर्वमेव तु संसाध्यमाभ्यां मन्त्रेण कारयेत् ॥ १३ ॥

सुसंवेद्याद्भवेज्ज्ञानं सदेरदमुखद्वितिः ।
योगामृतरसान्मुक्तो मण्डलं मुद्रयान्वितम् ॥ १४ ॥

नृत्तगीतं च वाद्यं च स्वेच्छा क्रीडा प्रवर्तते ।
सदानन्दो भवेद्देहे क्षुधानिद्रा तथा नहि ॥ १५ ॥

नृत्तं हसितं ज्ञानं च धावनं स्वेच्छया चरेत् ।
सप्तसोपानसम्पन्नं सोपानगुणसम्पदम् ॥ १६ ॥

प्। ६४१)

प्रथमं त्रिगुणं प्रोक्तं द्वितीयं मर्थपञ्चकम् ।
पञ्चाभिज्ञास्तृतीयं तु चतुर्थं सिद्धिरष्टकम् ॥ १७ ॥

द्वीपञ्च प्रत्ययं पञ्च षष्ठं दशफलं भवेत् ।
आनन्दं सप्तमं ज्ञेयं सिध्यमन्त्यवचिन्तया ॥ १८ ॥

आणवं कम्पनादि स्याच्छक्तिस्तु कथिता द्वयम् ।
क्लेशादि वर्जितं चित्तं शाम्भवं त्रिगुणं मतम् ॥ १९ ॥

मरीचिधूमकेदोरु प्रतीपगमं च तथा ।
स्वयमेवेदमादध्यात् सर्वं प्रदेशो दीपपञ्चकम् ॥ २० ॥

वार्धी च पर्ययो ज्ञानस्मृतिः पूर्वोषितस्य च ।
दिव्य चक्षुश्च श्रोत्रं च पञ्चाभिज्ञानवन्ति च ॥ २१ ॥

प्। ६४२)

स्वस्योपष्टं च सिद्धिश्च ज्ञानरूपेण सिध्यति ।
निर्बीजकरणान्येव विषात्प्रहरणं तथा ॥ २२ ॥

वह्नेरुज्वलनं चैव नाड्या वायोर्जयं तथा ।
यद्बिन्दुनादममलदेहसङ्गमनं तथा ॥ २३ ॥

धूमज्योतिर्दर्शनं च स्वच्छन्दं मृत्युकार्यकम् ।
दशप्रत्ययमेवं हि अष्टादशबलं शृणु ॥ २४ ॥

आधयश्च परिष्कारो मुक्तिप्रणतिरुच्चयः ।
उत्पत्तिश्च बलं तापधर्मचित्तं तपः फलम् ॥ २५ ॥

तत्पदं च महत्तादि साध्यं सम्यक् क्रमेण वै ।
लभते ज्ञानबन्धादि ते निर्देशगुणं विदुः ॥ २६ ॥

प्। ६४३)

सहजं वाङ्मनोतीतम् अखण्डित महोदयम् ।
सर्वसिद्धिमयं सर्वत्रैलोक्यैक्य सुनायकम् ॥ २७ ॥

योगसिद्धिश्च शिष्यस्य तीव्रात्तीव्रतरं भवेत् ।
नियतिश्चापदन्धे च कलागुणवती तथा ॥ २८ ॥

विद्याधारस्य वेधेन नाशमार * * * णः ।
शान्तोपायमिदं प्रोक्तं शाम्भवं तत्र विद्यते ॥ २९ ॥

सादाख्यद्वापदन्धे च वैशमौञ्जी विराजते ।
शुद्धविद्याधराद्वेधः शाम्भवो वायमीरितम् ॥ ३० ॥

शिष्यस्य यादृशी भक्तिस्तादृशी प्रतिपादिता ।
एतैरेतद्विजानीयात् प्रत्ययैरावणादिकाम् ॥ ३१ ॥

प्। ६४४)

ज्ञात्वा विलोक्य कृपया शिव हस्तं च दापयेत् ।
प्रणामं कारयेत्पश्चात् तस्य नाम च दापयेत् ॥ ३२ ॥

पात्र दण्डासनादींश्च पूर्ववद् व्यापयेद्गुरुः ।
अग्निकार्य कृतं वापि नाग्निकार्यकृतं भवेत् ॥ ३३ ॥

शरीरमर्थं प्राणं च गुरवे सन्निवेदयेत् ।
शरीरप्राणकं चैव गुर्वनुज्ञापुरस्सरम् ॥ ३४ ॥

तदाज्ञेया चानुभवं सततं भक्ति संयुतः ।
वित्तं तु सकलं तस्मै गुरवे तु समर्पयेत् ॥ ३५ ॥

स्वस्वातन्त्र्यं च सर्वं च विसृज्य मनसा तदा ।
वाचा च कर्मणा चैव गुर्वर्थं तु चरेद्बुधः ॥ ३६ ॥

प्। ६४५)

अभिषेकं ततः कृत्वा पूर्ववन्नन्दिकेश्वर ।
पृथिव्या गुणगन्धादि शुद्धवस्त्रादिनापि च ॥ ३७ ॥

अलं कुर्यात्पुनश्शिष्यं प्रतिमां कालयेद्गुरुः ।
यागात्तदैवतं चैव विसृजेन्नन्दिकेश्वर ॥ ३८ ॥

इत्यचिन्त्य विश्वसादाख्ये ज्ञानदीक्षाविधिः षट्त्रिंशत्पटलः ॥