योगानां परमं ह्येतत् निराधारं शृणुष्व तत् ।
दशका च सभायादि पूजनं पूर्ववद्भवेत् ॥ १ ॥
सन्ध्यायास्तु विशेषोस्ति परा सन्ध्या सदोदिता ।
प्रातस्सन्ध्या पिङ्गमायं सुषुम्ना मध्यमो भवेत् ॥ २ ॥
शुद्धापां पश्चिमां सन्ध्यां मध्यरात्रे सुषुम्नया ।
द्वादशात्म समप्रख्या बिसतन्तुमया शिवा ॥ ३ ॥
प्। ६३२)
आकारेणात्म तत्वेन भावयेत्पिङ्गलार्मताम् ।
सुषुम्नायां तु तत्कोटि सदृशीं भावयेच्छिवाम् ॥ ४ ॥
उकारेण च विद्यां तां रसमे ध्यानगोचराम् ।
सायाह्ने चक्षुषायां च तिलानलसमप्रभाम् ॥ ५ ॥
विसतन्तु निभां ज्योतिश्चन्द्रकोटिसु शीतलाम् ।
मकारेण शिवाख्येन परा शक्त्या विभावयेत् ॥ ६ ॥
मध्यरात्रे सुषुम्नायां स्वरासन्ध्यां प्रभावयेत् ।
सर्वतेजोमयीं देवीं चन्द्रार्कद्वय नाशिनीम् ॥ ७ ॥
बिन्दुमध्यगतां देवीं परां सन्ध्यामुपासयेत् ।
अकारं मूलधारं स्यादुकारान्तोपरि न्यसेत् ॥ ८ ॥
प्। ६३३)
तस्योपरि * * * * मकारोपरि बिन्दवम् ।
बिन्दोरुपरिनादः स्यान्नादस्योपरि शक्रिडै ॥ ९ ॥
एवं तु परिगं शक्त्या सन्ध्योपास्या तु योगिनः ।
विंशतिं च विसृज्याथ आनन्दांश्च विमर्शयेत् ॥ १० ॥
मनोबुद्धिरहङ्कारः विसृजेत्तत्र देशिके ।
रागमायाकलाश्चापि विसृजेच्च तुरीयके ॥ ११ ॥
विद्यादि शुद्धकालान्तं विसृजेत्तुर्यान्तगम् ।
मनसो लयतश्चैव परां मुक्तिं समश्नुते ।
केवलात्म स्वरूपं स ज्ञानरूपे तु भावयेत् ॥ १३ ॥
प्। ६३४)
ज्ञानातीतं परं तत्वं सर्वगं सर्वतोमुखम् ।
भावं शिवं च सम्भाष्य स्वस्ति चैवं विभावयेत् ॥ १४ ॥
न शिवेन विना शक्तिः न शक्तिरहितः शिवः ।
एवं ध्यात्वा महायोगी त्वखण्डित महोदयः ॥ १५ ॥
ध्याता ध्येयं च सलिलं शिवः स्यात्परमं पदम् ।
सर्वोपरागनिर्मुक्तं तत्तु तिष्ठति केवलम् ॥ १६ ॥
निर्मलाकाररूपं यत् तद्वद्भाति परा शिवः ।
सर्वमायाति विज्ञानं तत्तुरीयाय कल्पते ॥ १७ ॥
अहमेवेति यज्ज्ञानं शुद्धतत्वादिनीतिकम् ।
निर्मले स्वच्छमादर्शे मनोराज्यं पुराकृतिम् ॥ १८ ॥
प्। ६३५)
खोन्मुखोनोमिषद्यश्च ध्यायन्वश्यो भवेत्तदा ।
घटानां द्वीपरहितं विज्ञानान्तं तु सर्वगम् ॥ १९ ॥
नैतत्वगरन्तःस्थायी नानु पश्यन्सुखी भवेत् ।
तासामिदं च तद्रूपं पश्यन्विश्वमयो भवेत् ॥ २० ॥
ग्राहकोहनिदं राभ्यमिति वित्तिश्शिशोरपि ।
ऐक्यं मयादमं पश्यन् योगी पूर्णत्वमश्नुते ॥ २१ ॥
अहन्तयेदं विमृशन् प्रस्फुरद्वा च मण्डलम् ।
स्वशरीरमिवैकाग्रं सर्वात्माध्यायते शिवः ॥ २२ ॥
आकाशं च पदाद्देहं बहिरन्तश्च चिन्मयम् ।
जगद्वा युगपद्योगी विमृशंस्तत्क्षणाच्छिवम् ॥ २३ ॥
प्। ६३६)
भेदयन्त्रमिदं मध्ये विधायान्तर्बहिर्महः ।
चिद्रूपं सर्वतोधिक्यं भावयेद्भेदमद्युति ॥ २४ ॥
हरितेन्तर्बहिर्वेदश्चिदब्दात्पुश्चलन्नपि ।
मनोन्मीलात्वहं चेति विमृशन्त्याप्य तिष्ठति ॥ २५ ॥
यस्या आस्येन्द्रियद्वार जाता व्यक्तिस्तु चिन्मयी ।
सुहित्तिलीनां तु विश्वं विमृशं स्याच्छिवो भवेत् ॥ २६ ॥
सामान्याद्वा विशेषाणां नापैति हरिताविधि ।
तनौ च तस्य भिद्येत इति ध्यात्वा तु योलयः ॥ २७ ॥
व्यापिन्या नाग्रके नित्ये शून्ये चावधिवर्जिते ।
अधश्चक्रे बहिश्चेति परस्समधिरोहति ॥ २८ ॥
प्। ६३७)
रूपस्य संस्थितो योगी योगोपरि विलोकयेत् ।
निरालम्बमनाः शीघ्रं चिच्छक्त्या च शिवो भवेत् ॥ २९ ॥
निरुपाधिनि चिद्रूपे विश्रान्ते सर्वदृक्क्रिये ।
योगहीना हत द्रष्टुं किं वा कर्तुं निराकृतिः ॥ ३० ॥
निराधारममुं योगमभ्यस्य शिवमाप्नुयात् ।
अनेन सदृशो योगो नास्त्येवं नन्दिकेश्वर ॥ ३१ ॥
इति अचिन्त्य विश्वसादाख्ये निराधारयोगविधिः पञ्चत्रिंशत्पटलः ॥