प्। ६१२)
अथ वक्ष्ये विशेषेण समाधि राजमुत्तमम् ।
सन्ध्याकालेऽथवा काले सन्ध्यावन्दन पूर्वकम् ॥ १ ॥
लिङ्गार्चने तु काले चेल्लिङ्गार्चनमथाचरेत् ।
पश्चाद्योगं समभ्यस्य ते काले योगमेव तु ॥ २॥
त्यागिनस्सर्वकालः स्याच्चन्द्रस्यार्कस्य नाशनम् ।
गुरोस्समीपदेशे तु च सद्योगि समीपतः ॥ ३ ॥
सद्गुणोपेत शिष्येण सहितो वा चरेत्सदा ।
सान्तानिकेन सहितो लिङ्गार्चनयुतेन च ॥ ४ ॥
समाधिस्थो यदा योगी विधिनाद्यधिकं यदि ।
सहायो लिङ्गपूजां च कुर्यादस्यापि योगिनः ॥ ५ ॥
प्। ६१३)
शौचमाचमनं चैव प्रथमं तु द्वितीयकम् ।
आसनं तु तृतीयं तु चोत्तराभिमुखस्थितिः ॥ ६ ॥
चतुर्थं भस्मना स्नानं पञ्चमं रसभस्मकम् ।
षष्ठं रुद्राक्षमालाभिरुपवीतादि भूषणम् ॥ ७ ॥
सप्तमं तु गुरुध्यानम् अष्टमं नाडिशोधनम् ।
नवमं दाहनं चैव दशमं प्लावनं तथा ॥ ८ ॥
एकादशं प्राणायामं सन्यासं द्वादशं पुनः ।
मन्त्रन्यासन्तु नन्दीश षडङ्गन्यास पूर्वकम् ॥ ९ ॥
त्रयोदशं नाडिसंस्था सुषुम्ना च चतुर्दश ।
मूलाधारः पञ्चदश षोडशं ब्रह्मनाडि वै ॥ १० ॥
प्। ६१४)
एकोनविंशद्धृदयं विशुद्धिर्विंशतिर्भवेत् ॥ ११ ॥
एकत्रिंशच्च वा भूमि ज्ञानदेशमतः परम् ।
त्रयो बिम्बं चतुर्विंशं * * * * शिवं भवेत् ॥ १२ ॥
स्थाणुलिङ्गं पञ्चदशं समाधिस्तदनन्तरम् ।
आनन्दं सप्तविंशत्या तद्भेदं च पुनः शृणु ॥ १३ ॥
पूर्वोक्तं च विना तु स्युः रत्नगर्भं शृणुष्वथ ।
शिवाख्यं गुरुरूपं तु भावयेत्तु प्रयत्नतः ॥ १४ ॥
रूपं च रूपवर्णं च अनन्तं कुरुते व हि ।
प्रभया वहते यस्तु सर्वदोष निबर्हणम् ॥ १५ ॥
प्। ६१५)
मन्त्र ध्यानं प्रकुर्वीत सदाशिव वपुः स्वयम् ।
यद्यच्छिवमयं रूपं शिष्यो ध्यायन्समाहितः ॥ १६ ॥
तत्तद्वरतरं ज्ञेयं शिवाख्यां गुरुरूपकम् ।
एवं ध्यात्वा समायोगी निश्चलेन समाहितः ॥ १७ ॥
निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तथैव च ।
शान्त्यतीतां क्रियाशक्तिं ज्ञानशक्तिं तथैव च ॥ १८ ॥
इच्छाशक्तिं पराशक्तिं नवाया क्षेम भावयेत् ।
आद्यं तत्वं च पूर्वोक्तं पश्चादेताश्च भावयेत् ॥ १९ ॥
सृष्ट्यादि दशकला भूमौ स्थिरादिर्दश वारुणाः ।
तामसी मोहनीत्यादिदशवह्निकलाः स्मृताः ॥ २० ॥
प्। ६१६)
हृदि पादादिकाश्चैव भवोधाधोश्चतुष्टयम् ।
रौरवाश्च द्वादशानु तापन्यादि कथाः स्मरेत् ॥ २१ ॥
शुद्धिकाद्या व्योमकला शुद्धदेशे विभावयेत् ।
तत्र नामादिनवकं ध्यायेद्वै नन्दिकेश्वर ॥ २२ ॥
बिन्दुस्थानेन जीवन्याद्याश्च षोडश भावयेत् ।
अजास्थानेन वायुक्ते कलाषोडशकं स्मरेत् ॥ २३ ॥
आनन्दमोहानन्दिन्यात्यादिस्सम्भावयेत्क्रमात् ।
चन्द्रस्थाने मृतानादपूषाद्याश्चाथ षोडश ॥ २४ ॥
प्रीत्यादिनवकं तस्य तस्य मध्ये तु भावयेत् ।
मूलाधारे च सन्ताद्यास्तदूर्ध्वे बालषट्ककम् ॥ २५ ॥
प्। ६१७)
सफपं दक्षरं चैव कालान्तं द्वादशं भवेत् ।
अकारादि क्षकारान्तं कान्तादेशे च पूर्ववत् ॥ २६ ॥
भक्षवर्णद्वयं चापि तालुमूले विभावयेत् ।
स्वरास्तत्रैव भ्रूमध्ये चन्द्रबिम्बे तु षोडशम् ॥ २७ ॥
वाङ्मनोतीतमत्रैव ब्रह्मरन्ध्रं च भावयेत् ।
मूलाधारे गुहं प्रोक्तमाधेयं परमं विदुः ॥ २८ ॥
हंसमन्त्रसमायुक्तं शक्तिबीजसमन्वितम् ।
प्रासादं च तदूर्ध्वे तु सञ्चिन्त्य तदनन्तरम् ॥ २९ ॥
अधिष्ठाने च प्रणवं नाभौ चिन्तामणिर्भवेत् ।
मृत्युञ्जयं च हृदये शिवयन्त्रं विशुद्धिके ॥ ३० ॥
प्। ६१८)
त्रिब्रह्मरूपं कालादिषु स्थानेषु च भावयेत् ।
शिवबीजं तदूर्ध्वे तु शक्तिबीजं तु भावयेत् ॥ ३१ ॥
शिवेन शक्ति * * * न शक्तिरहितश्शिवः ।
स्थानं प्रति च यत्प्रोक्तं तेजोरूपं च भावयेत् ॥ ३२ ॥
सकली कृत्य वा ध्यायेत् शिवयोगी सनिर्मलः ।
साधेयमेवं प्रोक्तं स्यात् ज्ञानदेशं तथोच्यते ॥ ३३ ॥
ज्ञानदेशं न जानन्ति त्रिदशैरपि दुर्लभम् ।
नेत्र मध्ये ततश्चित्तं स्वकीये सन्निवेशयेत् ॥ ३४ ॥
सन्निवेश्य ततस्तिष्ठेत् एकचित्तः प्रसन्नधीः ।
ज्योतिराकाशमेवं तु यावदास्ते प्रयत्नतः ॥ ३५ ॥
प्। ६१९)
तावन्निर्गत्य भूतात्मा देहादूर्ध्वं व्यवस्थितः ।
पश्यते च जगत्कृत्स्नं स्वकायस्योपरिस्थितम् ॥ ३६ ॥
सप्त लोकांश्च तत्रैव पश्यते योगचक्षुषा ।
ज्ञानदेशस्य चार्द्रं तु स्थाणुलिङ्गं प्रकीर्तितम् ॥ ३७ ॥
मूलाधारं समारभ्य ब्रह्मरन्ध्राव सानकम् ।
समस्ततेजसां तेजः प्रदाने च प्रवीणकम् ॥ ३८ ॥
षट्त्रिंशत्तत्वविज्ञानं तत्वानामादिक स्वयम् ।
शान्तं त्वनामयं चैव यदि वा जीवरूपकम् ।
चिद्घनं सर्वगं सूक्ष्मम् आनन्दमचलं ध्रुवम् ॥ ४० ॥
प्। ६२०)
विश्वाक्षं सर्वतो वक्त्रं सर्वाक्षं सर्वबाहुकम् ।
सर्व * * * * * दयम् ।
सर्वजनं सर्वकार्यं परं परतरं शिवम् ॥ ४१ ॥
बिसतन्तुनिभं ज्योतिर्भावयेद्योगमुत्तमम् ।
कुण्डली जगदाधार पृथुनामस्वरूपिणी ॥ ४२ ॥
ज्योतीरूपा नोदनादशक्तियुताः प * * * ।
नीवारशूकवत्तन्वी पिङ्गरूपा तथैव च ।
तत्तदाधारपद्मानि निर्भिद्य ब्रह्मरन्ध्रगाः ॥ ४४ ॥
लम्बावजा मुकुलां चैवमुद्बोध्या मृतधारया ।
कर्षन्तीं च शिवं तत्र पूजय * * * * लीः ॥ ४५ ॥
प्। ६२१)
क्रमादूर्ध्वादधश्चैव प्लावयन्ती च भावयेत् ।
तुर्यात पद्मं चैतन्यं तत्रैवं भोजयेत्क्रमात् ॥ ४६ ॥
एवं त्यक्त्वा समाध्यन्तं नदा तुत्रैव चिन्तयेत् ।
समाधिर्वक्ष्यते सूक्ष्ममाधाराधेय व ॥ ४७ ॥
कालान्तरगते रश्मौ धोणियो दृश्यते रजः ।
तत्परं परमाणूनां परिमाणं प्रचक्षते ॥ ४८ ॥
रूपाणां चैव सर्वेषां परिमाणसमूहकम् ।
एकैकं तु श्छय पोहे तु श्चस्मञ्चिन्तयेत्तदा ॥ ४९ ॥
शिव * * * * * * ज्ञानस्थानं लयं नयेत् ।
निरालम्बो मतस्तस्मिन् शैवं तेजश्च दृश्यते ॥ ५० ॥
प्। ६२२)
शिवबिम्बस्य तन्मध्ये मूलोन्मीलित लोचनः ।
क्रमेणैकाग्र एवातः शैव ज्योतिश्च दृश्यते ॥ ५१ ॥
अनाहते ततधृ * संस्थितं युगपद्मनः ।
आद्यन्तशून्यातीतं तत् शिवतेजः प्रकाशते ॥ ५२ ॥
प्रसाद पञ्चनादेन प्लुतमुच्चारयेत्क्रमात् ।
ध्यातव्यं तु पराशक्त्या शान्त्यतीता प्रकाशते ॥ ५३ ॥
चक्रद्विषट्कैः सावर्तौ भेदिष्वेवं सुमत्सनैः ।
स्थूल * * * शामुक्तेष्वन्नतस्या महोदयः ॥ ५४ ॥
चापलादिध्वनैर्हृद्यैः क्रमाद्दीर्घैर्निवेशितम् ।
अन्यने विषयं चैतत् तल्लये लीयते शिवे ॥ ५५ ॥
प्। ६२३)
द्वादशान्ते च हृदये सङ्घट्टात्प्राणवायुना ।
ब * द्योर्भाविते योगे सर्वानन्दत्वमश्नुते ॥ ५६ ॥
आधारे वापि शक्तौ वा प्रमिषत्वान्मनोलये ।
शक्त्या विषस्य कम्पादिक्षेप शान्तौ परस्थितिः ॥ ५७ ॥
आशिरः प्राणमापूर्य ब्रह्माध्याह्यवसानिके ।
सवि * * * दा योगाद्वारशान्नि शिवो भवेत् ॥ ५८ ॥
सूक्ष्मं क्रमोक्रमं शक्तिम् आमूल ज्योतिरूपिणम् ।
ब्रह्मरन्ध्रा प्रशान्त्यन्तं ध्यायीत स्याच्छिवोदयः ॥ ५९ ॥
विकुण्डलानष्टयक्रान् आरुच्योद्बोधनाम्बुजम् ।
शक्तिं कोश्यत्रयं भित्वा खे परः स्यात्तदूर्ध्वतः ॥ ६० ॥
प्। ६२४)
महाच्छ्रुतिमते व्योम्नि चन्द्रार्कादेन्नरेम्बुदे ।
संवर्त्य चक्षुरेकाग्रो योगी पश्येत्स्वयं नभः ॥ ६१ ॥
शिवैक्याव्यावनौषद्ध्या गाढो बद्धो मनोरसः ।
प्राणः कुम्भादिभिः क्षिप्तः कुर्यात्तच्छिव काञ्चनम् ॥ ६२ ॥
अन्तर्धानं समादाय विचरेद्भुविशिष्यते ।
आनन्दे च भवेद्योगी सर्वदा नन्दिकेश्वर ॥ ६३ ॥
अणिमाद्यष्टसिद्धिश्च सिध्यत्येव न संशयः ।
आकाशगमनादीनि सर्वज्ञानसमृद्धयः ॥ ६४ ॥
भवन्ति सर्वभुवनं करामलकवच्चरेत् ।
योगदृष्ट्या तु सकलं पश्यते तु चराचरम् ॥ ६५ ॥
प्। ६२५)
योगिनां दृष्टिजानन्दः विसमो भवति ध्रुवम् ।
आनन्दलक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वर ॥ ६६ ॥
आनन्दं द्विविधं प्रोक्तम् अपरं परमित्यपि ।
अपरं त्रिविधं प्रोक्तं मोहजीवितसञ्ज्ञकम् ॥ ६७ ॥
लोकं च विभवे देवमोहानन्दमथोच्यते ।
ताराणां पुत्रपौत्रादि लब्धिकानन्दमोहिजा ॥ ६८ ॥
भक्ष्यभोज्यादिजनितं जीवितानन्दसञ्ज्ञकम् ।
स तु कीर्त्त्यादिसञ्ज्ञान्तं लौकिकानन्दमुच्यते ॥ ६९ ॥
सकलामपि सर्वेषां मोहानन्दस्थितं परम् ।
एतत्कारणरूपं तु प्रियाङ्गं लक्षणान्वितम् ॥ ७० ॥
प्। ६२६)
उत्तमं षोडशाङ्गं स्यात् चतुर्विंशति मध्यमम् ।
त्रिंशत् मधमं ज्ञेयं शक्तिलक्षणमुच्यते ॥ ७१ ॥
सर्वावयवसम्पूर्णं सर्वलक्षण संयुतम् ।
सर्वशोभनसंयुक्ता क्षणवेधकरापका ॥ ७२ ॥
मोहानन्दस्य मूलं च जीविताद्याश्च लब्धवान् ।
अपरानन्द सम्प्राप्तिः सिद्धिरस्यैव चोच्यते ॥ ७३ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एकैकः पञ्चधा ज्ञेयं शब्दपञ्चकमुच्यते ॥ ७४ ॥
प्रियाणां गुप्तवचनं संयोगशरणं भवेत् ।
गन्धर्वोद्वाहतन्त्रस्य श्रवणं च तदुद्भवम् ॥ ७५ ॥
प्। ६२७)
मितं च रागजनकं स्वात्मस्तुतिरसो भवेत् ।
शब्दपञ्चकमेवं हि स्पर्शपञ्चकमुच्यते ॥ ७६ ॥
प्रियासंस्पर्शनं चैव पुत्रस्पर्शं तथैव च ।
सुहृदालिङ्गनं चैव गन्धवाहसुमर्शनम् ॥ ७७ ॥
यथेष्टकालं शीतोष्ण स्पर्शं चैव तु पञ्चमम् ।
प्रियादर्शनमेवं तु प्रियां वीक्ष्य दिगम्बराम् ॥ ७८ ॥
नृत्तादिदर्शनं चैव सु हिरण्यादि दर्शनम् ।
विचित्र दर्शनं चैव स्पर्शपञ्चकमीरितम् ॥ ७९ ॥
भक्षणं भोज्य लेह्यं च पेयं शोष्यं च पञ्चधा ।
रसपञ्चकमेवं स्यात् तत्तत्काले समुद्भवम् ॥ ८० ॥
प्। ६२८)
मदगन्धं चोत्तमं च चन्दनादि सुगन्धकम् ।
पुष्पगन्धसुधाघ्राणं घ्राणपञ्चकमुच्यते ॥ ८१ ॥
रागं वर्धति मूर्खाणां रागं मुञ्चति पण्डिताः ।
सदुपाय समोपेतः क्रीडन्सर्पेण दृश्यते ॥ ८२ ॥
ज्ञानयोग समोपेतः क्रीडन्सर्पेण दृश्यते ।
ज्ञानयोग समायुक्तं तत्वमिन्द्रिय पञ्चमाः ॥ ८३ ॥
पञ्चविंशतिमानन्दम् अपरानन्दजं भवेत् ।
एवं बुद्ध्या स्वनन्दीशपरानन्दमथोच्यते ॥ ८४ ॥
त्रिविधं तत्परानन्दं गौरवं ज्ञानयोगजम् ।
एतत्त्रयं परानन्दं मोक्षकारणकं भवेत् ॥ ८५ ॥
प्। ६२९)
आगमश्रवणाङ्गानां गुरोःस्तुतिपरं तथा ।
गुरोः प्रियवचःश्रावमुपदेशशतं तथा ॥ ८६ ॥
एवं पञ्चक संयुक्तं श्रवणानन्दजं भवेत् ।
लिङ्गस्पर्शनकं चैव भूत्यादि स्पर्शनं तथा ॥ ८७ ॥
गुरुपादाम्बुजं स्पृष्ट्वा गुरोः संस्पर्शनं तथा ।
ज्ञानदेशस्य संस्पृष्टं स्पर्शपञ्चकमीरितम् ॥ ८८ ॥
दर्शनं शिवलिङ्गस्य शिवयज्ञादि दर्शनम् ।
योगदृष्ट्यादिलोकं च रूपपञ्चक सम्भवम् ॥ ८९ ॥
गुरुप्रसाद भक्ष्यादि गुरुपादाम्बुजं जलम् ।
योगामृतरसास्वादं त्रिविधं रसमुच्यते ॥ ९० ॥
प्। ६३०)
योगात्समुत्थितं गन्धं दिव्यगन्धमनूपमम् ।
ब्रह्मेन्द्रादि सुराणां च सर्वेषां जन्मकोटिभिः ॥ ९१ ॥
अलब्धं मोक्षदं दिव्यं बोधानन्दमवाच्यकम् ।
कदा किञ्चिन्न कस्यापि दत्तवानादिश स्थितम् ॥ ९२ ॥
तत्स्मृत्या जननिव्यालि परमानन्दजं परम् ।
एवं परात्परं ज्ञेयं वर्जनादि च भोजनम् ॥ ९३ ॥
एतानि स्थूलसूक्ष्माणि सूक्ष्माणि च भवन्ति वै ।
परात्परतरं गुह्यं ग्राह्यग्राहकवर्जितम् ॥ ९४ ॥
रागारागविनिर्मुक्तं द्वैताद्वैत विवर्जितम् ।
चिन्त्याचिन्त्य विनिर्मुक्तं वाच्यवाचक वर्जितम् ॥ ९५ ।
प्। ६३१)
एवमानन्द सम्प्राप्तौ मुक्तिरेव न संशयः ।
गुरुवक्त्रेण तत्सिद्धिरानन्दस्तु न संशयः ॥ ९६ ॥
आनन्दं भावयेद्योगी सर्वक्लेशनिबर्हणम् ।
इत्यचिन्त्यविश्वसादाख्ये समाधिराजश्चतुस्त्रिंशत्पटलः ॥