३३

प्। ६०५)

समाधिर्वक्ष्यते सूक्ष्मे सर्वद्वन्द्व विवर्जितः ।
ज्ञानमेव समाधिः स्यात् तद्विशुद्धस्तथोच्यते ॥ १ ॥

जाग्रत्स्वप्नसुषुप्तान्ते तत्सम्बन्धमनित्यताम् ।
एतत्तुरीयानीतं तु आत्मनो नित्यमेव तु ॥ २ ॥

जाग्रादि द्विविधं ज्ञेयं भवमोक्षगतं तु यः ।
समार्गमध्यमं ज्ञेयं भवमार्गमथोच्यते ॥ ३ ॥

तत्तत्कर्मानुसारेण जरा साधोमुखं भवेत् ।
मुखे जाग्रमिति ज्ञेयं तस्मात्स्वप्नकृतान्तुकम् ॥ ४ ॥

हृदयादि समारभ्य नाभ्यन्तं तु सुषुप्तमम् ।
तस्मादधस्तुरीयं तु तस्यातीयं तु लिङ्गकम् ॥ ५ ॥

प्। ६०६)

जाग्रादिस्थानमेवं हि प्रवर्तक मिहोच्यते ।
जाग्रत्काले त्वचो व्यप्ति स्वप्ने वक्त्रं तथैव च ॥ ६ ॥

सुषुप्ते मांसदाव्याप्तिस्तुर्ये मेदसि स्थितः ।
तदन्तस्तु तदातीत जीवव्याप्त प्रकीर्तिताः ॥ ७ ॥

श्रोत्रत्वक्चक्षुर्जिह्वा च प्राणानाञ्चैव पञ्चकम् ।
शब्दस्पर्शं च रूपं च रसो गन्धश्च पञ्चमम् ॥ ८ ॥

वाक्पादपाणिपायूपस्थं चैव तु पञ्चमम् ।
वचनादानगमन विसर्गानन्द पञ्चकम् ॥ ९ ॥

प्राणस्वपानो व्यानश्च उदानश्च समानकः ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ १० ॥

प्। ६०७)

मनोबुद्धिरहङ्कारः श्चित्तं क्षेत्रज्ञ एव च ।
रागमायाकलाविद्या नियतिः काल एव च ॥ ११ ॥

शब्दादित्वच दीर्घश्च घ्राणादींश्च मनादिकम् ।
रा * * कामत्पर्यन्तम् एकत्रिंशच्च स्वप्नके ॥ १२ ॥

सञ्ज्ञतैस्तैरेव * * * प्रतिसञ्च स्वप्नकम् ।
जाग्रे विषयभुक्तिश्च स्वप्नो न स्त्यागतिस्तकम् ॥ १३ ॥

अयसाग्नि समायोगाद्वायोग्निश्चवदायसम् ।
तद्वश्चैतन्यये यागः करणादिनाम् ॥ १४ ॥

प्राणादि चैव चित्तं च वागादीश्च तथैव च ।
अष्टादश सुषुप्तौ तु वर्तते नन्दिकेश्वर ॥ १५ ॥

प्। ६०८)

आत्मा प्राणा च विद्या च तुरीयमिति कीर्तितम् ।
चैतन्यमात्रमेकन्तु * * * तं महोदयम् ॥ १६ ॥

किं तु गुह्यतमं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
आत्मनोऽपि यवान्भोक्तुं प्रकृतिर्ह्यतिवर्धनम् ॥ १७ ॥

प्रकृतानि यद्रानि स्यात् सावस्था साग्र उच्यते ।
विनाकरण देहानां व्यापरैरात्मनः कृतिः ॥ १८ ॥

वृत्तिर्मानसस्वप्नो वस्थाभावेषु केवलम् ।
स्वस्थं विषयसङ्गोश्च खेदलीन्नेयमात्मनि ॥ १९ ॥

मनः कृतिश्च निश्चेष्टा सुषुप्तन्नन्दिकेश्वर ।
नमो व्यापारहीने तु चित्ताविद्यागमागति ॥ २० ॥

प्। ६०९)

अष्टादशमदृश्यानामष्टयोदृष्टि दृश्ययोः ॥ २१ ॥

स्वयं वेद्योपरं ज्योति ज्ञानरूपो महत्प्रभुः ।
स्थूलं सूक्ष्मं च सुसूक्ष्मं च अतिवृत्तिं तथान्तिकम् ॥ २२ ॥

स्थूलं जागृ सञ्ज्ञेयं सूक्ष्मं स्वप्न मिहोच्यते ।
सुषुप्तिस्तु सुसूक्ष्मं स्यादिति सूक्ष्मं तुरीयकम् ॥ २३ ॥

ततोधिकं तुर्यातीतम् एवं पञ्चविधं स्मृतम् ।
स्वप्नश्चैव सुषुप्तिश्च * * * तदधिं च वै ॥ २४ ॥

जाग्रस्थानं प्रदृश्येत योगमह्यस्तमक्रमात् ।
जाग्रेदश्य प्रवृत्तिं च प्रत्याहारेण शाम्यति ॥ २५ ॥

प्। ६१०)

धारणाय जयेत्स्वप्न रन्ध्रनेनै सुषुप्तिकम् ।
समाधिना तुर्यतीतं तुरीयं तु शिवेन तु ॥ २६ ॥

जाग्रादिपञ्चावस्थायाम् अतीते ज्ञानरूपकम् ।
सद्गुरोरुपदेशेन प्रकाशो न न संशयः ॥ २७ ॥

एवं ज्ञात्वा विशेषेण समाधिं कारयेद्बुधः ।
रूपशून्यमितिज्ञेयं समाधिरभिधीयते ॥ २८ ॥

चित्तशुद्धिस्थितं कृत्वा शिवलक्षणमेव हि ।
आनन्दं शिवयोगं तु शिवयोगं सदाभ्यसेत् ॥ २९ ॥

नानन्दं शिवयोगं तु तच्च देहे व्यवस्थितम् ।
आनन्दं जिह्वते जन्तोस्तस्मादानन्दमिच्छते ॥ ३० ॥

प्। ६११)

स्वरूपं हरितं शून्यं भासविभासितम् ।
ज्ञानादिरहितं बुद्धिश्चित्ताहङ्कारनाशनम् ॥ ३१ ॥

तमसा मनसा ध्यात्वा ताशयन्नाशभावनम् ।
पापनाशः परामुक्तिर्यत्तत्संसारनाशनम् ॥ ३२ ॥

चिन्तया रहितं यच्च आत्मनो मुक्तिरेव हि ।
आनन्दान्तर्गता मुक्तिः तस्यैव तु न संशयः ॥ ३३ ॥

नन्दनन्दक इत्युक्ते त्रैलोक्यज्ञानरूपकम् ।
योगं वक्ष्येह्यरूपं च योगरूपमरूपकम् ॥ ३४ ॥

सा दर्शनं स्वशेल्लिङ्गं स्पर्शलक्षणमारभेत् ॥ ३५ ॥

इत्यचिन्त्यविश्वसादाख्ये (समाधि विधिः) त्रयस्त्रिंशत्पटलः ॥