३२

नन्दिकेश्वर उवाच ।

अक्षराणां च सर्वेषाम् उत्पत्तिं प्रथमं विभो ।
अक्षरादखिलं जातं क्षराणाभाववर्जनात् ॥ १ ॥

प्। ५८३)

अत एवाक्षराणां तु प्रत्याहारक्रमेण तु ।
अकारादि क्षकारान्तं मातृकाक्षरतो भवेत् ॥ २ ॥

सादाख्यस्य हृदम्भोजपरमाकाशमध्यतः ।
परनादात्समुद्भूतः तुटिकालो निनादते ॥ ३ ॥

तुटिभिर्दशभिर्युक्तो नादाद्बिन्दु परो भवेत् ।
तत्कालेन तु संयुक्तो बिन्दुश्च परबिन्दुतः ॥ ४ ॥

बिन्दोर्बीजसमुत्पत्तिः तत्रापि च विशेषतः ।
बीजस्य बालभावे तु परावाणी विभृम्भिता ॥ ५ ॥

सा वै द्विगुणिताकारा चेषद्यौवनमागता ।
पश्यन्त्यभिख्या त्रिगुणिता यौवनं मध्यमा भवेत् ॥ ६ ॥

प्। ५८४)

वैखरीरूपमापन्ना चैकमात्रा समन्विता ।
तदक्षरमिदं नाम कलादीर्घाददीर्घताः ॥ ७ ॥

त्रिमूर्तिप्लुतमित्युक्तं द्विमूर्ताद्दीर्घमुच्यते ।
इच्छाज्ञानक्रियाभेदैः स बिन्दुस्त्रिविधो भवेत् ॥ ८ ॥

क्रियाबिन्दोस्समुद्भूता अकारोश्चोत्तरोत्तमः ।
ज्ञानबिन्दोस्समुद्भूतमाकारं स्थितिरूपकम् ॥ ९ ॥

इच्छाबिन्दुसमुद्भूतमाकारं मोक्षसाधनम् ।
अकारोकार संयोगाद् ओङ्कारस्वर्णमुत्तमम् ॥ १० ॥

मकारेण च संयुक्तं तारमेवं समुत्थितम् ।
अक्षरत्रय संयुक्तं शब्द ब्रह्मरवो भवेत् ॥ ११ ॥

प्रथमं वर्णमध्ये तु मथनादुद्भवं तथा ।
एकत्र मथनादेव यथा पीयूष सम्भवम् ॥ १२ ॥

रवश्चैव ध्वनिश्चैव अनुस्वार विसर्गकौ ।
पञ्चवर्णाः प्रशस्यन्ते अकारान्तभवात्क्रमात् ॥ १३ ॥

ओङ्कारादि त्रिवर्णं तु उकाराक्षरसम्भवम् ।
कादिभान्ताक्षराण्येवं मकाराज्जनितानि वै ॥ १४ ॥

यकारादि चतुर्वणा रवतश्च समुद्भवाः ।
ध्वनितश्च समुत्पन्ना तथैवं शादिभान्तकम् ॥ १५ ॥

ललयोर्निर्विशेषत्वादक्षयोस्सङ्गमादपि ।
ललद्वयस्य चोत्पत्तिः पूर्वमेव समीरिता ॥ १६ ॥

प्। ५८६)

देवदेवस्य संव्याप्त्या वर्णानां व्याप्तिरीरिता ।
प्रणवाकारतस्सर्व वर्णोत्पत्तिरपीष्यते ॥ १७ ॥

त्रितत्वं च त्रिलोकं च त्रिपुण्ट्रं प्रणवात्मकम् ।
अकारादिक्षकारान्तं वर्णानां पृथगेव तु ॥ १८ ॥

वाहनासनरूपादिका च वैशेषिकीमता ।
स्वच्छवर्णारुणश्वेतपीतवर्णास्तु भूतशः ॥ १९ ॥

ह्रस्वदीर्घाः कवचपयष्टाश्चाद्यापि विग्रहाः ।
केत्वन्ता वर्णकस्तुल्यं * * * * प्रवालकाः ॥ २० ॥

वैडूर्य पुष्य वज्रेन्द्र नीलगोमेदगारुडैः ।
लक्षयोजनविस्तीर्णचतुर्मास्योष्टदृग्भुजः ॥ २१ ॥

प्। ५८७)

जटामकुटसंयुक्ता वासाश्चन्दनसौरभाः ।
ऊर्जिताभाणकृष्टो गम्भीरो वलयायुधः ॥ २२ ॥

वृत्तासनोपल वर्णो ह्यकारः कूर्मवाहनः ।
चक्रासनश्चक्रनिभो मुक्ताभूषश्च टङ्कधृक् ॥ २३ ॥

द्विमुखो लक्षविस्तीर्णो आकारो जजवाहनः ।
चतुरश्च त्रिणयनः क्षत्रियश्च नपुंसकः ॥ २४ ॥

एतद्विस्तरमायामो वज्रीवैडूर्यभूषणः ।

पद्मासन्ने मन्दगतिर्मधुरः पद्मयुग्यधृक् ।
दिवाकल्पस्सगन्धःस्यादिकारो हंसवाहनः ॥ २६ ॥

प्। ५८८)

क्लस्त्रासनं च द्विभुजं शूलहस्तं खरस्वरम् ।
काषायगन्धमाकृष्य भूषित तविग्रहम् ॥ २७ ॥

त्र्यश्र्यासनं मानभङ्गाकल्पं बद्धमृगत्वचम् ।
चतुरश्रासनं स्वादु कपिलापाशवज्रधृक् ॥ २८ ॥

सुवर्णाभरणं जाठिमल्पकामोररुद्वयम् ।
चतुर्भुजस्त्रिणेत्रश्च मुक्ताहारोपवीतकम् ॥ २९ ॥

प्रसन्नदृष्टिस्सुभगो जटामकुटहृत्प्रियः ।
खड्गचक्रधरः स्वादु मयू * * र्णकः ॥ ३० ॥

दशयोजन ऊकारश्चक्रवाकाख्यवाहनः ।
त्र्यरासनो निवर्णश्च द्विभुजः शूलवज्रभृत् ॥ ३१ ॥

प्। ५८९)

रज्वरस्वर एकारः स्वादुर्गरु * * * * ।
तप्तकाञ्चनसङ्काशः गन्धस्त्रिवृका ॥ ३२ ॥

सर्वव्यापी सर्वशक्तिः सर्वेज्यं पद्मसम्भवः ।
सर्वानुकुम्भकस्सर्व देवतानां च शास्त्रकृत् ॥ ३३ ॥

निर्विकर्ता समूर्तीनां सुधी दुर्लक्षणः ।
सर्वतोमुखवद्वाहुरोङ्कारो वृषवाहनः ॥ ३४ ॥

वृत्तासनं पीतवाणीश्चतुर्बाहुश्शतोर्जिताः ।
वज्रपाशधरः स्वादुकाषायं पुष्पसौरभम् ॥ ३५ ॥

भवनं स्वेदं मलश्शूलगदाधृग्घोरदुस्तरः ।
पाशहा शोभनाका * * * * करवाहनः ॥ ३६ ॥

प्। ५९०)

पीतस्रग्गन्धमाल्यानुलेपः स्थिरगतिस्सुदृक् ।
जटामकुटधृच्छूली मुसली कुलिशायुधः ॥ ३७ ॥

दिव्याकल्पश्चक्रवर्ती पुमान्क्षत्रियपुङ्गवः ।
सहस्रविस्तरो लक्षारामषट्कोण * * कः ॥ ३८ ॥

भजवाहनस्तम्भन * * * * ण पुष्पयुक् ।
इन्द्राधिदैवतं प्रोक्तं ककारो सक्षरोत्तमः ॥ ३९ ॥

त्रिंशत्कोटीन्मतो व्यालब्राह्मणोन्यधिदैवतः ।
शक्तितोमरसम्पन्नः शुभमाल्यानुलेपनः ॥ ४० ॥

सुवर्णश्च खकारः खगमस्तभस्मृतः ।
पुमार्णः शलुधूवागः श्वेतवस्त्रः प्रसन्नधीः ॥ ४१ ॥

प्। ५९१)

मुक्ताभरणभूषश्च द्विभुजः फलपद्मयुक् ।
पद्मासनगतः साधुहंसवाहः प्रसन्नधीः ॥ ४२ ॥

माल्यादशायामो नकारो यक्षदैवतः ।
व्यास वतदास्तमशक्तिमान् झर्झरस्वरः ॥ ४३ ॥

कठोरगन्धः क्षारश्च रौद्रदृस्टिर्नपुंसकः ।
उष्ट्रोष्टाष्टकह्मथपीठो विद्वान्धूम्रो महाबलः ॥ ४४ ॥

शूर्पासाः काकवाहो दुर्गन्धस्वरसंश्रयः ॥ ४५ ॥

यामो नपुंसकश्शक्ति भिण्डिपालपरश्वथान् ।
विभृन्नयस्सहस्रांशु हुतभृत् भुर्क च ॥ ४६ ॥

प्। ५९२)

जटामकुटस्रक्च्छङ्खपद्मधारी चतुर्भुजः ॥ ४७ ॥

याम्यस्सुरगतीस्त्रीलिङ्गोस्त्री लिङ्गोऽपि प्रियाकृतिः ।
सहस्रकोटी विस्तीर्णः चकारो रत्नभूषणः ॥ ४८ ॥

नृप्लाहे सनोर्काहो महागन्धस्वरो द्विजः ।
शक्तिवज्रधरो मुक्ताकल्पो वरुणदैवतः ॥ ४९ ॥

पुष्पादौमृतगन्धाश्च साहस्रो वारुणो जटी ।
मकुटी च जकारः स्याधुकारश्च तथापि च ॥ ५० ॥

काकवाहः कृष्णवर्णो दुष्टकर्मा नपुंसकः ।
टङ्कधृङ्निष्ठुरो घोरस्वयोजनसमीरितः ॥ ५१ ॥

प्। ५९३)

सर्वरौद्राच्छिवहरः अर्यम्णः शीघ्रहस्तु नः ।
सनोमृतरसः कालो * * * * द्विभुजः पुमान् ॥ ५२ ॥

मदनो वर्णश्च वज्रधृग्वज्रवर्णधृक् ।
व्यालोपवीतीचन्द्रा दैवकाष्ठुः प्रकीर्तितः ॥ ५३ ॥

गजवाहो धनुष्पीठः शङ्खचक्र निभोमृतम् ।
वज्रपद्मायुधो जम्बूद्वीपमानस्सुरक्षितः ॥ ५४ ॥

सङ्क * * * * स्वादुगन्धः कोवेरष्ठे षितः ।
कौस्तुभागं पुमान्मेषवाहः सुस्वादुमन्धवान् ॥ ५५ ॥

विद्याधरप्रियो रौद्रः कालाग्नि समशक्तिकः ।
वश्याक्षकृत्स्वादुगन्ध * * * * क सञ्ज्ञकः ॥ ५६ ॥

प्। ५९४)

भिण्डिपालतनुर्वज्री भी * डिपरमायुधः ।
सहस्रयोजनायामः सत्यवासोऽधिदैवतः ॥ ५७ ॥

जटामकुटधारी च खेटकारोपितद्विधः ।
सहस्रयोजनायामः तदर्धार्धायुतः पुमान् ॥ ५८ ॥

टङ्काक्षयुक् चतुर्बाहुः कोट्यागो वृकवाहनः ।

दिव्याकल्पस्सुगन्धार्थर्णकारश्चैव दैवतः ।
क्रूरः कटुकमृत्स्वादुरसषण्मुख एव वा ॥ ६० ॥

टङ्काङ्कुशधनुर्दण्ड पाशशूलमुसुण्डिभृत् ।
तोमरी * * * * * याम्यस्सानुग्रहश्चतः ॥ ६१ ॥

प्। ५९५)

धूर्धूरप्रीति * ग्नेयतादृशो यस्समस्तदः ।
नपुंसकः कृष्णवर्णः ऊर्ध्वहृत्क्रूरवाहनः ॥ ६२ ॥

क्रूरध्वनिश्च * र्गन्धस्सर्व यज्ञोपवीतवान् ।

पुमान्कपोतवाहश्च नासनोमुखतश्च सः ।
चतुर्विंशति विस्तीर्णो रौद्री घटिमुसुण्डिभृत् ॥ ६४ ॥

सितपवरेण रौद्रा धूर्धूरार्थी च नैर्-ऋतः ॥ ६५ ॥

शतायवोर्ध्वविष्कम्भो द्विभुजश्च नपुंसकः ।
काकवाहस्वरः कृष्णवस्त्रश्चित्रास्य उत्कचः ॥ ६६ ॥

प्। ५९६)

व्याघ्रचर्मोत्तरीयश्च हलधृग्रौद्रकर्मकृत् ।
मधुगुग्गुलुतैलाख्य नरो गी कठोरकः ॥ ६७ ॥

दुष्टवेष्ट्यो मकारस्तु सम्प्रोक्तो यम दैवतम् ।
दशपु * * माज्योता मधुज्ञानासरोजधृक् ॥ ६८ ॥

सर्वायुधश्चतुर्बाहुः चा घ्रोगरुडवाहनः ।
षट्कोट्यायामकोशेन विस्मृतेन च भूषणः ॥ ६९ ॥

सर्पोप वीती दैवादिपूजितो व्यापकश्च यः ।
पुमान्विद्युत्प्रभस्सिद्धो गारुडः कमलासनः ॥ ७० ॥

दशोदशोष्ट दोषाङ्की स्वादुरैश्चानकच्छपः ।
दशकोटीपरीणाहः पुमानुग्रप्रभोष्टदोः ॥ ७१ ॥

प्। ५९७)

मुक्तोपवीती कौबेरी शङ्खचक्रगदाधरः ।
गणेशान् जासनः पुष्पगन्धः प्रोक्तो वकारकः ॥ ७२ ॥

कटकन्निप्रयोलक्ष विस्तीर्णा विष्ठुरत्वरः ।
उमा भेदयो धूम ऊर्ध्ववक्त्रो नपुंसकः ॥ ७३ ॥

भकारो रौद्रदैवत्यो नैर्-ऋत्याद्यधिदैवतः ।
दयात्मकः प्रभोनन्द पुमानम्बुजासनः ॥ ७४ ॥

अनन्तस्यं करुन्नस्तु सर्वकल्पोति दैवतः ।
व्यालभूम्यासुरश्रीघ्रमद्यकश्शोककद्विजः ॥ ७५ ॥

वृत्तादि चाघ्नेण वाहोप्यय नपुंसकः ।
दूर्वावर्णो धकारस्तु सम्प्रोक्ते यमदैवतम् ॥ ७६ ॥

प्। ५९८)

द्वादशादित्यभाव्यश्च कोटिमानो नपुंसकः ।
त्रिकोणगश्च आग्नेये रेफो महिषवाहनः ॥ ७७ ॥

स्त्रीपीतस्तम्भने शक्ते गदाहस्तश्च पार्थिवः ।

साश्वेत बिन्दुकारक्तस्त्रीलिङ्गो मत्स्यवाहनः ।
वाकारो वरुणो वश्य तुष्टि स्थिवर्णकारकः ॥ ७९ ॥

दशबाहुस्सुदीर्घश्च पञ्चसाहसापि स्मृतः ।
स्त्रीलिङ्गो मधुरोरर्कश्च वाहश्चतुर्भुजः ॥ ८० ॥

रक्ताम्बरधर * * * * * * वनः प्रियः ॥ ८१ ॥

प्। ५९९)

रक्ताम्बरपद्मपीठ शङ्खचक्रश्च धृक्कटाः ।
मुख्य कल्पो वश्यकृष्ट शान्त्या दृष्टिं प्रसा * * ॥ ८२ ॥

पुमान्मयूरग्रीवाभ शत्रुहापाशवज्रधृक् ॥ ८३ ॥

लक्षायतः कष्कभः कूर्मवाहासनस्वभूः ।
इषकस्तम्भकूर्चाभा गन्धकाः ॥ ८४ ॥

पुमान्शोणोष्ट बाहुश्च ततः शङ्खगदायुधः ।
लक्षायतोस्तु विस्तीर्णो वैडूर्यभूषणः ॥ ८६ ॥

कौबेरी मधुरश्चैव जटामकुटधृक् च सः ।
श्वेतश्वेताङ्कुशस्वापि सर्वव्यापी नपुंसकः ॥ ८६ ॥

प्। ६००)

सर्वायुधः सर्वकर्ता सौम्यगन्धश्च मन्दकाः ।
स श्रीदैवत्य स्त्रीकालज्ञोभिज्ञश्शकारस्सर्वतः ॥ ८७ ॥

पुल्लिङ्गः पीतवर्णश्च मानप्रविस्तरः ।
चतुरश्रासनः सर्वाकल्पस्रग् गजवाहनः ॥ ८८ ॥

द्विषर्दो वज्रशङ्खारि गदापाश मुसुण्डिभृत् ।
लस्त्याद्गरुडगन्धर्वा परिपट्या धरार्चितः ॥ ८९ ॥

कूदाक्षरः क्षकारश्च मन्त्रबीजं नपुंसकः ।
पर्णीगन्धरसाकार * * वाहसहेतिभिः ॥ ९० ॥

पतङ्गजाति स्वभावश्च यं पृथक् पदशादितः ।
सयोगभेदादेतेऽपि सम्प्राप्तवाहाङ्गिनः ॥ ९१ ॥

प्। ६०१)

देवतारूपवैषम्य मायास्ता मन्द्रतायेयाः ।
सष उल्लङ्घ्य संयोगा मधनो द्विपस्तां यथा ॥ ९२ ॥

रजनरक्ष सक्ष्वारसंयोगाद्रक्ततापि च ।
वैषमानिहतान्ये च यथा शक्ति विशेषतः ॥ ९३ ॥

एक एव तु मन्त्राणां कलादिगुणभेदतः ।
सम्पदो विपदश्चैव कुर्यात्स्वल्य परस्य वा ॥ ९४ ॥

सृष्टौ स्थितौ स चण्डं हारे ज्ञाने मोक्षे च हेतवः ।
स्वराः षोडश सौम्याः स्युर्विशेषेण षडक्षरम् ॥ ९५ ॥

हास्वश्च सूर्यरूपं हि तादिहान्नाक्षराणि वै ।
क्षकारश्च वकारश्च ठकारं च चतुर्थ्यकम् ॥ ९६ ॥

अणोरणुतरान्धूलाद्वन्धूलाद्वाप्त चराचर ।
अणोरणुतरान्धूव सूर्याशोश्च न विद्यते ॥ ९७ ॥

दीर्घाक्षराणि तस्यैव सूर्या

प्। ६०२)

उङ्गुदं चरदीन् वन्याक्षरमथोच्यते ।
ऋ ॠ ऌ ॡ च * र्णाश्च मादिलाक्षान्तराणि वै ॥ ९८ ॥

मनक्षराणि वह्नेश्च वतारश्चन्द्रबीजकम् ।
हकारं व्यवर्णं स्यात् सोमसूर्याग्निरूपकम् ॥ ९९ ॥

पृथिव्यादिकलानां तु मूलाधारादि वक्ष्यते ।
सृष्टिरूढि स्मृतिर्मेधा कान्तिलक्ष्मीस्तथा स्वधा ॥ १०० ॥

धृति ऋद्धिरितिप्रोक्तः कलाभूमि समुद्भवाः ।
स्थिरा व्यपालिनीशान्तिरैश्वरी ममका रतिः ॥ १०१ ॥

प्रीतिश्च मानसी कृष्ण दीर्घारश्च कलादशः ।
तामसी मोहनी मध्या चन्द्राक्षरक्रोधिनी भयात् ॥ १०२ ॥

प्। ६०३)

पीताश्वेतारुणा कृष्णाश्चतस्रो वायुसम्भवाः ॥ १०३ ॥

इन्द्रिकादि विक्रमाया मोहिनी रेचिका परे ।
मृतज्ञाना व व्यापिनीस्त्यपिनि व्योमरूपा सद्यानन्दा षोडशा नराः ॥ १०४ ॥

तपनी तापनी धूम्रा मरीची जडिनी रुचि ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १०५ ॥

कभाद्यावस्त्रधासोरा षटान्ता द्वादशेरिता ।
मृतामरनदा पूषा पुष्टिदा चरति स्मृतिः ॥ १०६ ॥

शशिनी चन्द्रिका कान्तिर्ज्योत्स्नाग्निः प्रीतिशारदा ।
पूर्णा पूर्णामृताकामदाश्विन्यसस्वरां कलाः ॥ १०७ ॥

प्। ६०४)

सजीवनि स्वधापापहर्षिणी क्लेदिनी सुधाः ।
अजरी ह्यमरी घोरा गम्भीरा वर्षणी तथा ॥ १०८॥

आह्लादिनी तथानन्दा क्लिन्ना सौभाग्यवर्धनी ।
सुभगा व सुरूपी च कला शक्तिश्च षोडशा ॥ १०९ ॥

आनन्दिनी महानन्दि प्रीतिर्दिव्या च कामिनी ।
कीर्तिर्लक्ष्मीस्सृतिश्चैव तथैव जनरञ्जिनी ॥ ११० ॥

मेधा कामास्थिरा सृष्टिः सुभगा पालिनी परा ।
कलाः षोडश विख्याताः परमानन्ददायिना ॥ १११ ॥

इत्यचिन्त्यविश्वसादाख्ये अक्षरोदयविधिर्द्वात्रिंशत्पटलः ॥