३१

नवाधार विधिं वक्ष्ये शृणुत्वन्नन्दिकेश्वर ।
आधारं प्रथमं प्रोक्तं स्वाधिष्ठानं द्वितीयकम् ॥ १ ॥

तृतीयं मणिपूरं तु चतुर्थं हृदयं भवेत् ।
पञ्चमं तु विशुध्याख्यं कण्ठमूले तु भावयेत् ॥ २ ॥

क्रिया पद्मं तालुमूले दिव्याग्रतयुतः परम् ।
आत्मको दण्डयन्मध्यं सप्तमं ज्ञान बिम्बकम् ॥ ३ ॥

प्। ५८०)

ललाटं चाष्टमं प्रोक्तं चन्द्रबिम्बैश्च यान्वितम् ।
तदूर्ध्वं ब्रह्मरन्ध्रं स्यान्नवमं नन्दिकेश्वर ॥ ४ ॥

मूलाधारं समारभ्य विशुध्यन्तं तु पूर्ववत् ।
क्रियाज्ञानाख्यकाचैवमिच्छाशक्तिस्त्रिमण्डलम् ॥ ५ ॥

प्रत्येकं षोडशदलं प्रत्येकं षोडशस्वरम् ।
बिन्दुनादकलायुक्तं परानन्दामृतं चयम् ॥ ६ ॥

तदूर्ध्वे तु शिरःस्थानं सर्वतेजोमयं परम् ।
षष्ट्युत्तरत्रिशतकं पत्रस्यापि दलं भवेत् ॥ ७ ॥

अधोमुकुलिताकारं लम्बमानचतुष्कलम् ।
पराशक्ति महापद्मं त्रिदशैरपि दुर्लभम् ॥ ८ ॥

प्। ५८१)

एवं ध्यात्वा पदं योगी क्रमान्मोक्षं च गच्छति ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ९ ॥

एवं ज्ञात्वा सदा योगी स एव शिवविग्रहः ।
आधारस्य प्रधानान्तं कुण्डलीं च शृणुश्वथ ॥ १० ॥

सर्वशक्तिमयश्चैवमादिमध्यान्त सुस्थिता ।
नीवारशूकवर्तिन्यस्युप्ता चेद्भुजगाकृतिः ॥ ११ ॥

चैतन्य योजनीतत्वे परात्परतरे शिवे ।
आधाराणामशेषाणां भेदिनी बोधिनी परा ॥ १२ ॥

निष्यन्दामृतधारे व स्वाभिशक्तिस्वरूपिणी ।
मण्डलत्रयसम्भेदी तारवत्तु त्रिवर्तुला ॥ १३ ॥

प्। ५८२)

एवं ध्यात्वा सदा योगी नवाधाराणि तत्परः ।
पश्चात्सा कुण्डली देवी पीयूष वर्षकी शिवम् ॥ १४ ॥

आप्याययन्ती सर्वत्र सिद्धिमुक्तिप्रदायिनी ।
मूलकुण्डलिनी देवी दृष्ट्वा मन्त्राणि बीजकाः ॥ १५ ॥

सुरमुच्चारसंयुक्ता तत्तद्रूपस्मृतिं पिबेत् ।
एवं च कुण्डली प्रोक्तं प्यतिगह्वा महोदया ॥ १६ ॥

इत्यचिन्त्यविश्वसादाख्ये नवाधारकुण्डलिनी विधिरेकत्रिंशत्पटलः ॥