३०

प्। ५७६)

अथ वक्ष्ये विशेषेण षडाधारस्य लक्षणम् ।
आधेयी षड्विधं प्रोक्तम् आधाराधेय लक्षणम् ॥ १ ॥

आधारं गुदमित्याहुः स्वाधिष्ठानं तु गुह्यकम् ।
मणिपूरं तु नाभौ तु हृदयं तदनाहतम् ॥ २ ॥

विशुद्धिः कण्ठदेशे तु आज्ञा भ्रूमध्य एव च ।
पद्माधारमिति प्रोक्तम् आधेयं तु षडक्षरम् ॥ ३ ॥

मूलाधारमजग्रन्थि सञ्ज्ञदेशं स्मरेन्मलम् ।

गुदमेढ्रान्तरालस्थं चिन्तयेद्योगवित्तमः ।
चतुर्दशैव सान्तानि अक्षराणि विचिन्तयेत् ॥ ५ ॥

प्। ५७७)

हंसं तारं च शक्तिं च शङ्खध्वनिनिभं परम् ।
भृङ्गनादं ततः पश्चात् पराशक्तिस्वरूपकम् ॥ ६ ॥

आधारपद्ममित्युक्तम् इति गुह्यं शिवालयम् ।
व्योमाक्षरं तु तद्बीजं तेजसा भास्करप्रभम् ॥ ७ ॥

स्वाधिष्ठानं तदूर्ध्वे तु षट्पत्र कमलोज्वलम् ।
बलतेजोधरैर्युक्तं स्वच्छवारि समप्रभम् ॥ ८ ॥

उद्वभ्र इव वर्णेन बिन्दुनादविभूषितम् ।
ढफान्तं दशवर्णौघैः तरुणादित्य सप्रभैः ॥ ९ ॥

मणिपूराख्यकमलं दशपत्रं प्रभोज्वलम् ।
क्रोधीशबीजसंयुक्तं भावयेन्नन्दिकेश्वर ॥ १० ॥

प्। ५७८)

तदूर्ध्वे तु द्विषट्पत्रं मध्यमध्ये विभावयेत् ।
कठान्तद्वादशार्णौघैः सहस्रकिरणप्रभैः ॥ ११ ॥

अनाहताख्यमाधारं नादस्तेनाभिरिष्यते ।
इन्द्रबीज स संयुक्तं तद्बीजं रोचनप्रभम् ॥ १२ ॥

षोडशस्वर संयुक्तं विशुद्धाख्यावसङ्गमम् ।
शुद्धस्फटिकसङ्काशं ठकाराक्षरबीजयुक् ॥ १३ ॥

आज्ञाख्ये च भ्रुवोर्मध्ये दलयुग्मं सरोरुहम् ।
अक्षपाणियुतं चैव रेफेण तु समुज्वलम् ॥ १४ ॥

बिन्दुनादकलायुक्तं शक्तियुक्तं च भावयेत् ।
षडध्वसन्धिसंयुक्तं सर्वबोधप्रवर्तकम् ॥ १५ ॥

प्। ५७९)

ज्ञानामृतरसोपेतं मोक्षसाधनमुत्तमम् ।
षडाधारमिति प्रोक्तं गुरुवक्त्रेण लभ्यते ॥ १६ ॥

इत्यचिन्त्यविश्वसादाख्ये षडाधारविधिः त्रिंशत्पटलः ॥