प्। ५६६)
वक्ष्ये रसायनं दिव्यम् इह तन्त्रे सुभाषितम् ।
योगिनामुपकारार्थं ज्ञानिनां तु विशेषतः ॥ १ ॥
रसो वै स इति ह्युक्तः तस्माच्छिव इतीरितः ।
अष्टमूर्तेर्महेशस्य वीर्यं रसमुदीरितम् ॥ २ ॥
एतद्वीर्यमयो नित्यं सेवते भक्तिसंयुतः ।
शिववद्वीर्यवान् पूज्यः शिवलोकादि संस्थितैः ॥ ३ ॥
दर्शनं रसराजस्य सप्तजन्मसु तत्फलम् ।
सप्तजन्मकृतं पापं दर्शनान्नश्यति ध्रुवम् ॥ ४ ॥
स्पर्शनान्नाशयेन्नन्दिन् गोहत्यां नात्र संशयः ।
ब्रह्महत्यादिभिः पापाः स्त्रीवधा बालघातकाः ॥ ५ ॥
प्। ५६७)
रसभस्मनिषेवात्तु मुच्यते नात्र संशयः ।
रोगी तु रोगी न ज्ञानी कालपादेन भाखिलम् ॥ ६ ॥
स्वदेशकालयोरेव सञ्ज्ञा इष्टफलप्रदाः ।
अन्यदेशेन्य काले तु त एवानिष्टहेतवः ॥ ७ ॥
वैनाशिके वधर्क्षे तु सार्धचन्द्राष्ट-ऋक्षके ।
वधर्क्षे तस्य जन्मर्क्षे विपदादौ विशेषतः ॥ ८ ॥
तस्यैवाष्टमराशौ तु मरणादि क्रियामिताः ।
यमाश्लेषाग्निरूपाणि श्रविष्ठा वारुणो मघाः ॥ ९ ॥
ज्येष्ठा च त्रीणि पूर्वाणि वर्जयेत्पुष्टिकर्मणि ।
सौरिवारोऽथ वर्ज्यः स्यात् तथाह्यङ्गारवारकम् ॥ १० ॥
प्। ५६८)
दुष्टकर्मप्रशस्तं स्याद् वैरिणो मोहनादिके ।
शिवादित्रयनिन्दायाः दुष्टानां साधनं परम् ॥ ११ ॥
अनेनैव विधानेन च स्याच्छर्द्धिर्भवेत्तदा ।
शुभकर्माणि सर्वाणि कर्तुरिष्टदिने नयेत् ॥ १२ ॥
स्वर्णस्तेयेन चैतस्य शिवाय द्विगुणं ददेत् ।
अघोर नवलक्षे तु जपेच्छुद्धिमवाप्नुयात् ॥ १३ ॥
अर्चितः शिवशृङ्गं तु नाभिनन्दन्ति ये नराः ।
दृष्ट्वापि न नमेच्चैव नस्तुवन्त्यप्रमादतः ॥ १९ ॥
उपचारं न कुर्वन्ति शिवाग्नि गुरु सन्निधौ ।
शिवभक्ति प्रिये सक्ताः तेपि चान्त्यन्त पापिनः ॥ २० ॥
प्। ५६९)
शिवनिन्दासमाप्येते प्रायश्चित्तं तु तद्भवेत् ।
शिवज्ञानं सम्पूज्य येऽधीयन्ते लिखन्ति च ॥ २१ ॥
गुरुशिष्यक्रमादीन्यः शृण्वन्नपि पठन्नपि ।
लोहेन विक्रयं वापि चान्यज्ञानरतोऽपि वा ॥ २२ ॥
अयोग्य देशके स्थाप्य सामर्थ्योऽप्यनधीयते ।
शिवज्ञानकथापेक्षं कृत्वाचान्यत्प्रजल्पनम् ॥ २३ ॥
अर्चित्वापि च कुत्सीत स्थानजल्पन एव हि ।
ज्ञाननिद्रासमं सर्वं तद्वच्छुद्धिर्विधीयते ॥ २४ ॥
अकृत्वा गुरुपूजां च शिवज्ञानमधीयते ।
शुश्रूषां चापि भक्तिं च विश्वासं डम्भवर्जनम् ॥ २५ ॥
प्। ५७०)
बन्धुं प्रियजनं चैव देशान्तरगतं तथा ।
शत्रुभिः परिभूतं च त्यजेल्लोभादुपेक्षकः ॥ २६ ॥
तद्धर्मपत्नीं पुत्रं च मित्रं चैवावमानतः ।
ज्येष्ठाव मानकं चापि स्वसान्तानिकदूषणम् ॥ २७ ॥
स्वसान्तानिक भिन्नत्वं शब्दार्थान्योन्य निन्दनम् ।
गुरुनिन्दासमं सर्वं प्रोक्तं वै नन्दिकेश्वर ॥ २८ ॥
नैष्ठिकं पितृमात्रादीन् सकृच्चाप्यर्थदानकम् ।
एतं सुदिक्षु कुर्याद् अचिन्त्यग्रन्थसङ्ख्यया ॥ २९ ॥
अल्पबुद्धिश्च मेधावी चाल्पवीर्यो महाबलः ॥ ३० ॥
प्। ५७१)
रसो रसायने चैव यस्य बुद्धिर्महीयते ।
तस्य वै सकलप्राप्तिर्भवेदिति न संशयः ॥ ३१ ॥
नष्टबुद्धिरसानां च रसज्ञानं तु दुर्लभम् ।
तेन जानन्ति ये मूढाः सत्यं प्रत्यक्षशङ्कनम् ॥ ३२ ॥
तेन पूजितमात्र्ण लिङ्गार्चनसमं भवेत् ।
सर्वव्याधिक्षयं गच्छेदुच्छ्रिते भक्तितो रसे ॥ ३३ ॥
अथवा भस्मसंयुक्तं सदा भक्षेत्तु चेन्नरः ।
त्रैलोक्यं भुञ्जते सोऽपि भवत्तस्याजरामरम् ॥ ३४ ॥
फलमेतेन विधिना भक्षिते सृतभस्मके ।
इदृशं प्रस्तुतं तस्य जायते साधकस्य तु ॥ ३५ ॥
प्। ५७२)
वातपित्तकफादीनां नाशनं नात्र संशयः ।
गुल्मव्याधिरुजं हन्ति ग्रहभूतविमर्दनम् ॥ ३६ ॥
बाधिर्यं च तथास्रावं दन्तशूलरुजापहम् ।
तिमिरं पटलं काचं महाघोरं भगन्दरम् ॥ ३७ ॥
चतुरशीति शूलानि शिरस्यष्टादशानि तु ।
ज्वरमष्टोत्तरशतं लूताश्चाष्टादशस्तथा ॥ ३८ ॥
रक्तपित्तामहाघोरा नाशं यान्ति न संशयः ।
अपस्मार ग्रहा ये च ये ग्रहापक्षराक्षसाः ॥ ३९ ॥
अष्टाशीतिसहस्रौ तु ग्राहितुर्यस्य जन्तवः ।
भस्मस्त्रतस्य भक्षात्तु निवर्तन्त इति ग्रहाः ॥ ४० ॥
प्। ५७३)
फलेनैकेन स्त्रस्य भस्मना योगिनां भवेत् ।
अजीर्णं साप्यसंस्कारसाधकं भक्षयेन्नरः ॥ ४१ ॥
ब्रह्महा स दुराचारी महाद्रोह्यात्मघातकः ।
कल्पकोटिसहस्राणि कल्पकोटिशतैरपि ॥ ४२ ॥
पीतं तद्रौरवे घोरे घोरेऽपि च सुदुस्वरे ।
स्वमांसं भक्षितं तेन क्षुधया च प्रपीडितः ॥ ४३ ॥
तस्मात्सर्वप्रयत्नेन बालसूतं न भक्षयेत् ।
सबीजं बीजहीनं तु द्विविधं पारदं भवेत् ॥ ४४ ॥
संस्कारहीनं निर्बीजं स * * * न संयुतम् ।
सबीजस्मृतभक्षं तु हेमरत्नसुतीक्ष्णयुक् ॥ ४५ ॥
प्। ५७४)
भर्ताकर्ता स्वयं साक्षात् शापानुग्रहदायकः ।
त्रिफलं भक्षितं येन कामरूपी भवेन्नरः ॥ ४६ ॥
तस्याङ्गप्रभवः स्वेदोऽह्यष्टलोहांश्च वेधयेत् ।
तत्सर्वं काञ्चनं दिव्यं भक्षयेद्विमलं ततः ॥ ४७ ॥
कामरूपत्वमाप्नोति गजादीनां च जातिभाक् ।
यं यं कामयते भावः हेमभस्मनि भक्षिते ॥ ४८ ॥
एको दोषोऽहि सूक्ष्मोस्ति भक्षिते बालसूतके ।
त्रिसप्ताहे तु सम्प्राप्ते ताम्राक्षो जायते भृशम् ॥ ४९ ॥
कामिनीयाः सहस्रं तु क्षोभयेद्दिवसान्तरे ।
नारीसङ्गे तु नन्दीश शरीरो क्रमणे रसः ॥ ५० ॥
प्। ५७५)
तस्मात्सर्वप्रयत्नेन स्त्रीसेवां तु न कारयेत् ।
रसभस्म सदा सम्यग् उपर्युपरि भक्षयेत् ॥ ५१ ॥
महासिद्धिं च लभते नात्र कार्या विचारणा ।
भौतिकः पापनाशार्थं स्वल्पं स्वल्पं च भक्षयेत् ॥ ५२ ॥
नैष्ठिकस्य वि * * ण चोक्तमार्गस्य सेवनम् ।
अणिमाद्यष्ट संसिद्धिं क्रमादेति न संशयः ॥ ५३ ॥
नैष्ठिकोपि विशेषेण धारणायोगसिद्धिभाक् ।
मुत्कालं तु विशेषेण पारदं भक्षयेद्गुरुम् ॥ ५४ ॥
तस्मात्सर्वं लघुः कार्यं भक्षणं तु रसायनम् ।
आलोको रात्रिभाग स्फुट रविकिरणस्यादिवाकालभावाः सन्ध्यालोकोपलब्ध
प्रकृतिभिरसस्तुत्यज्यते स्माभिरेतत् ॥ ५५ ॥
इत्यचिन्त्य विश्वसादाख्ये रसायनविधि रेकोन त्रिंशत्पटलः ॥