२८

प्। ५१९)

योगिनामुपकारार्थं नाडीचक्रमिहोच्यत् ।
नाभेरधस्तात्कन्दस्य तिर्यगूर्ध्वागताननाः ॥ १ ॥

षण्णवत्यङ्गुलायाम स्वदेहं सर्वदेहिनाम् ।

देव * * * * * * * * * * * * चरेत् ।

स एव शिवयोगी स्यात् त्रिदशैरभिवन्दितः ॥ २ ॥

देहस्थवह्निना चैव योगाभ्यासगतेन च ।
योगी तु योगाभ्यासेन निर्णयेल्लोक सञ्चयम् ॥ ३ ॥

गुदमेढ्रान्तरं चैव कालाग्नेर्मण्डलं भवेत् ।
त्रिकोणमुज्वलाकारम्मनुजानां विशेषतः ॥ ४ ॥

पशूनां चतुरश्रं स्यात् पक्षिणां वृत्तमेव हि ।
तिरश्चां दीर्घरूपं स्याद् हृदये च चतुष्पदम् ॥ ५ ॥

प्। ५२०)

तिरश्चामण्डजानां च कन्दमध्ये प्रतिष्ठितम् ।
कन्दान्नवाङ्गुलस्थाने मनुष्याणां च नामतः ॥ ६ ॥

तत्रैव नाड्यो वै सर्वाः प्रधानं च चतुर्दश ।
नाभिदेशे पतन्तीव द्वादशार समन्विते ॥ ७ ॥

चक्रेस्मिन्भ्रमते जीवो मलमायादिभिर्वृतः ।
ऊर्ध्वाधो भजते जीवो जाग्रादिकरणैस्सह ॥ ८ ॥

लूतिकावलये लूता यथा भ्रमति नित्यशः ।
जीवादयश्च प्राणश्च चरत्यन्वहमूर्जितः ॥ ९ ॥

प्राणारूढो भवेदात्माप्यधः कुण्डलिनी भवेत् ।
कन्दमध्ये स्थिता चैव सुषुम्ना नाडिरुत्तमा ॥ १० ॥

प्। ५२१)

वीणादण्डधनुर्दण्डमौर्वी च ब्रह्मरन्ध्रगा ।
ब्रह्मनाडी च तन्मध्ये सुषुम्ना चित्ररूपिणी ॥ ११ ॥

अव्यक्ता सव्या विज्ञेया तस्य वामे सव्यके ।
सितरक्तासितास्त्रेधा सुषुम्ना वर्णिता भवेत् ॥ १२ ॥

इडा च शङ्खकुन्दाभा पिङ्गलातपरूपिणी ।
परितो नाभिचक्रस्य प्राणवायुसमन्विता ॥ १३ ॥

इन्दोश्चारमिडायां तु पिङ्गलायां तु भास्करः ।
तामसश्चन्द्र एवोक्तः सूर्यो राजस उच्यते ॥ १४ ॥

मध्ये च सात्विकानाडी गुणत्रयसमन्विता ।
सरस्वती शुक्लवर्णा च सिताम्बुरुहसन्निभा ॥ १५ ॥

प्। ५२२)

यशस्विनी हिमेन्द्वाभा चित्रा विश्वोदरा शुभा ॥ १६ ॥

कुहू * * * ञ्जनाभा च * * * * शङ्खिनी ।
पयस्विनी पयोवर्णालम्बुषा पीतवर्णिका ॥ १७ ॥

मयूरकण्ठ सदृशागान्धारी वर्णतो भवेत् ।
इडामृतं विषः पिङ्गा बाह्या रात्रिनिभा भवेत् ॥ १८ ॥

सरस्वती कुहूश्चैव सुषुम्नापार्श्वतः स्थिते ।
इडायाः पूर्वपृष्ठे च गान्धारी हस्तिपिङ्गले ॥ १९ ॥

पिङ्गला पूर्वपृष्ठे च स्थिता पूषा यशस्विनी ।
पयस्विन्याश्च पार्श्वाभ्यां पूषा तद्वत्सरस्वती ॥ २० ॥

प्। ५२३)

चिन्याः? पार्श्वयोश्चैव गान्धारी च पयस्विनी ।
अलम्बुषा तु नन्दीश कण्ठमध्यादधः स्थिता ॥ २१ ॥

सुषुम्ना पूर्वभागे तु पिङ्गलां च कुहूस्तथा ।
अधश्चोर्ध्वे च विज्ञेया वारणा * * मिलिनी ॥ २२ ॥

यात्यस्य पादाङ्गुष्ठान्तं स्थिरा चैव यशस्विनी ।
सव्यनासान्तगा तत्र पिङ्गलाचोर्ध्वगामिनी ॥ २३ ॥

पिङ्गला पृष्ठसंलीना पूषा दक्षिण नेत्रगा ।
पयस्विनी तथा नन्दिन् सव्यकर्णान्तगा भवेत् ॥ २४ ॥

जिह्वाग्रान्तं सरस्वत्याः स्थितिरत्र प्रकीर्तिताः ।
शङ्खिनी चोर्ध्वगा भूत्वा कण्ठान्तत्वाथ गोचरा ॥ २५ ॥

प्। ५२४)

इडायाः पृष्ठतः स्थित्वा गान्धारी वामनेत्रगा ।
इडा च सव्यनासान्तं सव्यभागे च संस्थिता ॥ २६ ॥

पादाङ्गुष्ठान्तगा चैव हस्तिजिह्वा च वामके ।
कुक्षौ विघ्नोदय नाम मूर्तिपूर्तिविधायिनी ॥ २७ ॥

अलम्बुषा वायुमूलादधोभागे व्यवस्थिता ।
एतासामेव नाडीनां द्विसप्तति सहस्रकम् ॥ २८ ॥

नाडीजालमभूत्तत्र जीर्णावश्वत्थ पत्रवत् ।
चतुर्दश सु नाडीषु वायवोऽपि चतुर्दश ॥ २९ ॥

प्राणापानसमानाश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ३० ॥

प्। ५२५)

मुख्या वैरागकश्चैवमन्तर्यामी प्रपञ्चकम् ।
एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी ॥ ३१ ॥

तस्मान्नाडीषु सर्वत्र विचरन्त्येव वायवः ।
एतेषु पञ्च मुख्यासो स प्राणापानयोस्तयोः ॥ ३२ ॥

प्राणश्च मुख्यस्सर्वेषां वायूनां प्राणिनामयम् ।
आस्य नाडिकयोर्मूले निश्वासोच्छ्वासवृत्तिकः ॥ ३३ ॥

प्रयाणं कुरुते प्राणो हृन्मध्ये नाभिमध्यमे ।
तस्मात्प्राणस्य मुख्यत्वम् अपानस्यापि वर्तनम् ॥ ३४ ॥

अन्नपानादिकं सर्वमधो नयति देहिनाम् ।
शकृन्मूत्रेन्द्रियाणां च निस्सारस्तेन वै भवेत् ॥ ३५ ॥

प्। ५२६)

अङ्गानां च विनामं च व्यानश्च कुरुते भृशम् ।
उदानो मुखनेत्रे तु कम्पयत्यधरोष्ठकम् ॥ ३६ ॥

गात्रमर्माणि सर्वत्र तोदं च कुरुते भृशम् ।
समानः सर्वगात्रेषु सङ्ख्यायैव व्यवस्थितः ॥ ३७ ॥

पीतं भुक्तं सर्वरसं व्यापयन्नग्निना सह ।
द्विसप्तति सहस्राणां नाडीनां मध्यमे चरेत् ॥ ३८ ॥

स्वयं नयति गात्रेषु समानस्य गतिस्तथा ।
नागस्योद्गारकं कृत्यं कूर्मोन्मीलनिमीलनम् ॥ ३९ ॥

कृकरं क्षुतकं चैव देवदत्तो विजृम्भणे ।
धनञ्जयो घोषयुतः प्राणहीनं न मुञ्चति ॥ ४० ॥

प्। ५२७)

मुख्योऽपि मनसा युक्तो वैरम्भो बुद्धिसंयुतः ।
अन्तर्याम्यप्यहङ्कारी प्रपञ्चश्चित्त संयुतः ॥ ४१ ॥

राजावर्तनिभः प्राणो वह्निवज्ज्वलते सदा ।
जठरस्थं जलं चान्नं विभजेदग्निना सह ॥ ४२ ॥

वह्नौ जलं पुरः स्थाप्य चान्नादिन जलोपरि ।
इन्द्रगोपकसङ्काशं तदधोऽपान एव च ॥ ४३ ॥

ज्वलनं दीप्य तत्रैव वायुनापानगः शनैः ।
अत्युष्णजलसंयुक्तमन्नं व्यञ्जन संयुतम् ॥ ४४ ॥

मलाशयस्य तिर्योऽथ द्रव पक्वं करोत्तदा ।
स्वेदमूत्रं बहिर्गच्छेत् रसं वीर्य क्रमाद्भवेत् ॥ ४५ ॥

प्। ५२८)

रसाच्छ्रोणितमुत्पन्नं रुधिरान्मांस सम्भवः ।
मांसान्मेदोपसङ्क्रान्तं मेदसो स्नायुरस्थिके ॥ ४६ ॥

अस्थिनापि च मज्जास्यान्मज्जा सामोजसा सह ।
शकृज्जातं क्रमादेवं सप्तधा धातुरुच्यते ॥ ४७ ॥

विद्युदग्निसमप्रख्ये व्यानेऽप्युदानदारकम् ।
उदानं पद्मकिञ्जल्कसन्निभाग्नि समप्रभम् ॥ ४८ ॥

गोक्षीरधवलाकारः समानः प्रोक्षणे रतः ।
कुसुम्भपुष्पसदृशो हिक्काभीति प्रवर्तकः ॥ ४९ ॥

पीतवर्णः स कूर्मः स्याज्जाड्य रोमाञ्च कम्पकृत् ।
कृकरः कृष्णवर्णः स्याद् भ्रूविक्षेपं च कारयेत् ॥ ५० ॥

प्। ५२९)

अग्निवर्णो देवदत्तः तन्द्रीकुम्भादि कर्मकृत् ।
श्वेतो धनञ्जयः प्रोक्तो देहधारणके रतः ॥ ५१ ॥

एवं भोजश्च सङ्कल्प संविभागो भवेत्तदा ।
सूतादिदोष निर्मुक्तोऽप्यन्नदोष विवर्जितः ॥ ५२ ॥

सर्वानुग्रह सिद्ध्यर्थं शिवप्राप्तिः क्रमाद्भवेत् ।
यमस्तु दशधा प्रोक्तो नियमः प्रोच्यते तथा ॥ ५३ ॥

शौचं तपश्च सन्तुष्टिः स्वाध्यायेश्वरपूजनम् ।
सिद्धान्तश्रवणं भव्यं ह्री ता च जपं हुतम् ॥ ५४ ॥

वारुणाग्नेयतीर्थानां कायशुद्धिर्भवेद्ध्रुवा ।
अकृत्वावर्जनादेव कर्मशुद्धिरथोच्यते ॥ ५५ ॥

प्। ५३०)

सत्येन वाचा शुद्धिः स्याद्दीक्षायास्सर्वशुद्धये ।
शौचं तु षड्विधं प्रोक्तं तपश्चान्द्रायणादिकम् ॥ ५६ ॥

तपस्सन्तापनं त्वर्थे चेन्द्रियाणां च शोधनम् ।
कृच्छ्रादिभिः कायदोषः कारणानां च शोषणम् ॥ ५७ ॥

अकृत्य भोगसंशोषो मदमात्सर्यवर्जनम् ।
तपोरूपमिदं प्रोक्तं योगसाधनमुत्तमम् ॥ ५८ ॥

अल्पलाभेन तृप्तः स्यात्सन्तोषः पूर्ववद्भवेत् ।
सर्वदा दुःखमाप्नोति सर्वेणः परिपूरणः ॥ ५९ ॥

शैवागमस्याध्ययनं तदभिन्न पुराणकम् ।
आत्मानुष्ठान योग्येषु प्रदेशेष्ववलोकनम् ॥ ६० ॥

प्। ५३१)

नित्यमभ्यसनं चैव स्वाध्यायमिति कीर्तितम् ।
अनेनैव तु मूर्तिः स्यात् प्रसिद्धं नन्दिकेश्वर ॥ ६१ ॥

लिङ्गार्चनादि तत्सर्वं पूजनं पूर्वमीरितम् ।
स्वगुरोर्भक्ति संयुक्तो देशकालानुरोधनात् ॥ ६२ ॥

अविरोधजनैस्सर्धमयोग्यैरास्तिक्य संयुतः ।
सिद्धान्तश्रवणं चैव सिद्धान्तश्रवणं भवेत् ॥ ६३ ॥

गुरुस्वातन्त्र्य संयुक्तः स्वस्वातन्त्र्यविवर्जितः ।
कुलालहस्तमृत्स्नेव गुर्वाज्ञा पालनामतः ॥ ६४ ॥

भव्यमेतत्स्वरूपं हि शापानुग्रहहेतुकम् ।
आगमोक्तं विधानं तु कुत्सितं कर्म यद्भवेत् ॥ ६५ ॥

प्। ५३२)

तस्मिन्भवति या लक्ष्मी ह्रीस्तु शैवेयमीरिता ।
दीक्षोत्तरे च गुरुणा चोपदिष्टैश्च मन्त्रकैः ॥ ६६ ॥

भक्तिविश्वाससम्मोहं गुर्वाज्ञापालनादिकम् ।
कुर्वन्तं कृपया युक्तं शिष्यमात्रादिसंयुतैः ॥ ६७ ॥

मात्रान्यूनाधिकं कृत्वा क्लीलसूत्रादिवर्जितैः ।
चन्द्रार्कनाशनं कृत्वा भाष्योपांशकमानसैः ॥ ६८ ॥

भाष्यात्परमुपांशु स्याद् उपांशोर्मानसं परम् ।
एवं गुरुमुखाल्लब्ध्वा जपं कुर्वीत तज्जपः ॥ ६९ ॥

अग्निकार्यं हुतं प्रोक्तं पूर्वमेवं हुतक्रिया ।
नियमो दशधा प्रोक्तो यमाद्याभिश्च विंशतिः ॥ ७० ॥

प्। ५३३)

एतैर्विंशतिभिर्हीने योगो पापं प्रदापयेत् ।
मोहाद्दानं प्रकुर्याच्चेच्छिष्येण वृजिनं व्रजेत् ॥ ७१ ॥

तस्मात्सर्व प्रयत्नेन योग्याय च ददेद्गुरुः ।
पद्मं च स्वस्तिकं चैव गोमुखं विशदं तथा ॥ ७२ ॥

सूक्ष्मश्च ह्येकपादं च कुक्कुटं वीरमेव च ।
पद्मासनं च खं पुष्टं कूर्मं विमलमेव च ॥ ७३ ॥

दण्डं चण्डं च गोकर्णं सिद्धासनमतः परम् ।
वृत्तिं च कटिकं चैव गजास्यं च मयूरकम् ॥ ७४ ॥

आसनं विंशतिः प्रोक्तं प्रत्येकं च शृणु क्रमात् ।
उर्ध्वोपरि तु नन्दीश कृत्वा पादतले शुभे ॥ ७५ ॥

प्। ५३४)

पद्मासनं भवेदेतत् सर्वेषां पूजितं परम् ।
जानूर्वोरन्तराले तु कृत्वा पादतले शुभे ॥ ७६ ॥

पूर्ववदृजुकायः स्यात् स्वस्तिकं सर्वशोभनम् ।
सव्ये दक्षिणगुल्फात्तु पृष्ठपार्श्वे च योजयेत् ॥ ७७ ॥

दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं तथा ।
शिरोपरि च पादाभ्यां कर्णपार्श्वे च योजयेत् ॥ ७८ ॥

हस्ताभ्यां भूमिसंस्थानम् अतज्जुघादोर्भुजान्तरे ।
विंशदन्तमिति प्रोक्तं सूची च तदनन्तरम् ॥ ७९ ॥

हस्ताभ्यां भूतलेन स्याद् दक्षिणं चोपरिस्थितम् ।
शरीराङ्घ्रीद्वयं चापि वक्त्रायोर्ध्वशरी भवेत् ॥ ८० ॥

प्। ५३५)

सूचीवत्स्थितिरत्युग्रं सूचीति खलु विश्रुतम् ।
आकाशगमनार्थाय शनैः कुक्कुटवद्भवेत् ॥ ८१ ॥

एकपादं तु भूमौ तु चान्यपादं कटौ न्यसेत् ।
तस्य पादतले न्यस्त्वा वामपाणिं च दक्षिणम् ॥ ८२ ॥

ऊर्ध्वं कृत्वाङ्गुलीभिस्तु छादनं चैकपादकम् ।
अत्युग्रतपसां साध्यमेतदासनमुत्तमम् ॥ ८३ ॥

पद्मवच्चासनं कृत्वा हस्ताभ्यामूरुमध्यमे ।
कोर्परावधि चाकृष्यादङ्गं तत्कुक्कुटं भवेत् ॥ ८४ ॥

एकाङ्घ्रिमूरौ विन्यस्यादन्याङ्घ्रिं च भुवः स्थले ।
जानुकोर्परसंयोगाद् वीरासनमितीरितम् ॥ ८५ ॥

प्। ५३६)

व्याख्यानाय भवेदेतत् सर्वशास्त्रार्थ बोधकृत् ।
सवनीपार्श्वयोरेव वृषणस्याथ गुल्फगौ ॥ ८६ ॥

निक्षिप्य पादपार्श्वौ च पाणिभ्यां दृढबन्धनम् ।
भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् ॥ ८७ ॥

संयोज्याङ्घ्रितलद्वेद्वे पुनरन्तर्विसर्पणम् ।
पृष्ठपार्श्वे करद्वन्द्वम् अङ्घ्रिव्यग्रोप संस्थितम् ॥ ८८ ॥

पृष्ठे मुखं नखं पृष्टं वायुरोधप्रधानकम् ।
पद्मवच्चरणं कृत्वा पाणिभ्यामूरुमध्यमे ॥ ८८ ॥

निक्षिप्य ताभ्यामाबध्यात् कन्धरे पूर्ववद्भवेत् ।
प्राणारोधनकं चैव कायाग्नेरति दीपनम् ॥ ९० ॥

प्। ५३७)

नमस्काराञ्जलिं कृत्वा गर्भस्थ शिशुवत्क्रमात् ।
अपामाकर्षणे शस्तं मूलाग्नेर्दीपनं भवेत् ॥ ९१ ॥

पिण्डासनमिदं प्रोक्तं गोकर्णं तदनन्तरम् ।
पार्श्वयोः पादयुगलं निक्षिप्य जानुनी उभे ॥ ९२ ॥

भूतले स्थाप्य हस्ताभ्यां संयोगे दक्षिणं परम् ।
ऊर्ध्वकायः स्थितः सम्यक् गोकर्णं वायुबन्धनम् ॥ ९३ ॥

जान्वोर्निक्षिप्य हस्तौ तु वाङ्गुलीश्च प्रसार्य च ।
व्यात्तास्यः क्रूरमीक्षेत नासाग्रव्यग्रलोचनः ॥ ९४ ॥

तापवातादिशमनं दावानलनिरोधनम् ।
पादद्वयं च संयोज्य तस्मिन्पृष्ठे निधाय च ॥ ९५ ॥

प्। ५३८)

ऋजुकायस्समासीनः पाणिभ्यां पादके न्यसेत् ।
अपानाकर्षणं कुर्यात् कायाग्नेर्वर्धनं परम् ॥ ९६ ॥

एकाङ्गमेव हस्तं च विनस्य पृथिवीतले ।
वक्षोरुहं च हस्तेन प्रसार्य तदनन्तरम् ॥ ९७ ॥

गृहीत्वाचार्यहस्तं च जान्वङ्घ्रिं च प्रसारयेत् ।
पादाङ्गुष्ठावलोकं च गजावनमितीरितम् ॥ ९८ ॥

पृष्ठपार्श्वे च शमनं वायूनां च भवेत्तदा ।
आयुष्यवर्धनं ख्यातमतिसारनिरोधनम् ॥ ९९ ॥

अवष्टभ्य भुवं सम्यक् तलाभ्यां तु करद्वयोः ।
हस्तयोः कोर्परद्वन्द्वम् अन्यदेशे निधाय च ॥ १०० ॥

प्। ५३९)

समुन्नतशिरः पादौ दण्डवद्व्योम्नि संस्थितः ।
मयूरासनमेतत्तु सर्वपाप प्रणाशनम् ॥ १०१ ॥

सर्वरोगाश्च नश्यन्ति विषाणविषयाण्यपि ।
अङ्गानां च क्रमान्याहुः सदाशुगमनं भवेत् ॥ १०२ ॥

आसनं विंशतिः प्रोक्तं श्रेष्ठं स्थितसुखासनम् ।
प्राणायाममथो वक्ष्ये नाडिशुद्ध्यादि पूर्वकम् ॥ १०३ ॥

सर्वपापहरं श्रेष्ठं सर्वव्याधिनि वारणम् ।
शिवप्रकाशं सततं क्रमात्कैवल्यकारणम् ॥ १०४ ॥

अनेन कालव्यायामं यत्नसाध्यं च वारुणम् ।
गङ्गादितीर्थगं सर्वं प्राणायामेन सिध्यति ॥ १०५ ॥

प्। ५४०)

तद्विना चान्यगमनं भाग्यहीनाय सम्भवेत् ।
तस्मात्सर्वप्रयत्नेन प्राणायामं चरेद्गुरुः ॥ १०६ ॥

निश्शब्दे निर्जने चैव जलधेरन्यदेशके ।
शीतातप विनिर्मुक्ते महापातकवर्जिते ॥ १०७ ॥

मत्कुणस्त्रीपिपील्यादिमशकादि विवर्जिते ।
कृतघ्नाः क्रोधिनश्चैव गुर्वाज्ञा लङ्घिनस्तदा ॥ १०८ ॥

अन्त्यजानां च निलये योगाभ्यासं न कारयेत् ।
शौचमाचमनं कृत्वा प्रातरुत्थाय संयतः ॥ १०९ ॥

वारुणाग्नेय वायव्यं माहेन्द्रं मानसं तथा ।
प्रत्येकं विविधं स्नानं योगिनां च विशेषतः ॥ ११० ॥

प्। ५४१)

मन्त्रस्नानमथैकं तु सर्वपापनिकृन्तनम् ।
पूर्वमेवं प्रकारं तु प्रोक्तमन्यत्तदुच्यते ॥ १११ ॥

गुरुपादजलेनैव तत्स्नानं वारुणं भवेत् ।
आग्नेयं भस्मनारक्षः वायव्यं प्राणायामकम् ॥ ११२ ॥

माहेन्द्रममृतं स्नानं मानसं योगदर्शनम् ।
चेलाजिनकुशैश्चैव मृदासन कृतं भवेत् ॥ ११३ ॥

शिरोर्ध्वे गुरुपद्मं च पूजयेन्नन्दिकेश्वर ।
तत्कर्णिकायामाग्नेय दले विघ्नेश्वरं यजेत् ॥ ११४ ॥

पूर्वाननोदगास्यो वा चक्षुर्देहासनस्थितः ।
समग्रीवशिरःकायो दन्तैर्दन्तान्न संस्पृशेत् ॥ ११५ ॥

प्। ५४२)

नासाग्रगतदृष्टिश्च तत्रस्थं शशिमण्डलम् ।
बिन्दुमध्यगतं चैव निष्यन्दत्सुधयान्वितम् ॥ ११६ ॥

विलोकयेत्तदत्रैव नेत्राभ्यां सुसमाहितः ।
अग्निबीजं तु संस्मृत्य सव्यनासापुटान्तरे ॥ ११७ ॥

पुरयेद्वायुना सम्यक् पादाङ्गुष्ठ शिरोदिकम् ।
वामनासापुटेनैव पूरयेत्पूर्ववद्बुधः ॥ ११८ ॥

रेचयेत्सव्यकेनैवमभ्यसेदेवमेव तु ।
पञ्चषट्सप्तसङ्ख्याकैः कनिष्ठं मध्यमोत्तमम् ॥ ११९ ॥

अर्धं चापि तदर्धं वा नित्यमेवं समभ्यसेत् ।
प्राणायामः समभत् नाडीशोधन मुच्यते ॥ १२० ॥

प्। ५४३)

त्रिसन्ध्यमेव जठराद् ऊर्ध्वमग्नेश्च वर्धनम् ।
शरीर संयुतं चैव नादाभिव्यक्ति जिह्वकम् ॥ १२१ ॥

सासमर्तस्य संसिद्धिर्वत्सार तु चतुष्टयात् ।
यावदेतानि चिह्नानि सम्पश्येत्तावदाचरेत् ॥ १२२ ॥

नाडीशुद्धिरियं प्रोक्ता प्राणायाममनन्तरम् ।
प्रासादेन तु मन्त्रेण प्रणवेन तथैव च ॥ १२३ ॥

प्राणायामावरूढं च हृदये जप्यनेक्षरम् ।
न तत्र लक्षणं विद्यात् सदा सर्वेषु वर्तते ॥ १२४ ॥

पूर्वं षोडशमात्रं तु पूरयेदुदयं बुधः ।
चतुष्षष्टिमात्रकं कुम्भं पूर्णकुम्भं तथा भवेत् ॥ १२५ ॥

प्। ५४४)

रेचयेदूर्ध्ववायुः च द्वात्रिंशन्मात्रया ततः ।
षोडशप्राणायामं तु नित्यमेव तु चाभ्यसेत् ॥ १२६ ॥

उत्तमं मध्यमं चैव मधमं च तथैव च ।
अधमं द्वादशोद्घातं चतुर्विंशतिमध्यमम् ॥ १२७ ॥

षट्त्रिंशदुत्तमं प्राहुः शीक्षायामस्य लक्षणम् ।
धारणा द्वादशायामं ध्यानं द्वादशधारणम् ॥ १२८ ॥

ध्यानं द्वादशकं यावत् समाधिरभिधीयते ।
रेचकं सर्वथा त्यज्य पूरकं कुम्भके न्यसेत् ॥ १२९ ॥

रेच्यारेच्यामशक्तश्चेत् प्राणायामं चरेत्क्रमात् ।
कम्पनं चैव भ्रमणं भ्रमणं चाप्लुतिं तथा ॥ १३० ॥

प्। ५४५)

कायस्थितिमवाप्नोति प्राणस्थितिमवाप्नुयात् ।
चित्तस्थितिमवाप्नोति चित्तशुद्धिमवाप्नुयात् ॥ १३१ ॥

ततः सम्पीडितं वायुं नासाग्रेण विरेचयेत् ।
उत्कृष्योत्कृष्य योगेन श्रान्तः श्रान्तः पुनः पुनः ॥ १३२ ॥

त्रिरुद्घातप्रयोगेन नश्यन्तिगुदकीलकाः ।
स्थूलस्थं वा त्रिदेशं वा कृत्वा योगी समाहितः ॥ १३३ ॥

निम्नप्रदेशशिरसा निर्हरेद्गुदकीलकान् ।
लिङ्गोत्थान्कलशान्घोरान्सर्वदेह गतांस्तथा ॥ १३४ ॥

सर्वाङ्गधारणायोगाद् अपकर्षापयोगवित् ।
योगनिद्रां समाश्रित्य दृष्टादृष्टं लिपौ स्वपेत् ॥ १३५ ॥

प्। ५४६)

यद्यत्पश्यति युक्तात्मा तत्सर्वं तस्य जायते ।
स्वप्नेऽपि योगयुक्तस्य योगनिद्राप्रभावतः ॥ १३६ ॥

अभ्यर्थितोस्यकेनापि स्वयं वा सन्ध्ययान्वितः ।
विधानमेतत्कुर्वीत सत्यमेतन्मयोदितम् ॥ १३७ ॥

मनोविषय सम्बद्धं तत्तत्सम्यक्समाचरेत् ।
नित्यं षोडश सन्ध्यायां मासमात्रं समभ्यसेत् ॥ १३८ ॥

क * भ्रूणहनात् पापात्प्रमुच्येत न संशयः ।
जन्मान्तरकृतं पापं षण्मासाच्च पुनाति सः ॥ १३९ ॥

संवत्सरसमभ्यासात् शिवज्ञानं करे स्थितम् ।
योगाभ्यासाच्च सततं प्राणानां संयमो भवेत् ॥ १४० ॥

प्। ५४७)

तेन मानसनाशः स्यान् मुक्तिस्तस्य करे स्थिता ।
अन्तराकर्षणं वायोः बाह्ये तत्पूर्वकं भवेत् ॥ १४१ ॥

रेचकं तद्भवेन्नन्दिन् क्रमादेवं भवेद्धि वै ।
स्वेदः कम्पश्च पुलक आनन्दानामनन्तरम् ॥ १४२ ॥

उत्तानमुत्तमं तस्मादुत्तमं भवति ध्रुवम् ।
लयात्प्राणस्य मेधापि सुखी च भवति क्षणात् ॥ १४३ ॥

प्राणान्नाशात्समुत्तिष्ठेदासनेन सहैव तु ।
निश्वोच्छ्वासरूपस्य हंसरूपस्य मध्यतः ॥ १४४ ॥

मध्यबीजस्यनयनाच्छिवानन्दमयं भवेत् ।
प्राणस्य लयनादेव कुम्भके न भवेत्पुनः ॥ १४५ ॥

प्। ५४८)

वायोरापूरणं चैव रेचकं च तथैव च ।
उभौ विसृज्य योगे तु वायोर्धारणमुत्तमम् ॥ १४६ ॥

प्राणायामश्च * * * * * * * * * * *
सर्वं विरेच्य चापूर्य पश्चात्कुम्भकसंयुतः ॥ १४७ ॥

सहितं वा केवलं वापि कुम्भकं नित्यमभ्यसेत् ।
यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ १४८ ॥

अभ्यासात्कुम्भके सिद्धे रेचपूरकवर्जिते ।
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ १४९ ॥

मनोजवत्वसंसिद्धिर्नालं लीलशिरोरुहः ।
न जरा पित्रिषा तस्य वैजयन्ती न दृश्यते ॥ १५० ॥

प्। ५४९)

नादस्योत्पत्तिजनकं कुम्भकेन समन्वितः ।

प्राणसं * * * *

एष प्राणजयोपायः सर्वमृत्युनिवारकः ॥ १५१ ॥

उदरं वायुनापूर्य नासाग्रे नाभिमध्यमे ।
पाद्यङ्गुष्ठद्वयोर्वापि प्राणवायोश्च धारणा ॥ १५२ ॥

अशेषव्याधिनिर्मुक्तो जीवेन्निर्मलमानसः ।
पवनस्य जयोपायो नासाग्रालोकनं भवेत् ॥ १५३ ॥

नाभिमध्यस्थितो वायुर्नासाग्रे नाभिमध्यमे ।
नाभिमध्यस्थितो वायुर्व्याधिनाशाय वै भवेत् ॥ १५४ ॥

अङ्गुष्ठयोश्च धारणाद्देहलाघवमुत्तमम् ।
द्विजचञ्चपुटेनैव वायुनालम्बितः शनैः ॥ १५५ ॥

प्। ५५०)

श्रमदाहादयो न स्युः तस्य कायः स्थिरो भवेत् ।
अगस्त्योदय काले तु राजदन्तद्वयान्तरात् ॥ १५६ ॥

वायोः पानं च कुरुते ऋतुद्वन्द्वाच्च वाक्पतिः ।
ऋतुद्वयेन रोगाश्च नाशं यान्ति न संशयः ॥ १५७ ॥

आनीय जिह्वया मूले वायुं तन्मूलरोधनात् ।
अमृतं यः पिबेद्योगी सर्वसिद्धिं च गच्छति ॥ १५३ ॥

चैतन्यमिद्धयानीय कोदण्डद्वयमध्यमे ।
तस्मिन्नमृतपानेन सर्वव्याधिहरं परम् ॥ १५९ ॥

नाडीद्वयेन वा कृष्य ! वायुं नाभौ च जाठरे ।
पार्श्वे च घटिकामात्रधारणान्मासमात्रकम् ॥ १६० ॥

प्। ५५१)

दृढगात्रो विशुद्धात्मा व्याधिभिः सोऽपि मुच्यते ।
एकमासं त्रिसन्ध्यायां मारुतं जिह्वया पिबेत् ॥ १६१ ॥

सुधामयं यस्तु देवं नाभौ तत्पार्श्वयोरपि ।
गुल्माष्ठीलप्लहाद्यादि गात्रवि * र्शनानि च ॥ १६२ ॥

जठरान्तस्थरोगा ये ते सर्वे यान्ति नाशनम् ।
विषज्वरोपमृत्युश्च ते सर्वे यान्ति नाशनम् ॥ १६३ ॥

करालश्चालिसङ्काशो नेत्रं च गरुडोपमम् ।
अभ्यासादेव तत्सर्वं वायोर्विजयमेव हि ॥ १६४ ॥

स्वस्तिकासनमारूढः समाहितमनास्तथा ।
इन्द्रियाणि वशीकृत्य विषयेभ्यो निवर्त्य च ॥ १६५ ॥

प्। ५५२)

उद्ग्रीव प्राणायामं च गुदमुत्कृष्य सन्ततम् ।
सर्वं सकृत्समुत्सृज्य शनैः कम्पुलि मार्गकम् ॥ १६६ ॥

सङ्कोचयति तद्वक्तुः पूर्ववत्प्रणवेन तु ।
कारणाग्निकराभ्यां च बन्धयेदङ्गुलीयकैः ॥ १६७ ॥

प्रच्छाद्य धारयेद्यावद् दानस्य चोदयावधि ।
मूर्ध्नि चैव विशेषेण प्राणसंयमनं परम् ॥ १६८ ॥

सुषुम्नायां ब्रह्मरन्ध्रे प्राणवायोर्गतिर्भवेत् ।
तेन नादोद्भवश्चैव शुद्धस्फटिकनिर्मलः ॥ १६९ ॥

वीणादण्डवदामूर्ध्नो नादस्य द्युति विद्यते ।
आदौ शङ्खध्वनिर्मध्ये मेघध्वनिनिरन्तरम् ॥ १७० ॥

प्। ५५३)

व्योमरन्ध्रगतः पश्चाद् निर्जराणां वरो भवेत् ।
सोमरन्ध्रगते वायौ नित्यचैतन्यके स्थिते ॥ १७१ ॥

सततानन्दसंयुक्तः तेन वायुर्जितो भवेत् ।
प्राणायामरतः शुद्धो रेचपूरकवर्जितः ॥ १७२ ॥

वामगुल्फेन सम्पीड्य सवनी च सिरामयः ।
वृषणस्य द्वयोरेव सर्वोपरि च दक्षिणम् ॥ १७३ ॥

जङ्घोर्वोरन्तरे नन्दिन् दूतनिच्छिद्रकं भवेत् ।

नेत्राभ्यां सव्यगुल्फं च निरक्षोपरि संस्थितम् ।
मन्त्राभि प्रणवेनैव नादं पूर्णं समुच्चरेत् ॥ १७५ ॥

प्। ५५४)

हस्तदीपिलया तुल्योप्यासनेऽयं विशेषतः ।
वपुषो लाघवं चैव जठराग्नि विवर्धनम् ॥ १७६ ॥

दृष्टचिह्नस्ततो भूत्वा सुषुम्ना नाडिमध्यमे ।
रोधयेन्मारुतं पश्चान् मनोलयमुपैति वै ॥ १७७ ॥

नाडीप्रसृतिमध्ये च मिताशनमतस्तदा ।
अनेनैव तु मध्यस्था वायुधारणतः क्रमात् ॥ १७८ ॥

कुण्डलिन्याः प्रतप्तिःस्यात्पवनाद्युक्तवह्निना ।
स्वस्थानात्पतितो भूत्वा प्रसार्य फणभृत्तनुम् ॥ १७९ ॥

प्रबोधं याति सहसा नाभिमूले तु चक्रिणी ।
ब्रह्मरन्ध्रे सुषुम्नायाः प्राणायामश्च गच्छति ॥ १८० ॥

प्। ५५५)

तदन्तरासं मनसा तारमुच्चार्य धारयेत् ।
हृत्प्रदेशे पुनः कर्णे भ्रमे वायौ च धारयेत् ॥ १८१ ॥

क्रमात्तस्मात्समानीय प्राणाग्निम्मनसा सह ।
सहसैव समुच्चार्य धारयेन्नन्दिकेश्वर ॥ १८२ ॥

तत्रव्योति मरुत्पूर्णे सर्वाङ्गे च समन्वितः ।
आत्मभाविततात्तत्र गगने सूर्यबिम्बवत् ॥ १८३ ॥

उत्क्रान्त्युत्कृतबुद्धिश्च सम्यग्योगं समभ्यसेत् ।
प्रासादेन च दीर्घेण नासाग्रे तं समुच्चरेत् ॥ १८४ ॥

विभित्य मनसा मूर्ध्नि ब्रह्मरन्ध्रेण योगवित् ।
समुच्चरेत्प्रणवांश्च महाप्राणश्च मध्यमे ॥ १८५ ॥

प्। ५५६)

गात्रातीते जगत्प्राणे नित्यानन्दमये शिवे ।
स्वात्मानं योजयेत्तत्र पुनर्जन्म न विद्यते ॥ १८६ ॥

प्राणायामं च योगच्छेत् काले काले विशेषतः ।
सर्वपापात्प्रशमने प्राणायाम समो नहि ॥ १८७ ॥

आहुतिर्याततस्सेयं प्रत्याहारमुदीरयेत् ।
शब्दादिविषयादिभ्यो बलादाहरणं भवेत् ॥ १८८ ॥

स एव प्रत्याहृतस्तेभ्यस्तदानीं स विमुच्यते ।
योग्यं पश्यति यत्सर्वं तत्सर्वं चात्मनि क्रमात् ॥ १८९ ॥

प्रत्याहारः पुनश्चैव नित्यकर्मक्रियाश्च वै ।
स्वस्मिन्नेव च यः पश्येत्तदनुष्ठानकं भवेत् ॥ १९० ॥

प्। ५५७)

बहिर्विना च मनसा प्रत्याहारं च सो भवेत् ।
योगेषु च चतुष्केषु शिवयोगं प्रधानकम् ॥ १९१ ॥

कर्माष्टादशकेष्वेव स्थानात्स्थानाच्च संहृतिः ।
प्रत्याहारस्ततस्तेषाम् एवं प्रोक्तं चतुर्विधम् ॥ १९२ ॥

अष्टादशानां मर्माणां स्थानं च क्रमतः शृणु ।
प्रसार्य चरणाङ्गुष्ठौ द्वितीया गुल्फकौ भवेत् ॥ १९३ ॥

जङ्घामध्ये तृतीयं स्याच्चतुर्थं चिन्त्यमूलकम्
पञ्चमञ्जानुयुगलम् ऊर्वोर्द्वन्द्वमतः परम् ॥ १९४ ॥

सप्तमं च मयोर्मूलम् अष्टमं पादमूलकम् ।
मूलाधारं तु नवमम् अधिष्ठानं ततः परम् ॥ १९५ ॥

प्। ५५८)

एकादशं तु * * * * * * यं द्वादशं भवेत् ।
त्रयोदश विशुद्धिः स्यात् तालुमूलं चतुर्दश ॥ १९६ ॥

नयने षोडशं चाल्लि * * * * * मध्यमे ।
ललाटं सप्तदशकं मूर्धाचाष्टादश स्मृतः ॥ १९७ ॥

मर्मस्वष्टादशस्वेषु स्थानानि च क्रमाच्छृणु ।
सार्धाङ्गुलं चतुष्कं च अङ्गुष्ठद्वयमानकम् ॥ १९८ ॥

तथैव गुल्फमानं स्याज्जङ्घामध्यं दशाङ्गुलम् ।
जङ्घामस्यस्थितेर्मूलं रुद्राङ्गुलमिति स्मृतम् ॥ १९९ ॥

अङ्गुलीद्वयसंयुक्तः तस्माज्जान्वोश्च मानकम् ।

प्। ५५९)

ऊरुमध्यात्ततो नन्दिन् गुरुमूलं नवाङ्गुलम् ।
सार्धद्व्यङ्गुलकं प्रोक्तं मूलाधारं हि मध्यमम् ॥ २०१ ॥

तदूर्ध्वं मेढ्रदेशं तु सार्धद्व्यङ्गुल संयुतम् ।
मेढ्रान्नाभिं विजानीयात् पुनस्सार्धदशाङ्गुलम् ॥ २०२ ॥

चतुर्दशाङ्गुलं नाभेर्हृन्मध्यौ नन्दिकेश्वर ।
षष्ठाङ्गुलं तु तन्मध्यात् कण्ठकूपान्तमानकम् ॥ २०३ ॥

कण्ठादुपरि जिह्वायां मूलं तु चतुरङ्गुलम् ।
नासामूलं तु जिह्वायां मूलात्तु चतुरङ्गुलम् ॥ २०४ ॥

नेत्रस्थानं तु तन्मूलादर्धाङ्गुलमितं भवेत् ।
कोदण्डद्वयमध्यं तु अर्काङ्गुलमिति क्रमात् ॥ २०५ ॥

प्। ५६०)

गुणाङ्गुलं तदूर्ध्वं स्याल्ललाटं नन्दिकेश्वर ।
ललाटाद्ब्रह्मरन्ध्रं तु गुणाङ्गुलमितीरितम् ॥ २०६ ॥

एषु स्थानेषु मनसा वायुसंसृतिमभ्यसेत् ।
स्थानात्स्थानात्समाहृत्य प्रत्याहं समभ्यसेत् ॥ २०७ ॥

नाशं गच्छन्ति रोगाश्च योगं गच्छन्ति योगिनः ।
प्रत्याहारं पुनर्वक्ष्ये शृणु त्वन्नन्दिकेश्वर ॥ २०८ ॥

अङ्गुष्ठान्मूर्धपर्यन्तं वायुना पूर्णकुम्भवत् ।
मारुतं धारयन्नासा प्राणायामप्रवेदनात् ॥ २०९ ॥

व्योमरन्ध्रात्समाकृष्य ललाटान्तमधो नयेत् ।
ललाटाच्च भ्रुवोर्मध्ये रोधयेन्नन्दिकेश्वर ॥ २१० ॥

प्। ५६१)

एवमादि दशस्थाने स्थाने स्थानेऽपि रोधयेत् ।
अङ्गुष्ठावधिकश्चैव पादयोस्तन्निरोधयेत् ॥ २११ ॥

स्थानात्स्थानात्समाकृष्य धारयेत्सु समाहितः ।
एवं तु प्रत्याहारं च कुर्वतोऽस्य मनीषिणः ॥ २१२ ॥

आचन्द्रतारकं दाहेत् जीवेत्पाशाङ्कुशं हृतम् ।
नाडीभ्यां वायुमापूर्य कुण्डलिन्यास्तु पार्श्वयोः ॥ २१३ ॥

युगपद्धारयेद्यागी संसारात्तु प्रमुच्यते ।
हृदये चैव मापूर्य धारयेन्नन्दिकेश्वर ॥ २१४ ॥

परमानन्दसद्भावं तस्य वै हि प्रकाशयेत् ।
किं पुनस्तस्य रोगस्य नाशं गच्छति तत्क्षणात् ॥ २१५ ॥

प्। ५६२)

नासाभ्यां वायुमारोप्य पूरयित्वोदर स्थितम् ।
भ्रुवोः कोदण्डमध्यात्तु स्तनद्वन्द्वादनन्तरम् ॥ २१६ ॥

आरोप्य धारयेद्योगी क्रमाद्याति पराङ्गतिम् ।
भ्रूमध्यान्तं समारोप्य चात्मनः प्राणमारुतम् ॥ २१७ ॥

सुषुम्नारन्ध्रगं यावन् मनोलयमुपैति वै ।
तावदेवं प्रकुर्वीत विधिनान्नन्दिकेश्वर ॥ २१८ ॥

ज्ञानदेशेन संयोगं तस्य धारणमुच्यते ।
पञ्चप्रकारमेवं तु तदिदानीं शृणुष्वथ ॥ २१९ ॥

यमादिगुण युक्तस्य स्वस्मिंश्च मनसः स्थितिः ।
धारणेति तथा प्रोक्ता नाभिदेशे समाश्रिता ॥ २२० ॥

प्। ५६३)

हृदयाकाशमध्ये तु बहिराकाशधारिणम् ।
अथवा पृथिवी तत्वं पादादाजानु संस्थितम् ॥ २२१ ॥

जान्वादि पायुपर्यन्तं जलतत्वं व्यवस्थितम् ।
पायुस्थानं समारभ्य हृदन्तं वह्निसंयुतम् ॥ २२२ ॥

अनाहतात्समारभ्य कोदण्डद्वयमध्यगम् ।
वायुतत्वमिति प्रोक्तं तस्मादूर्ध्वान्तमम्बरम् ॥ २२३ ॥

कारणानां च पापानां कलानां पञ्चकं तथा ।
अध्वनां च विशेषेण भूतशुद्धिः क्रमाद्भवेत् ॥ २२४ ॥

पादादिमूर्धपर्यन्तं ब्रह्मनाडीं सुसंस्मरेत् ।
पीतंश्वेतं तथा रक्तं वज्रसन्निभमेव च ॥ २२५ ॥

प्। ५६४)

शुद्धस्फटिकसङ्काशं पञ्चस्थाने पृथक् पृथक् ।
तेजोघनं बोधरूपं कारणानां च पञ्चकम् ॥ २२६ ॥

एवं ध्यात्वा क्रमाद्योगी स्थाने स्थाने तु संहरेत् ।
ब्रह्मस्थाने तु घटिकापञ्चकं धारयेत्क्रमात् ॥ २२७ ॥

तत्तेजस्सञ्चयं गृह्य विष्णुस्थाने च संहरेत् ।
विष्णुस्थाने च घटिका पञ्चकं पञ्चकं पृथक् ॥ २२८ ॥

सदाशिवान्तमाहृत्य ज्ञानस्थाने च योजयेत् ।
अन्यदेशे च कर्तव्यं तदास्यादन्यथा यदा ॥ २२९ ॥

पुत्र स्नेहि स्रवेत्क्षीरं दुःखान्ते श्रुनिपातनम् ।
कामार्थचेन्द्रिय ग्रामद्रावं ज्ञान सुखं भवेत् ॥ २३० ॥

प्। ५६५)

तस्मात्सर्व प्रयत्नेन नार्ध्वं न तु भावयेत् ।
ध्यैचिन्तायाश्च धात्वर्थेनिश्चल ज्ञानमुच्यते ॥ २३१ ॥

लक्ष्ये तु मान्सं क्षिप्तं सहमार्गे विशेषतः ।
शब्दः स्पर्शश्च रूपं च रसोगन्धःषडिन्द्रियम् ॥ २३२ ॥

स्वस्थाने निलयं पश्येत्समानं धनमोचनम् ।
मृतं चामरदेहत्वं गुरुतेजस्सतारकम् ॥ २३३ ॥

मासैस्सर्वप्रयत्नेन षड्भिर्द्वन्द्वविवर्जितः ।
पश्चादानन्दसम्प्राप्तिर्वेदशास्त्राणि विन्दति ॥ २३४ ॥

इत्यचिन्त्यविश्वसादाख्ये अष्टाङ्गयोग विधिरष्टाविंशतिः पटलः ॥