२६

योगदीक्षां प्रवक्ष्यामि शृणुत्वन्नन्दिकेश्वर ।
युजियोग इति धात्वर्थे यज्जीवश्शिवयोरपि ॥ १ ॥

संश्लेषो योग इत्युक्तः सहमार्ग इति स्फुटम् ।
असद्भाव क्षयत्वं च ज्ञानसद्भावभावकम् ॥ २ ॥

शिवतत्वेति संयोगो योगदीक्षेति कथ्यते ।
मण्डलं मण्डपं कुण्डं कुम्भं देवार्चनादिकम् ॥ ३ ॥

प्। ४९८)

पूर्वोक्तगुणसंयुक्तं यमैर्नियमिभिर्गतम् ।
अत्यन्त इव सम्प्राप्तवाञ्चायुक्त मलोलुपम् ॥ ४ ॥

एवं विधगुणैर्युक्तं दीक्षयेच्छिष्यमुत्तमम् ।
मन्त्रदीपात्ततृप्तादि पूर्ववन्नन्दिकेश्वर ॥ ५ ॥

अग्निकार्यं तु तत्सर्वं पूर्वोक्तविधिना चरेत् ।
वागीश्वरीं च वागीशं पूर्ववत्पूजयेद्गुरुः ॥ ६ ॥

शिष्य वक्षसि पुष्पेण भेदनादि च पूर्ववत् ।
गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् ॥ ७ ॥

ततः शिष्यस्य देहेऽपि दशनाडीश्च चिन्तयेत् ।
इडा च पिङ्गला चैव सुषुम्ना च तथा भवेत् ॥ ८ ॥

प्। ४९९)

गन्धारी सप्तजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥ ९ ॥

प्राणादिवायवश्चैव चतुर्दश समन्विताः ।
प्राणश्च प्रथमो वायुरपानो व्यान एव च ॥ १० ॥

उदानश्च समानश्च नागः कुर्मञ्च सप्तमः ।
कृकरो देवदत्तश्च धनञ्जय इतीरितः ॥ ११ ॥

वैवन्तो मुख्यकश्चैव अन्तर्यामि प्रपञ्चकम् ।
एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी ॥ १२ ॥

तासु नाडिषु सर्वासु वायवो।पि चरन्ति च ।
स्वस्वस्थाने तु नाडीनां वायूनां स्थापनं भवेत् ॥ १३ ॥

प्। ५००)

प्रणवेन च शक्त्या च शतबीजजपादिभिः ।
स्थापयेत्पूजयेद् ध्यात्वा शिवरूपं च भावयेत् ॥ १४ ॥

नाडीनां च त्रयो मुख्याः सुषुम्नेडा च पिङ्गला ।
तासामपि सुषुम्नायां मुख्यत्वं च प्रकीर्तितम् ॥ १५ ॥

तन्मध्ये ब्रह्मनाडीति शिवशक्त्यालयं परम् ।
मूलाधारं समारभ्य ब्रह्मरन्ध्रावसानकम् ॥ १६ ॥

अस्य स्थितश्च विज्ञेयो नवधारोपलक्षिताः ।
गुदं मेढ्रान्तरं चैव लीनमूलमनन्तरम् ॥ १७ ॥

ततश्च हृदयं पश्चात् कर्णमूलमनन्तरम् ।
तालुमूलं च कोदण्डद्वयोर्मध्यमनन्तरम् ॥ १८ ॥

प्। ५०१)

ललाटं ब्रह्मरन्ध्रं च नवाधारा इतीरिताः ।
मूलाधारं चतुष्पत्रं तदूर्ध्वं षड्दलं भवेत् ॥ १९ ॥

अष्टपत्रं ततस्तस्मादनाहतमितीरितम् ।
कण्ठं च द्वादशं प्रोक्तं षोडशं तालुमूलकम् ॥ २० ॥

तद्वल्ललाट भ्रूमध्यं शिवस्थानमनन्तरम् ।
षष्ट्युत्तरत्रिशतकं वर्णभेदात्क्रमात्स्मरेत् ॥ २१ ॥

हेमाभं स्फटिकाभं च वह्निरूपमनन्तरम् ।
तरुणादित्यसङ्काशं भास्वरद्युतिसन्निभम् ॥ २२ ॥

सर्वतेजोमयं पश्चान् मनोवाचामगोचरम् ।
एषु स्थानेषु ब्रह्माद्यान् कारणांश्च प्रकल्पयेत् ॥ २३ ॥

प्। ५०२)

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
क्रियाशक्ति ज्ञानशक्तिरिच्छाशक्तिः शिव परम् ॥ २४ ॥

वह्निसूर्येन्दुबिम्बानां स्थानं तत्रैव भावयेत् ।
वह्निमण्डलकं नाभौ हृदये सूर्यमण्डलम् ॥ २५ ॥

कोदण्डद्वयमध्ये च चन्द्रमण्डलमीरितम् ।
क्रियाशक्तौ च बिन्दुश्च ज्ञानशक्तौ तु नादकम् ॥ २६ ॥

इच्छाशक्तौ कलाप्रोक्ता तत्रैव परमामृतम् ।
तदूर्ध्वं तु शिवस्थाने चानन्दामृतमुत्तमम् ॥ २७ ॥

एवं ध्यात्वा तु तन्मध्ये मन्त्राणां नवकं स्मरेत् ।
अर्ध्यतोयेन सम्प्रोक्ष्य शिष्यदेहे तु देशिकः ॥ २८ ॥

प्। ५०३)

कुण्डस्थ वह्नि ज्वलनं वायुना च यथा भवेत् ।
तद्वदाधारदेशस्थं तत्तन्मन्त्रमुदीरयेत् ॥ २९ ॥

मूलाधारे च तारं च मरालं शक्तिशम्भुयुक् ।
नवदर्भाग्रकोणैव नववारं जपेत्क्रमात् ॥ ३० ॥

बिन्दुनादकलायुक्तं ब्रह्मरन्ध्रावसानकम् ।
बिसतन्तुनिभज्योतिरुच्चरेद्देशिकोत्तमः ॥ ३१ ॥

ज्वलद्दीपशिखाकारं मन्त्ररूपं विभावयेत् ।
अन्योन्यं विद्युदुद्योतं सूत्रसूत्रोपरि स्थितम् ॥ ३२ ॥

मूलाधारमिदं चोद्यत् स्वाधिष्ठानमनन्तरम् ।
शिवतन्त्रं समुच्चार्य देवदेवं तु पूजयेत् ॥ ३३ ॥

प्। ५०४)

कर्णमूले क्रियाशक्तिं भृगुं च मनुयुक्स्वरः ।
चन्द्रखण्डद्वयं चैव मन्त्रोच्चारणदीपनम् ॥ ३४ ॥

भौतिकं बिन्दुसंयुक्तं क्रोशं पार्थिवेन तु ।
महामायां च संयोज्य बीजद्वयमुदीरितम् ॥ ३५ ॥

इन्द्राग्निसूर्यसङ्काशं भावयेद्देशिकोत्तमः ।
तस्मादारभ्यकोदण्डयुग्ममध्यं तु भावयेत् ॥ ३६ ॥

सूर्यं चाग्निसमप्रख्यं ज्ञानबिम्बे तु भावयेत् ।
ज्ञानबिम्बाच्च तस्मात्तु चन्द्रपिण्डामतः परम् ॥ ३७ ॥

पूर्वं वह्निं च सूर्येन्दू भावयेज्ज्योतिरुत्तमम् ।
शिवबीजं शिवस्थाने भावयेन्नन्दिकेश्वर ॥ ३८ ॥

प्। ५०५)

एवं ध्यात्वा च सम्पूज्य स्वस्मिन्पूज्य च शिष्यके ।
पूजयित्वा विधानेन सूत्रविन्यासमाचरेत् ॥ ३९ ॥

शिखादीपं च सूत्राणां परिमाणं च भावयेत् ।
चुबुकान्तं हृदान्तं च नाभ्यन्तं विष्णुदेशकम् ॥ ४० ॥

मूलाधारगतं चैव पञ्चसूत्राणि विन्यसेत् ।
एवं पञ्चविधं सूत्रं शिष्यस्य शिखयान्वितम् ॥ ४१ ॥

श्रोत्रत्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पञ्चकम् ।
वाक्पाणिपादौ पायुश्च वराङ्गमिति पञ्चकम् ॥ ४२ ॥

शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ।
वचनादानगमनं विसर्गानन्दपञ्चकम् ॥ ४३ ॥

प्। ५०६)

तत्वानां विंशतिं चैव मुखसूत्रे तु विन्यसेत् ।
हृत्सूत्रे तु मनोबुद्धिरहङ्कारत्रयं न्यसेत् ॥ ४४ ॥

चित्तं च रागो मायां च कलान्तन्नाभिसूत्रके ।
विद्यां च नियतिं कालं सदधिष्टान सूत्रके ॥ ४५ ॥

शुद्धमाया शुद्धकला द्वादशं भावयेत्क्रमात् ।
प्रोक्षणं ताडनं चैव हेतिना च विशेषतः ॥ ४६ ॥

सम्प्रविश्य च हुङ्कार युक्तरेचकयोगतः ।
अजपां तस्य चैतन्यविश्लेषं पूर्ववद्भवेत् ॥ ४७ ॥

संहारमुद्रया सूत्रे मुखे चैव नियोजयेत् ।
ॐ हां हं हां स्वात्मने नमः ॥ ४८ ॥

प्। ५०७)

व्यापकं रक्षणं चैव सन्निधानाहुतिं तथा ।
निवृत्यालोकनं चैव पूजनं पूर्ववच्चरेत् ॥ ४९ ॥

एवमन्येषु सूत्रेषु नाडीभूमेषु योजयेत् ।
शिष्यचैतन्यमाकृष्य स्वात्मन्येव नियोजयेत् ॥ ५० ॥

पूर्ववत्पिड संयोगं भावयेन्नन्दिकेश्वर ।
गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् ॥ ५१ ॥

ततो विसृज्य वागीशीं वागीशं च तथैव च ।
विमलासनमावाह्य पूजयित्वा विधानतः ॥ ५२ ॥

तस्मै शुक्लाय वैदद्यात् श्रोत्राद्यानन्दनावधि ।
तारं च शक्तिमुपगं ब्रह्मानन्दैकमुच्चरेत् ॥ ५३ ॥

प्। ५०८)

ततस्तत्वं च सोहं च शिरसा च भजेत्क्रमात् ।
ॐ ह्रीं हंसः ब्रह्मणे श्रोत्रं सोहं स्वाहा ॥ ५४ ॥

ॐ ह्रीं हंसः ब्रह्मणे जिह्वा सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे घ्राणं सोहं स्वाहा ॥ ५५ ॥

ॐ ह्रीं हंसः ब्रह्मणे वाचि सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे पाणिं सोहं स्वाहा ॥ ५६ ॥

ॐ ह्रीं हंसः ब्रह्मणे पादं सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे पायुं सोहं स्वाहा ॥ ५७ ॥

ॐ ह्रीं हंसः ब्रह्मणे उपस्थं सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे शब्दं सोहं स्वाहा ॥ ५८ ॥

प्। ५०९)

ॐ ह्रीं हंसः ब्रह्मणे स्पर्शं सोऽहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे रूपं सोहं स्वाहा ॥ ५९ ॥

ॐ ह्रीं हंसः ब्रह्मणे रसं सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे गन्धं सोहं स्वाहा ॥ ६० ॥

ॐ ह्रीं हंसः ब्रह्मणे वचनं सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे आदानं सोहं स्वाहा ॥ ६१ ॥

ॐ ह्रीं हंसः ब्रह्मणे गमनं सोहं स्वाहा ।
ॐ ह्रीं हंसः ब्रह्मणे विसर्गं सोहं स्वाहा ॥ ६२ ॥

ॐ ह्रीं हंसः ब्रह्मणे आनन्दं सोहं स्वाहा ।
एतैर्विंशतिभिर्मन्त्रैर्ब्रह्मशुक्लं निवेदनम् ॥ ६३ ॥

प्। ५१०)

निश्शेषदग्धपाशस्य ब्राह्मणस्य शिशोःस्वाहा ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ६४ ॥

मुखसूत्रं समादाय वर्तुलीकृत्य पूर्ववत् ।
आज्यपूर्णस्रवे दत्वा चास्त्रमन्त्रेण होमयेत् ॥ ६५ ॥

कुम्भस्थ सव्यनाड्या च ब्रह्माणं विसृजेत्तदा ।
मूलाधारे च संस्थाप्य पूजयेन्नन्दिकेश्वर ॥ ६६ ॥

विष्णो तवाधिकारेण मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूल्येन विष्णुं विज्ञापयेदिति ॥ ६७ ॥

विष्णुशुक्लं ततः कुर्यान् मनोबुद्धिरहङ्कृतम् ।
पूज्य मन्त्रं च तारं च द्विरुच्चार्याथ होमयेत् ॥ ६८ ॥

प्। ५११)

ॐ ह्रीं हंसः विष्णवे मनः सोहं स्वाहा ।
ॐ ह्रीं हंसः विष्णवे बुद्धिस्सोहं स्वाहा ॥ ६९ ॥

ॐ ह्रीं हंसः विष्णवे अहङ्कारं सोहं स्वाहा ।
एवं शिष्यं च दद्यात्तु गोविन्दं विसृजेत्तदा ॥ ७० ॥

अधिष्ठाने तमावाह्य स्थापयेद्विसृजेत्क्रमात् ।
हृदन्तसूत्रमानीय वर्तुलीकृत्य पूर्ववत् ॥ ७१ ॥

घृतपूर्णसृवे दत्वा हेतिमन्त्रेण होमयेत् ।
कलङ्कपञ्चकद्व्यंशमुक्तचन्द्रनिभं शुभम् ॥ ७२ ॥

भावयेत्स्वप्यतोप्येनं सुषुप्तौ तु नियोजयेत् ।
नाभिसूत्रेण चैतन्यमर्घ्यतोयेन पूजयेत् ॥ ७३ ॥

प्। ५१२)

ताडनादिक्रमं सर्वं संस्कारान्तं तु पूर्ववत् ।
रुद्रमावाह्य सम्पूज्य स्थिरत्वादिसमन्वितम् ॥ ७४ ॥

निश्शेषदग्धपाशस्य रुद्रस्य च शोस्त्वया ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ७५ ॥

रुद्राय पूर्ववच्छल्कं भक्तियुक्तौ प्रतापयेत् ।
चित्तं च रागं मायां च कलां तत्रैव दापयेत् ॥ ७६ ॥

ॐ ह्रीं हंसः रुद्राय चित्तं सोहं स्वाहा ।
ॐ ह्रीं हंसः रुद्राय रागं सोहं स्वाहा ॥ ७७ ॥

ॐ ह्रीं हंसः रुद्राय मायां सोहं स्वाहा ।
ॐ ह्रीं हंसः रुद्राय कालं सोऽहं स्वाहा ॥ ७८ ॥

प्। ५१३)

एभिर्मन्त्रैश्च शुक्लं च दापयेद्भक्तिसंयुतः ।
मणिपूरकदेशे तु रुद्रं तं स्थापयेत्क्रमात् ॥ ७९ ॥

कलङ्कं त्र्यंशहीनं च चन्द्रबिम्बसमप्रभम् ।
सुषुप्तावणुमावाह्य पूजयेद्धृदयाणुना ॥ ८० ॥

निश्शेषदग्धपाशस्य पशोरस्य शिशोस्त्वया ।
बन्धाय न पुनःस्थेयं शिवाज्ञां श्रावयेदिति ॥ ८१ ॥

ईश्वराय पुनः शुक्लं दापयेन्नन्दिकेश्वर ।
विद्यां च नियतिं कालं पूर्ववन्मन्त्रसम्पुटम् ॥ ८२ ॥

ॐ ह्रीं हंसः ईश्वराय विद्यां सोहं स्वाहा ।
ॐ ह्रीं हंसः ईश्वराय नियतिं सोहं स्वाहा ॥ ८३ ॥

प्। ५१४)

ॐ ह्रीं हंसः ईश्वराय कालं सोहं स्वाहा ।
एतैश्शुक्लप्रदानं च कुर्याद्भक्तिसमन्वितः ॥ ८४ ॥

तस्मादीश्वरमावाह्य स्थापयेद्धृदयाम्बुजे ।
पूजयित्वा विधानेन भक्तियुक्तो जितेन्द्रियः ॥ ८५ ॥

अधिष्ठानगतं सूत्रमादायोद्धृत्य पूर्ववत् ।
आज्यपूर्णसृगग्ने तु निधायास्त्रेण होमयेत् ॥ ८६ ॥

पाशाङ्कुशनिवृत्त्यादिपूर्णाहुति विधिं चरेत् ।
कलङ्कं चतुरश्रं व हीनं चन्द्रमसाकृतिम् ॥ ८७ ॥

तुरीयं नदिते येता पर ** त्मरूपकम् ।
ताडनादि विधानं च संस्कारान्तं च पूर्ववत् ॥ ८८ ॥

प्। ५१५)

सदाशिवं तमावाह्य पूजयेद्भक्तिपूर्वकम् ।
शुद्धमायां शुद्धकलां शुक्लं दद्यात्समाहितः ॥ ८९ ॥

मूलमन्त्रेण संयोज्य पूर्व मन्त्रैश्च होमयेत् ।
ॐ ह्रीं हंसः हौं सदाशिवाय शुद्धमायां सोहं स्वाहा ॥ ९० ॥

ॐ ह्रीं हंसः हौं सदाशिवाय शुद्धकलां सोहं स्वाहा ।
एवं शुक्लप्रदानं च कर्तव्यं नन्दिकेश्वर ॥ ९१ ॥

निश्शेषदग्धपाशस्य देवस्य च शिशोस्त्वया ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ९२ ॥

विशुद्धदेहे चाबाह्य सादाख्यं तत्वमुत्तमम् ।
स्थापनं पूजनं चैव कारयेद्भक्तिसंयुतः ॥ ९३ ॥

प्। ५१६)

आधाय सूत्रमादाय वर्तुलीकृत्य पूर्ववत् ।
सृगग्रे घृतपूर्णे तु जुहुयाद्धृदयाणुना ॥ ९४ ॥

कलङ्कैरखिलैर्मुक्तं शरद्राजसमप्रभम् ।
शुद्धतेजोघनमयं चैतन्यं भावयेत्पुनः ॥ ९५ ॥

हंसमन्त्रात्समादाय प्रणवेन तु योजयेत् ।
प्रणवाच्छक्तिबीजे तु तस्मान्मूले तु योजयेत् ॥ ९६ ॥

ॐ हंसः ॐ ह्रीं हैन्याय हौम् ।
एतन्मन्त्रं समुच्चार्य मूलाधारे नियोजयेत् ॥ ९७ ॥

चिद्घने निर्मले शान्ते नित्ये सर्वविवर्जिते ।
शुद्धमात्मानमप्यस्मिन् योजयेच्छिव भावयेत् ॥ ९८ ॥

प्। ५१७)

मूलाधारं समारभ्य द्वादशान्तान्तकं स्मरेत् ।
नवात्मरूपकं मन्त्रमुच्चरेन्नादसंयुतम् ॥ ९९ ॥

नादं भृगुसमोपेतं संवर्तकमनन्तरम् ।
कालयुक्त महेन्द्रं च वारुणं वह्निसंयुतम् ॥ १०० ॥

मरुत् षष्ठस्वरोपेतं बिन्दुनादविभूषितम् ।
एतं नवाक्षरं पिण्डं हलमात्राभियोजयेत् ॥ १०१ ॥

अनेनैव तु मन्त्रेण दर्भाग्रेण सुसंस्पृशेत् ।
मूलाधारं समारभ्य द्वादशान्तविधिं स्मरेत् ॥ १०२ ॥

वत्सरूपं तं शिष्यं शिष्यन्देहं विभावयेत् ।
गन्धपुष्पादिभिः पूज्य प्राणादींश्च हि कारयेत् ॥ १०३ ॥

प्। ५१८)

अभिषेकं बहिः कृत्वा शिवोऽहं भावयेद्गुरुः ।
पुनर्गन्धादिभिः पूज्य शेषं पूर्ववदाचरेत् ॥ १०४ ॥

योगपट्टं पुनर्दद्यात् कवचेन विधानवित् ।
ज्ञानेन योगदीक्षायामधिवासो न विद्यते ॥ १०५ ॥

तस्माद्योगं च विसृजेद् गुरुपादं समर्चयेत् ।
हेमपुष्पोपहारैश्च हेमयज्ञोपवीतकैः ॥ १०६ ॥

मकुटैर्मुद्रिकाभिश्च सर्वाभरणकैरपि ।
विचित्ररत्ननिचयैर्भूमिगोरत्नभक्तिभिः ॥ १०७ ॥

षष्ठादिभिर्न वासैश्च गुरवे भक्तितो ददेत् ।
योगदीक्षासमायुक्तः शिवः साक्षान्महीतले ॥ १०८ ॥

इत्यचिन्त्यविश्वसादाख्ये (योगदीक्षा) षड्विंशतिः पटलः ॥