प्। ४९५)
समयादिति तत्वानां प्रोक्ता दीक्षा विशेषतः ।
साधारण गुणानां च शिष्याणां च विधीयते ॥ १ ॥
अतीवगुणसम्पन्नौ पतिशिष्यौ विशेषतः ।
एकतत्वं क्रियादीक्षा तस्य वै पाशमोचनम् ॥ २ ॥
यदि वा सर्वदीक्षाश्च कारयेन्नन्दिकेश्वर ।
प्रायश्चित्तार्थकत्वेऽपि देशिकस्यार्चया परा ॥ ३ ॥
मण्डपं मण्डलं कुम्भं लिङ्गार्चन मतस्तदा ।
अग्निकार्यं च चार्घ्यं च मन्त्राणां दीपनादिकम् ॥ ४ ॥
पूर्ववत्कर्म कुर्वीत देशिको भावसंयुतः ।
पूर्ववत्सूत्रबन्धं च कुर्याच्छिष्यस्य मूर्धनि ॥ ५ ॥
प्। ४९६)
कालाग्न्यादिशिवान्तं तु कल्पयेत्तत्वकं क्रमात् ।
रक्तौ संसूतसूतां वा शिवतत्वाग्रकं न्यसेत् ॥ ६ ॥
आवाहनादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
गर्भाधानादिकं कृत्वा शिवमग्नौ तु पूजयेत् ॥ ७ ॥
शिवमन्त्रेण कर्तव्यं सर्वशुक्ल निवेदनम् ।
मूलेन पूर्णां जुहुयात् तत्र प्रातोपगर्भितम् ॥ ८ ॥
पाशनिर्वाणमेवं हि शिवसायुज्य सिद्धये ।
शतमूलेन जुहुयात् स्थिरत्वात्पाशनाशने ॥ ९ ॥
मण्डलस्यावलोकं च नामाचारादि पूर्ववत् ।
शरीरमर्थं प्राणश्च सद्गुरुभ्यो निवेदयेत् ॥ १० ॥
प्। ४९७)
येन केन प्रकारेण गुरु सन्तोषणं परम् ।
एवमादि क्रियादीक्षासम्पन्नो गुणसत्तमः ॥ ११ ॥
स एव योगदीक्षायामधिकारी च नान्यथा ॥ ११ १।२ ॥
इत्यचिन्त्य विश्वसादाख्ये (योगदीक्षाधिकारः) पञ्चविंशतिः पटलः ॥