२३

प्रायश्चित्तविधाने तु पुनर्दीक्षा विधीयते ।
तेन कारणतश्चापि पूर्वोक्तगुणवर्जितः ॥ १ ॥

पुनस्तद्गुण सिध्यर्थं त्रितत्वस्यादरार्चनम् ।
एवमादिषु सिध्यर्थं त्रितत्वक्रमदीक्षयेत् ॥ २ ॥

प्। ४७४)

त्रितत्व कर्मदीक्षां च शृणुत्वं नन्दिकेश्वर ।
लिङ्गार्चनादिकं सर्वं पूर्ववत्कुरुयान्मुखम् ॥ ३ ॥

मण्डले कुम्भके चैव स्वस्मिन्नग्नौ च शिष्यके ।
सर्वत्रापि शिवं यष्ट्वा पूर्वोक्तविधिना तदा ॥ ४ ॥

आद्यविद्याक्रियान्तं तु विन्यासादिक्रमान्न्यसेत् ।
अग्नेर्मुखस्य होमं च मन्त्राणां दीपनं पुनः ॥ ५ ॥

पूर्ववत्कर्म कुर्वीत पश्चात्सूत्रावलम्बनम् ।
शिष्यस्य मूर्ध्नि शक्तिं च सम्पूज्यादाय मुद्रया ॥ ६ ॥

हौं शक्तये नम इति तत्सूत्रे योजयेत्क्रमात् ।
कवचेन्मवकुण्ठ्यैव तर्पणादि च पूर्ववत् ॥ ७ ॥

प्। ४७५)

षडङ्गन्यासकं कुर्यात् पूर्ववन्नन्दिकेश्वर ।
सामान्यार्घ्य जलेनैव प्रोक्षयेच्छिष्यमस्तके ॥ ८ ॥

शिष्यस्य हृदये ताड्य पुष्पेण विधिना तदा ।
सम्प्रविश्याथ मन्त्रेण पाशविश्लेषणं भवेत् ॥ ९ ॥

विधिनाकर्षणं कुर्यात् शक्तिं सूत्रेण योजयेत् ।
ॐ हां पूर्वं समुच्चार्य हं हाम् आत्मने नमः ॥ १० ॥

पश्चात्तु मूर्तिविन्यासमावाह्यादिक्रमाद्यजेत् ।
मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् ॥ ११ ॥

ॐ हां शिवतत्वाय नमः ।

हम्फडन्तेन सन्ताड्य शिखा सम्पुटितेन च ।
नमोन्तेन च मन्त्रेण शिरस्सूत्रे तु विन्यसेत् ॥ १२ ॥

प्। ४७६)

ॐ हाम् आत्मने हुं फण्णमः ।

सम्पूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् ।
मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् ॥ १३ ॥

ॐ हां शिवतत्वाय नमः

हुम्फडन्तेन सन्ताड्य शिखा सम्पुटितेन च ।
नमोन्तेन च मन्त्रेण शिरः सूत्रे तु विन्यसेत् ॥ १४ ॥

ॐ हुम् आत्मने हुम्फण्णमः ।

सम्पूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् ।
तर्पणं पूजनं चापि पूर्ववद्विधिना भवेत् ॥ १५ ॥

विद्या तत्वं च मध्ये तु सूत्रयेत्पूजयेद्गुरुः ।

प्। ४७७)

ॐ ह्रीं विद्यातत्वाय नमः ।

पुष्पताडनपूजादि पूर्ववत्कुर्यात्ततः ॥ १६ ॥

विलोकयेदात्मतत्वं ॐ हाम् आत्मतत्वयुक् ।
नमोन्तं मन्त्रमुच्चार्य पूर्ववत्पूजयेद्गुरुः ॥ १७ ॥

ॐ हाम् आत्मतत्वाय नमः ।

ताडनादि क्रमात्सर्वं पूर्वोक्तविधिना चरेत् ।
मन्त्राणां तृप्तये चैव जुहुयादाहुतित्रयम् ॥ १८ ॥

शिवतत्वादिकान्पाशान् हुम्फडन्तांश्च दीपयेत् ।
अनाहताज्ञयोर्मध्ये सूत्रं काश्मीरवारिणा ॥ १९ ॥

रञ्जयेद्दीपनं पश्चान् मन्त्राणां च क्रमं भवेत् ।

प्। ४७८)

शिवतत्वाय हुम्फड् दीपनं भवेत् ॥ २० ॥

ॐ हुं हुं शिवतत्वाय हुं फट् ॥

तत्सूत्रे तु शिवं पूज्य पाशच्छेदमनन्तरम् ।
हृत्सम्पुटितबीजेन तेषां ग्रहणबन्धनम् ॥ २१ ॥

सव्यस्कन्धे तु शिष्यस्य सूत्रं तद्विनिवेशयेत् ।
षडङ्गेन हुनेत्पश्चात् पूर्णां मूलेन कारयेत् ॥ २२ ॥

सम्पातं सत्कृतं सूत्रं मन्त्रैस्सत्पात्र सम्पुटम् ।
शिवकुम्भसमीपे च रक्षार्थं विनिवेष्टयेत् ॥ २३ ॥

पूर्ववत्पञ्चमे सादि चरुभागं तथैव च ।
बलिं च दन्तकाष्ठं च पूर्ववत्स्थापयेन्निशि ॥ २४ ॥

प्। ४७९)

आचार्यश्चरुकं प्राश्य पूर्ववच्च समर्पणम् ।
अधिवासनमित्याहुर्दीक्षाकर्माप्यनुस्मरेत् ॥ २५ ॥

स्वापञ्च कृत्वा ब्राह्मे तु सस्याति द्वयकं चरेत् ।
शिष्यं प्रवेश्य कुण्डस्य पार्श्वे चैव क्रमात्तदा ॥ २६ ॥

नाडीसन्धानकं कृत्वा पुनस्सन्तानसूत्रकम् ।
शिखायां मस्तकालम्बि बध्नीयाच्छिष्यके तदा ॥ २७ ॥

आसनोपरि संवेश्य चात्मतत्वं विलोकयेत् ।
षडध्व परिवृत्तं च व्यापकेनावलोकयेत् ॥ २८ ॥

ताडनं पूर्ववत्कुर्याद् व्याप्य शिष्य हृदान्तकम् ।
गृहीत्वा शिष्यचैतन्यं वह्निमध्ये विनिक्षिपेत् ॥ २९ ॥

प्। ४८०)

पूजान्तं तर्पणं सर्वं शिवमन्त्रेण पूर्ववत् ।
पश्चाद् ब्रह्माणमावाह्य पूजयेच्छ्रावयेदिति ॥ ३० ॥

शिष्य वक्षसि पुष्पेण ताडयित्वा तु पूर्ववत् ।
तदात्मनि प्रवेशं च कुर्यात्सन्मार्गवायुकः ॥ ३१ ॥

पुनः स्वात्मनि शिष्यस्य चैतन्यं योजयेत्क्रमात् ।
गुरुमण्डलपर्यन्तमादायोद्भवमुद्रया ॥ ३२ ॥

वागीशीगर्भनाडौ तु योजयेन्नन्दिकेश्वर ।
पूजनं तर्पणं कृत्वा संस्कारविधिपूर्वकम् ॥ ३३ ॥

उत्पत्तिभोगनाशाय स्रोतसां शुद्धये तथा ।
मन्त्रमायादि निष्कृत्यै शिवं साङ्गं च पूजयेत् ॥ ३४ ॥

प्। ४८१)

मलकर्म तिरोधानपाशविच्छेदनाय च ।
अस्त्रेण होमयेत्पश्चात् ततः सप्तास्त्र जप्तया ॥ ३५ ॥

कर्तव्यायशतत्वं च हेतिनाच्छेदयेत्ततः ।
विमृश्य वर्तुलीकृत्य सृगग्रे धारयेत्क्रमात् ॥ ३६ ॥

ॐ हाम् आत्मतत्वाय हुम्फट्। ।

अनेन होमयेत्पश्चात्पाशाङ्कुश निवृत्तये ।
शतमष्टोत्तरं हुत्वा प्रायश्चित्तमनन्तरम् ॥ ३७ ॥

पश्चाच्छुष्कं क्रमाद्दद्याद् ब्रह्मणे च विशेषतः ।
ॐ हां ब्रह्मन् गन्धरस रूपस्पर्श शब्दत्वात् ॥ ३८ ॥

शुक्लं ब्रह्माणं स्वाहेति विज्ञाप्य विसृजेत्क्रमात् ।

प्। ४८२)

पूर्ववच्छिष्य चैतन्यं स्वस्मिन्नादाय देशिकः ॥ ३९ ॥

मुखसूत्रे च तत्पश्चाद् योजयेन्नन्दिकेश्वर ।
सुयोभूमार्घ्यवारीणि शिष्य मूर्ध्नि च निक्षिपेत् ॥ ४० ॥

आत्मतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् ।
शुद्धेन वात्मतत्वेन विद्यातत्वं च बन्धयेत् ॥ ४१ ॥

ॐ हाम् आत्मतत्वं च विद्यातत्वमतः परम् ।
चतुर्थ्यान्त चि तत्वं च नमोन्तं मन्त्रमुच्चरेत् ॥ ४२ ॥

ॐ हाम् आत्मतत्व विद्यातत्वाभ्यां नमः ।

शुद्धानामप्यशुद्धानां ह्रस्वदीर्घप्रयोगतः ॥
एवं मन्त्रं समुच्चार्यं विद्यातत्वं विमर्शयेत् ॥ ४३ ॥

प्। ४८३)

शिशोर्लध्वाटवर्गान्तं विद्यातत्वं विभावयेत् ।
षडङ्गं व्यापकं चैव कृत्वा पुष्पादि ताडनम् ॥ ४४ ॥

पूर्ववद्विष्णुमावाह्य सम्पूज्य विधिना ततः ।
वक्त्रसूत्रं च सन्ताड्य शिष्यचैतन्य सङ्ग्रहम् ॥ ४५ ॥

पूर्ववत्कारयित्वा तु प्रवेशादिति देशिकः ।
योजयेत् स्वात्मनियुतं द्वादशान्तगतं नयेत् ॥ ४६ ॥

तस्मात्प्रदेशादानीय वागीश गर्भके न्यसेत् ।
उत्पत्तिभोग संहारनाथाय जुहुयात्तदा ॥ ४७ ॥

शिवेनाष्टोत्तरशतं वह्नौ हुत्वा तु पूर्ववत् ।
मूलशक्तितिरोधानं हेतिना पूर्ववद्भवेत् ॥ ४८ ॥

प्। ४८४)

अस्त्रेण सप्तधा जप्त्वा कर्तव्याच्छेदयेत्तदा ।
विमृज्य वर्तुलीकृत्य जुहुयात्पूर्ववद्गुरुः ॥ ४९ ॥

प्रायश्चित्तं तु कर्तव्यमस्त्रेण विधिना भवेत् ।
ॐ हां विष्णोर्हि सम्भाव्य बुद्ध्यहङ्काररूपकम् ॥ ५० ॥

शुक्लं गृहाण स्वाहेति विष्णोस्तर्पणकं भवेत् ।
ॐ हां विष्णो बुद्ध्यहङ्काररूपं शुक्लं गृहाण स्वाहा ॥ ५१ ॥

प्रतिबन्धाय विज्ञाप्य विष्णोर्विसर्जनं भवेत् ।
आदायादाय चैतन्यं स्वात्मन्येव विशेषतः ॥ ५२ ॥

शिरः सूत्रे तु मध्ये लेपे योजयेन्नन्दिकेश्वर ।
अर्घ्यामृताम्बुबिन्दूनि शिष्य मूर्ध्नि विनिक्षिपेत् ॥ ५३ ॥

प्। ४८५)

पुष्पेण ताडनं कुर्यात् तत्रावाह्य च सादरम् ।
वह्नौ निक्षिप्य सम्पूज्य तर्पयेच्च यथाक्रमम् ॥ ५४ ॥

शिवं ध्यात्वाहनं पश्चात् पूजनं तर्पणं चरेत् ।
तत्पादे दीक्षयाम्येनं रुद्रं तं परिभाष्य च ॥ ५५ ॥

यदात्वनुगृहीतव्यं रुद्रं विज्ञापयेदिति ।
शिष्यचैतन्यमादाय प्रविश्यान्तस्ततो गुरुः ॥ ५६ ॥

स्वात्मन्येव स्थितं कृत्वा गुरुमण्डलगं यजेत् ।
उद्भवेन तमादाय वागीशीगर्भनालके ॥ ५७ ॥

नियोजयेत्क्रमाद्भूयो जनित स्याहुतित्रयम् ।
मूलं न कुर्यादङ्गैच्च हेतिना होममारभेत् ॥ ५८ ॥

प्। ४८६)

तिरोधानाय पाशानां शोधनाय विशेषतः ।
पाशानां छेदनाद्दाह प्रायश्चित्तं च पूर्ववत् ॥ ५९ ॥

रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् ।
ॐ हां रुद्र मनो बिन्दुस्वरूपं शुक्लकं तथा ॥ ६० ॥

गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् ।
तिरोधानाय पाशानां शोधनाय विशेषतः ॥ ६१ ॥

पाशानां छेदनं दाहं प्रायश्चित्तं च पूर्ववत् ।
रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् ॥ ६२ ॥

ॐ हां रुद्र मनोबिन्दुस्वरूपं शुक्लकं तथा ।
गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् ॥ ६३ ॥

ॐ हां रुद्र मनोबिन्दुशुक्लगृहाण स्वाहा ।

प्। ४८७)

सम्पूज्य विधिना चेशं विसृजेत्तदनन्तरम् ।
ब्रह्मन्शिष्यस्य चैतन्यं निवेश्य क्षणमादरात् ॥ ६४ ॥

रेचकेनाति संशुद्धं शिरस्सूत्रे कृतन्नयेत् ।
अमृतोपमस्य बिन्दूनि शिष्यमूर्धनि निक्षिपेत् ॥ ६५ ॥

शिवतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् ।
ॐ हुं शिखायै हुम्फडितिमन्त्रेण नेत्रजप्तधा ॥ ६६ ॥

कर्तर्या हेतिना चैवच्छेदयेत्पूर्ववच्छिखाम् ।
गोमयान्तं निवेश्यैनाम् आज्यपूर्णं सृचि स्थितम् ॥ ६७ ॥

तच्छिखां च विधानेन होमयेत्क्षालयेत्सृचम् ।
देशिकोपि ततः स्नायाद् भस्मना भावसंयुतः ॥ ६८ ॥

प्। ४८८)

वारिभिः स्नापयेच्छिष्यं क्रमादुक्तविधानतः ।
तस्मिन्योजन विस्तीर्णं चैतन्यं च शिशोः पुनः ॥ ६९ ॥

योजयित्वा विधानेन सृक्सृवौ मूर्ध्नि विग्रहम् ।
ब्रह्मादिकारणानां च त्यागमन्त्रैस्समुच्चरन् ॥ ७० ॥

शिवोहमित्यहङ्कारी बोधरूपं परे शिवे ।
आज्यधारां च विसृजेच्छिष्यात्मानं नियोजयेत् ॥ ७१ ॥

भक्तिः शान्तिश्च विश्वासो गुर्वाज्ञा पालनं तथा ।
चलस्मथ समायुक्तः सर्वक्लेशविवर्जितः ॥ ७२ ॥

गुरुद्रोह शिवद्रोह समयद्रोह एव च ।
अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकता ॥ ७३ ॥

प्। ४८९)

परदोषावलोकश्च सदादोषावलोकनम् ।
एतैरष्टगुणैर्हीनो गुर्वाज्ञापालनादिकः ॥ ७४ ॥

पूर्वोक्तैश्च गुणैस्सर्वैः प्रपञ्चाचारवर्जितः ।
आगमोक्तगुणैर्युक्तो गुरुध्यानपरायणः ॥ ७५ ॥

एवमादीनि तस्योक्त्वा बहिस्तमभिषेचयेत् ।
एवं त्रितत्वपक्षान्ते प्रोक्तं तत्सर्वमाचरेत् ॥ ७६ ॥

इत्यचिन्त्य विश्वसादाख्ये त्रितत्वकर्मविधिस्त्रयोविंशतिः पटलः ॥