प्। ३९८)
नन्दिकेश्वरः ॥
देवदेव महादेव अनाथ परमेश्वर ।
त्वदीयां मूर्तिमेनां च पूजां कर्तुं प्रसीदमे ॥ १ ॥
नराणामपि भक्तानां पूजामार्गं वदप्रभो ।
ईश्वर उवाच ।
भक्तिज्ञानैक निरतं रत्नगर्भं शृणुष्व तत् ॥ २ ॥
अत्रिः क्षणा कालकण्ठा कायुग्रयेक्षरोः ।
तुध्यामध्यगता सभ्यं वटमूलनिवासिने ॥ ३ ॥
ध्यानैकमात्रनिरत नमो रुद्राय शम्भवे ।
तारशक्तिनिरूच्चोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ ४ ॥
षडङ्गं तारशक्त्यादि हृदाद्यङ्गैर्मतः क्रमात् ।
षड्भिर्द्वाभ्यां तथाष्टाष्ट पञ्चत्रीणि तथा क्रमात् ॥ ५ ॥
प्। ३९९)
मूलमन्त्रस्य वर्णैश्च षडङ्गमभिधीयते ।
एवं षडङ्गं विन्यस्य ज्येष्ठाद्यङ्गुलिषु न्यसेत् ॥ ६ ॥
कर्णे चैव स्तनद्वन्द्वे द्वयं हृन्नाभिके द्वयम् ।
कट्योद्वयं च गुह्यैकं पादयोश्च चतुश्चतुः ॥ ७ ॥
शेषद्वयेन सर्वाङ्गव्यापकं विन्यसेत्क्रमात् ।
अकारादिक्षकारान्तमातृकान्यासमाचरेत् ॥ ८ ॥
शब्दोपदेशमूलं यत् भूतं प्यार्णकं न्यसेत् ।
वर्णं च चत्वारिंशं तु नववर्गविराजितम् ॥ ९ ॥
स्वरवर्गद्वयं प्रोक्तम् आद्यं पञ्च चतुःपरम् ।
सप्तव्यञ्जन वर्गं स्यात् सप्तषट्पञ्च वर्णकम् ॥ १० ॥
प्। ४००)
त्रिवर्गदीप्तमन्यं स्यात् तेषामुत्पत्तिरुच्यते ।
कर्णतालोष्ठकरजेष्वेकमात्र प्रवृत्तितः ॥ ११ ॥
अ इ उ सवर्णा स्युराद्यवर्गः स्वयं भवेत् ।
अस्तिकारेण संयोगादेकारः स्यात्परेण तु ॥ १२ ॥
ए ऐ कारेण वर्गो यदि मान्तेन तत्पुनः ।
कण्ठेर्धमात्रकां मौषविवृतात्प्राणघोषवान् ॥ १३ ॥
अपरो जायते वर्णो हकारो व्यञ्जनोत्तमः ।
ताली च षट्कतो यस्स्यात्केवोमन्तोषयोश्चयः ॥ १४ ॥
दन्ते ल इति वर्गो यत् द्वितीयं परमेव तत् ।
स्पर्श बाह्यत्वसामान्यस्वरगम्भीरलाघवैः ॥ १५ ॥
प्। ४०१)
कण्ठतालुक दन्तोष्ठष्वासन्वर्गास्तु पञ्च वै ।
प्रसिद्धायां लिपौकस्यां वर्गा ये पञ्च सम्मताः ॥ १६ ॥
अन्त्या द्विद्विचतुस्त्रिर्वास्तेष्वमी कीर्तिताः क्रमात् ।
तालु मूर्ध्नि च दे युष्ठक् संयुक्तं विवृतो हवैः ॥ १७ ॥
शषसैर्नववर्गाच्च इति वृतलिपिक्रमः ।
मूलाधारात्परा वाणी सूत्रमात्रा समन्विता ॥ १८ ॥
तदूर्ध्वे नाभिदेशेऽपि पश्यन्ती चार्धमात्रिका ।
हृदयादुद्गता सैव त्रिपान्मध्यमसञ्ज्ञिता ॥ १९ ॥
एकमात्रान्विता सैव वैखरी संशदाक्षरा ।
वक्त्रेपि वाष्टस्थानेषु सम्पर्काश्च दहृष्टयः ॥ २० ॥
प्। ४०२)
उत्पत्तौ वैखरी पश्चान् मध्यमा श्रुतिसङ्गमे ।
पश्यन्ती चार्धसम्पर्के परात्वनुभवानुगा ॥ २१ ॥
उत्पत्तिर्लयमित्युक्तं तत्रैवोत्पत्तिरुच्यते ।
खेगक्षाभूमयावर्णा वर्णाः सम्भवतः क्रमात् ॥ २२ ॥
इति भूतयमायस्मात् तेनभूतलिपिर्भवेत् ।
आकाशादि पृथिव्यन्तं ये वर्णाः समुदायजाः ॥ २३ ॥
सर्वे लिपिं च सङ्गृह्यमाद्यन्तं शिवशक्तिमान् ।
संहारक्रमणञ्चेदं प्रोक्तं शक्तिशिवात्मकम् ।
लिपिरप्येव वेह क्रमात्क्रमगता भवेत् ॥ २५ ॥
प्। ४०३)
क्रमे तु खादिवृद्ध्यान्ता व्युत्क्रमेष्वादिखान्तजा ।
विसर्गान्ता इमे प्रोक्ता व्युत्क्रमे बिन्दुमस्तकाः ॥ २६ ॥
विसर्गः शक्तिबीजं स्याद्बिन्दुः शिवमयः स्मृतः ।
भवस्वरा नवाधारे हादिपर्नमुखे तथा ॥ २७ ॥
हकारं मूर्ध्नि विन्यस्य यकारं तु ललाटके ।
रेफं दक्षशिरोभागे वकारं वामके तथा ॥ २८ ॥
लकारं पश्चिमे भागे गङ्कराग्रे पकारकम् ।
ककारं बाहुमूले च खकारं कोर्परान्तकः ॥ २९ ॥
सकारमङ्गुलीनां च मूले गं मणिबन्धने ।
वामहस्ते च वर्गं स्याट्टवर्गं दक्षपादके ॥ ३० ॥
प्। ४०४)
तवर्गं वामपादे च वामपार्श्वे पकारकम् ।
फकारं नाभिदेशे च वकारं पृष्ठपार्श्वके ॥ ३१ ॥
सकारं गुह्यदेशे च षकारं वह्निमध्यमे ।
सकारं हृदि विन्यस्य एवं भूतलिपिक्रमः ॥ ३२ ॥
सर्वपापहरं दिव्यं सर्वज्ञानविवर्धनम् ।
एवं क्रमेण विन्यस्य पूजयेन्नन्दिकेश्वर ॥ ३३ ॥
शुद्धाचारः शुचिःस्नातः शुद्धशैवो जितेन्द्रियः ।
भस्मस्नानयुतो दक्षो रुद्राक्षेणोपवीतकः ॥ ३४ ॥
स्नानशुद्धियुतः पश्चाद् आसनोपरि संस्थितः ।
प्राणायामत्रयं कृत्वा भूतशुद्धिं ततः क्रमात् ॥ ३५ ॥
प्। ४०५)
अन्तर्यागं ततः कृत्वा करन्यासमतः परम् ।
श्रीकण्ठादि च विन्यस्य मातृकान्यासकं पुनः ॥ ३६ ॥
श्रीनन्दिकेश्वर उवाच ।
असादृश्य जगन्नाथ मोक्षकारणनायक ।
पाशनिर्वाणदीक्षां च वदभक्तानुकम्पया ॥ ३७ ॥
ईश्वर उवाच ।
प्रथमं मण्डपं कुर्यादलं कारैरलङ्कृतम् ।
सप्ताहे पञ्चरात्रे वा त्रिदिने सद्य एव वा ॥ ३८ ॥
दीक्षापूर्वं तु कर्तव्यं युगपत्यं कुरार्पणम् ।
गोमयालेपनं कृत्वा कुण्डवेद्यादि सर्वशः ॥ ३९ ॥
लिङ्गार्चनं स्थण्डिलं च पूर्ववन्नन्दिकेश्वर ।
पूर्वोक्तलक्षणैरेवं मण्डलस्यापि वेदिका ॥ ४० ॥
प्। ४०६)
द्रव्यं च देवतान्यासं पूर्ववत्सम्यगाचरेत् ।
त्रयस्त्रिंशच्च सूत्रेण पूर्वोत्तरसमं न्यसेत् ॥ ४१ ॥
मध्ये पद्मं चतुष्षष्टि पदयुक्तं सुशोभनम् ।
अष्टपत्रसमायुक्तं रेखाग्रं तेन लेखयेत् ॥ ४२ ॥
कृष्णेनाभ्यरं ज्ञेयं वृत्तं श्वेतमिति स्मृतम् ।
तद्बहिस्समवृत्तं तु तद्बहिः श्वेतमुच्यते ॥ ४३ ॥
सर्ववर्णान्समास्तीर्य शेषं युक्त्या प्रकल्पयेत् ।
तद्बाह्ये चतुरश्रं तु कल्पयेत्कल्पवित्तमः ॥ ४४ ॥
ईशानं कर्णिकामध्ये पुरुषं पूर्ववत्क्रमात् ।
अघोरं दक्षिणे वक्त्रे वामदेवं तु चोत्तरे ॥ ४५ ॥
प्। ४०७)
सद्यं पश्चिमवक्त्रे तु पूजयेद्ब्रह्मपञ्चकम् ।
आग्नेय्यां हृदयं पूज्य ऐशान्यां तु शिरो यजेत् ॥ ४६ ॥
नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् ।
नेत्रं तु पुरतो न्यस्य केसरे तु विशेषतः ॥ ४७ ॥
अस्त्रमीशानके न्यस्य शेषं पूर्ववदाचरेत् ।
संस्कारदीक्षाशिष्याणां वर्जितं चाष्टकं तथा ॥ ४८ ॥
एकोनविंशत्कर्तव्यमित्युक्तं सद्गुणाधिकम् ।
कर्ता ब्राह्मसंयुक्तो द्विजात्याद्यभिमानकैः ॥ ४९ ॥
विहीनो रुद्रपुत्रत्व भावयुक्तोभियोग्यकः ।
एतैर्गुणैर्विहीनश्चेन् निर्वाणस्याप्य योग्यकः ॥ ५० ॥
प्। ४०८)
पुनः संस्कारदीक्षां च कृत्वा निर्वाणमाचरेत् ।
शिवाग्निं पूर्ववत्पूज्य दीक्षाकार्यं समारभेत् ॥ ५१ ॥
दीक्षा तु पाशच्छेदं हि तत्कार्यं क्रूरकं भवेत् ।
क्रूरकार्येषु सर्वेषु मन्त्राणां दीपनं मुखे ॥ ५२ ॥
पौष्टिके वश्यके शान्तौ वषट्कारान्तमन्त्रकैः ।
वौषड्वषड्समोपेतैः सुधाबीजोपरिस्थितैः ॥ ५३ ॥
मन्त्रैश्च होमं कर्तव्यं कुर्यात्सर्वत्र नादिके ।
हुङ्कारमूलमन्त्रस्य शिखामन्त्रमुदीरितम् ॥ ५४ ॥
वह्निरेव शिखा प्रोक्ता अत्र ग्रन्थभृल्लालितम् ।
मातृकायामपि च नास्ति तदुपरि लिख्यते ॥ ५५ ॥
प्। ४०९)
एकैकधा तदाहृत्य प्रत्येकं तत्क्रमेण वा ॥ ५६ ॥
प्रथमं तारमुच्चार्य शिखां च तदनन्तरम् ।
मूलमन्त्रं च तत्पश्चात् पुनश्च शिखयान्वितम् ॥ ५७ ॥
हुम्फडन्तं समुच्चार्य मूलमन्त्रस्य दीपनम् ।
ॐ हं फट् पूर्वमुच्चार्य हुङ्कारं तदनन्तरम् ॥ ५८ ॥
हृदयं च मनश्चैव शिखाहृदयदीपनम् ।
ॐ हूं हां हुं फट् शिखायामपि हुङ्कारं शिखाबीजमनन्तरम् ॥ ५९
॥
अनन्तरं तदेव स्यात् पूर्ववच्चान्तकं भवेत् ।
ॐ इं हुं फट् ।
नेत्रदीपनमेवं हि हौं सम्पुटितं तथा ॥ ६० ॥
ॐ हुं हौं हुं हुं फट् ।
अस्त्रदीपनमन्त्रं तु संस्कारं मध्यसम्पुटम् ।
पूर्ववच्छिखया चैव मन्त्राणां दीपनं भवेत् ॥ ६१ ॥
ॐ हुं हः हुं फट् ।
एवं दीपनसंयुक्तं मूलाङ्गैर्दीपितं शिशुम् ।
ससव्यभागदेशस्थं शिष्यं सम्पूज्य देशिकः ॥ ६२ ॥
कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
अस्त्रेण प्रोक्षितं वर्म कुण्डान्तं मूलमन्त्रकम् ॥ ६३ ॥
सुषुम्नाभावितं सूत्रं शुद्धमूलेन योजयेत् ।
शिष्यं तं शिखयाबध्न्यात्पादाङ्गुष्ठावलम्बकम् ॥ ६४ ॥
पादाङ्गुष्ठाच्छिवाग्रे तु बन्धयेन्मुक्तिकाङ्क्षिणाम् ।
नरस्य सव्यभागे तु नार्याच्चाप्यपसव्यके ॥ ६५ ॥
प्। ४११)
शक्तिमन्त्रेण शक्तिं च पूजितां तस्य मूलतः ।
संहारिणां भरणाय सूत्रं ते नैव विन्यसेत् ॥ ६६ ॥
सुषुम्ना मूलमन्त्रेण गृहीत्वा बाह्यसूत्रके ।
न्यस्त्वा ध्यात्वा हृदाभ्यर्च्य कवचेनावकुण्ठयेत् ॥ ६७ ॥
सन्निधानं भवेदेतद् हृदयस्य विशेषतः ।
नार्याश्चाप्येवमेवं हि कुर्यात्सर्वत्र युक्तितः ॥ ६८ ॥
तत्त्वध्वा च पदाध्वा च वर्णाध्वा मन्त्र एव च ।
भुवनाध्वा कलाध्वा च षडध्वानः क्रमान्न्यसेत् ॥ ६९ ॥
तारं हृदयमाद्येषु चतुर्थ्यन्तं नमोऽन्तकम् ।
ॐ हां तन्त्राध्वने नमः ॐ हां पदाध्वने नमः ॥ ७० ॥
प्। ४१२)
ॐ हां वर्णाध्वने नमः । ॐ हां मन्त्राध्वने नमः ।
ॐ हां भुवनात्मने नमः । ॐ हां कलाध्वने नमः ॥ ७१ ॥
सूत्रे षड्विधमध्वानं विन्यस्य शिवभावयुक् ।
अपः प्राप्तं तलेनैव प्रोक्षयेच्छिष्कं प्रति ॥ ७२ ॥
तेन मन्त्रेण पुष्पेण शिष्यस्य हृदि ताडयेत् ।
हुङ्कारं रेचकेनैव शिष्यस्य हृदि विन्यसेत् ॥ ७३ ॥
अजपामध्य जीवस्य वियोगं हेतिना कुरु ।
हुं फट् ।
ॐ हां स्वाहेति मन्त्रेण परिच्छिद्यात्तथा पुनः ॥ ७४ ॥
एवं शक्त्या तु चैतन्यमविस्पष्टं तु भावयेत् ।
नाडीभूते च सूत्रे वै संहारिण्या च योजयेत् ॥ ७५ ॥
प्। ४१३)
ॐ जम् आत्मने नमः ।
इत्युच्चार्य च सूत्रे तु व्यापकं वात्मनो भवेत् ।
कवचेनाव कुण्ठ्यैव हृदयेन इति त्रयम् ॥ ७६ ॥
आत्मसन्निधिकार्याय कुर्यात्तन्नन्दिकेश्वर ।
विद्यादेहं तु विन्यस्य शान्त्यतीतस्य दर्शनम् ॥ ७७ ॥
मन्त्रभूतमिव ध्यात्वा नाडीसूत्रे तु भावयेत् ॥ ७८ ॥
ॐ हां शान्त्यतीतकलापाशाय नमः ।
अनेनैव तु मन्त्रेण दर्शनाय जपेत्क्रमात् ॥ ७९ ॥
तथैवमस्त्रमप्येवं पदं वर्णाच्च षोडश ।
एतस्यां भुवनान्यष्टौ बीजं नाडी च तद्वयम् ॥ ८० ॥
प्। ४१४)
विषयं च गुणं चैवं कारणं च सदाशिवम् ।
हृतायां शान्त्यतीतायाम् अन्तर्भाव्यं प्रताडयेत् ॥ ८१ ॥
ॐ हौं शान्त्यतीतकलापाशाय हुं फट् ।
गृहीत्वा संहारिण्या च निदात्यात्मत्र मस्तके ॥ ८२ ॥
आहुति त्रितयं दद्यात् पुरस्सन्निधि हेतवे ।
द्वे तत्वेवाक्षरे द्वे च बीजनाडीखगद्वयम् ॥ ८३ ॥
गुणौ मन्त्रौ तथाब्जस्थ मेवं कारणमीश्वरम् ।
पदानि द्वादशं प्रोक्तं भुवनं दशसप्त च ॥ ८४ ॥
विषयं च तथाप्येकं शान्तेरत्यन्तमुत्तमम् ।
कृष्णायां मध्यतः स्मृत्वा ताडयित्वा च पूर्ववत् ॥ ८५ ॥
प्। ४१५)
संहारिण्या समायोज्य मुखीसूत्रे नियोजयेत् ।
ॐ हैं हैम् इति बीजेन सान्निध्यायाहुतित्रयम् ॥ ८६ ॥
तत्वानि सप्तविद्यायाः पदमप्येकविंशतिः ।
षड्वर्णमन्त्रमेकं च पञ्चविंशतिमेककम् ॥ ८७ ॥
त्रयोगुणाश्च विषयमेकं तत्र तु कारणम् ।
जिह्वायामतिरक्तायामन्तर्भाव्योत्क्रमात्पुनः ॥ ८८ ॥
बीजे नाडिखगद्वन्द्वे पूर्ववन्नन्दिकेश्वरः ।
आदाय ताड्य संशोध्य हृत्सूत्रे स्थाणुना यजेत् ॥ ८९ ॥
ह्रूं ह्रूं मन्त्रं समुच्चार्य सन्निधानाहुतित्रयम् ।
चतुर्विंशति तत्वानि पञ्चविंशति वर्णयुक् ॥ ९० ॥
प्। ४१६)
बीजनाडीखगद्वन्द्वं पादद्व्यधिकत्रिंशकम् ।
लोकानां च चतुर्णां च षष्टिर्गुण चतुष्टयम् ॥ ९१ ॥
त्रीणि मन्त्राणि विषयमेकं कारणमच्युतम् ।
प्रतिष्ठामध्यमं ध्यात्वा शुक्लाशान्तानमादिकम् ॥ ९२ ॥
कुर्यादानाभिसूत्रस्थं सन्निधानाहुतिं यजेत् ।
ह्रीं लोकमष्टोत्तरशतम् एकविंशत्पदानि वै ॥ ९३ ॥
बीजनाडीसमीराणां द्वयमिन्द्रिययोरपि ।
वर्णमेवं च तत्वं च विषयं चैव मेव हि ॥ ९४ ॥
मन्त्रं चतुष्टयं प्रोक्तं निवृत्तौ च तथैव च ।
जिह्वाया पीतवर्णाया मध्ये सम्भाव्य ताडयेत् ॥ ९५ ॥
प्। ४१७)
गृहीत्वा पादभागान्तं सूत्रे संयोज्य पूजयेत् ।
तन्त्रसन्निधिकार्याय जुहुयादाहुति त्रयम् ॥ ९६ ॥
इत्यादाय कलासूत्रे योजयेच्छिष्य विग्रहान् ।
दीक्षायां तु सबीजायां समयाचारपाशतः ॥ ९७ ॥
देहारम्भकधर्माच्च मन्त्रसिद्धिफलादपि ।
वाञ्छितार्थाय धर्माच्च व्यतिरिक्तं तु बन्धनम् ॥ ९८ ॥
कलानां मध्यगं सूत्रं क्ष्मञ्चैतन्यमरोधकम् ।
अनैनैव क्रमेणैव कुर्यात्तर्पणदीपनम् ॥ ९९ ॥
स्वस्वमन्त्रेण तुष्ट्यर्थम् आहुति त्रितयं भवेत् ।
दीपने तु हुनेत्तद्वत् हुम्फडन्तं शराणुना ॥ १०० ॥
प्। ४१८)
ॐ शान्त्यतीतकलापाय स्वाहा । इति तत्तत्-
तर्पणे पाशाय हुम्फट् । इति त्रयाहुतिः ॥ १०१ ॥
व्याप्ति बोधाय सूत्रं तत् कला स्थानेषु पञ्चसु ।
सम्मृज्य कुङ्कुमाज्येन तत्र साङ्गं शिवं यजेत् ॥ १०२ ॥
कलामन्त्रैर्हुम्फडन्तैर्भित्वा पाशाननुक्रमात् ।
प्रविश्यान्ते नमस्कारं ग्रहाणां बन्धनं भव ॥ १०३ ॥
ॐ हुं हां हौं हां हुं शान्त्यतीत कलाग्राहामि ।
बध्नामि इत्यादि मन्त्रैश्च कलाग्रहण बन्धनम् ॥ १०४ ॥
पाशादिनापकोशो ग्रहणं बन्धनं तथा ।
सर्वव्यापाररोधं च पुष्पं प्रति विभावयेत् ॥ १०५ ॥
प्। ४१९)
तत्सूत्रमुपदिश्याय शिष्यांसे च निवेशयेत् ।
द्विसृक्त्वाद्य च नाशाय मूलेन च शतं हुनेत् ॥ १०६ ॥
पुरुषस्य शरावान्तं सूर्यास्त्र परितो भवेत् ।
हृदास्त्रं सम्पुटेनैव निधाय तदनन्तरम् ॥ १०७ ॥
प्रणवार्घ्यं गृहीत्वा तु देशिको यागमन्दिरात् ।
बहिर्गत्वा ततः कुर्यान् मण्डल त्रितयं क्रमात् ॥ १०८ ॥
नैष्ठिकान्भौतिकांश्चैव सौम्यास्यानैन्द्रवक्त्रकान् ।
क्रमेण वश्यान्शिष्यांश्च प्राशयेच्चुलुकत्रयम् ॥ १०९ ॥
पञ्चगव्येन पूर्वं स्यात् पाणिना कुशया सह ।
मध्ये मध्ये चाचमनं विदध्यान्नन्दिकेश्वर ॥ ११० ॥
प्। ४२०)
द्वितीये चरुकं प्रोक्तं ग्रासत्रयसमन्वितम् ।
अष्टग्रासमितिर्वापि दर्शनस्पर्शवर्जितम् ॥ १११ ॥
पलाशपत्रैर्मुक्त्यर्थम् ऐहिक्यार्थप्लवे तले ।
हृदा तु सकलग्रासं भाजयेद्देशिकोत्तमः ॥ ११२ ॥
पश्चादाचमनं कार्यं शुद्धैरेव जलैः पुनः ।
दन्तकाष्ठं हृदा दत्वा चक्षुषा शोधितं तदा ॥ ११३ ॥
जलेन शोधयेत्पश्चाद् धौतमूर्ध्वमुखं क्षिपेत् ।
विदन्धामं विना सर्वं शोधनं पातमुत्तमम् ॥ ११४ ॥
अशोभननिवृत्त्यर्थं हेतिना जुहुयाच्छतम् ।
नान्याथादोषमोक्षाय शतमष्टोत्तरं हुनेत् ॥ ११५ ॥
प्। ४२१)
मूलमन्त्रेण कर्तव्यं प्रीत्यर्थं नन्दिकेश्वर ।
समर्प्य स्थण्डिलेशाय सर्वकर्माणि भक्तियुक् ॥ ११६ ॥
तस्य पूजासमाप्तिश्च चण्डेशस्यापि पूजनम् ।
निर्माल्यशोधनं कृत्वा गोमयेनोपलेपयेत् ॥ ११७ ॥
मूलेन भूमिं संशोध्य चरुशेषं तु होमयेत् ।
लोकपालांश्च कलशान् पूजयित्वा निरुध्य च ॥ ११८ ॥
बाह्यरक्षाभवेद्यन्तु विसृजेद्गणपालकान् ।
सङ्क्षेपेण क्रमेणैव लोकपालबलिं क्षिपेत् ॥ ११९ ॥
आग्नेये वारुणे वापि स्नात्वाया गालयं विशेत् ।
नैष्ठिकान्भस्मशय्यायां हृदादक्षिणशीर्षकान् ॥ १२० ॥
प्। ४२२)
भौतिकान्दर्भशय्यायां पूर्वमौल्यस्त्ररक्षितान् ।
शिखाबद्धशिखान्सर्वान् हेतिना रक्षितान्पुनः ॥ १२१ ॥
स्वप्नाधिपन्निमन्त्रं च गुरुस्तत्रोपदेशयेत् ।
ॐ हिलि हिलि शूलपाणये स्वाहा तं चापि पश्चिमाम् ॥ १२२ ॥
ॐ हिलि हिलि पाणये स्वाहा । ॐ नमः शिवः ।
शम्भो त्रिणेत्राय पिङ्गलाय महात्मने ॥ १२३ ॥
वामाय शम्भवे विश्व स्वप्नाधिपतये नमः ।
ॐ हिलि हिलि निगिने शूलपाणये नमः ॥ १२४ ॥
एवं मन्त्रं च शिष्याणामुपदिश्याथ शाययेत् ।
बहिर्निर्गत्य सम्प्राश्य पञ्चगव्यं चरुं गुरुः ॥ १२५ ॥
प्। ४२३)
यथा दृष्टं तु स्वप्नं हि पृच्छेच्छिष्यांस्तथा गुरुः ।
रमं ध्वजं छत्रं च गजं वृषभमुत्तमम् ॥ १२६ ॥
क्षीरं मांसं मधुं चैव मधुमद्यजलं तथा ।
गणाद्यारोहणं चापि शुक्लमाल्यानुलेपनम् ॥ १२७ ॥
दीपमुज्वलमग्निं च ब्रह्माणं वेदपारगम् ।
सुमालां च वधूं वापि वेश्यां सर्वाङ्गलक्षणम् ॥ १२८ ॥
पित्रोश्च दर्शनं वापि गुरोर्दर्शनमुत्तमम् ।
रत्नहेमाङ्गुलीयादिभूषणं स्वप्नमुत्तमम् ॥ १२९ ॥
अर्कादिबिम्बतपनं पतनं चान्धकूपके ।
तैलाभ्यङ्गं मषीलेपम् अङ्गच्छेदं तथैव च ॥ १३० ॥
प्। ४२४)
विधवादर्शनं चापि नववस्त्रावकुण्ठनम् ।
मृद्भाण्डनवकं चापि पोत्रिकामहिषादिभिः ॥ १३१ ॥
मर्दनं चापि कृष्णं च निशीये पूषदर्शनम् ।
भुजङ्गदर्शनं चापि बाधकाश्चैवमादि च ॥ १३२ ॥
काककङ्कखरादीनां दर्शनं चा शुभावहम् ।
प्रायश्चित्तं तु कर्तव्यं तत्तद्दृष्ट्यानुरूपतः ॥ १३३ ॥
नित्यं नैमित्तिकं कृत्वा प्रविशेद्यागमण्टपम् ।
आचम्य विधिवच्छुद्धः सोष्णीषो भूषणान्वितः ॥ १३४ ॥
देशिकः शोध्यमध्वानं पूर्वोक्तं चात्मनि न्यसेत् ।
भास्वरं शिवहस्तं च भावयेन्नन्दिकेश्वर ॥ १३५ ॥
प्। ४२५)
कुम्भे शिवं च सम्भाव्य सर्वाभरण संयुतम् ।
इन्द्रादीनपि दिक्पालान्पूजयित्वा समाहितः ॥ १३६ ॥
स्थण्डिले मण्डले वापि पूजयेच्छिवमव्ययम् ।
पावकं पूजयेत्पश्चाद् दर्पणं पूर्वकावधि ॥ १३७ ॥
दुःस्वप्नशान्तये पश्चान् मूलमन्त्रांशकं हुनेत् ।
हुङ्कारं सम्पुटेनैव हुत्वा मन्त्रस्य दीपनम् ॥ १३८ ॥
कुम्भमण्डलयोर्मध्ये चान्तर्बलिर्विधीयते ।
शिष्याणां च प्रवेशाय कब्ध्वाज्ञां च बहिर्भवेत् ॥ १३९ ॥
पूर्ववन्मण्डलारे * * * * समयन्तदा ।
सम्पातहोमं तन्नाडीरूपमर्हकराङ्गकम् ॥ १४० ॥
प्। ४२६)
मूलेन सन्निधार्थाय जुहुयादाहुतित्रयम् ।
स्थण्डिले तु समभ्यर्च्य पाशविश्लेषकं गुरुम् ॥ १४१ ॥
अष्टोत्तरशतं ज्ञेयं भुवनान्यव सप्तवै ।
कपालो जलदेहश्च वज्रदेहः प्रमर्दनः ॥ १४२ ॥
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नीरुद्रो हुताशश्च पिङ्गलः खादको हरिः ॥ १४३ ॥
ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयान्तकः ।
कालमृत्युहरो धाता विधाता कर्तृसञ्ज्ञकः ॥ १४४ ॥
कालो धर्मोप्यधर्मश्च संयोक्ता च वियोजकः ।
नैर्-ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः ॥ १४५ ॥
प्। ४२७)
ऊर्ध्वशेफो विरूपाक्षो त्रलोहितदंष्ट्रवान् ।
महाबलो महाबाहुर्दशैते वन्द्यराक्षसाः ॥ १४६ ॥
वलश्चातिबलश्चैव पाशहस्तो महाबलः ।
श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १४७ ॥
बद्धवास्यश्च भीमश्च दशैते श नेरिताः ।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ॥ १४८ ॥
पञ्चान्त्रिकः पञ्चशिखः कपर्दी मेघवाहनः ।
निशीशो रूपवान्धन्यः सौम्यदेहो जटाधरः ॥ १४९ ॥
लक्ष्मीधरो हरः कामी प्रसन्नश्च प्रकाशितः ।
विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ॥ १५० ॥
प्। ४२८)
मातृवृत्तश्च पिङ्गाक्षो भूतबालो बलिप्रियः ।
सर्वविद्याविधाता च सुखदुःखकरौ दश ॥ १५१ ॥
अन्नबालकधीमान्यः पाताला तथा ।
वृक्षो वृषधरो धीरो ग्रस्नश्च सर्वतोमुखः ॥ १५२ ॥
लोहितश्च फणीन्द्रश्च दश रुद्रसमाश्रिताः ।
गुरुविभुर्गणाध्यक्षः स्त्रिदशवन्दितः ॥ १५३ ॥
संवाहश्च विवाहश्च नागो लिप्सुर्विचक्षणः ।
वीरभद्रोऽथ कालाग्निरुद्रो हाटक एव च ॥ १५४ ॥
कूष्माण्डकश्च साम्यश्च ब्रह्मा विष्णुश्च सीतमः ।
रुद्रश्चाहुरिमे रुद्राः कटाहाभ्यन्तरे स्थिताः ॥ १५५ ॥
प्। ४२९)
एतान्येवादिनामानि भुवनानामिदं परम् ।
अष्टाविंशत्पदानां तु विप्रतो तिष्ठति क्रमात् ॥ १५६ ॥
भवो भवोद्भवो हंसः सर्वभूत सुखप्रदः ।
सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रार्चित अशुभा ॥ १५७ ॥
पूर्वस्थित साक्षि साक्षि कुरु कुरु पतङ्ग पतङ्ग ।
ज्ञानज्ञान शब्दशब्द सूक्ष्म सूक्ष्म शिवश्शर्व ॥ १५८ ॥
ॐ नमः शिव ॐ नमः शिवाय नमो नमः ।
एवमेकोन विंशतिः पदमन्त्रमतः परम् ॥ १५९ ॥
सद्यो हृदयस्थ नेत्राणि चत्वारि क्रमतो भवेत् ।
हकारश्च सकारश्च वर्णद्वयमुदीरितम् ॥ १६० ॥
प्। ४३०)
इडा च पिङ्गला चैव नाडीद्वयमुदीरितम् ।
वायुद्वयं च सम्प्रोक्तं प्राणापानक्रमादुभौ ॥ १६१ ॥
इन्द्रियद्वयमेवापि घ्राणं पश्चादुपस्थकम् ।
विष्टयं भय तु इत्युक्तो गुणपञ्चकमुच्यते ॥ १६२ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्ध इति क्रमात् ।
मण्डलं पार्थिवं पीतं चतुरश्र मतः परम् ॥ १६३ ॥
इन्द्रेण चिह्नितं चैव विस्तृतं शतकोटियुक् ।
कलायां च निवृत्तिः स्याद्योनयोपि चतुर्दश ॥ १६४ ॥
तिर्ये च पञ्चमानुष्यमेकं देवत्वमष्टधा ।
पशवश्च मृगाश्चापि सर्वभङ्गाः सरीसृपाः ॥ १६५ ॥
प्। ४३१)
स्थावरं चेति पञ्चैताः सूर्यभूताश्च योनयः ।
मानुष्यमेकमन्यत्तु देवयोनिगतं शृणु ॥ १६६ ॥
पैशाचा राक्षसा यक्षा गन्धर्वाश्चैन्द्र सञ्ज्ञिकम् ।
प्रादेशं ब्राह्म्यमित्येव देवताष्टकयोनयः ॥ १६७ ॥
पार्थिवं तत्वमष्टानाम् अयेकारास्पदं भवेत् ।
प्रकृताश्चालयं तेषां भोगे बुद्धौ च कारणम् ॥ १६८ ॥
ब्रह्माप्यवस्थाजाग्रं तु निवृत्तिर्व्यापकं स्मरेत् ।
ॐ हां हां हां समुच्चार्य निवर्त्तेश्च कलाः पुनः ॥ १६९ ॥
पाशाय हुम्फडन्तं च नमोन्तं मन्त्रमुच्चरेत् ।
ॐ हां स्वाहां निवृत्तिकलापाशाय हुं फट् ॥ १७० ॥
प्। ४३२)
एवं कृत्वा ततः पाशं कुण्डमध्ये विनिक्षिपेत् ।
ॐ हां ह्लां निवृत्तिकलापाशाय नमः ॥ १७१ ॥
अनेनैव तु मन्त्रेण रेचयोद्भवमुद्रया ।
कुण्डमध्ये तु संस्थाप्य चार्घ्यं दत्वा नमोऽन्तयुक् ॥ १७२ ॥
ॐ हां ह्लां निवृत्तिकलापाशाय नमः ।
अनेनैव तु मन्त्रेण स्वाहान्तेनाहुतित्रयम् ॥ १७३ ॥
ॐ हां निवृत्तिकलापाशाय स्वाहा ।
सान्निध्यं तर्पणं चैव पुनरेव त्रिभिस्तथा ॥ १७४ ॥
ब्रह्माणं च निवर्तौ तु समावाह्याथ पूजयेत् ।
ॐ हां ह्लां निवृत्तिकलापाशाय नमः ॥ १७५ ॥
प्। ४३३)
ब्राह्मणे नैव मन्त्रेण चासनं तर्पणं भवेत् ।
स्वाहान्तेन पुनस्तेन मन्त्रेणोच्चारणं भवेत् ॥ १७६ ॥
ॐ हां ब्रह्मणे स्वाहा ब्रह्मन् तवाधिका ।
ॐ ब्रह्मन् तवाधिकारेण स मुमुक्षुं दीक्षयाम्यहम् ॥ १७७ ॥
भाव्यं त्वयानुकूल्येन विधिं विज्ञापयेदिति ।
आवाहयेत्ततो देवीं रक्तां वागीश्वरीं तदा ॥ १७८ ॥
इच्छाज्ञानक्रियारूपां षड्विधाध्वैककारिणी ।
पूजयेत्तर्पयेद्देवीं भक्तिभावसमन्वितः ॥ १७९ ॥
तथा वागीश्वरं देवं योनिं सङ्क्षोभदक्षकम् ।
ॐ हां हं हां हुम्फडन्तेन चात्मने नम इत्यपि ॥ १८० ॥
प्। ४३४)
शिष्यस्य हृदयं ताड्य पुष्पेण च विशेषतः ।
स्फुरत्स्फुलिङ्गसङ्काशं तस्य चैतन्यविग्रहम् ॥ १८१ ॥
हृदि कृत्वा निवृत्तिस्थं पाशं छिन्दतत्तु ज्येष्ठया ।
ॐ हां हां हः हुम्फडन्तं च ॐ स्वाहित्यनेन च ॥ १८२ ॥
पूरणेनाङ्कुशेनैव मुद्रयाकर्ष्य भावयुक् ।
आत्ममन्त्रेण सङ्गृह्य योजयेदात्मनि स्फुटम् ॥ १८३ ॥
ॐ हां हं हाम् आत्मने नमः ।
वागीश्वरस्य संयोगं वागीश्वर्याश्च भावयेत् ॥ १८४ ॥
चैतन्यं केवलेनैव कुर्याद्भावसमन्वितम् ।
ब्रह्मादिकारणत्यागं क्रमान्नीत्वा शिवास्पदम् ॥ १८५ ॥
प्। ४३५)
गर्भाधानार्थमादाय युगपत्सर्वयोनिषु ।
सर्वयोनिस्वरूपाया वागीश्वर्या वराङ्गके ॥ १८६ ॥
वागीशी गर्भनाले तु पूर्वं तद्धातुमेलितम् ।
पश्चाद्वागीश्वरीगर्भे वामयाद्भवसञ्ज्ञया ॥ १८७ ॥
मुद्रयानयाक्षिप्तं भावयेन्नन्दिकेश्वर ।
ॐ हां हं हाम् आत्मने नमः इति पूजयेद्भावसंयुतः ॥ १८८ ॥
अनेनैव तु मन्त्रेण तर्पणं पञ्चधा भवेत् ।
सर्वयोनिषु शुध्यर्थं हृदयेन तु होमयेत् ॥ १८९ ॥
गर्भरक्षादिभिर्यान्तं तत्र पुंसवनं तथा ।
देहिमेञ्जन कुर्वीत शिरसा युगपत्तदा ॥ १९० ॥
प्। ४३६)
शिखामन्त्रेण कर्तव्यमधिकारं विशेषतः ।
वर्मणा सर्वभागं च मन्त्रेण विषयात्मनोः ॥ १९१ ॥
अभेदं मोहरूपं च लयं तत्र विभावयेत् ।
मूलेन
गर्भाधानादिकार्येण पञ्च पञ्चाहुतीर्हुनेत् ॥ १९२ ॥
अर्धपञ्चकनासाय हृदयेन शतं हुनेत् ।
पाशविश्लेषणे चैव मलशक्तितिरस्कृतौ ॥ १९३ ॥
स्वाहान्तेनास्त्रमन्त्रेण पञ्चपञ्चाहुतीर्हुनेत् ।
मलाद्यन्तःस्थपाशस्य सप्तधास्त्रेण जप्तधा ॥ १९४ ॥
कर्तव्याच्छेदनं कुर्यात् कलाशास्त्रेण तद्यथा ।
ॐ हुं निवृत्तिकलापाशाय हुं फट् ना पुनः ॥ १९५ ॥
प्। ४३७)
छित्वा विमलवत्सूत्रं वर्तुलीकृत्य सद्गुरुः ।
आज्यपूर्णसृवस्याग्ने निधायाग्नौ तु होमयेत् ॥ १९६ ॥
भस्मीकृत्य कलास्त्रेण दद्यात्पञ्चाहुतिं क्रमात् ।
पाशाङ्कुशनिवृत्त्यर्थं ॐ अम् अस्त्राय फडिति ॥ १९७ ॥
ॐ अम् अस्त्राय फट् ।
अस्त्रेण चा हुतिं दद्यात् प्रायश्चित्ताय वै भवेत् ।
तत्र ब्रह्माणमावाह्य पूजयेत्तर्पयेत्तथा ॥ १९८ ॥
ॐ हां पूर्वं समुच्चार्य शब्दब्रह्म तथैव च ।
शुकं ब्रह्मन्गृहाणेति जुहुयादाहुति त्रयम् ॥ १९९ ॥
ॐ हां शब्दस्पर्शौ शुक्लब्रह्मन्गृहाण स्वाहा ।
मन्त्रेणानेन सन्तर्प्य प्रार्थयेत्तु विशेषतः ॥ २०० ॥
प्। ४३८)
दण्डिनः शेषपाशस्य ब्राह्मणस्य पशोर्मया ।
सन्धानं पुनरास्थेयं शिवाज्ञा साधयेदिति ॥ २०१ ॥
विसृज्य तत्र ब्रह्माणं नाड्यादक्षिणया शनैः ।
कुम्भकेनात्ममन्त्रेण संहारिण्या च मुद्रया ॥ २०२ ॥
आत्मानं च विशेषेण राहुमुक्तैकदेशवत् ।
पञ्चाङ्गबिन्दुबिम्बैश्च भावयेन्नन्दिकेश्वर ॥ २०३ ॥
गृहीत्वा योजयेत्सूत्रे रेचकेनोद्भवाय भम् ।
अर्घ्यपात्रजलं ध्यात्वा सुधामयमनौपमम् ॥ २०४ ॥
बिन्दुभिस्सम्यगभ्यर्च्य शिष्यस्य शिरसि क्षिपेत् ।
पितरौ तौ विसृज्याथ वौषडन्त शराणुना ॥ २०५ ॥
प्। ४३९)
विधेस्सम्पूरणाख्याय पूर्णाहुतिमथाचरेत् ।
निवृत्तिशोधनं ह्येतत् प्रतिष्ठामारभेत्क्रमात् ॥ २०६ ॥
तत्वद्वयस्य सन्धानं शुद्धाशुद्धिर्यवैर्भवेत् ।
ह्रस्वदीर्घ प्रयोगेण चान्नान्नादान्त संहिताम् ॥ २०७ ॥
ॐ हां ह्लां ह्रीम् ।
अप्तेजो वायुराकाशमात्रेन्द्रियबुद्धयः ।
गुणत्रयमहङ्कारं चतुर्विंशति निति ॥ २०८ ॥
प्रतिष्ठायां निवेशं हि तत्वान्येतानि भावयेत् ।
खादिरान्ताक्षराण्येव पञ्चविंशतिरेव च ॥ २०९ ॥
षट्पञ्चाशच्च लोकानां तत्सङ्ख्याभिश्च रुद्रकान् ।
अमरेशं प्रभावं च नैमिशं पुष्करं तथा ॥ २१० ॥
प्। ४४०)
आषाढश्च तथा दण्डी भारभूतिरथाष्टमः ।
लकुलीशो हरिश्चन्द्रः श्रीशैलो दशमो भवेत् ॥ २११ ॥
अल्पीयोऽमृतकेशश्च महाकालाय मध्यमः ।
केदारो भैरवश्चेति द्वितीया * * * रितम् ॥ २१२ ॥
ततो गया कुरुक्षेत्रं नाखलं नखलं तथा ।
विमलं चाट्टहासं च महेन्द्रो भीमसञ्ज्ञकः ॥ २१३ ॥
वैस्त्रापदं रुद्रकोटिरविमुक्तो महालयः ।
गोकर्णी भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च ॥ २१४ ॥
अर्थ * * * सर्वज्ञो भासुरस्तदनन्तरम् ।
सुबाहुर्मन्त्ररूपी च विशालो जटिलस्तथा ॥ २१५ ॥
प्। ४४१)
रौद्रश्च पिङ्गलाक्षश्च कालदंष्ट्री भवेत्ततः ।
बिन्दुरश्चैव घोरश्च प्राजापत्यो हुताशनः ॥ २१६ ॥
कामरूपी तथा कालकण्ठोऽप्यथ भयानकः ।
पतङ्गः पिङ्गलश्चैव हरो विधात्र सञ्ज्ञकः ॥ २१७ ॥
शङ्कुकर्णो भवानीशः श्रीकण्ठश्चन्द्रमौलिना ।
सहेतो भवनिर्वृत्तौ समाबाह्याथ पूजयेत् ॥ २१८ ॥
ॐ हां ब्रह्मणे नम इति पर्यन्ताः क्रमात्प्रोक्ताः पदाञ्च्छृणु ।
व्यापि व्यापिन् रूपारूपप्रथमप्रथमतेजस्तेजः ॥ २१९ ॥
ज्योतिर्ज्योतिरूप अनग्नि अधूम अभस्म अनादे ।
ना ना ना ना धू धू धू धू ॐ भूः ॐ भुवः ॐ सुवः ॥ २२० ॥
प्। ४४२)
अनिधन निधनोद्भव शिव परमात्मल्परेमेश्वर ।
महादेव सद्भावेश्वर । महातेजो योगाधिपते ॥ २२१ ॥
मुञ्च मुञ्च प्रथम प्रथम शर्वशर्वेति द्वात्रिंशत्पदानि ।
बीजं च रेच यो मन्त्रो वामदेव शिव शिखानाडी ॥ २२२ ॥
सुषुम्नानालिरी * * * * दानासमाधिकौ ।
रसनावायुसंयुक्तमिन्द्रियं च तदा भवेत् ॥ २२३ ॥
रसस्तु विषयो रूपः स्पर्शश्शब्दरसा गुणाः ।
अब्जोपेतार्धचन्द्रं च मण्डलं वारुणं तथा ॥ २२४ ॥
स्वप्नावस्था प्रतिष्ठायां कारणं विष्णुरुच्यते ।
भुवनामा जगत्सर्वं भुवानान्तर्गतं स्मरेत् ॥ २२५ ॥
प्। ४४३)
प्रविश्येन स्वमन्त्रेण सूत्रे देहे वियोजयेत् ।
ॐ ह्रां ह्रीं ह्रां समुच्चार्य प्रतिष्ठां च कथां तथा ॥ २२६ ॥
पाशाय हुम्फडन्तं च मन्त्रमेतदुदीरितम् ।
ॐ ह्रां ह्रीं ह्रां प्रतिष्ठाकलापाशाय हुम्फट् ॥ २२७ ॥
स्वाहान्तेनाप्यनेनैव पूरणेनाङ्कुशाख्यया ।
मुद्रया चैवमाकर्षेद् हुम्फडन्तं स बीजयुक् ॥ २२८ ॥
ॐ ह्रूं ह्रां प्रतिष्ठाकलापाशाय हुम्फट् ।
ताभ्यां तत्सूत्रमादाय पूर्ववन्नन्दिकेश्वर ।
ॐ ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः ॥ २३० ॥
प्। ४४४)
अनेनैव तु मन्त्रेण गृहीत्वा भावमुद्रया ।
रेचकेण विशेषेण कुम्भे चैव विधापयेत् ॥ २३१ ॥
ॐ ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः ।
अनेनैव तु मन्त्रेण चापयित्वा विभावयेत् ॥ २३२ ॥
आहुतित्रितयेनैव स्वाहान्तेनैव भावयेत् ।
सन्निधानाहुतिं चैव पूर्ववत्कुर्याद्गुरुः ॥ २३३ ॥
हृदयानि नमोन्तेन विष्णवे मध्यमे भवेत् ।
ॐ ह्रां विष्णवे नमः ।
अनेनैव तु मन्त्रेण विष्णुमावाह्य पूज्य च ॥ २३४ ॥
ॐ विष्णो तवाधिकारेस्मिन्मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ॥ २३५ ॥
प्। ४४५)
वागीश्वरीं च वागीशमावाह्याभ्यर्च्य पूजयेत् ।
पुष्पेण दक्षहस्तेन शिष्यवक्षसि ताडयेत् ॥ २३६ ॥
ॐ हां हं समुच्चार्य व्योमषोडशसंयुतम् ।
हुम्फडन्तं समुच्चार्य प्रविशेन्मन्त्रपूर्वकम् ॥ २३७ ॥
ॐ हां हं हां हः हुं फट् ।
एते नैव तु मन्त्रेण वात्मानं विभजेद्गुरुः ।
पाशयुक्तं तु शस्त्रेण ज्येष्ठयाङ्कुशमुद्रया ॥ २३८ ॥
तारादि हुम्फडन्तेन मन्त्रेणैव विशेषतः ।
ॐ हां हं हां हः हुं फट् ।
पूर्वोक्तेन तु मन्त्रेण स्वाहान्त स्फुटितेन च ॥ २३९ ॥
आकृष्यात्मनि संयोज्य नमो नानात्मनेति च ।
ॐ हां हं हाम् आत्मने नमः ।
पित्रोः संयोगमुद्धार्य मुद्रयोद्भवयानया ॥ २४० ॥
प्। ४४६)
इडया तदने नैव देवीगर्भे नियोजयेत् ।
गात्रोत्पत्तौ तथा पञ्चशिरसा जन्मने तथा ॥ २४१ ॥
अधिकाराय योगाय शिखाया कवचाणुना ।
संसारपाशशस्त्रेण स्रोतश्शिष्यैः शिवाणुना ॥ २४२ ॥
हुद्वा तत्र शुचौ गर्भाधानादि पूर्ववत् ।
पाशविश्लेषणं चापि शिरसा तदनन्तरम् ॥ २४३ ॥
निष्कृत्यै शतकृत्वस्तु होमयेन्नन्दिकेश्वर ।
शस्त्रेण पञ्चधा कृत्वा मलशक्तितिरोहके ॥ २४४ ॥
पाशविश्लेषणो पञ्च जुहुयाच्च विशेषतः ।
सप्तास्त्रजप्तं कर्तव्यं छिन्द्यादस्त्रेण तत्तदा ॥ २४५ ॥
प्। ४४७)
कलाबीजसमायुक्तमुच्चार्य प्रणवादिकम् ।
प्रतिष्ठां च कलापाशाय हः पुनः ॥ २४६ ॥
हुम्फडन्तेन मन्त्रेण विदध्याद्भावसंयुतः ।
ॐ हां प्रतिष्ठाकलाय पाशाय हः हुम्फट् ॥ २४७ ॥
विमृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
आज्यं तु पूर्ववद्दत्वा कलास्त्रेण हुतं भवेत् ॥ २४८ ॥
पाशाङ्कुशनिवृत्त्यर्थं पञ्चास्त्रेण हुनेत्तदा ।
अष्टाहुतिं च जुहुयात् प्रायश्चित्तनिवृत्तये ॥ २४९ ॥
ॐ हः अस्त्राय हुं फट् ।
विष्णुमावाह्य सम्पूज्य तर्पणं च हृदा भवेत् ।
अधिकारादिकं सर्वं सर्ववन्नन्दिकेश्वर ॥ २५० ॥
प्। ४४८)
ॐ हां विष्णो रसं चैव शुक्लं च तदनन्तरम् ।
गृहाणस्वाहान्तमुच्चार्य मन्त्रमेवं भवेत्तदा ॥ २५१ ॥
ॐ हां विष्णोरसङ्ख्या गृहाण स्वाहा ।
निश्शेषपाशदग्धस्य पशोस्तस्य हरे त्वया ॥ २५२ ॥
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।
ततो विसृज्य विष्णुं च रौद्रात्मानं विशोधयेत् ॥ २५३ ॥
राहुणामुक्तचन्द्रस्य बिम्बार्धसदृशं तदा ।
संहारमुद्रयात्मस्थं विधायोद्भवमुद्रया ॥ २५४ ॥
संयोज्य सूत्रे विन्यस्य तोयबिन्दुं यदा पुरा ।
वह्ने विसृज्य पितरौ पूजयेत्कुसुमादिभिः ॥ २५५ ॥
प्। ४४९)
पूर्णाहुतिं च जुहुयात् प्रतिष्ठा शोधनाय च ।
विद्यासन्धानकार्यार्थं पूर्वोक्तकलया सह ॥ २५६ ॥
तत्वपर्णादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
ॐ ह्रां ह्रीं ह्रूं हां च सन्धाने रागं चा शुद्धविद्यया ॥ २५७ ॥
नियतिश्च कला चैव कीलो माया तथैव च ।
शुद्धविद्या च तत्वानां सप्तकं च क्रमाद्भवेत् ॥ २५८ ॥
रलपाश्शषसा वर्णाः षड्विद्यायां समीरिताः ।
एकविंशत्पदं प्रोक्तं ताराद्यं नन्दिकेश्वर ॥ २५९ ॥
ॐ नमश्शिवाय शर्वप्रभवे शिवाय ईशान-
मूर्धाय तत्पुरुषाय वक्त्राय अघोर हृदयाय ॥ २६० ॥
प्। ४५०)
वामदेव गुह्याय सद्योजातमूर्तये नमोनमः ।
गुह्यातिगुह्य गोप्त्रे अनिधनाय सर्वयोगाद्य ॥ २६१ ॥
सर्वज्ञ सर्वविद्याधिपाय ज्योतीरूपाय परमेश्वर ।
परमेश्वर अचेतनाचेतन व्योमाव्योम । रुद्राणाम् ॥ २६२ ॥
भुवनानां च * * * स्वरूपमथ कथ्यते ।
पूर्वन्तु वामदेवः स्यात् तत्तत्सर्वभवोद्भवः ॥ २६३ ॥
वज्रदेहः प्रभुर्धाता क्रमविक्रमसुप्रभः ।
अर्धः प्रशान्तनामा च परमाक्षरसञ्ज्ञिकः ॥ २६४ ॥
दिवं च सुदिवे बभ्रुरक्षयश्शम्भुरेव च ।
अदृष्टरूपधारानौ तथा रूपविवर्धनः ॥ २६५ ॥
प्। ४५१)
नमो नमो महावीर्यः चित्राङ्गस्तदनन्तरम् ।
कल्याण इति विज्ञेयाः पञ्चविंशति सङ्ख्यया ॥ २६६ ॥
मन्त्रो घोराहरौ नाड्यन्न च द्वे तत्र ते तथा ।
पूजा च हस्तिर्जिह्वा च व्याननागौ मरुद्द्वयम् ॥ २६७ ॥
रूपं विषयमेवं च पादनेत्रमथेन्द्रियम् ।
शब्दः स्पर्शश्च रूपञ्च त्रय एव गुणाः स्मृताः ॥ २६८ ॥
अवस्था वा सुषुप्तिः स्याद्रुद्रो देवश्च कारणम् ।
भावयेद्भुवनादिं च विद्यामूर्धगते तदा ॥ २६९ ॥
ताडनं चेदनं तत्र प्रवेशं च नियोजनम् ।
विद्यया हृत्प्रदेशे तु ग्रहाणां कर्षणं भवेत् ॥ २७० ॥
प्। ४५२)
आरोह्यात्मनि सङ्गृह्य कलाकुण्डे नियोजयेत् ।
कारणं रुद्रमावाह्य शिष्यं विज्ञाप्य भक्तियुक् ॥ २७१ ॥
कुर्यादावपनं पित्रोः शिष्यवक्षसि ताडयेत् ।
चैतन्यं पूर्ववत्तत्र मन्त्रेण च वियोजयेत् ॥ २७२ ॥
पूर्वोक्तविधिनाकृष्य चादा यात्मनि योजयेत् ।
इडया योजयेद्भर्गे सङ्ग्राह्य द्वादशांशतः ॥ २७३ ॥
देहोत्पत्तिं ततः कुर्याज्जनाधि कृतिरेव च ।
भोगं विरामं स्त्रोतश्च तत्वानां च विशोधनम् ॥ २७४ ॥
मलकर्मादि मोक्षाय निष्कृत्यै च विधानवित् ।
पूजयेत्तर्पयेच्चैव शताहुत्या च तत्र वै ॥ २७५ ॥
प्। ४५३)
पाशविश्लेषणं चापि हेतिना नन्दिकेश्वर ।
मूलशक्ति तिरोधाने च्छेदने मर्दने तथा ॥ २७६ ॥
वर्तुलीकरणं चैव दाहे चाङ्गुलिनाशने ।
प्रायश्चित्तनिषेधार्थं रुद्रस्यावाहनं तथा ॥ २७७ ॥
पूजनं चापि तत्सर्वं विदध्यात्पूर्ववत्तदा ।
रूपं ग्रन्थिं च गुल्फं च रुद्राय विनिवेशयेत् ॥ २७८ ॥
ॐ हां रूपं गन्धौ शुक्लौ रुद्र गृहाण स्वाहा ।
शैवीमाज्ञां च संश्राव्य रुद्रं विसृज्य कारणम् ॥ २७९ ॥
रुद्रं तथाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूल्येन भक्त्या विज्ञापनं भवेत् ॥ २८० ॥
प्। ४५४)
बन्धाय न पुनःस्थेयं शिवाज्ञां भावयेदिति ।
आत्मन्यात्मानमाधाय पाशस्तत्र नियोजयेत् ॥ २८१ ॥
अर्धेन्दुं शिरसि न्यस्य पितरौ विसृजेत्तदा ।
पूर्णाहुतिं च कृत्वा तु विधानेन विशेषतः ॥ २८२ ॥
ताडनादिं च विधिना सर्वं कुर्याच्च सद्बुधः ।
विद्यास्वबीजमेत्वं हि रेफेण तु विशेषतः ॥ २८३ ॥
ॐ हां हूं हां विद्याकलापाशाय हुम्फट् ।
अनेनैव तु मन्त्रेण विद्यावाच विशोधनम् ॥ २८४ ॥
शान्त्यां विद्यां च संयोज्य विधिस्संवर्धया भवेत् ।
एतद्वयं च शान्तौ च विलीनं भावयेत्क्रमात् ॥ २८५ ॥
प्। ४५५)
ईश्वरं चैव साधाख्यम् उभयं तत्र भावयेत् ।
पक्षवर्णौ च सम्प्रोक्तौ भुवनाधिपरुद्रगाः ॥ २८६ ॥
स्वनाम्नैव च विख्याताः पूर्व सङ्ख्या समन्विताः ।
प्रभवक्षमयक्षुद्रा विमलश्शिव इत्यपि ॥ २८७ ॥
घनो निरञ्जनश्चैव ओङ्कारस्सुशिवस्तथा ।
दीप्ता च कारणं चैव त्रिदशेश्वर इत्यपि ॥ २८८ ॥
त्रिदशः कालनामा च सूक्ष्मश्चाम्बुज इश्वरः ।
रुद्राश्चाष्टादशत्वेते शान्त्याश्च भुवनाधिपः ॥ २८९ ॥
भुवनानां च पतयः क्रमादेते समीरिताः ।
पदानां च विशेषेण प्रणवाद्यं भवेत्तदा ॥ २९० ॥
प्। ४५६)
ॐ व्योमव्यापिने व्योमरूपाय सर्वव्यापिने ।
शिवाय अनन्ताय अनाथाय अनाश्रिताय ॥ २९१ ॥
ध्रुवाय शाश्वताय योगपीठ संस्थिताय ।
नित्ययोगिने ध्यानाहाराय * * * * * * ॥ २९२ ॥
एवमुक्तं तथा व्याप्तिः प्रणवाद्यं भवेत्तदा ।
पुरुषे कवचौ मन्त्रौ बीजे बिन्दुयकारकौ ॥ २९३ ॥
नाडीद्वयमलं पूष्या यशस्विन्यप्यनन्तरम् ।
मारुतौ कूर्मकृकरौ त्वरागः स्यात्तथेन्द्रियः ॥ २९४ ॥
विषयस्पर्श एवं स्याद्गुणस्पर्शनिवारणौ ।
ईश्वरस्तु करं प्रोक्तमधस्तात्तु तुरीयकम् ॥ २९५ ॥
प्। ४५७)
शान्तिमध्यगतं ध्यात्वा सर्वं च भुवनादिकम् ।
पूर्ववत्ताडनं भेदं प्रवेशमपि योजनम् ॥ २९६ ॥
आकर्षणं ग्रहणं च शान्तेर्वदनसूत्रतः ।
स्वस्मिन्संरोप्य सङ्गृह्य कलां कुण्डे नियोजयेत् ॥ २९७ ॥
ईशं तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम् ।
अनुकूलेन भवता भाव्यं विज्ञापनादिकम् ॥ २९८ ॥
पित्रेणावाहनं चैव शिष्यस्य ताडनादिकम् ।
आत्मानं विधिना सम्यक् स्वस्मिन्नेव नियोजयेत् ॥ २९९ ॥
हृदयेनाहुतिं पञ्च शरीरेणोत्पत्तये भवेत् ।
शिरसा पञ्चजनार्थम् अधिकारो शिखा भवेत् ॥ ३०० ॥
प्। ४५८)
भोगं च कवचेनैव संहारं हेतिना भवेत् ।
मूलेन स्रोतसां सिध्यै सिध्यै तत्वहृदा भवेत् ॥ ३०१ ॥
गर्भाधानादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
पाशविश्लेषणं चापि तनुत्रेण तदा भवेत् ॥ ३०२ ॥
निष्कृत्यैव शतं हुत्वा मलशक्तिनिरोहणे ।
हेतिना पञ्चजुहुयादेवं पाशवियोजने ॥ ३०३ ॥
अस्त्रं तु सर्वथा जप्त्वा कर्तर्यस्त्रेणच्छेदयेत् ।
बीजेन सम्पुटं कुर्यात् तथा शान्तिकलान्तरे ॥ ३०४ ॥
पाशाय हुं हुं हुं फडन्तं क्रमान्मन्त्रमुदीरितम् ।
हौं हौं शान्तिकलापाशाय हुं फट् ॥ ३०५ ॥
प्। ४५९)
समस्तं वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
आज्यपूर्णसृवे स्थाप्य कलास्त्रेण हुतं भवेत् ॥ ३०६ ॥
पाशाङ्कुशनिवृत्त्यर्थं हेतिना पञ्चधा हुनेत् ।
अष्टाहुतीश्च जुहुयात् प्रायश्चित्तनिवृत्तये ॥ ३०७ ॥
ॐ हः अस्त्राय फट् ।
ईश्वरं हृदये वाह्य पूजनं तर्पणं भवेत् ।
तस्मै शुक्लं च विधिना कुर्वीत तदनन्तरम् ॥ ३०८ ॥
ॐ हाम् ईश्वरं बुध्य हुङ्कारौ शुक्लं गृहाण स्वाहा ।
दग्ध निश्शेषपाशस्य शिशोरस्येश्वर त्वया ॥ ३०९ ॥
नयनार्थं तु कर्तव्यं शिवाज्ञां श्रावयेदिति ।
ईश्वरं तत्र विसृजेद् रुद्रात्मानं नियोजयेत् ॥ ३१० ॥
प्। ४६०)
राहुणाग्रस्तपञ्चाशच्चन्द्रबिम्बसमं तदा ।
शिष्यामात्मनि सम्भाव्यं विधिना योजयेत्तदा ॥ ३११ ॥
शिष्यं संयोजयेद्भावो योजयेद्भवमुद्रया ।
मूलेन कुर्याच्छिष्यस्य शिरस्यमृतबिन्दुकम् ॥ ३१२ ॥
वह्नेर्विसृज्य पितरौ कुसुमादिसुपूजितौ ।
पूर्णाहुतिं च विधिना जुहुयान्नन्दिकेश्वर ॥ ३१३ ॥
शान्त्यामपि विध * * * * नादि च पूर्ववत् ।
बीजमेव विशेषः स्यात् कलानां शुचिहेतवे ॥ ३१४ ॥
शान्त्यायाश्शान्त्यतीतायां सन्धानां तु विशुद्धये ।
पूर्ववत्तत्र कुर्वीत तत्र वर्णादिकं क्रमात् ॥ ३१५ ॥
प्। ४६१)
ॐ हां हौं समुच्चार्य सन्धाने तु भवेदिदम् ।
उक्तौ शक्तिशिवे तत्वे भुवनाष्टकमीरितम् ॥ ३१६ ॥
दीपिको रौचिकश्चैव मोचकश्चौर्ध्वगामिकम् ।
व्योमरूपमनाद्यं च तथानाश्रितमष्टमम् ॥ ३१७ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या * * * * हृधि ।
इलिका रोधिका सप्त सहपञ्चदश स्मृताः ॥ ३१८ ॥
तारं पदं तथैशानौ मन्त्रो वर्णास्तु षोडश ।
अकारादि विसर्गान्ता बीजनादहकारकौ ॥ ३१९ ॥
नाड्यन्तं कूहुः शङ्खिनी चया तदनन्तरम् ।
देवदत्तं तथा चैव नाञ्जयमष्टधः परम् ॥ ३२० ॥
प्। ४६२)
इन्द्रिये स्पर्शने श्रोत्रे विषयैरेव इत्यपि ।
गुणश्च शब्दोतीतः स्यात् तुरीयादितकं भवेत् ॥ ३२१ ॥
सदाशिवः कारणं स्याद् इति तत्वादिपञ्चकम् ।
शान्त्यतीतकलासंस्थं ध्यात्वा तत्ताडनादिकम् ॥ ३२२ ॥
हुम्फडन्तेन सन्ताड्य कलापाशं विभिद्य च ।
नमोन्तं हुम्फडन्तेन प्रविश्यात्र नियोजयेत् ॥ ३२३ ॥
शिखाहृत्सम्पुटं कृत्वा स्वाहान्ताङ्कुशमुद्रया ।
आकृष्य पूरकेणैव चैतन्यं विभजेत्ततः ॥ ३२४ ॥
अस्त्रेण पाशयुक्तं तद् भक्त्या विज्ञापयेदिति ।
पूजामावाहनं पित्रोस्तर्पणं सन्निधिं तदा ॥ ३२५ ॥
हृत्सम्पुटात्मबीजेन शिशुवक्षसि ताडयेत् ।
ॐ हां हं हां हुम्फट् ।
अनेनैव तु मन्त्रेण चैतन्यं विभजेत्ततः ॥ ३२६ ॥
अस्त्रेण पाशयुक्तं तज्ज्येष्ठया सृणिमुद्रया ।
ॐ हां हं हां हुं फट् ।
हृत्सम्पुटात्मबीजेन स्वाहामाकृष्य भावयुक् ॥ ३२७ ॥
आदाय तन्नमोन्तेन स्वात्मन्येव नियोजयेत् ।
ॐ हां हं हां हः आत्मने नमः ।
पित्रोस्संयोगमुद्भाव्यं भवेदुद्भवमुद्रया ॥ ३२८ ॥
इडया रेचकेनैव देविगर्भे नियोजयेत् ।
पूर्वोक्तविधिना सर्वं गर्भाधानादिकं भवेत् ॥ ३२९ ॥
पाशविश्लेषणार्थाय मुलेन तदनन्तरम् ।
निष्कृत्यै च शतं होमं विदध्यान्नन्दिकेश्वर ॥ ३३० ॥
प्। ४६४)
मलशक्ति तिरोधाने पाशविश्लेषणे तथा ।
पञ्चपञ्चाहुतीर्दद्यान् मन्त्रेण च यथा पुरा ॥ ३३१ ॥
सप्तधा जप्त शास्त्रेण पाशं छिन्द्यादनन्तरम् ।
ॐ हां शान्त्यतीतकलापाशाय हुम्फट् ॥ ३३२ ॥
विमृश्य वर्तुलीकृत्य पाशामस्त्रेण पूर्ववत् ।
पूज्य पूर्णे सृ ध्यात्वा कलास्त्रेण च होमयेत् ॥ ३३३ ॥
पाशाङ्कुशनिषेधार्थं जुहुयात्पञ्चवाहुतीः ।
अष्टाहुतीश्च जुहुयात् प्रायश्चित्त निवृत्तये ॥ ३३४ ॥
हृदयास्य सदादेवं पूर्ववत्तर्पणं भवेत् ।
अधिकारं च कुर्याच्च पूर्वोक्तविधिना पुनः ॥ ३३५ ॥
प्। ४६५)
ॐ हां सदाशिव नमो बिन्दुशुक्लगृहाण स्वाहा ।
निश्शेषदग्धपाशस्य शिवोनस्य सदाशिवम् ॥ ३३६ ॥
बन्धाय नत्वया स्थेयं शिवाज्ञां श्रावयेदिति ।
पूर्णाहुतिं च विसृजेन् मूलेन च सदाशिवम् ॥ ३३७ ॥
ततोऽथ हुत्वा चात्मानं शरच्चन्द्रमिवोत्थितम् ।
संयोज्य रौद्र्यसंहारमुद्रया गुरुमात्मनि ॥ ३३८ ॥
विदध्याच्छिवदेहस्थम् उद्धत्योद्भवमुद्रया ।
प्रथारित शिरोग्रीवो नादोच्चार समन्वितः ॥ ३३९ ॥
आप्यायनादि दद्यात्तु शिरसाध्याम्बु बिन्दुकम् ।
भक्त्या सम्पूज्य पितरौ विसृजेत्तदनन्तरम् ॥ ३४० ॥
प्। ४६६)
खण्डितौ शिष्यदीक्षायां यन्मया पितरौ युवाम् ।
कारुण्यात्तत्क्षमित्वा मे व्रजमं स्थानमात्मनः ॥ ३४१ ॥
शिखामन्त्रितकर्तर्यरोधमन्त्रस्वरूपिणीम् ।
शिवास्त्रेण शिखां छिद्याच्छिष्यस्य चतुरङ्गुलम् ॥ ३४२ ॥
ॐ हुं शिखायै हुं फट्। ।
सृक्सृवक्षालनं शिष्य स्नानमाचमनं गुरुः ॥ ३४३ ॥
कुर्यात्तत्र विशेषेण भावभक्ति समन्वितः ।
अस्त्रेण ताडनं कृत्वा चैतन्यं च नियोजयेत् ॥ ३४४ ॥
विशिष्याकृष्य सङ्गृह्य पूर्ववद्द्वादशान्ततः ।
स्वकीयहृदयाम्भोजे योजयेन्नन्दिकेश्वर ॥ ३४५ ॥
प्। ४६७)
विशिष्य हृदयाम्भोजे योजयेन्नन्दिकेश्वर ।
सृवं घृतेन सम्पूर्य दशोस्याच्च सृवं क्रमात् ॥ ३४६ ॥
कृत्वा नित्योक्तमार्गेण कम्बुसन्निभमुद्रया ।
प्रसारितशिरोग्रीवो नादोच्चारसमन्वितम् ॥ ३४७ ॥
ध्यानदृष्टिः शिरश्शान्तः पुराभावयुतः पुनः ।
मण्डलात्कलशादग्नेः शिरस्स्वस्मादनाकुलम् ॥ ३४८ ॥
षड्विधयानमानीय स्रुगत्र प्राणनाडिका ।
चन्दार्कनाशनं ज्ञात्वा विषुवे च भवेत्तदा ॥ ३४९ ॥
सप्तभेदयुतं ध्यात्वा क्रमान्नादमुदीरयेत् ।
प्राणस्य रोधः प्रथमं तत्स्वरूपावलोकनम् ॥ ३५० ॥
प्। ४६८)
अनाहतक्रमोच्चारि विशिष्टं मन्त्रसञ्ज्ञकम् ।
ब्रह्मनाड्यन्तरालस्थनादं तत्तु तुरीयकम् ॥ ३५१ ॥
कारणानां च सन्त्यागात्सप्तमं विषुवं भवेत् ।
तस्मिञ्च्छान्तिं च गच्छेत्तु लयमिच्छति तत्क्षणात् ॥ ३५२ ॥
सुषुम्नाकुलमासाद्य नादेप्यूर्ध्वगतिं व्रजेत् ।
तद्गतिश्शक्तिविषयमुपदेशेन लभ्यते ॥ ३५३ ॥
सर्वप्राणस्य शक्त्यन्तमासनं मानवर्जितम् ।
तत्कालविषुवं षष्ठं तथा तीतं च सप्तमम् ॥ ३५४ ॥
विषुवं तत्वसञ्ज्ञायां तस्मिन्तस्यां वियोजयेत् ।
पूरकं कुम्भकं ध्यात्वा ह्यादाय मुखमादरात् ॥ ३५५ ॥
प्। ४६९)
उद्धरेत् क्रमशो मूलं शिक्ष्यादाशु मनोलयम् ।
मनोलयात्तथा मुक्तिरिति शास्त्रस्य निश्चयः ॥ ३५६ ॥
षडध्वजीवबोधेऽस्मिन्हकारे विद्युदुज्वले ।
नाभेर्वितस्तिं संयाप्य हकारं परितः स्थितम् ॥ ३५७ ॥
ततोपरि मकारं तु हृदयं चतुरङ्गुलम् ।
ततोऽष्टाङ्गुलकर्णान्तमुकारं विष्णुमुच्यते ॥ ३५८ ॥
चतुरङ्गुलजिह्वान्तमुकारं रुद्रदैवतम् ।
सादाख्यं ब्रह्मरन्ध्रान्तं नादरूपं विभावयेत् ॥ ३५९ ॥
तद्ब्रह्मरन्ध्रमध्यस्थां शक्तिं च विसृजेत्क्रमात् ।
दिव्यं पिपीलिका स्पर्शं तस्मिन्सम्भवति क्षणात् ॥ ३६० ॥
प्। ४७०)
अनुभूय च तत्सर्वं द्वादशान्तं ततः क्षणात् ।
निर्गुणं निर्मले शुद्धे वाच्यवाचक वर्जिते ॥ ३६१ ॥
नित्यानन्दमये सूक्ष्मे भावाभाव विवर्जिते ।
कैवल्ये चिद्घने शान्ते शिवे तु परिभावयेत् ॥ ३६२ ॥
शिष्यात्मानं च तत्रैव लीयमानं विभावयेत् ।
आज्यधारां च जुहुयाज्ज्वालान्तेऽपि परे शिवे ॥ ३६३ ॥
सायुज्यस्य स्थिरत्वाय मूलेन जुहुयात्तदा ।
वौषडन्तं समुच्चार्य पूर्णां च विधिना हुनेत् ॥ ३६४ ॥
हौं वौषट् ।
गुणपादनमेतस्य तारयुक्तं हृदाणुना ।
आत्मवत्सर्वज्ञो भव इति स्वाहान्तं मन्त्रकं भवेत् ॥ ३६५ ॥
प्। ४७१)
ॐ हाम् आत्मस्सर्वज्ञो भव स्वाहा ।
ॐ हौम् आत्मन् अलुप्तशक्तिभव स्वाहा ॥ ३६६ ॥
ॐ हः आत्मन् अनन्तशक्तिभव स्वाहा ।
इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥ ३६७ ॥
विधानभावेनोपेतः शिष्यदेहे च योजयेत् ।
तीव्रशक्तिनिपातस्य जनितश्रमशान्तये ॥ ३६८ ॥
अर्घ्यामृतोदबिन्दुभिः शिष्यमूर्धनि सेचयेत् ।
शिवकुम्भादिकान्सर्वान्वदयेच्च क्रमाद्गुरुः ॥ ३६९ ॥
इश्वर प्रदक्षिणे भागे मण्डले तन्निवेश्य च ।
उत्तरास्यं च तन्मूर्ध्नि दक्षिणे तु विभावयेत् ॥ ३७० ॥
प्। ४७२)
त्वया चानुगृहीतोयं मूर्तिमास्थाय चात्मकम् ।
देवे वह्नौ गुरुस्स स्याद् भक्तिनाथस्य वर्धया ॥ ३७१ ॥
देवमेवं च विज्ञाप्य प्रणम्य च गुरुः स्वयम् ।
श्रेयसाबाह्विनि ब्रूयादाशिष्य शिवमादरात् ॥ ३७२ ॥
कृष्ण पुष्पं च देवाय दद्याद्भक्तिसमन्वितः ।
ईशीकुम्भादिकलशजलैस्तमभिषेचयेत् ॥ ३७३ ॥
मण्डलादिषु पूजां च तस्मिन्नेवोपसंहरेत् ।
सर्वदीक्षा च ज्ञानं च शर्वानुग्रहतो भवेत् ॥ ३७४ ॥
तस्मात्सर्वप्रयत्नेन गुरुशुश्रूषणं परम् ।
नैरन्तर्येण भक्त्या च शुश्रूषा च भवेत्पुनः ॥ ३७५ ॥
प्। ४७३)
गुर्वनुग्रहणं पश्चात् शुश्रूषा च भवेत्परम् ।
निर्वाण दीपितः शिष्यो गुरु संसृष्टि योग्यकः ॥ ३७६ ॥
परार्थलिङ्गपूजायामधिकारोऽस्य विद्यते ।
शावसूतिकजं चैवमाशौचं च न विद्यते ॥ ३७७ ॥
भौतिकस्य विशेषेण स्नानमात्रेण शुद्धिदम् ।
इत्यचिन्त्य विश्वसादाख्ये कर्मनिर्वाणदीक्षाविधिर्द्वात्रिंशत्पटलः ॥