मायानां तु च सर्वेषां ज्ञानरूपां परां शिवाम् ।
वागीश्वरीं महादेवीं शृणुत्वं नन्दिकेश्वर ॥ १ ॥
प्। ३८५)
प्रथमं कलशं प्रोक्तम् अत्र तदनन्तरम् ।
तावेव वर्णौ दीर्घं च वारि पञ्चान्तकं पुनः ॥ २ ॥
स्वरहीनश्च दीर्घेण युक्तं तोयमतः परम् ।
यान्तौ सूक्ष्मेण संयुक्तौ स्वाहान्तं तु दशाक्षरी ॥ ३ ॥
जातियुक्तं षडङ्गं च वक्ष्यामि तदनन्तरम् ।
आद्यन्तस्वरषट्कस्य मध्यमं यच्चतुष्टयम् ॥ ४ ॥
एतन्नपुंसकं त्यक्त्वा सेवितं त्वादशं भवेत् ।
कवर्गं च चवर्गं च टवर्गं च तवर्गकम् ॥ ५ ॥
पवर्गं च यकारादि क्षकारान्तं भवेत्क्रमात् ।
एवमादि षडङ्गं च हृदयादि षडङ्गकम् ॥ ६ ॥
प्। ३८६)
स्वरद्वन्द्वं यथा सङ्ख्यं कादियान्तेन सम्पुटम् ।
अकारं प्रथमं विद्यात् कवर्गं च स बिन्दुकम् ॥ ७ ॥
अङ्कारं च नमोऽन्तं च हृदयं च भवेदिदम् ।
एवमादि कवर्गादि स्वरसम्पुटितं भवेत् ॥ ८ ॥
अं कं खं गं घं ङम् आं हृदयाय नमः ।
इं चं छं जं ह्यं ञम् ईं रं शिरसे स्वाहा ॥ ९ ॥
उं टं ठं डं ढं णम् ऊं शिखायै वषट् ।
एं तं थं दं धं नम् ऐं कवचाय हुम् ॥ १० ॥
ॐ पं फं बं भं मम् औं नेत्रत्रयाय वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षम् अः अस्त्राय फट् ॥ ११ ॥
प्। ३८७)
एवमुक्तं षडङ्गं च मूलमन्त्रार्णकं न्यसेत् ।
द्वादशान्ते वकारः स्यात् श्रोत्रयोर्देवकं न्यसेत् ॥ १२ ॥
नेत्रे दशाक्षरद्वन्द्वं नासे वादिद्वयं तथा ।
निकारं चास्य मध्ये तु विन्यसेन्नन्दिकेश्वर ॥ १३ ॥
लिङ्गे गदें च स्वाहाश्च व्यावीकरं समाचरेत् ।
पूर्वोक्तं च गुणैर्युक्तः साधकोत्साह संयुतः ॥ १४ ॥
शौचमाचमनं स्नानं सन्ध्यावन्दन संयुतम् ।
नित्यानुष्ठानकं कृत्वा गुरुभक्ति समन्वितः ॥ १५ ॥
स्थानशुद्धिं च देहं च पात्रशुद्धि मनन्तरम् ।
द्रव्यशुद्धिं च मन्त्राणां तथा कृत्वा च भावयुक् ॥ १६ ॥
प्। ३८८)
पुण्डरीकैश्च सुश्वेतैः नन्द्यावर्तैश्च जातिभिः ।
सुगन्धैश्चैव पुष्पैश्च चन्दनैरिन्दुभिस्तथा ॥ १७ ॥
कालेयकैः पुरैश्चैव कुङ्कुमैः कपिमांसकैः ।
रोचना रसंयुक्तैः सुगन्धैः शीतलैर्जलैः ॥ १८ ॥
पाद्यमाचमनं चार्घ्यं धूपदीपं तथैव च ।
नैवेद्यमपि ताम्बूलं मुखवासं च कल्पयेत् ॥ १९ ॥
अनन्तादि समारभ्य मातृकाम्बुजकान्तगम् ।
पञ्चासनमिदं ध्यात्वा कर्णिकायां विशेषतः ॥ २० ॥
विद्येश्वरीं च तन्मध्ये तदूर्ध्वे श्वेतपङ्कजम् ।
केसरे कामराजं च वाग्भवं तस्य मध्यमे ॥ २१ ॥
प्। ३८९)
तन्मध्ये चापि वागीशीम् अर्थपञ्चकवासिनीम् ।
शुद्धस्फटिकसङ्काशां सुखासीनां शुचिस्मिताम् ॥ २२ ॥
जटामकुटशोभाढ्यामर्धेन्दुकृतशेखराम् ।
चतुर्भुजां त्रिणेत्रां च सर्वलक्षणसंयुताम् ॥ २३ ॥
पुस्तकं वामहस्तेन लेखनीं दक्षिणेन च ।
शुद्धस्फटिकमालां च वामहस्तेन घण्टिकाम् ॥ २४ ॥
पेशलां ह्लादवदनां शुककेकी सुभाषिणीम् ।
चारुकुण्डलकेयूरमुक्ताभरणभूषिताम् ॥ २५ ॥
चन्द्रामृतरसस्नातां सन्ततं भक्तवत्सलाम् ।
सर्वगन्ध सुसंलिप्तवृत्तपीनोन्नतस्तनीम् ॥ २६ ॥
प्। ३९०)
श्वेतमाला समायुक्तां श्वेतवस्त्रोपशोभिताम् ।
कठिनस्तनयुग्मां च विशालजघनां शिवाम् ॥ २७ ॥
एवं ध्यात्वा जगद्धात्रीं दीक्षितानां तु मातरम् ।
आवाहाद्भविष्यन्तं पूजयेच्छिववत्क्रमात् ॥ २८ ॥
तर्पयेच्च जगत्सर्वं तत्तद्योगेन मन्त्रिताम् ।
विद्येश्वर्याश्च पुरतो दलमध्येषु चाष्टसु ॥ २९ ॥
योगां सत्यां च विमलां पूर्णां चैव तथैव च ।
स्मृतिं च मेधां प्रज्ञां च पूर्ववन्नन्दिकेश्वर ॥ ३० ॥
तद्बहिश्च षडङ्गं च हृदयं पावके दले ।
वायव्ये तु शिखां यजेत् * * * * * * * * ॥ ३१ ॥
प्। ३९१)
ईशाने कवचं चैव पूर्वे नेत्रं क्षिपेत्पुनः ।
सव्ये तु दलमध्ये तु पूजयेन्मन्त्र राजकम् ॥ ३२ ॥
सौम्याश्च श्वेतवर्णाश्च देव्यः पद्मदृशस्तथा ।
नमोरुद्रान्विताश्चैता इति शक्वरि सङ्ख्यकाः ॥ ३३ ॥
दलाग्रे मातरश्चैव तद्बाह्ये लोकपालकाः ।
स्वस्वनाम्ना च सम्पूज्य स्वस्वरूपं विभावयेत् ॥ ३४ ॥
दशलक्षं जपित्वा तु दशांशं तर्पणं भवेत् ।
अभिषेकं हुतं चैव भक्तियुक्तः समाचरेत् ॥ ३५ ॥
श्वेतपद्मैः पयोऽभ्यक्तैर्जुहुयादयुतावधि ।
मधुरत्रय संसिक्तैः श्वेतैश्शुभैश्शीतलैरपि ॥ ३६ ॥
प्। ३९२)
पलाशैश्च गडूच्यावा समिद्भिर्घृतमिश्रितैः ।
प्रातः स्नात्वा समाचम्य न्यासादिसहितः क्रमात् ॥ ३७ ॥
शुद्धपात्रे शुद्धजलं दिव्यदृष्ट्या विलोक्य च ।
मूलमन्त्र सहस्रं च जपित्वा तज्जलं पिबेत् ॥ ३८ ॥
संवत्सरेण कविता गद्यपद्यक्रमान्विता ।
हृदयावधिके तोये स्थित्वा भास्करबिम्बके ॥ ३९ ॥
वागीश्वरीं च तन्मध्ये ध्यात्वा भास्करमण्डले ।
सहस्र त्रितयं जप्त्वा मण्डलावधि नित्यशः ॥ ४० ॥
जात्यलङ्कार संयुक्ता प्रभूतकविता भवेत् ।
त्रिस्वादु मधुबिल्वोत्थैः सुपत्रैश्चा युतं हुनेत् ॥ ४१ ॥
प्। ३९३)
लक्ष्मीकवित्वसौभाग्यं लोकवश्यं च जायते ।
कृताञ्जलि समिद्धोमां मधुरत्रयसंयुताम् ॥ ४२ ॥
महती कविताशक्तिरूचिता तस्य जायते ।
ब्रह्मीरसेन पयसा घृतयुक्तं सुपाचयेत् ॥ ४३ ॥
सहस्रत्रितयं जप्त्वा नित्यं प्रातस्तुलेपयेत् ।
कर्षकत्रयमात्रेण कविता मण्डलाद्भवेत् ॥ ४४ ॥
विश्वौषधं च सुश्वेषां जननीद्वयसंयुतम् ।
सैन्धवं चाजमोदं च वाचश्चैता च पिप्पलीः ॥ ४६ ॥
यष्टिं च जीरकं चैव चूर्णयित्वा समांशकम् ।
ब्राह्मीरसेन बहुशो भावयित्वा विचक्षणः ॥ ४७ ॥
प्। ३९४)
घृतेन शीधुनामिश्र्य त्रिसहस्रं जपेत्क्रमात् ।
अर्धमास प्रयोगेन भक्षयेदर्धमात्रकम् ॥ ४७ ॥
एषां जपेन मूकस्य कवित्वं भवति ध्रुवम् ।
तस्मात्कवित्व संसिद्धिरविवारं तु साधके ॥ ४८ ॥
पञ्चाशदौषधीक्वाथं कलशे सम्मिलिता भवेत् ।
सहस्रं तु दिनादौ तु जप्त्वा नित्यं तु मासकम् ॥ ४९ ॥
तज्जलेनाभिषेकं च मेधालक्ष्मीयशः क्रमात् ।
कवित्वं च यशोवश्यं द्रविणत्वं च सिध्यति ॥ ५० ॥
तज्जलेनाभिषिक्तास्त्री वन्ध्या सत्पुत्रकं लभेत् ।
अकारादिक्षकारान्तं पञ्चाशदपि चौषधीः ॥ ५१ ॥
प्। ३९५)
श्रीगन्धं च तथारक्तमागरुं चन्द्रमेव च ।
उशीरं कुष्ठकं चैव परिकुङ्कुममेव च ॥ ५२ ॥
तक्कोलजाती मांसी च मुरं चोरं तथैव च ।
गन्धं च रोचनां चैव पत्रं तदनु पिप्पलीम् ॥ ५३ ॥
बिल्वं गुहं रक्ततृणं लवङ्गं कुम्भिवर्धनीम् ।
उदुम्बरं कामरीकां वारामज्जं तथैव च ॥ ५४ ॥
श्वेतशङ्खप्रसूनं च मयूरशिखयान्वितम् ।
लाक्षाग्निमन्धसिंहीं च कुशदर्भं तथैव च ॥ ५५ ॥
कृष्णशङ्खप्रसूनं च वटं बन्धूकमेव च ।
बृहतीं पाटलीं चित्रां तुलसीं किणिकं तथा ॥ ५६ ॥
प्। ३९६)
चत्वारिंशदिमाः प्रोक्ता दशपुष्पमनन्तरम् ।
इन्द्रवल्लीं च भृङ्गीं च विष्णुक्रान्तिं च सूकरीम् ॥ ५७ ॥
कृताञ्जलिं च दूर्वां च श्रीदेवीं च सभां पुनः ।
लक्ष्मीं चैव सदाभद्रां शुभवारे शुभे दिने ॥ ५८ ॥
समादायाथ पञ्चाशदौषधीः पापनाशिनीः ।
एताभिर्गुलिकां कुर्याद् भस्मस्थां च विशेषतः ॥ ५९ ॥
भूतप्रेतपिशाचाश्च चोरव्याघ्रादयस्तथा ।
सुजप्ता मूलमन्त्रेण धारिता सर्वसिद्धिदा ॥ ६० ॥
ज्योतिष्मत्याश्च तैलं च मूलमन्त्रेण साधितम् ।
क्रमशः प्राशयेन्नित्यं षण्मासाद्वाक्पतिर्भवेत् ॥ ६१ ॥
प्। ३९७)
अशुद्धः शैवजातोसौ तपसा विजितेन्द्रियः ।
नित्यस्नानरतो भक्तः परदूषणवर्जितः ॥ ६२ ॥
पूर्वप्रोक्तगुणोपेतो दयालुः साधकोत्तमः ।
अनधीतानि शास्त्राणि वक्तुं शक्तिश्च तस्य वै ॥ ६३ ॥
चतुर्गुणं तु भजतां वागीशीं वरदोज्वलाम् ।
पश्चात्सन्निधिमागत्य वाञ्च्छितार्थं ददेद्ध्रुवम् ॥ ६४ ॥
नित्यमष्टोत्तरं जप्त्वा कैवल्यं पदमाप्नुयात् ॥ ६४ १।२ ॥
इत्यचिन्त्य विश्वसादाख्ये वागीश्वरीवागीश्वरीपूजाविधिः अष्टादशः
पटलः ॥