क्षिप्रप्रसादविघ्नेश मन्त्रपूजाविधिं शृणु ।
भोगमोक्षप्रदं चैव सर्वविघ्ननिवारणम् ॥ १ ॥
पञ्चार्धकं चार्धचन्द्रं सम्पर्त्तः क्रमतः परम् ।
सूक्ष्मयुक्तं तथानास्त्रमग्निबीजसमन्वितम् ॥ २ ॥
लोहितो वह्नियुक्तश्च भृगुः पाशसमन्वितः ।
अत्रदीर्घ समायुक्तः शिखा वायुर्नमोन्तकः ॥ ३ ॥
मूलबीजस्य दीर्घाद्यैः जातियुक्तैः षडङ्गकम् ।
तीव्रादिनवशक्तिस्थदेवं पद्मे सुपूजयेत् ॥ ४ ॥
प्। ३६६)
पूर्ववद्गन्धपुष्पाद्यैः विघ्नं सम्यक् प्रपूजयेत् ।
रक्ताङ्गं रागसंयुक्तं रक्तमाला विभूषितम् ॥ ५ ॥
पाशाङ्कुशं सदन्तं च कल्पद्रुमलतायुतम् ।
त्रिणेत्रं पुष्करस्याग्रे बीजापूरसमन्वितम् ॥ ६ ॥
बद्धपद्मासनोपेतं बालार्कसमतेजसम् ।
यज्ञोपवीतसंयुक्तं ब्रह्मचारिस्वरूपिणम् ॥ ७ ॥
तद्बहिर्दलमूले तु पूजयेदष्टमूलकान् ।
विघ्नं विनायकं चैव वीरं शुरमनन्तरम् ॥ ८ ॥
वरदं गजवक्त्रं च तथैव ह्येकदन्तकम् ।
लम्बोदरमिति प्रोक्तं स्वस्वनाम्ना च बीजयुक् ॥ ९ ॥
प्। ३६७)
गं विघ्नाय नमः । गं विनायकाय नमः ।
गं वीराय नमः । ॐ गं शूराय नमः ॥ १० ॥
गं वरदाय नमः । गं गजवक्त्राय नमः ।
गम् एकदन्ताय नमः । गं लम्बोदराय नमः ॥ ११ ॥
प्रथमावरणं चैतेन्मातृभिश्च ततोङ्गकैः ।
चतुर्थं लोकपालैश्च क्रमाद्देवं प्रपूजयेत् ॥ १२ ॥
घृतेन पायसेनैव शर्कराभिश्च होमयेत् ।
इन्दिराले च यशसे सर्वसिध्यै विशेषतः ॥ १३ ॥
केवलेन घृतेनैव जगत्सद्यो वशं नयेत् ।
सत्वचं नालिकेरं च कोष्ठयुक्तं क्रमाद्धूनेत् ॥ १४ ॥
प्। ३६८)
एकमेकं हुनेन्नित्यं चत्वारिंशद्दिनं तथा ।
वाञ्छितार्थं समभ्यैति चाष्टद्रव्यैश्च होमयेत् ॥ १५ ॥
अष्टद्रव्यस्य होमेन सर्वसिद्धिश्च जायते ।
दिनान्ते तर्पणं कुर्याद् भौतिको नैष्ठिकस्तथा ॥ १६ ॥
गृहयात्रा भौतिकस्य कैवल्यं नैष्ठिकस्य तु ।
चत्वारिंशद्दिनात्सिद्धिः मन्त्रस्य तु विशेषतः ॥ १७ ॥
मण्डलात्सवितुश्चैव सोपानं राजतं भवेत् ।
तन्मार्गेणागतस्तोये तस्यैसाकाङ्क्षितं लभेत् ॥ १८ ॥
मस्तके तर्पणं विघ्नः प्रीणाति च मुहुर्मुहुः ।
पूजाहोमं च कार्यं च महागणपतेरिव ॥ १९ ॥
प्। ३६९)
सर्वागमोचितं देवं सर्वविघ्नविनाशनम् ।
तमेव पश्चाद्वक्ष्यामि शृणुत्वं नन्दिकेश्वर ॥ २० ॥
पूर्वोक्तस्नानसंयुक्तः पूर्वोक्तगुणवाञ्च्छुचिः ।
स्वकीयाचारसंयुक्तः व्रतापी लोभवर्जितः ॥ २१ ॥
वाङ्मौनेन समायुक्तः साधयेद्विघ्नराजकान् ।
उत्तमं तारमुच्चार्य पञ्चान्तकमतःपरम् ॥ २२ ॥
बिन्दुयुक्तं गणैर्युक्तं पतये नम इत्यपि ।
ॐ गं गणपतये नमः ।
तर्पणे च हुते चैव स्वाहान्तं मन्त्रमुच्चरेत् ॥ २३ ॥
दीर्घयुक्तस्वबीजैश्च पूर्ववच्च षडङ्गकम् ।
ॐ हां हृदयाय नमः ॐ हीं शिरसे स्वाहा ॥ २४ ॥
प्। ३७०)
ॐ हूं शिखायै वषट् । ॐ हैं कवचाय हुम् ।
ॐ हौं नेत्रत्रयाय वौषट् । ॐ हः अस्त्राय फट् ॥ २५ ॥
एवं षडङ्गं सम्पूज्य कराङ्गन्यासमाचरेत् ।
ऐक्षवाम्भोधिमध्ये तु द्वीपे कनकरत्नके ॥ २६ ॥
कल्पद्रुमसमोपेतं दिव्यपुष्पलतान्वितम् ।
दिव्यद्रुमलतोपेतं दिव्यमाराधसेवितम् ॥ २७ ॥
हंसकोकिलभृङ्गाद्यैः शुककेकी समावृतम् ।
सर्वर्तुफलसंयुक्तं पनसैश्चन्दनैरपि ॥ २८ ॥
चूतजम्बूकपित्थश्रीरम्भा डाडिमपूगयुक् ।
नालिकेरैश्च विविधैरिक्षुभिर्मातुलङ्गकैः ॥ २९ ॥
प्। ३७१)
दिव्यैरन्यैश्च तरुभिः पूर्वपुण्यनिषेविते ।
तन्मध्ये पारिजातं च नानारत्नसमन्वितम् ॥ ३० ॥
अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् ।
निश्छिद्रपल्लवैर्युक्तं चन्द्रकान्तसुशीतलम् ॥ ३१ ॥
बालार्क रश्मिभिर्युक्तं सर्वशोभासमन्वितम् ।
तस्य मध्येऽप्यनन्तादि शिवाद्यास्नापनं स्मरेत् ॥ ३२ ॥
तन्मध्ये मातृकापद्मं पूजयेत्पूर्ववत्क्रमात् ।
अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् ॥ ३३ ॥
तीव्रादिनवशक्तीश्च पूजयेन्नन्दिकेश्वर ।
तन्मध्ये च त्रिकोणे च तस्य मध्ये च भावयेत् ॥ ३४ ॥
प्। ३७२)
गजः क्रीडं शिरः पद्मे पूजयेद्विघ्ननायकम् ।
आवाहनादि नैवेद्यं पूजयेत्पूर्ववत्क्रमात् ॥ ३५ ॥
मोदकं नालिकेरं च काजसक्तुतिलाश्च ये ।
इक्षुं च पृथुकं चैव रम्भाफलयुतं क्रमात् ॥ ३६ ॥
द्रव्यैरष्टभिरेतैस्तु हुत्वा प्रतिपदादिभिः ।
चतुर्थ्यारभ्य वा सम्यक् शुभवारे शुभे दिने ॥ ३७ ॥
पूजयेद्विघ्नराजं तं तदग्रेण गणाधिपम् ।
नैर्-ऋत्यां तु गणेशं च वायव्यां गणनायकम् ॥ ३८ ॥
तद्बाह्यदलमूले च षडङ्गं पूजयेत्क्रमात् ।
दलाष्टकस्य मध्ये तु वक्रतुण्डैकवक्त्रकौ ॥ ३९ ॥
प्। ३७३)
महोदरं गजास्यं च लम्बोदरमनन्तरम् ।
विकटं विघ्नराजं च धूम्रवर्णं च पूजयेत् ॥ ४० ॥
मातॄश्च पूजयेत्पश्चाच्चतुर्थावरणे क्रमात् ।
तद्बहिर्लोकपालांश्च दलान्ते स्वस्वनामभिः ॥ ४१ ॥
प्रणवादिनमोऽन्तैश्च पूजयेद्भक्तिसंयुतः ।
सप्तप्रतियुतं दिव्यं प्रथमं रत्ननिर्मितम् ॥ ४२ ॥
द्वितीयं हेमवर्णं स्यात् तृतीयं राजतं भवेत् ।
चतुर्थं सालताम्रेण पञ्चमं स्फटिकं भवेत् ॥ ४३ ॥
षष्ठं सीसमयं प्रोक्तं प्राकारमायसं बहिः ।
एवं तु सप्तभिस्सालैः वेष्टितं चिन्तयेद्बहिः ॥ ४४ ॥
प्। ३७४)
माणिक्य व प्रद्वारे च शङ्खपद्मनिधीयतः ।
शङ्खं शङ्खेन्दुवर्णाभं पद्मयुक्तनिभं भवेत् ॥ ४५ ॥
महोदरौ ह्रस्वबाहू शङ्खपद्मभृतावुभौ ।
गणपद्वादशानां च तथाङ्गानां स्वरूपकम् ॥ ४६ ॥
रक्तवर्णा गजमुखाः पाशाङ्कुशनमोयुताः ।
एवं सञ्चिन्त्य सम्पूज्य जपसङ्ख्यादि वक्ष्यते ॥ ४७ ॥
चत्वारिंशत्सहस्रं च चतुर्लक्षजपं भवेत् ।
दशांशं तर्पणं चैवमभिषेकाहुतिक्रिया ॥ ४८ ॥
घृतैस्समिद्भिरन्नैश्च अष्टद्रव्यैर्विशेषतः ।
प्राणप्रतिष्ठामन्त्रेण जप्त्वा मूलं ततः क्रमात् ॥ ४९ ॥
प्। ३७५)
अष्टोत्तरशतं जप्त्वा तूष्णीमेतत्प्रभक्षयेत् ।
साध्यदिश्यमनोभूत्वा सप्तरात्राद्वशीकृतम् ॥ ५० ॥
मधुरत्रयसंयुक्तं गडूची वह्निहोमतः ।
सर्वोपद्रवनाशश्च ज्वरनाशश्च जायते ॥ ५१ ॥
तिलतण्डुलकैर्लक्ष्मीवर्धनं वश्यकृद्भवेत् ।
कन्यार्थीलाजकैश्चैव मयूरत्रयकेक्षुभिः ॥ ५२ ॥
सप्तरात्रं च जुहुयाद् वरार्थी चैवमेव हि ।
नालिकेरैश्च जुहुयाच्चतुर्थीं प्रति साधकः ॥ ५३ ॥
राजश्रीस्तस्य वैभूयादन्वहं वर्धते क्रमात् ।
घृतसंसिक्तहविषा सर्वकार्यं च साधयेत् ॥ ५४ ॥
प्। ३७६)
दधिसम्मिश्रलवणैरर्धरात्रे हुतक्रिया ।
आकर्षणादिभिश्चैव संवादस्य फलं तथा ॥ ५५ ॥
मयूरत्रयसंयुक्तैः पलाशकुसुमैस्तथा ।
होमात्कवित्वसंसिद्धिर्बृहस्पतिसमो भवेत् ॥ ५६ ॥
बिल्वैः संसिक्तजैश्चैव स्वर्णपुष्पसमुद्भवैः ।
उत्पलैर्बन्धुजीवैश्च नन्द्यावर्तैश्च चम्पकैः ॥ ५७ ॥
पाटलैर्नागपुष्पैश्च पुन्नागैर्मधुरत्रयैः ।
होमेनेन्द्रसमः श्रीमान् गुरुभक्तिविशारदः ॥ ५८ ॥
शर्करा लाजहोमेन तेजस्वी चार्कसन्निभः ।
आत्मान मनुसञ्चिन्त्य सम्यग्घुत्वा विचक्षणः ॥ ५९ ॥
प्। ३७७)
साम्यस्य हृदयाम्भोन्नं जीवयुक्तं प्रबन्धयेत् ।
पातिघ्नबध्वा तत्सर्वं कण्ठं तत्पुष्करेण तु ॥ ६० ॥
घृणिश्च शिरसि न्यस्य गणपैः पृष्ठपार्श्वयोः ।
तलप्रहारैरभितः प्रेर्यमाणं विभावयेत् ॥ ६१ ॥
सप्तरात्र प्रयोगेण सर्वाघघर्षणं भवेत् ।
स्वबीजयुक्तभूबीजम् अनुस्वरयुतं तथा ॥ ६२ ॥
चन्द्रं चण्डसमोपेतं ग्लौकारं स्तम्भनं भवेत् ।
हरिद्रया शरावास्यं मध्ये साध्यस्य नाम च ॥ ६३ ॥
ग्लौकारं मध्यसंवीतं संलेख्य तदनन्तरम् ।
प्राणप्रतिष्ठां कृत्वा तु वक्ष्यमाणक्रमेण तु ॥ ६४ ॥
प्। ३७८)
अमुष्य प्राण इहप्राण अमुष्य जीव इह स्थितः ।
अमुष्य सर्वेन्द्रियाणि वाङ्मनः कायकर्म च ॥ ६५ ॥
प्राणाश्च इह आयान्तु स्वाहान्तं मन्त्रकं भवेत् ।
गुरुः शिष्यं शक्रमतः कुर्यात्प्राणप्रतिष्ठिकाम् ॥ ६६ ॥
अनेनैव क्रमेणैव साध्यप्राणान्प्रतिष्ठिपेत् ।
पीतपुष्पैः समभ्यर्य्च मूलमन्त्रेण सञ्जपन् ॥ ६७ ॥
सहस्रकं जपं कृत्वा शरावेणान्य सम्पुटम् ।
चतुष्पदे तु निखनेन मध्यरात्रौ विशेषतः ॥ ६८ ॥
साध्यं चाधो मुखं ध्यात्वा चात्मानं विघ्ननायकम् ।
सृक् गजस्तम्भनं चैव गमनं क्रोधमेव च ॥ ६९ ॥
प्। ३७९)
उत्साहस्तम्भनं चैव धर्महानिं च वर्जयेत् ।
साध्यसाधकयोर्नाम लिखेद्योषारचेन च ॥ ७० ॥
इष्टकायुगले चैव पूर्ववन्मन्त्रसम्पुटम् ।
त्रिसहस्रं जपित्वा तु निखनेत्सैन्यमार्गके ॥ ७१ ॥
सेनास्तम्भं भवेदेवमष्टद्रव्यैश्च पूजयेत् ।
एभिर्द्रव्यं तु बालेभ्यो दद्यान्नित्यं तु भक्तियुक् ॥ ७२ ॥
शत्रुनाम लिखेद्बिम्बे तत्पत्राणां रसेन च ।
नवसाहस्रजापेन साधितं रिपुमार्गके ॥ ७३ ॥
निखनेत्स्तम्भास्था नं पूर्ववद्विघ्नपूजने ।
पापिष्ठं धर्मरोधिं च पिशुनं भञ्जनं तथा ॥ ७४ ॥
प्। ३८०)
देवद्रव्यापहारिं च गुरुद्रव्यापहारकम् ।
उच्चाटयेत्स्वदेशात्तु तदुपायमिहोच्यते ॥ ७५ ॥
श्मशानाङ्गारमाहृत्य तपोनिधनवृक्षके ।
विचूर्ण्य तदक्षकं च मन्त्र सम्पुटमालिखेत् ॥ ७६ ॥
गजासिहसृकं चैव वैरिगेहे विनिक्षिपेत् ।
तच्चूर्णमात्रसम्पर्काद् देशाद्देशान्तरं व्रजेत् ॥ ७७ ॥
श्मशानास्थि समादाय इष्टार्थाङ्गुलसम्मितम् ।
सहस्रजप्तमेतेन शत्रुद्वेषे निखानयेत् ॥ ७८ ॥
उच्चाटनं भवेदेतत् पापकर्मरतस्य हि ।
निम्बकाकालयं गृह्य दग्ध्वा चाङ्गारवारके ॥ ७९ ॥
प्। ३८१)
श्मशानचित्या तद्दग्ध्वा तद्देशोद्भूतवह्निना ।
तन्मध्ये शत्रुसञ्ज्ञां च मन्त्रसम्पुटके लिखेत् ॥ ८० ॥
त्रिसहस्रं जपित्वा तु तन्मूर्ध्नि च विनिक्षिपेत् ।
देशाद्देशान्तरं भूत्वा दुःखीभवति निश्चयम् ॥ ८१ ॥
पापस्मृतियुतं क्रूरम् अशिक्षितमनर्थकम् ।
होमयेदुक्तमार्गेण शृणुत्वं यत्तदुच्यते ॥ ८२ ॥
तन्नाममक्षरं मध्ये लिखित्वा कर्मसम्पटम् ।
तालपत्रे च पुत्तल्यां निधाय तदनन्तरम् ॥ ८३ ॥
मधूच्छिष्टेन तत्सर्वं पिण्डं कृत्वार्धरात्रके ।
तीक्ष्णं च तैलेनाज्येन श्मशाने शुष्कदूर्धरे ॥ ८४ ॥
प्। ३८२)
समिद्भिर्दाहयेत्तत्तत् सप्तरात्र प्रयोगतः ।
मोहनं च भवेत्तस्य विस्मृतिश्च विशेषतः ॥ ८५ ॥
धर्मस्य कृतमेतच्च प्रायश्चित्तं च कारयेत् ।
भूर्जपत्रे लिखेत्साध्य वि * * तमनुक्रमात् ॥ ८६ ॥
कुलालहस्तमृत्स्नां च सङ्गृह्याकृतिवद्भवेत् ।
तस्योदरे विनिक्षिप्य भृङ्गीस्नेहेन लेपयेत् ॥ ८७ ॥
आलोढ्य तज्जलेनैव लिपेद्वश्यमनुत्तमम् ।
अथाञ्जलिकरीं चैन्द्रवल्लीलक्ष्मीं च भद्रिकाम् ॥ ८८ ॥
विष्णुक्रान्तिं च वाराहिं भृङ्गीपूर्वां च देविकाम् ।
सहां चैव समुद्धृत्य प्रत्येकं तु शतं जपेत् ॥ ८९ ॥
प्। ३८३)
अष्टोत्तरं जपित्वा तु धारयेत्सर्ववश्यकम् ।
प्रत्येकमुक्तं तत्रापि सर्वसंयोजनं शृणु ॥ ९० ॥
दशांशमञ्जलिः प्रोक्ता रविसङ्ख्येन्द्रिका लता ।
लक्ष्मीर्वसुसमांशास्या द्रुमाङ्गं सर्वभद्रिका ॥ ९१ ॥
विष्णुक्रान्तिं मनोसङ्ख्या मुसली षोडशांशकम् ।
मयूरद्व्यंशकं प्रोक्तं वश्ये दूर्वा विशेषतः ॥ ९२ ॥
देवी तु गुणसङ्ख्या स्यादेकांशं तु सदा भवेत् ।
अष्टोत्तरशतं जप्त्वा प्रत्येकं तदनन्तरम् ॥ ९३ ॥
संयोज्य पिष्ट्वा सकलं शुष्यैः पूर्णयुते दधि ।
गुलिकीकृत्य सञ्जप्य सहस्रं भक्ति संयुतम् ॥ ९४ ॥
प्। ३८४)
गणनाथं च सम्पूज्य तिलकालेपनं भवेत् ।
भस्म संयुक्तमेतत्तु सर्ववश्यकरं परम् ॥ ९५ ॥
सर्वपापक्षयं चैव धनधान्यविवर्धनम् ।
महागणपपूजायां यत्प्रोक्तं तद्धि युज्यते ॥ ९६ ॥
उक्त साधनतः पश्चाच्चतुरावृत्तिसाधनात् ।
प्रत्यक्षी भवति क्षिप्रं गणनाथो विशेषतः ॥ ९७ ॥
इत्यचिन्त्य विश्वसादाख्ये क्षिप्रगणाधिपपूजाविधिः सप्तदशः पटलः ॥