१६

लोकसंरक्षणार्थाय * * * शंसनाय च ।
देवानां प्रार्थनासिध्यै गजास्यासुररूपिणः ॥ १ ॥

नाशाय विघ्नराजस्य चोत्पत्त्यै शङ्करस्वयम् ।
गजरूपं समास्थाय देव्या सह ॥ २ ॥

अष्टारं पद्ममालिख्य पूर्वाद्यष्टदले पुनः ॥ ३ ॥

प्। ३५४)

दलमूले सुरद्वन्द्वयुक्तं षोडशकं न्यसेत् ।
पूर्वस्य दलमध्येऽपि कवर्गं पञ्चकं न्यसेत् ॥ ४ ॥

आग्नेयेऽपि चवर्गं स्याद्याम्ये चैव ठवर्गकम् ।
राक्षसे च तवर्गं स्यात्पवर्गं पश्चिमे न्यसेत् ॥ ५ ॥

ॐ श्रीं ग्लीं शिरसे स्वाहा । ॐ ह्रीं ह्रूं शिखायै वषट् ।
ॐ क्लीं गैं कवचाय हुम् । ॐ ग्लौं गों नेत्रत्रयाय वौषट् ॥ ६ ॥

ॐ गं गः अस्त्राय फट् । उक्तं षडङ्गं परिकीर्तितम् ।
षडश्रं कर्णिकामध्ये तन्मध्ये च त्रिकोणकम् ॥ ७ ॥

योनिरूपमिदं ध्यात्वा दलेषु नवशक्तयः ।
तीव्रा च ज्वालिनी कन्दा * * * * * * * * ॥ ८ ॥

प्। ३५५)

सर्वशक्तिपदं चोक्ता कमलासनसन्नुतिः ॥ ९ ॥

पूर्वादीशानपर्यन्तं दलेषु क्रमशो न्यसेत् ।
अष्टशक्तिं च विन्यस्य नवमी काम्यदायिनी ॥ १० ॥

सकल सम्पत्तियुते कमलासन मध्यमे ।
देवमावाह्य सर्वश्री वचनं विघ्ननाशनम् ॥ ११ ॥

ऐङ्क्षवं चादिमध्ये तु रत्नद्वीपं विचिन्तयेत् ।
मन्दारपारिजातादि कल्पवृक्षैः समाहितः ॥ १२ ॥

सर्वर्तुफलसंयुक्तैः अभीष्ठफलदायिभिः ।
ज्योत्स्नाबालातपैर्युक्तं चतुर्दिक्षु सुशीतलम् ॥ १३ ॥

प्। ३५६)

मलयानिलपोतेन नृद्वच्छीकरहारिणा ।
खरिनादिना
सेवितं सर्वदा वज्रप्रवालमणिपल्लवैः ॥ १४ ॥

सर्वगन्धसमोपेतैः पुष्पैः फलसमन्वितैः ।
कोटिकोटिमहाशाखा
रङ्गदा चैव मिक्षुचापमनन्तरम् ॥ १५ ॥

तथा त्रिशूलं चक्रं च सर्वभागगताः क्रमात् ।
वामे पद्मं च पाशं च रक्तोत्पलमनूपमम् ॥ १६ ॥

मञ्जीरं * * * * * * * * * न्द्र निर्मलम् ।
सरत्नं हेम कुम्भं च पूरितं वसुभिर्वृतम् ॥ १७ ॥

पुष्करेण दधानं तं कुङ्कुमाभमनूपमम् ।
किरीटमकुटोपेतं नेत्रत्रयविराजितम् ॥ १८ ॥

प्। ३५७)

शूर्प * * * * * * * * * * * * वृतान् ।
क्षेपयन्तं मदोन्मत्तं सर्वाभरणभूषितम् ।
तस्य वामोरुसंलीनां जगत्कारणकारणाम् ॥ १९ ॥

सुवर्णवर्णां सुश्रोणीं सर्वलक्षण संयुताम् ।
अर्धचन्द्रसमाकारललाटां चन्द्रमण्डिताम् ॥ २० ॥

त्रिणेत्रां चतुर्भुजां देवीं सर्वाभरणबूषिताम् ।
सव्यहस्तेन देवेशं श्लिष्यन्तीं प्रेमनिर्भराम् ॥ २१ ॥

वामहस्तेन पाशं च दधानां मदविह्वलाम् ।
देवं च वामहस्तेन निबिडस्तनमध्यमम् ॥ २२ ॥

श्लिष्यन्तं सर्वदा सम्यगानन्दामृतनिर्भरम् ।
रत्नौघं पुष्कराग्रेण साधिका च मुहुर्मुहुः ॥ २३ ॥

प्। ३५८)

वर्षन्तं देवदेवेशं चिन्तयेत्साधकोत्तमः ।
आवाहनादिभिस्सर्वैः सम्पूज्य परमेष्टिनम् ॥ २४ ॥

तद्वद्देवीं समभ्यर्च्य भक्तियुक्तो दृढव्रतः ।
त्रिकोणबाह्यषट्कोण स्यान्तराग्रे च देवयोः ॥ २५ ॥

बिल्वमूले च विष्णुं च श्रियं सर्वाङ्गसुन्दरीम् ।
चतुर्भुजं विशालाक्षं शङ्खचक्रगदाम्बुजम् ॥ २६ ॥

दधानं तस्य वामे च लीनां पद्मकरद्वयम् ।

परश्वथं च शूलं च वरदं चाभयं तथा ।
दधानं भावयित्वा मां पाशाङ्कुशसमुज्वलाम् ॥ २८ ॥

प्। ३५९)

पूर्वे पिप्पलवृक्षस्य मूले कामं रतिं तथा ।
इक्षुचापं च पुष्पेषुम् अभयं वरदं तथा ॥ २९ ॥

तस्य देवीं कराभ्यां तु रक्तोत्पलयुतां स्मरेत् ।
उत्तरे भूमिदेवीं च वराहं विष्णुविग्रहम् ॥ ३० ॥

गदाचक्राभयवरान् दधानं च चतुर्भुजैः ।
तस्य देवीं शुक्रं चैव कण्ठिशङ्कलमोद्भवम् ॥ ३१ ॥

दधानां वर्णान्तां सर्वाभरणसंयुताम् ।
प्रियङ्गुमूले सन्दीप्तां भावयेन्नन्दिकेश्वर ॥ ३२ ॥

प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
सट्कोणमध्ये षड्विघ्नान् सर्वाभीष्ट प्रदायकान् ॥ ३३ ॥

प्। ३६०)

आमोदमग्रभागे च प्रमोदं सुमुखास्वतम् ।
गणपं रत्नसङ्काशं गजवक्त्रसमन्वितम् ॥ ३४ ॥

मौक्तिकाभं शङ्खनिधिं पद्माख्यं मणी सन्निभम् ।
द्वितीयावरणं प्रोक्तं तृतीयं चाङ्गसंयुतम् ॥ ३५ ॥

चतुर्भिश्च त्रिभिश्चैव पञ्चमं लोकपालकैः ।
स्वस्वनाम्ना च गन्धाद्यैः पूजयेन्नन्दिकेश्वर ॥ ३६ ॥

चत्वारिंशत्सहस्रं च चतुर्लक्षमतः परम् ।
चतुस्सहस्र संयुक्तं जपसङ्ख्या क्रमोदिता ॥ ३७ ॥

वा * * * * * णां च चत्वारिंशत्प्रतर्पयेत् ।
जपान्ते जुहुयादष्टद्रव्यैस्तत्तु दशांशतः ॥ ३८ ॥

प्। ३६१)

पृथुकं मोदकैश्चैव लाजैश्चेक्षुस्तिलं तथा ।
सक्तवो नालिकेरश्च कदली फलमष्टकम् ॥ ३९ ॥

एतैर्द्रव्यैश्च जुहुयाद् अन्वहं भक्तिसंयुतः ।
गुरुणाचाभिषिक्तश्च कलशैश्च चतुर्विधैः ॥ २० ॥

चतुर्दलयुते पद्मे तन्मूलेन कृते तथा ।
क्षीरपादपबिल्वं च वटं पिप्पलमेव च ॥ ४१ ॥

फलिनीं च समादाय तेषां चाक्षय वारिभिः ।
पूजयेत्कलशान्सम्यक् गणेशान्षट् समर्चयेत् ॥ ४२ ॥

विन्यस्यामृतबीजं तु चत्वारिंशच्छतं जपेत् ।
अभिषिञ्चेद्गुरुः शिष्यम् अनुग्रहपुरस्सरम् ॥ ४३ ॥

प्। ३६२)

हेमपुष्।पैः समभ्यर्च्य हेमयज्ञोपवीतकैः ।
हेमाङ्गुलीयकैश्चैव चित्रवस्त्रैश्च व्रीहिभिः ॥ ४४ ॥

शिष्योऽपि दक्षिणां दद्याद्गुरुभक्तिसमन्वितः ।
विभवस्यानुसारेण देशिकाय निवेदयेत् ॥ ४५ ॥

पश्चात्सर्वाणि कार्याणि साधकोपि समाचरेत् ।
अष्टद्रव्यैश्च हुत्वा तु तत्तद्द्रव्यसमाप्तये ॥ ४६ ॥

काञ्चनाप्त्यैव मधुना जुहुयादयुतद्वयम् ।
गोक्षीरेण ज्ञानसिध्यै लक्ष्म्यै गोसर्पिषा तथा ॥ ४७ ॥

कीर्त्यै शर्करया लाजैः सर्वसिध्यै दधिं हुनेत् ।
अन्नेनान्नसमृद्धिः स्यात्तिलैर्ग्रन्थसमृद्धये ॥ ४८ ॥

प्। ३६३)

तण्डुलैस्सहितैरेव कुसुम्भैर्वाससैस्तथा ।
अभीष्टक्षेत्रमृत्स्नां च सङ्गृह्य क्षीरमिश्रितम् ॥ ४९ ॥

जुहुयात्क्षेत्रसिध्यै च राज्यसिध्यै विशेषतः ।
प्रतिपक्षक्षत्रियस्य नगरोत्सवमृत्स्नुभिः ॥ ५० ॥

अष्टद्रव्यादिभिस्सार्धं क्षीरैस्सहैव होमयेत् ।
राज्याप्तिर्नचिरादेव सिध्यत्येव न संशयः ॥ ५१ ॥

कन्यार्थी शालिजैः पुष्पैः पु द्योतिभिरन्वहम् ।
जुहुयात्पतिकामी च छिन्नोद्भवसमिद्वरैः ॥ ५२ ॥

आक्तैः स्त्रिमधुरैश्चैव वरं सा लभते क्षणात् ।
राज्यानां वृद्धये पद्मैः त क् फलैरपि ॥ ५३ ॥

प्। ३६४)

मन्त्रिणां कैरवैरेवमश्वत्थादिभिरग्रजान् ।
समिद्वरैश्च जुहुयाल् लवणैरश्वायवैतसः ॥ ५४ ॥

दृष्टयेप्यन्त्यजातीनां पारिभद्रस्य पुष्पकैः ।
मधुरत्रयसंयुक्तैः जुहुयान्नन्दिकेश्वर ॥ ५५ ॥

पाटलैः पुत्र संसिध्यै राज्यस्य शत्रुशान्तये ।
दूर्वाकाण्डस्य होमेन दीर्घायुश्च भवेत्सदा ॥ ५६ ॥

अपामार्गसमिद्धोमाद् विस्मृत्यादिविनाशनम् ।
छिन्नोद्भवैस्समिद्भिश्च पञ्चमृतसमन्वितैः ॥ ५७ ॥

कालकूटादिगरलनाशनं सर्वसिद्धिदम् ।
चतुर्थितं जपेन्नित्यं गुरौ भक्तिसमन्वितः ॥ ५८ ॥

प्। ३६५)

देहान्ते मुक्तिमाप्नोति स तत्रैव न संशयः ॥ ५८ १।२ ॥

इत्यचिन्त्य विश्वसादाख्ये महागणपतिपूजाविधिः षोडशः पटलः ॥