१५

अर्धनारीश्वरस्यैव साधनं वक्ष्यतेऽधुना ।
असञ्ज्ञकात्परात्तत्वात् परं सूक्ष्ममनन्तकम् ॥ १ ॥

बिन्दुनादस्वरूपं च ज्योतिर्लिङ्ग स्वरूपकम् ।
शिवशक्तिमयं तेजो यत्तत्वं सृष्टिकारणम् ॥ २ ॥

अर्धनारीश्वरं रूपमास्थितं नन्दिकेश्वर ।
शिवशक्त्यैक्यरूपे तु वार्धनारीश्वरं मतम् ॥ ३ ॥

प्। ३२४)

पुंसयोः प्रथमं रूपं शुद्धये जगदीश्वर ।
सदाशिवस्वरूपाभूदीशोप्यैशी मनोन्मनी ॥ ४ ॥

लिङ्गार्चनं पुरा प्रोक्तमिदानीं चार्धनारिकम् ।
शिवरूपं तथा रौद्रम् आज्ञासिद्धिप्रदं शुभम् ॥ ५ ॥

सम्यग्रूपं सदानारीत्युभयं मोक्षदं भवेत् ।
आज्ञाकार्यकृतं रौद्रं शक्त्यर्थं शमनाय च ॥ ६ ॥

तस्माद्द्वौ रौद्रसौम्यौ हि चार्धनारीश्वरं परम् ।
गुरुं खं शि हेतुर्वा भयं द्रावयति प्रभुः ॥ ७ ॥

रुद्र इत्युच्यते यस्माच्छिवः परमकारणः ।
मृद्वासने सुखासीनोऽप्येकचित्तः प्रसन्नधीः ॥ ८ ॥

प्। ३२५)

गुरुपूजां प्रकुर्वीत चार्धनारीश्वरं यजेत् ।
सव्यं श्वेतं तथा श्यामं वामं रूपमिदं भवेत् ॥ ९ ॥

पद्मासनस्थितौ ज्ञेयावर्धाधिक्य द्विनेत्रकौ ।
ललाटनयनं देवे चार्धेक्षणमनूपमम् ॥ १० ॥

दशहस्तसमोपेतं मकुटद्वयसन्निभम् ।
देवस्य भागे षण्मुद्रां पञ्चमुद्रां तु वामके ॥ ११ ॥

पञ्चमुद्रासमायुक्तं शिरोमालासमायुतम् ।
कपालिकर्णे पिञ्छञ्च पलं चैवापसव्यके ॥ १२ ॥

खट्वाङ्गं च त्रिशूलं च चास्थिमालाधरोहरः ।
निवेद्यहस्तमेकं तु सर्वाधारे सुधारयेत् ॥ १३ ॥

प्। ३२६)

द्वौ हस्तौ गजचर्मापि धारयेदूर्ध्वबाहुके ।
एवं ध्यात्वा विशेषेण पूजयेद्गन्धपुष्पकैः ॥ १४ ॥

लिङ्गे वा स्थण्डिले वापि वर्धयित्वा पटेऽपि वा ।
चित्रे वा स्वगिरा वापि भावयेत्पूजयेत्क्रमात् ॥ १५ ॥

ॐ ऐं ग्लौं ह्रें ह्रीं ह्रें ह्रौं ह्लौम् अघोरेभ्यः ह्रौं ह्लौं प्रों
ह्रीं श्रीं ग्लें क्ष्मां (६६)
एतन्मन्त्रं जपित्वा तु शिवाज्ञां लभते सदा ॥ १६ ॥

पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् ।
दीपं नैवेद्यकं चैव मूलमन्त्रेण पूजयेत् ॥ १७ ॥

होमं च तर्पणं चैवाप्यभिषेकं तथैव च ।
त्रिपञ्चाशन्तु बीजानां मालया मन्त्रितं भवेत् ॥ १८ ॥

प्। ३२७)

सप्तभिः पूर्वबीजैश्च पञ्चब्रह्मषडङ्गकम् ।
ॐ हें हौं क्षौं श्रीं ह्रीं ह्रौम् ईशानाय नमः ॥ १९ ॥

एवं च पञ्चब्रह्म स्यात् षडङ्गं तु ततः परम् ।
ॐ ऐं ह्लौं प्रं प्रीं प्रें ह्रें ह्रौं हृदयाय नम इत्यादि ॥ २० ॥

षडङ्गविधिरेवं स्यादर्चा पूजा च पूर्ववत् ।
पूजान्ते तु पुनर्न्यासं साधको वर्धयेत्क्रमात् ॥ २१ ॥

सदा मन्त्रं सदाध्यानं कल्पयित्वात्वकल्पितम् ।
कल्पमाकर्षणं चैव पुरक्षोभं प्रतिश्रयः ॥ २२ ॥

अतीतानागतं चैव वर्तमानं तथैव च ।
भूमित्यागं तथावेशं प्रभुत्वं बुद्धिवर्धनम् ॥ २३ ॥

प्। ३२८)

मायालीनान्नरेन्द्रांश्च देवान्गरुडकिन्नरान् ।
दानवानसुरान्यक्षान् किङ्करांश्च विधीयते ॥ २४ ॥

सर्वज्ञानं च लभते विश्वामरजयं भवेत् ।
सर्वदा समरूपा च देवी देवेन वक्ष्यते ॥ २५ ॥

वश्यमाकर्षणं रक्षां द्विभुजं वरदाभयम् ।
पुण्यादिशान्त्यौ च स्वर्णवर्णं चतुर्भुजम् ॥ २६ ॥

फलं त्रिशूलाभयदं वरदं च तथैव च ।
स्तम्भने मोहने चैव हरिद्रासन्निभं प्रभुम् ॥ २७ ॥

चतुर्भुजमुदाराङ्गं मूत्रापूर्वत्र चोदितम् ।
कृष्णमुच्चाटने प्रोक्तं दीर्घबाहुं भयानकम् ॥ २८ ॥

प्। ३२९)

शूलं कपालटङ्कं च खट्वाङ्गमेव च ।
खेटं खड्गं च पाशं च दधानं भावयेत्तदा ॥ २९ ॥

वारुणे धूम्रवर्णाभं भस्मैः षोडशभिर्युतम् ।
पाशाङ्कुशाभयदं च कपालं चोर्ध्वबाहुके ॥ ३० ॥

शेषद्वादशशूलं च महाघोरभयान्वितः ।
ज्ञानेन श्वेतवर्णाभं प्रसन्नवदनं प्रभुम् ॥ ३१ ॥

अक्षमालाभयं चैवमभयं वरदं तथा ।
चतुर्भुजैर्दधानं तं ध्येयं वै उमासरवम् ॥ ३२ ॥

अतीतानागते कार्ये योगध्यानसमायुतः ।
इन्द्रियाणां चले काले सर्वं दृश्यं च यद्भवेत् ॥ ३३ ॥

प्। ३३०)

स्वप्ने च दृश्यते सर्वं तत्कार्यं च विमर्शयेत् ।
कुक्कुटासन संस्थोपि लोकयेत्तु शनैः शनैः ॥ ३४ ॥

हस्ताङ्गुल क्रमेणैव विनम्य च विनम्य च ।
वारणायोगसंयुक्तोऽप्याकाशगमनं भवेत् ॥ ३५ ॥

अनुक्तः सर्वकार्यं तु विज्ञाप्य गुरवे यदा ।
आज्ञां कब्ध्वोक्तमार्गेण पूजयेन्नन्दिकेश्वर ॥ ३६ ॥

पुण्यक्षेत्रे सुखासीनो मन्त्रमेतत्सुधारयेत् ।
आशु तेन जपात्सिद्धिर्जपान्तं होमतर्पणम् ॥ ३७ ॥

अभिषेकं दशांशं तु षडङ्गं तु दशांशकम् ।
भक्तिविश्वास अद्रोह श्रद्धाशान्ति समन्वितम् ॥ ३८ ॥

प्। ३३१)

गुर्वाज्ञा पालनं सत्यज्ञान क्लेशसमानसः ।
हविष्य भोजनं चैव दशकं साधकश्चरेत् ॥ ३९ ॥

प्रोक्त सम्पूर्णता विद्या सार्धविद्यामथोच्यते ।
मानुषं त्र्यम्बकायाथ उमायै तदन्तरम् ॥ ४० ॥

क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि ।
ॐ तु षट्त्र्यम्बकायाथ उमायै तदनन्तरम् ॥ ४१ ॥

क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि ।
ॐ मानुषं त्र्यम्बकाय उमायै क्षमिति ॥ ४२ ॥

एतन्मन्त्रं जपित्वा तु लक्षमात्रेण साधकः ।
पूर्वोक्तानि च कार्याणि सर्वमेतेन कारयेत् ॥ ४३ ॥

प्। ३३२)

वल्मीकारूढमङ्कोलं शस्त्राशनिनिबाधितम् ।
सोमवारे च तन्मूले रक्षामन्त्रेण बन्धयेत् ॥ ४४ ॥

सूत्रेण तिष्ठतिष्ठेति महाबलाय महापुनः ।
वीर्याय शिवायेति नमस्कारान्तमन्त्रकम् ॥ ४५ ॥

ॐ तिष्ठ तिष्ठ महाबलाय महावीर्याय शिवाय नमः ।
एतन्मन्त्रं जपित्वा तु पश्चादङ्गारवारके ॥ ४६ ॥

उत्तराभिमुखश्चैव जटामादाय साधकः ।
हरिद्रारोचनायुक्तं पेषणं पेषयेत् क्रमात् ॥ ४७ ॥

नक्तगलिकतोयेन शुद्धकीकृत्य बुद्धिमान् ।
वर्षा न्यातपे देशे शुद्धभाण्डे विनिक्षिपेत् ॥ ४८ ॥

प्। ३३३)

मूलमन्त्र सहस्रेण सञ्जप्य कुसुमादिभिः ।
महापातकसंयुक्तान् शिवद्रोहयुतान्परान् ॥ ४९ ॥

गुरुद्रोहांश्च राष्ट्राणां ग्रामद्रोहांश्च साधकैः ।
गुरुमूर्ध्नि नमस्कुर्यात् तत्प्रसादं च सर्वदा ॥ ५० ॥

आलिप्य हन्ति तान्भस्म जपध्यानसमायुतः ।
लाभं चालाभकं चैव सुखदुःखं महाद्भयम् ॥ ५१ ॥

सेनान्तगं पुरक्षोभवह्न्यादि सकलानपि ।
यदेतेषामेकतमः संसिद्धिर्नास्तिनास्ति च ॥ ५२ ॥

तालत्रयं च कृत्वा तु जलम्मध्ये निमज्जयेत् ।
अन्यतीरेण वासांसि विसृज्यान्येन वेष्टयेत् ॥ ५३ ॥

प्। ३३४)

नालोकयेत्पृष्ठपार्श्वम् अन्यतीर्थं समाश्रयेत् ।
वक्रवत्युपचारेण सुगन्धामलकादिना ॥ ५४ ॥

शिवशक्तिमथाप्याप्त्वा सुधामन्त्राभिषेचनम् ।
भैरव इत्युक्तकलाषोडशकलान्वितः ॥ ५५ ॥

मन्त्रं जप्त्वा सुधाकुम्भैरभिषेकं च कारयेत् ।
स्वक्रियावाससादींश्च यायाद्भावसमन्वितः ॥ ५६ ॥

दुर्निमित्तावलोकेऽपि पुनःस्नानजपादिकम् ।
शिवोहं भावयित्वातु घृतक्षीराभिषेचनम् ॥ ५७ ॥

भुक्त्वा तु भोजने लोकमक्षिकाद्यादिकुत्सिते ।
तुषा च दर्शने चैवमपक्वं जातिपक्षकम् ॥ ५८ ॥

प्। ३३५)

अन्नक्षत्रिधापरिस्पन्ददीपनाशादिदुर्गुणे ।
दृष्टश्चेदुत्थितो भूत्वा समाचम्य प्रसन्नधीः ॥ ५९ ॥

अमृताक्षरमन्त्रं च जपेच्छक्त्या समाहिताः ।
दुर्निमित्त विहीनश्चेत् समं हुत्वा समाचरेत् ॥ ६० ॥

मन्त्रन्यासादिकं कृत्वा चामृताक्षरकं जपेत् ।
शुद्धदेशे शयानस्य स्वप्ने सर्व प्रकाश्यते ॥ ६१ ॥

स्वप्नं सकलमावेद्य गुरवे कार्यमाचरेत् ।
तदाज्ञा सर्वकार्याणां सफलांशं प्रकल्प्यते ॥ ६२ ॥

तत्वचिन्तामणि ख्यातोप्येकाक्षरमनेकयुक् ।
रेफञ्च दक्षबाहुं च श्वेतं च तदनन्तरम् ॥ ६३ ॥

प्। ३३६)

महाकालं च वह्निं च मारुतं च मरुस्सरम् ।
अम् ईशान्त क्रमाज्ज्योत्स्ना पिण्डमेकाक्षरं परम् ॥ ६४ ॥

भुक्तिदं मुक्तिदं चैव देवदेव प्रियावहम् ।
क्षौम् ऊं रेफेण हृदयं विद्या अकारौ शिरो भवेत् ॥ ६५ ॥

षकारेण शिखाकार्या मकारेणत्वनुक्रमाः ।
नेत्रं तु वह्निना चैव यकारेणास्त्रकं भवेत् ॥ ६६ ॥

व्यालं च चन्द्रचूडं च जटाचूडधरं हरम् ।
अर्धद्विनेत्रयुक्तं च स्त्रीविलासपरं प्रभुम् ॥ ६७ ॥

सोत्पलामालती मालाविलसत्कुन्तलां शिवाम् ।
एकनेत्रां प्रशान्तान्तां पतिप्रेमप्रवर्धनीम् ॥ ६८ ॥

प्। ३३७)

कर्णपूरयुतं सच्यं ताटकं वामकर्णके ।
कालकण्ठं सुनाशं च दम्पत्योस्ससमद्भुतम् ॥ ६९ ॥

हेमरत्नादिकं वामे सव्ये कूर्माभिसंयुतम् ।
भाविभावयुतं वामे सोत्पलं पाणिपल्लवे ॥ ७० ॥

कपालशूलसंयुक्तं द्विहस्तं फणिकङ्कणम् ।
दक्षिणं बाहुयुगलं रत्नहेमादिभूषणैः ॥ ७१ ॥

वाममेकभुजं पीनस्तनमेकं मनोहरम् ।
व्यालोपवीतहारं च दक्षिणं भस्मलेपितम् ॥ ७२ ॥

मुक्ताहारलसद्वीरं कुङ्कुमचन्दनैः ।
कर्पूरागरुकस्तूरीलेपितं वामपार्श्वकम् ॥ ७३ ॥

प्। ३३८)

व्याघातमालभागं च कह्लारकृतमालकम् ।
व्याघ्रचर्मोपरिलसद्वासुकीमेखलाञ्चितम् ॥ ७४ ॥

दक्षिणं देवदेवस्य विचित्रक्षौमवस्त्रयुक् ।
रत्नकाञ्चीकलापाढ्यं जगद्धातुं च वामकम् ॥ ७५ ॥

नूपुरं वीरबलयं महापद्मविराजितम् ।
दक्षिणं चादिदेवस्य मणिमञ्जीरसंयुतम् ॥ ७६ ॥

लाक्षया रञ्जितं वामं ह्रस्वकिङ्किणिकाञ्चितम् ।
देवासुरनुतं वेदैराक्रन्दितमहर्निशम् ॥ ७७ ॥

अर्धनारीश्वरं देवं भोगमोक्षफलप्रदम् ।
एवं ध्यात्वा जपेल्लक्षं गुरौ भक्तिसमन्वितः ॥ ७८ ॥

प्। ३३९)

दशांशं तर्पणं कुर्यादभिषेकं तथैव च ।
अयुतं च हुनेत्पश्चात् तिलतण्डुलकैरपि ॥ ७९ ॥

मधुक्षीरघृतासक्तैः गुरौ भक्तिसमन्वितः ।
अनन्तादि षडुत्थं यद् आसनं परिकल्पयेत् ॥ ८० ॥

तस्योपरि समावाह्य गन्धपुष्पादिमार्चयेत् ।
आवाहनादि सद्यान्तं पूर्ववन्नन्दिकेश्वर ! ॥ ८१ ॥

अङ्गैगद्यावृतिः पूज्या चाष्टाक्षरमतः परम् ।
अष्टमूर्तिस्वनाम्ना च भक्त्या पुष्पैः प्रपूजयेत् ॥ ८२ ॥

रं सूर्यात्मने नमः । कञ्जालात्मने नमः ।
रं वाप्यात्मने नमः । यम् आकाशात्मने नमः ॥ ८३ ॥

प्। ३४०)

अम् आत्मने नमः । उं सोमात्मने नमः ।
द्वितीयावरणं प्रोक्तं वृषं पूर्वे च दिग्दले ॥ ८४ ॥

दुर्गाग्नेयदिग्भागे सम्पूज्यं नन्दिकेश्वर ।
नन्दिनं दक्षिणे पूज्य गणेशं नैर्-ऋते तथा ॥ ८५ ॥

पश्चिमे त्वां विशेषेण वायत्ये तु गुहो भवेत् ।
उत्तरे चास्य देवस्या दैशान्ये क्षेत्रपालकः ॥ ८६ ॥

स्वस्वनामनमोऽन्तैश्च स्वबीजैः पूजयेत्क्रमात् ।
इन्द्रादि लोकपालानां पञ्चमावरणे यजेत् ॥ ८७ ॥

छिन्नोद्भवलवोद्भूतैः जात्यङ्गुलसमन्वितैः ।
दुग्धसिद्धैः समिद्धेग्नौ षट्सहस्रद्वयं हुनेत् ॥ ८८ ॥

प्। ३४१)

यावत्सङ्ख्येन जुहुयात् तावत्सङ्ख्यैस्सुधाघटैः ।
आम्लादितोऽग्निना नित्यं प्रीयेतां परमेश्वरौ ॥ ८९ ॥

एवं साध्ये कृते पश्चाद् आचार्याय वदेत्पुनः ।
गुरूणां साध्यकालेन क्रियते वाभिषेचनम् ॥ ९० ॥

पश्चादभीष्टं कार्यं तु सर्वं कर्तुं क्षमः क्षणात् ।
आयुरारोग्यमैश्वर्यं वाक्सिद्धिं जयदं तथा ॥ ९१ ॥

वश्यमाकर्षणं स्तम्भं मोहमुच्चाटनं तथा ।
मारणं चैन्द्रकानां च परमन्त्रापहारिणम् ॥ ९२ ॥

पराभिचारशान्तिं च सर्वग्रहनिवारणम् ।
कथं शक्तिर्भवेत्तस्य गुरुभक्तस्य निश्चयम् ॥ ९३ ॥

प्। ३४२)

हकारं च सकारं च रेफस्थाने नियोजयेत् ।
नवाक्षरयुतं पिण्डं दानादौ साधको जपेत् ॥ ९४ ॥

अयुतेन जपेनैव स्तोभो वैशादिकं भवेत् ।
सकार पूर्वयुक्तं चेच्छान्ति पौष्टिकवर्धनम् ॥ ९५ ॥

षोडशस्वरमध्यस्थं सुसितं नवपिण्डकम् ।
चन्द्रबिम्बमिदं ध्यात्वा गुरुमण्डलकोपरि ॥ ९६ ॥

तत्सूत्रोदकधाराभिः गुरुं तमभिषेचयेत् ।
तत्पदाब्जसुधाधारापूजितां स्वां तनुं स्मरेत् ॥ ९७ ॥

अपमृत्युविषं हन्ति शिरोरोगज्वरादिकम् ।
ग्रहग्रस्तस्य शिरसि वह्निमण्डलसम्पुटे ॥ ९८ ॥

प्। ३४३)

मध्ये मनुस्वरं चैव प्रतिलोमे रसस्वरम् ।
कोणरेफादिषट्कं च पूर्वकोणादि भावयेत् ॥ ९९ ॥

साध्यनाम च तन्मध्ये निवेश्य ज्वलदग्निवत् ।
रेफादिवामश्रुत्यन्तं कालानलसमं स्मरेत् ॥ १०० ॥

अशनिध्वनिसङ्काशं मूर्ध्नि दग्धं क्षणात्स्मरेत् ।
वश्याकर्षणयोरक्तं स्तम्भसङ्क्षोभणादिषु ॥ १०१ ॥

अकारादि सुवर्णान्तं चिन्तयेन्नन्दिकेश्वरः ।
धूम्राभं मर्दनोच्चाटे स्तम्भ राष्ट्रकरस्य च ॥ १०२ ॥

चा बीणादिवत्सूत्रं स्तम्भने पीतवर्णकम् ।
भूबीजादि तथा प्रोक्तम् अनादिमुक्तिकाङ्क्षिणाम् ॥ १०३ ॥

प्। ३४४)

नयने श्रवणे चैव वहने कुक्षिके तथा ।
मर्मस्थाने च शिरसि वायुमण्डलमध्यगम् ॥ १०४ ॥

कृष्णाभं सस्मरेत्तत्र शिवादित्रयनन्दिके ।
भुक्ताङ्गं ध्यानमात्रेण तत्तदङ्गं विनश्यति ॥ १०५ ॥

अनेन साधितः पश्चात् वापी पश्चात्प्रमुच्यते ।
कण्ठनाले च वा श्रोघं भूमण्डलगतं स्मरेत् ॥ १०६ ॥

पिण्डधारायुतं श्वेतं नेत्रं ध्यातं रुचापहम् ।
एतद्ध्यानं च नेत्रादि सर्वाङ्गेषु च संस्मरेत् ॥ १०७ ॥

तत्तद् व्याध्यादिशमनमन्योन्यप्रीतिवर्धनम् ।
वश्याकर्षणकार्येण गुणाहीनो गुणी भवेत् ॥ १०८ ॥

प्। ३४५)

तस्माद्वाकर्षणं कार्यं कुण्डार्चं तु पथा?गुरुः ।
साध्यस्य हृदयाम्भोजे मध्ये तद् रुबन्धनम् ॥ १०९ ॥

कृत्वा पञ्चाक्षरेणैव तन्मूर्ध्निरेफमुस्वलम् ।
ध्यात्वा तस्योर्ध्वके चैव चन्द्रबिम्बं सुधामयम् ॥ ११० ॥

विधाय वायुबीजेन दिव्य?भाव समन्वितम् ।
आकर्षात्सोऽपि सा चैव सर्वमागच्छति ध्रुवम् ॥ १११ ॥

सर्वे ते तस्य कार्याणि सर्वाण्यपि च कुर्वते ।
पिण्डस्य मान्तरेफस्य मध्ये साधकनामयुक् ॥ ११२ ॥

साधकाख्यां पूर्वभागे संलिखेन्नन्दिकेश्वर ।
अग्निबिम्बं ततः कृत्वा तद्बहिः कोणषट्ककम् ॥ ११३ ॥

प्। ३४६)

तत्कोणस्यैव रेफं च प्रज्वलत्पावकप्रभम् ।
प्रतिलोमस्वरेणैव क्रमेणैव प्रवेष्टयेत् ॥ ११४ ॥

पुष्पादिभिस्समभ्यर्च्य प्राणानां च प्रतिष्ठितम् ।
कृत्वा सङ्ग्रहमौ पि निखन्यात्कर्षणं परम् ॥ ११५ ॥

शालिपिष्टमधुक्षीरं घृतसम्मिश्रपुत्तलम् ।
त्रिधा विभज्य जुहुयात् सत्कर्मत्व प्रसिद्धये ॥ ११६ ॥

त्रिधा नेत्रविशेषेण कर्तव्यं वश्यकाङ्क्षिणाम् ।
पिण्डाक्षरमकारः स्यान् मध्ये नामकम् ॥ ११७ ॥

विलिप्योर्ध्वगरेफे च व्याधिनाम विशेषतः ।
ठकारेणावृतं पश्चात् तद्बहिर्भूपुरं भवेत् ॥ ११८ ॥

प्। ३४७)

तत्कोणे च ठकारं च नागवल्लीदलै लिखेत् ।
पुण्यं जपश्शन्ति पश्चात् तस्य रोगो विनश्यति ॥ ११९ ॥

पूर्वरेफककाराभ्यां साध्यकर्णं प्रबन्धयेत् ।
षकारेण वकारेण वक्षोरुहयुगं पुनः ॥ १२० ॥

वामदक्षिणपार्श्वाभ्यां संवेष्ट्य तदनन्तरम् ।
रेफेण वायुबीजेन बहुदेयं सयुग्मकम् ॥ १२१ ॥

ओङ्काराङ्गस्वरेणैव मुखं नाभिं च बन्धयेत् ।
बिन्दुपक्षस्थले न्यस्त्वा दीर्घचन्द्राकृतिर्भवः ॥ १२२ ॥

अन्योन्यमकरं बध्वा विहरेत्कन्तुकोपमम् ।
वशिस्तोभूमिदं चैव स्तोहकं विषभूतले ॥ १२३ ॥

प्। ३४८)

त्रिकोणसम्पुटसर्वान्तः पिण्डाक्षरमशेकम् ।
बिन्दुजीवरसेनैव विलिखेत्साधकोत्तमः ॥ १२४ ॥

अग्निं तत्र प्रतिष्ठाप्य सम्पूज्य विधिना पुनः ।
सलोहमङ्गुलीकं च ताम्रपात्रे निधाय च ॥ १२५ ॥

आज्येन हुत्वा सम्पातं निक्षिपेदङ्गुलीयके ।
त्रिकोण सम्पुटस्यान्तः पिण्डाक्षरमशेषकम् ॥ १२६ ॥

बन्धुतीव्ररसेनैव विलिखेद् कोत्तमः ।
अग्निं तत्र प्रतिष्ठाप्य सम्पूज्य विधिना पुनः ॥ १२७ ॥

त्रैलोहमङ्गुलीयं च ताम्रपात्रे निधाय च ।
आज्येन हुत्वा सम्पातं निक्षिपेदङ्गुलीयते ॥ १२८ ॥

प्। ३४९)

शतवृद्धा च सम्पाद्य विदध्यादङ्गुलीयके ।
साध्यस्याङ्गुलिं निक्षिप्य अभीष्ठफलसिद्धिदम् ॥ १२९ ॥

वज्राभिषेकमात्रं तु तन्मन्त्रैर्नन्दिकेश्वर ।
लिखित्वाष्टदलं पद्मं कर्णिकायां षडश्रकम् ॥ १३० ॥

मध्ये त्रिकोणं तन्मध्ये पिण्डान्तं मध्यसाध्यकम् ।
षट्कोणे च षडङ्गं च पूर्वादिदलके पुनः ॥ १३१ ॥

रेफादिवर्णमारभ्य लिखेद्बीजाष्टकं क्रमात् ।
सानुस्वरान्लिखित्वा तु बाह्ये वृत्तत्रयं भवेत् ॥ १३२ ॥

बिन्दुनादसमायुक्तं स्वरषोडशकं न्यसेत् ।
तद्बहिः कादिमान्तं च पञ्चविंशतिभिर्युतम् ॥ १३३ ॥

प्। ३५०)

तद्बहिर्वृत्तके वापि हकारान्ताष्टकं लिखेत् ।
तद्बाह्ये भूपुरं लिख्य तत्कोणेषुहकारकम् ॥ १३४ ॥

तन्मध्ये पूर्णकुम्भं च निधायावाह्य दैवतम् ।
अष्टगन्धादिभिः पूज्य सर्वपुष्पैश्च भक्तियुक् ॥ १३५ ॥

अभिषेकं ततः कुर्यात् सर्वरक्षाकरी परा ।
इकारान्तं लिखेत्पिण्डं षोडशस्वरवेष्टितम् ॥ १३६ ॥

तन्मध्ये साध्यनामाभिर्वह्निगेहद्वयावृतम् ।
नकारे रेफमालिख्य ज्वलत्पावकसप्रभम् ॥ १३७ ॥

तद्बहिर्भानुबीजं च कादिजान्ताक्षरीं न्यसेत् ।
तन्मध्ये तद्बहिर्भूयो भूमण्डलयुगं न्यसेत् ॥ १३८ ॥

प्। ३५१)

संवर्तकं च तत्कोणेष्यालिख्य नन्दिकेश्वर ।
एतच्चक्रं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ १३९ ॥

ग्रहक्ष्वेलभयादीनां नाशनं यन्त्रधारणम् ।
काश्वान्यबिम्बयुग्मस्य मध्ये चिन्तामणिं लिखेत् ॥ १४० ॥

साध्याख्यां चैव तन्मध्ये कोणेष्वग्न्यादिषट्ककम् ।
कोणे पार्श्वेषु वैकारमुकारं च क्रमाल्लिखेत् ॥ १४१ ॥

तद्बहिर्भानुबिम्बं च तन्मध्ये प्रणवं लिखेत् ।
तद्बाह्ये भूपुरद्वन्द्वं संलिख्य विधिवत्पुनः ॥ १४२ ॥

लाक्षागोरोचनाभ्यां च तत्पात्रे विलिखेत्क्रमात् ।
सम्पूज्याभ्यर्च्य पुष्पाद्यैः धारयेद्यन्त्रमुत्तरम् ॥ १४३ ॥

प्। ३५२)

आयुष्करं पुष्टिकरं लक्ष्मीवर्धनमेव च ।
अपवादादि दोषघ्नं वश्यके?त्सौम्यवर्धनम् ॥ १४४ ॥

चोरव्यालमहागे?ग भूतापस्मारहारकम् ।
रक्षामध्यगतं ह्येतत् सर्वरक्षाकरं परम् ॥ १४५ ॥

वह्निमण्डलयुग्मस्य मध्ये मध्याक्षरं लिखेत् ।
मूलमन्त्रं च संलिख्य बाह्ये * लोपमुज्वलम् ॥ १४६ ॥

अग्निज्वालावृतं चैव विषवृक्षैः समन्ततः ।
साग्रशाखावृतश्चैव जप्त्वा सं * * * * * ॥ १४७ ॥

व्याघ्रचोरवराहाश्च शत्रुवर्गवराहकाः ॥ १४८ ॥

प्। ३५३)

न व्रजन्ति समीपेऽपि लोकरक्षाकरं परम् ।
एवं प्रथमसद्यादि स * * * * * * * ॥ १४९ ॥

इत्यचिन्त्यविश्वसादाख्ये अर्धनारीश्वर पूजाविधिः पञ्चदशः पटलः ॥