प्। ३१८)
देवभागे च चण्डाय पूजां तामासमाश्रयेत् ।
विन्यस्य चास्त्रमन्त्रेण तद्देशस्थान्तरायकम् ॥ १ ॥
निरस्य सकलीकुर्याच् चण्डेशस्यान्तरीयकम् ।
निरस्य सकली कुर्यान् निर्माल्यं गाङ्गमूलकैः ॥ २ ॥
प्रथमद्वयमुच्चार्य पाशुपतास्त्राय फडिति ।
अस्त्रेण हस्तौ संशोध्य न्यासार्चन मतः परम् ॥ ३ ॥
ॐ प्रथमप्रथमपाशुपतास्त्राय हुम्फट् सनाय नमः ।
अमुं मूर्तीश्वरश्चैव स्वस्वनाम्ना तु पूजयेत् ॥ ४ ॥
ॐ चण्डमूर्तये नमः । ध्वनि चण्डेश्वरायेति हुम्फट् स्वाहेति मन्त्रतः ।
आवाहयेत्तदा चण्डं महापातकनाशनम् ॥ ५ ॥
प्। ३१९)
ॐ ध्वनि चण्डेश्वराय हुम्फट् स्वाहा ।
ओङ्कारं पूर्वमुच्चार्य षडङ्गानां च सर्वशः ॥ ६ ॥
सर्वयोगाधिकृतये हृदयाय नमः ।
ॐ परमेश्वरायेति शिरसे नम इत्यपि ॥ ७ ॥
प्रथमं ज्योतिरूपाय शिखायै नम इत्यपि ।
गोप्त्रे कवचायेति नमस्कारमतः परम् ॥ ८ ॥
चण्डनेत्राय वौषड् वर्धनी पूर्वमन्त्रकम् ।
ॐ सर्वयोगाधिकृताति हृदयाय नमः ॥ ९ ॥
ॐ परमेश्वराय पदाय शिरसे नमः ।
जोतीरूपाय शिखायै वौषट् । ॐ गोप्त्रे कवचाय नमः ॥ १० ॥
प्। ३२०)
ॐ चण्डनेत्राय वौषण्णमः । ॐ प्रथम पाशुपतास्त्राय फट्
एवं कराङ्ग(क) न्यासं कृत्वा पूर्वं षडङ्गकम् ॥ ११ ॥
हृदयादिक्रमेणैव विन्यसेन्नन्दिकेश्वर ।
कं स्वराग्निसम्भूतां मूर्तिन्निराजनप्रभाम् ॥ १२ ॥
चतुर्वक्त्रेण संयुक्तां नेत्रद्वादशसंयुताम् ।
ज्वलज्जटामर्धचन्द्रां केयूरकटकोज्वलाम् ॥ १३ ॥
शूलं कमण्डलुं वामे दक्षे टङ्काक्षमालिनी ।
फणिकङ्कणसंयुक्तां व्यालयज्ञोपवीतिनीम् ॥ १४ ॥
दंष्ट्राकरालवदनाम् अतिरक्तां विभावयेत् ।
श्वेतपद्मासनासीनां भक्तानां भयभञ्जिनीम् ॥ १५ ॥
प्। ३२१)
ध्यात्वा तन्मूलमन्त्रेण यथाशक्ति जपं जपेत् ।
अङ्गानां तु दशां चैव जपित्वा नन्दिकेश्वर ॥ १६ ॥
परमीकृत्य मूलेन चाशुदीक्षापयेत्क्रमात् ।
गोभूहिरण्यवस्त्राणि मणिभेदादि भूषणम् ॥ १७ ॥
विहाय शेषं निर्माल्यं चण्डेशाय निवेदयेत् ।
ध्वनिपूर्वेण मन्त्रेण स्वाहान्तेन विशेषतः ॥ १८ ॥
लेह्यशोष्यान्नपानादि ताम्बूलं स्रग्विलेपनम् ।
निर्माल्य भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया ॥ १९ ॥
क्रियाकाण्डं मयाचण्ड सर्वमेव त्वदाज्ञया ।
न्यूनाधिकं कृतं मोहात् परिपूर्णं तदस्तु मे ॥ २० ॥
प्। ३२२)
एवं विज्ञाप्य चण्डेशम् अर्घ्यं दत्वा समन्त्रकम् ।
उद्वास्य मूर्तिं मन्त्रेण संहारिण्या च पुष्पयुक् ॥ २१ ॥
मूलेन पूरकेणैव मन्त्रानात्मनि पूजयेत् ।
चण्डाय ततनिर्माल्ये बाधकाद्यथ सञ्चयम् ॥ २२ ॥
सम्पत्प्रवालं निर्माल्यमस्पृश्यं सर्वदा गणैः ।
चण्डध्यानसमायुक्तं तन्निर्माल्यं क्षणात्त्यजेत् ॥ २३ ॥
प्रक्षाल्य पादौ हस्तौ च गोमयालेपनं ततः ।
निर्माल्यापनयस्थानं प्रोक्षयेदस्त्रवारिणा ॥ २४ ॥
तस्मात्प्रदेशादुत्थाय क्षालयेत्पादमस्तकम् ।
आचम्य विधिना सम्यक् सम्यग्भस्मानि संस्पृशेत् ॥ २५ ॥
प्। ३२३)
मन्त्राङ्ग न्यासकं कृत्वा शिवभागं प्रभावयेत् ।
समाधि योगमारभ्य कुर्यादुक्तक्रमेण च ॥ २६ ॥
इत्यचिन्त्यविश्वसादाख्ये चण्डपूजाविधिः पञ्चदशः पटलः ॥