प्। २८८)
अग्निकार्यविधिं वक्ष्ये कुण्डलक्षणपूर्वकम् ।
कुण्डं वा स्थण्डिलं वापि वह्नेरायतनं द्विधा ॥ १ ॥
चतुरश्रं च योनिं च अर्धचन्द्रं त्रिकोणकम् ।
वृत्तं षडश्रकं चैव पद्ममष्टाश्रकं भवेत् ॥ २ ॥
पूर्वादीशान पर्यन्तं कुण्डानां लक्षणं भवेत् ।
कुण्डानामष्टकानां च लक्षणं चाधुनोच्यते ॥ ३ ॥
प्राक्सूत्रे तु न्यसेत्पूर्वम् अन्यद्दक्षिणतोत्तरम् ।
कुर्यात्पश्चिम पूर्वं तु यावत्कुण्डस्य विस्तरम् ॥ ४ ॥
रुद्र सूत्रेण काष्ठासु चतुरश्रावधिं कुरु ।
कुण्डानामपि सर्वेषामुत्पत्तिश्चतुरश्रके ॥ ५ ॥
प्। २८९)
चतुरश्राद्बहिस्सोमे पञ्चांशं तु च विन्यसेत् ।
दक्षिणोत्तरसूत्रेण चतुष्पादयुतं भवेत् ॥ ६ ॥
आग्नेयादीशपर्यन्तं चतुष्पदमिति स्मृतम् ।
आग्नेयादीशपर्यन्तं सूत्रान्तं विन्यसेत्तदा ॥ ७ ॥
ऐन्द्रसूत्राग्निमारभ्य यमसूत्रान्तकं नयेत् ।
अर्धचन्द्राकृतिप्रख्यं नैर्-ऋतेऽप्येवमेव हि ॥ ८ ॥
वारुण्यां तन्नयित्वासौ सोमे विन्यस्यभागयुक् ।
तदग्रादैन्द्रसूत्रान्तं त्रिकोणाकृतिवन्नयेत् ॥ ९ ॥
बाह्यमध्यमरेखाणां मार्जनाद्योतिरुत्तमः ।
भक्तिभागकृते क्षेत्रे त्यजेद्भागकृतं बुधः ॥ १० ॥
प्। २९०)
तेन मानेन तन्मध्याद् भ्रामयेदर्धचन्द्रकम् ।
क्षेत्रं तु पञ्चधा कृत्वा पार्श्वयोरुभयोरपि ॥ ११ ॥
एकैकांशं न्यसेत्तत्र मानसूत्रस्य बाह्यतः ।
मत्स्यद्वयं ततः कृत्वा राक्षसे मारुतेऽथवा ॥ १२ ॥
योज्यं तु त्रिभुजानेन त्रिकोणं भवति स्फुटम् ।
कुण्डार्धं तु परिग्राह्यं क्षेत्रार्धं तु विनिक्षिपेत् ॥ १३ ॥
अधिकं तु द्विधा कृत्वा चैकांशं बाह्यतस्त्यजेत् ।
वर्तयेत्तेन मानेन वर्तुलं कुण्डमुत्तमम् ॥ १४ ॥
क्षेत्रं तु षोडशं कृत्वा बहिरंशद्वयं न्यसेत् ।
क्षेत्रं च व्यासमानेन पार्श्वे मध्यद्वयं द्वयम् ॥ १५ ॥
प्। २९१)
सूत्रषट्कस्य पादेन षष्ठमंशं तदुत्तमम् ।
दशांशं क्षेत्रबाह्यं तु चैकांशं विन्यसेद्बहिः ॥ १६ ॥
तेन मानेन सम्भ्राम दक्षिणां भ्रामणं भवेत् ।
मध्यमे कर्णिकां कुर्याद् वृत्तं कुण्डवदाचरेत् ॥ १७ ॥
चतुर्विंशांशकं क्षेत्रं बाह्यैकांशं तु विन्यसेत् ।
तेनांशेन च कुर्वीत चतुरश्रं समन्ततः ॥ १८ ॥
तद्बाह्ये चतुरश्रस्य कोणार्धेन तु लाञ्छयेत् ।
कोणे कोणे च सङ्ग्राह्य सङ्ग्राह्यं च विशेषतः ॥ १९ ॥
वाञ्छनात्सूत्र पादस्य गजमानमनुत्तमम् ।
कुण्डस्य यादृशं रूपं मेखलायाश्च तादृशम् ॥ २० ॥
प्। २९२)
त्रिमेखला समायुक्तं श्रुत्याग्नि सनिमानकम् ।
हेतु भूतगणोच्छ्राय मध्यायं परिकल्पयेत् ॥ २१ ॥
व्यासेन सदृशं खातं निम्नोन्नत विवर्जितम् ।
अश्वत्थ पत्रवद्योनिं मेखलोपरि विन्यसेत् ॥ २२ ॥
भूताङ्गुलं तु विस्तारमायामं सप्तमाङ्गुलम् ।
व्योमाङ्गुलं तदुत्सेधं योनिलक्षणमुत्तमम् ॥ २३ ॥
एकाङ्गुलं तदुत्सेधं भूताङ्गुलं तु विस्तरम् ।
पद्माकार समाकारं कुर्यात्कुण्डस्य मध्यमे ॥ २४ ॥
पद्ममात्रं न कर्तव्यमोष्ठमेकाङ्गुलं भवेत् ।
बहिरेकाङ्गुलं कण्ठे द्व्यङ्गुलं तु तथा भवेत् ॥ २५ ॥
प्। २९३)
सुधापक्वेष्टकाभिर्वा मृदा चैव तु कारयेत् ।
चतुर्णामक्षदं प्रोक्तं विश्वभोग विवर्धनम् ॥ २६ ॥
आरोग्यं पूरितं चैव शक्षदाहमिदं भवेत् ।
श्रीकरं पद्मकुण्डं तु पुष्टिदं जयवर्धनम् ॥ २७ ॥
अष्ठ्यश्र कुण्डं शत्रूणाम् ऋणदं भयदं तथा ।
शतार्धहोमे मुष्टिः स्यात् चन्नवार * * * म् ॥ २८ ॥
सहस्रहोमे हस्तं स्याद्द्विहस्तं चायुते हितम् ।
लक्षहोमे चतुर्हस्तं द्व्ययुते षट्करं भवेत् ॥ २९ ॥
गुणाङ्गुलं समुत्सेधं निम्मोन्नत विवर्जितम् ।
द्व्यङ्गुलैकाङ्गुलं वापि सङ्क्षिप्तैस्तण्डुलैर्भवेत् ॥ ३० ॥
प्। २९४)
रेखात्रयं तु पूर्वाग्रे उत्तरार्धं तथैव च ।
ब्रह्मा वैवस्वतः सोमो रुद्रश्शक्रश्च केशवः ॥ ३१ ॥
तत्पूर्वाग्रोत्तराग्राणाम् अधिदेवाः प्रकीर्तिताः ।
कुण्डबाह्यार्चने कालेऽप्यर्घ्यपात्रे ददेन्मुनिः ॥ ३२ ॥
होमद्रव्यस्य शेषाणि शिवदृष्ट्या विलोकयेत् ।
तस्य नाभिः पुरस्कुर्यादुपविश्योत्तराननः ॥ ३३ ॥
कुण्ड संस्कार हीनश्चेदग्निपत्तिर्न विद्यते ।
निरीक्षणं प्रोक्षणं च खननं सेचनं तथा ॥ ३४ ॥
कुट्टनं मार्जनं चैव निर्माणं लेपनं तथा ।
गोषण्डं शोधनं चैव पूर्वमेव कृतं यदि ॥ ३५ ॥
प्। २९५)
पुनरन्निरीक्षणं चैव प्रोक्षणं ताडनं कुशैः ।
अस्त्रमन्त्रेण कर्तव्यं वर्मणाभ्युक्षणं क्रमात् ॥ ३६ ॥
खड्गेन खातमुद्धारं पूरणं समतापि च ।
सेकितं कवचे नैव कुट्टनं तु शराणुना ॥ ३७ ॥
मार्जनं लेपनं चैव हृन्मन्त्रेण समर्चयेत् ।
कवचेनाक्षपादं च मध्ये पीडं हृदा भवेत् ॥ ३८ ॥
तन्मध्ये सुस्थितां देवीं नीलोत्पलदलप्रभाम् ।
ऋतुस्नातां विशालाक्षीं गन्धमाल्यानुलेपनाम् ॥ ३९ ॥
सर्वलक्षण सम्पूर्णां वयः षोडशकाश्रिताम् ।
वागीश्वरीं महादेवीम् एवं ध्यात्वा विचक्षणः ॥ ४० ॥
प्। २९६)
पञ्चवक्त्रयुतं देवं सादाख्यं विश्वरूपिणम् ।
तद्वद्वागीश्वरं देवं विन्यस्य हृदयाणुना ॥ ४१ ॥
पूजयेद्गन्धपुष्पाद्यैः स्वस्वनाम्नैव देशिकः ।
सूर्यकान्तोद्भवं वह्नि मरण्युद्भवमेव वा ॥ ४२ ॥
क्षेत्रे वा श्रोत्रियागारे सुपथेन समानयेत् ।
मृत्पात्रे ताम्रपात्रे वा निक्षिप्य हृदयेन तु ॥ ४३ ॥
होतुरग्ने तु विन्यस्य पूजयेत्तु विशेषतः ।
क्रव्यांशं पूर्ववत्सृज्य वीक्षणाद्या विशोधयेत् ॥ ४४ ॥
औदार्यं बैन्दवं भौमं समीकृत्वानलत्रयम् ।
विन्यस्य वह्निचैतन्यं प्रदीपकलिकोपमम् ॥ ४५ ॥
प्। २९७)
ॐ ह्रीं वह्निचैतन्याय नमोऽन्तं मन्त्रमुच्चरन् ।
पिङ्गलानाडिमार्गेण बहिर्निस्सार्य रेचकात् ॥ ४६ ॥
ज्वलितोग्नौ विनिक्षिप्य संहिता मन्त्रितं पुनः ।
सद्यादीशानपर्यन्तं नमोन्तं पूजयेत्क्रमात् ॥ ४७ ॥
धेनुमुद्रामृतीकृत्य रक्षणं चास्त्रकेन च ।
तनुत्राणावकुण्ठेन हस्तेनोद्धृत्य देशिकः ॥ ४८ ॥
त्रिः परिभ्राम्य कुण्डोर्ध्वे शिवबीजमिति स्मरन् ।
भूमिष्ठजानुको भूत्वा वागीशीगर्भगोचरे ॥ ४९ ॥
वागीश्वरेण देवेन क्षिप्यमाणं विभावयेत् ।
उभयत्र तु सम्मेलं हृदयासम्मुखं क्षिपेत् ॥ ५० ॥
प्। २९८)
ततोत्थितं च गर्भाग्नौ नाभिदेशे समूहनम् ।
अन्यवस्त्रं परीधाय शौचमाचमनं हृदा ॥ ५१ ॥
वागीश्वरीपाणिपद्मे गर्भाग्नेः पालनाय च ।
दर्भसूत्रेण बध्नीयाद्रक्षार्थं नन्दिकेश्वर ॥ ५२ ॥
गर्भाधानाय सद्येन पूजयेत्पावकं पुनः ।
आहुतित्रितयं कुर्याद् हृन्मन्त्रेण समाहितः ॥ ५३ ॥
तृतीये मासि पुंसवनं पुष्येण श्रवणेन च ।
वामदेवेन होतव्यं शिरसाम्बुकणान्वितम् ॥ ५४ ॥
अघोरेणैव सीमन्तं षष्ठे मासि तथैव च ।
जुहुयादाहुती स्त्रिस्त्रिः शिखाया शिखयेव तु ॥ ५५ ॥
प्। २९९)
वक्त्राङ्गनिर्णयं कार्यं वक्त्रोन्मीलन निष्कृतिम् ।
वर्मणा पुरुषेणैव जातकर्मयुतक्रिया ॥ ५६ ॥
वह्निमुज्वाल्य गर्भाद्यैः स्नानं गर्भमलापहम् ।
स्वर्णादिभूषणं देव्या हृन्मन्त्रेण प्रदापयेत् ॥ ५७ ॥
सूतकाग्नौ च शुध्यर्थं प्रोक्षयेदस्त्रवारिणा ।
अस्त्रेण कुण्डमाताड्य वह्निस्सेकं तु वर्मणा ॥ ५८ ॥
पूर्वोत्तराग्रमार्गेण मेखलाः कुशला न्यसेत् ।
अस्त्रेणास्तीर्य तस्योर्ध्वे स्थापयेत् परिधीन्हृदा ॥ ५९ ॥
वक्त्र लालापनोदाय समिधः पञ्च होमयेत् ।
आद्यन्ते घृतसंसिक्तां खड्गेनैव विशेषतः ॥ ६० ॥
प्। ३००)
चतुर्मुखं शङ्करं च शार्ङ्गिणं तदनन्तरम् ।
प्राच्याद्युत्तरपर्यन्तं हृदा विष्टरकान्यजेत् ॥ ६१ ॥
शक्रादिलोकपालांश्च वह्नेरभिमुखस्थितान् ।
पीठस्थं हृदयेनैव पूजयेन्नन्दिकेश्वर ॥ ६२ ॥
वसासङ्घं निवार्याशु बालकं रक्षयिष्यति ।
शिवस्याज्ञामिमां तेषां श्रावयेद्दिक्पतीन्प्रति ॥ ६३ ॥
सलक्षणौ सृक्सृवौ च गृहीत्वोर्ध्वमुखौ तथा ।
अधोमुखौ तान्सन्ताड्य क्रमान्मूलाग्रमध्यमे ॥ ६४ ॥
मूलं मूलेन संस्पृश्य मग्रमग्रेण संस्पृशेत् ।
मध्यं मध्येन सम्मार्ज्य दर्भैः स्त्रिभिरनुक्रमात् ॥ ६५ ॥
प्। ३०१)
आत्मनो दक्षिणे भागे स्थाप्यौ पुष्पादि पूजितौ ।
दर्भौ परिनिधायैतौ दर्भसंस्पृष्टदेशके ॥ ६६ ॥
आत्मविद्यां शिवं यष्ट्वा नमोऽन्तं पूजयेत्क्रमात् ।
सृचि शक्तिं स्रुवे शम्भुं पूजयेन्नन्दिकेश्वर ॥ ६७ ॥
दर्वीं च सर्पिरादाय शोधितं वीक्षणादिभिः ।
अस्त्रेण तापयित्वाग्नौ स्वधामिति विचिन्तयेत् ॥ ६८ ॥
कुण्डस्यो परिसम्भ्राम्य स्थापयेद्बह्निकोणके ।
ततो विष्णुमयं धृत्वा घृतमीशादि विन्यसेत् ॥ ६९ ॥
आज्रमुद्धृत्य दर्भाग्रे स्वग्रहान्तं शिरोणुना ।
मुकुन्दाय हुनेद्बिन्दुं कुण्डनाभौ निवेशयेत् ॥ ७० ॥
प्। ३०२)
रुद्ररूपमिति ध्यात्वा भावयेद्भक्तिसंयुतः ।
प्रादेशमात्रदर्भाभ्याम् अङ्गुष्ठानामिकाग्रकैः ॥ ७१ ॥
अस्त्रेणाभिमुखं वह्नेर्घृतमुत्प्लवनं भवेत् ।
हृदात्मसम्मुखं कुर्यात् तस्मात्सम्प्लवनं भवेत् ॥ ७२ ॥
नमोऽन्तास्त्रेण दर्भेण क्षेपाद्भस्मनि शुद्धये ।
क्षिप्त्वा चान्योन्यदर्भेण नीराजनविधिर्भवेत् ॥ ७३ ॥
दग्धमन्त्रेण दर्भान्तमग्नौ क्षिप्त्वा समाहितः ।
निधायाग्नौ कृतं दग्धं कुशान्प्रादेशसम्मितान् ॥ ७४ ॥
भावयेत्पक्षयुग्मं च घृतेध्मादित्रयं क्रमात् ।
भागत्रयात्स्रुवेणैव घृतमादाय होमयेत् ॥ ७५ ॥
प्। ३०३)
स्वेत्यग्नौ तद्भागे शेषमाज्यं क्रमात्क्षिपेत् ।
ॐ हामग्नीषोमाभ्यां स्वाहान्तं मन्त्रमुच्चरेत् ॥ ७६ ॥
ॐ हाम् अग्नये स्वाहा । ॐ हाम् अग्नीषोमाभ्यां स्वाहा ।
ॐ हाम् अग्नये स्विष्टकृते स्वाहा ॥ ७७ ॥
नयनोन्मीलनार्थाय वह्नेर्नेत्रत्रयोन्मुखः ।
आज्यपूर्णस्रुवेणैव चतुर्थीमाहुतिं यजेत् ॥ ७८ ॥
ॐ हाम् अग्नये स्विष्टकृते स्वाहा ।
षडङ्गेनाभिमन्त्र्यैव रोधयेद्धेनुमुद्रया ॥ ७९ ॥
कवचेनावकुण्ठ्याज्यं रक्षयेद्धेतिना पुनः ।
घृतबीजहृदाक्षेपे भवेदन्याज्यशोधनम् ॥ ८० ॥
प्। ३०४)
आज्याभिघारसन्तानमास्यैककरणीरिता ।
सद्योवाममघोरं च पुरुषं चेशमेव च ॥ ८१ ॥
प्रणवाग्निजयाद्यन्तं स्वस्वमन्त्रेण होमयेत् ।
एकैकयाज्यहोमेन वाभिघारमिदं भवेत् ॥ ८२ ॥
वक्त्रसन्धानकं चैव मन्त्रं मन्त्रेण योगतः ।
क्रमादीशानपर्यन्तं पञ्चब्रह्मभिरन्वितम् ॥ ८३ ॥
ॐ हां सद्योजाताय स्वाहा ॐ हां वामदेवाय स्वाहा ।
ॐ हाम् अघोराय स्वाहा ॐ हां तत्पुरुषाय स्वाहा ॥ ८४ ॥
ॐ हाम् ईशानाय स्वाहा ॐ सद्योजात वामदेवाभ्यां स्वाहा ।
ॐ वामदेवाघोराभ्यां स्वाहा ॐ हाम् अघोरतत्पुरुषाभ्यां स्वाहा ॥
८५ ॥
प्। ३०५)
ॐ हां पुरुषेशानाभ्यां स्वाहा ।
पावकाद्वायुपर्यन्तं हृदयानां समर्पणम् ।
नैर्-ऋत्यादीशाकाष्ठान्तम् अविच्छिन्नाज्यधारया ॥ ८६ ॥
स्रुवेण कुर्यादाज्यान्तमेकदान्नन्दिकेश्वर ।
ॐ हां सद्योवामाघोर तत्पुरुषेशानेभ्यः स्वाहेति ॥ ८७ ॥
स्वेष्टवदनेषु वक्त्रं मैकमन्यकम् ।
अन्यथा कुण्डमानेन वक्त्रमिष्टं स्मरंस्तदा ॥ ८८ ॥
इतराणामन्यवक्त्राणामेकं भावमिदं भवेत् ।
सम्पूर्णेशानवह्नौ च हेतिना चाहुतित्रयम् ॥ ८९ ॥
प्रकुर्याच्छिवगावस्थः कुर्यान्नाम विचक्षणः ।
एकं नाम ददेत्पश्चात् शिवाग्निं स्वं हुताशने ॥ ९० ॥
प्। ३०६)
वैदिकं मिश्रकं चैव मिश्रवैदिकं तथा ।
त्रिविधं वह्निरूपं तु स्वरूपं नन्दिकेश्वर ॥ ९१ ॥
एकास्यं च द्विवक्त्रं च नानाद्वितयसंयुतः ।
षण्णेत्रो मेखलायुक्तः पादत्रय समन्वितः ॥ ९२ ॥
चतुशृङ्गसमायुक्तो द्विशिरा जटिलो मतः ।
उपवीती च मौनी च सप्तहस्तसमन्वितः ॥ ९३ ॥
सप्तजिह्वासमायुक्तो वृषवाहनसंयुतः ।
हिरण्या कनका रक्ता कृष्णाजिह्वाश्च दक्षिणे ॥ ९४ ॥
सम्प्रभावाति रक्ता च बहुरूपानुवामके ।
एवं जिह्वा समुद्दिष्टा वैदिके मेषवाहनः ॥ ९५ ॥
प्। ३०७)
शैवाग्नेर्वर्णनं पश्चाच्छृणु नन्दीश तत्वतः ।
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् ॥ ९६ ॥
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवर्णपरीधानं पङ्कजो परिसंस्थितम् ॥ ९७ ॥
बद्धपद्मासनासीनं दशायुध समन्वितम् ।
कनका बहुरूपा च अतिरक्ता ततः परम् ॥ ९८ ॥
सुप्रभा चैवं कृष्णा च रक्ता चान्या हिरण्मयी ।
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादिषु स्थिताः ॥ ९९ ॥
शैवाग्नेर्ध्यानमुद्दिष्टं त्रिविधोग्निः प्रकीर्तितः ।
नेत्र श्रोत्रादिकं ज्ञात्वा वह्नेर्होममथाचरेत् ॥ १०० ॥
प्। ३०८)
श्रोत्रे होमाद्व्याधिरेव नेत्रे नेत्रस्य रोगता ।
नासिकायां मनोदुःखं केशे दारिद्र्य सम्भवम् ॥ १०१ ॥
इष्टन्नसिद्धिदं गात्रे तस्माज्जिह्वासु होमयेत् ।
बन्धनं श्रोत्र देशे स्यान् नासारूपस्वरूपकम् ॥ १०२ ॥
इति प्रज्वलनं नेत्रं भस्म चाग्निशिरो मतम् ।
यत्र चोज्वलिता वह्निजिह्वा तत्रैव होमयेत् ॥ १०३ ॥
कुण्डमध्यगतं वक्त्रं तस्य मध्ये तु जिह्विका ।
त्रिभिः परिधिभिश्चोर्ध्वं समिद्वा संयुतस्तु यः ॥ १०४ ॥
वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तूभयात्मकः ।
त्रिचतुः परिधिश्चैव शास्त्रेऽस्मिन्सम्प्रकीर्तितः ॥ १०५ ॥
प्। ३०९)
सम्पूज्य पितरौ वह्नेर्हृदयेन समन्वितः ।
वागीश्वरीं च वागीशं विसृजेत्तदनन्तरम् ॥ १०६ ॥
वौषडन्तेन मन्त्रेण मध्यात्पूर्णाहुतिस्तथा ।
अग्नेः प्रियार्थमग्रं वा स्वाहान्त तिलकेन च ॥ १०७ ॥
पञ्चाहुतीः क्रमाद्दत्वा चाग्नेयपदमध्यमे ।
ॐ हां हूम् अग्नये स्वाहा । ॐ अग्नयेह्नमैश्वरं तेजः ॥ १०८ ॥
पावनं परमं यतः ॥
तस्मात्त्वदीयहृत्पद्मे संस्थाप्य तं विधाम्यहम् ।
एवं शिवाज्ञां सम्प्रार्थ्य साङ्गोपाङ्गयुतं शिवम् ॥ १०९ ॥
आसनं चात्महृदये पूजयेत्पूर्ववन्मुनिः ।
ततोऽग्निहृदयाम्भोजे चावाहन पुनः शिरः ॥ ११० ॥
प्। ३१०)
आवाहनादि सर्वं च पूजयेच्छिवमव्ययम् ।
यागाग्निं शिवयोः कुर्यान्नाडीसन्धानमात्मना ॥ १११ ॥
जुहुयान्मूल मन्त्रेण शक्त्यंशैश्च दशांशकम् ।
आज्यक्षीरमधूनां च कर्षके होम उच्यते ॥ ११२ ॥
दधि भुक्ति प्रदं प्रोक्तं प्रसृतिः पायसे पुनः ।
पथ्यं मात्रं च भक्ष्याणां लाजानां मुष्टि मात्रकम् ॥ ११३ ॥
फलानां स्वप्रमाणेन मूलानां चाङ्गुलत्रयम् ।
पत्रं पुष्पं स्वमानेन कनिष्ठाङ्गुलिसम्मिताः ॥ ११४ ॥
समिधस्सत्वचश्चैव वल्कवोष्ट दशाङ्गुलः ।
चन्दनं कुङ्कुमं चैव कर्पूरं यक्षकर्दमम् ॥ ११५ ॥
प्। ३११)
कस्तूरीकाणां सर्वेषां कलानां मानदं हुनेत् ।
निदानामष्टमं भागे गुग्गुलुश्चा दास्थित् ॥ ११६ ॥
होमद्रव्यप्रमाणं हि कथितं नन्दिकेश्वर ।
पञ्चभिर्ब्रह्मबीजैस्तु होमयेत्तु पदे स्थितः ॥ ११७ ॥
साधकस्साध्यमन्त्रेण जुहुयाद्भक्तिसंयुतः ।
पूर्णाहुतिं ततः कुर्यात् स्रुवा पूर्णं घृतं भवेत् ॥ ११८ ॥
स्रुवेण सव्यहस्तेन निधायाधामुखं शनैः ।
पुष्पं सृगग्रमारोप्य पश्चाद्वामेन पाणिना ॥ ११९ ॥
पुनस्सव्येन तौ धृत्वा कम्बुसन्निधिमुद्रया ।
सावधानोर्ध्वकायश्च समाङ्घ्रिस्सम्मुखस्थितः ॥ १२० ॥
प्। ३१२)
निधाय नाभौ तन्मूलं निश्वासोच्छ्वासवर्जितम् ।
स्रुगग्रे दृष्टिमाधाय ब्रह्मविष्ण्वादिकारणात् ॥ १२१ ॥
सुषुम्नानाडिमार्गेण विसृज्य च समाहितः ।
तयोर्नीलं समुन्नीय सव्यहस्तसमीपके ॥ १२२ ॥
निधायातन्द्रितो भूत्वा मूलमन्त्रं समुच्चरेत् ।
वौषडन्तं सनातीं च सजपन्नन्दिकेश्वर ॥ १२३ ॥
पावके जुहुयादग्निं यवमात्रैकसाधनः ।
आचामं तु पटीरं स्यात्ताम्बूलादींश्च दापयेत् ॥ १२४ ॥
घृतादिद्रव्यालाभे तु तिलं वा तण्डुलं तथा ।
अनेन वा यथा लाभं शक्त्या हुत्वा दिने दिने ॥ १२५ ॥
प्। ३१३)
न सभूतिं समादाय नमस्कुर्याच्च भक्तितः ।
पश्चादग्निं समभ्यर्च्य पीडितास्त्रेण शङ्करान् । १२६ ॥
संहारिण्या तदाहृत्य सर्वमन्त्रान्यसदैवतान् ।
सादरं तत्क्षमस्वेति चोक्तभावसमन्वितः ॥ १२७ ॥
ब्रह्मादींस्ताननन्तांस्तान् इन्द्राग्नि दिक्पतींस्तदा ।
पूरकेण हृदम्भोजे श्रद्धया हृदयाणुना ॥ १२८ ॥
धूपयेद्देवदेवेश मसमान्सप परम् ।
प्रागग्रं सर्वमादाय कुर्यात्कुण्डल युग्मकम् ॥ १२९ ॥
कुण्डं प्रवह्निकरणे बहिरन्तर्बलिं क्षिपेत् ।
दर्भानास्तीर्य प्रागग्रान् पूर्वरात्रौ बलिं क्षिपेत् ॥ १३० ॥
प्। ३१४)
याम्ये मातृबलिं दद्याद् गणेभ्यः पश्चिमे भवेत् ।
यक्षाणामुत्तरे भागे ग्रहानामैशदेशके ॥ १३१ ॥
असुराणां तथाग्नेर्य्यां नैर्-ऋते राक्षसाय च ।
नागानां वायुदिग्भागे नक्षत्राणां च मध्यमे ॥ १३२ ॥
ईशाने वापि मध्ये तु राशीनां च बलिं क्षिपेत् ।
आग्नेय्यां प्रणवस्यापि नैर्-ऋते विश्वदेवताः ॥ १३३ ॥
वायव्ये क्षेत्रपालाय नाममन्त्रैः क्षिपेद्बलिम् ।
ॐ हां रुद्रेभ्यः स्वाहा । ॐ हां मातृभ्यः स्वाहा ॥ १३४ ॥
ॐ हां गणेभ्यः स्वाहा । ॐ हां यक्षेभ्यः स्वाहा ।
हृदेभ्यः स्वाहा । ॐ हाम् असुरभ्यः स्वाहा ॥ १३५ ॥
प्। ३१५)
ॐ हां राक्षसेभ्यः स्वाहा । ॐ हां नागेभ्यः स्वाहा ।
ॐ हां नक्षत्रेभ्यः स्वाहा । ॐ हां राशिभ्यः स्वाहा ॥ १३६ ॥
ॐ हां विश्वेभ्यः स्वाहा । ॐ हां क्षेत्रपालाय स्वाहा ।
इन्द्रादीशानपर्यन्तं स्वस्वनाम्ना च पूजयेत् ।
ब्रह्मणे चोर्ध्वमुद्दिश्य पूजयेदन्तरीयके ॥ १३८ ॥
रसाभागमथोद्दिश्य नैर्-ऋते विष्णुमर्चयेत् ।
मध्यमुद्दिश्य मध्ये तु क्षेत्रपालबलिं क्षिपेत् ॥ १३९ ॥
वायसादिबलिं वापि दिग्विदिक्षु बलिं क्षिपेत् ।
ॐ हाम् इन्द्राय स्वाहा । ॐ हा मग्नये स्वाहा ॥ १४० ॥
प्। ३१६)
ॐ हां यमाय स्वाहा । ॐ हां निर्-ऋतये स्वाहा ।
ये रुद्रा रुद्रकर्माणो रुद्रस्थान निवासिनः ॥ १४१ ॥
सौम्याश्चैव केचिच्च सौम्यस्थाननिवासिनः ।
मातरो रुद्ररूपाश्च गणानामधिपार्श्वयोः ॥ १४२ ॥
विघ्नभूतास्तथाचान्ये दिग्विदिक्षु समाश्रिताः ।
सर्वे सुप्रीतमनसः प्रतिगृहन्त्विमं बलिम् ॥ १४३ ॥
सिद्धिं जुषन्तु मे नित्यं भयेभ्यः पातु मां सदा ।
एवं बलिप्रदानं च कृत्वा भक्तो नतो भवेत् ॥ १४४ ॥
पूजितं च शिवं भक्त्या प्रणम्याभ्यर्थ्य भक्तितः ।
भगवन्मम पूजां च होमादिसकल क्रियाम् ॥ १४५ ॥
प्। ३१७)
आत्मानं च गृहाणेति मूलमन्त्रेण होमयेत् ।
अष्टदिक्षु तथा पश्चात् सम्पूज्य शिवमव्ययम् ॥ १४६ ॥
न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम् ।
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्मम प्रभो ॥ १४७ ॥
पूर्ववत्प्रोक्तमार्गेण सम्प्रार्थ्य तदनन्तरम् ।
यस्य पूजां ततः कुर्यात् पूजान्ते नन्दिकेश्वर ॥ १४८ ॥
इत्यचिन्त्य विश्वसादाख्ये अग्निकार्य विधिश्चतुर्दशः पटलः ॥