आसनं च विशेषेण पूजयेन्नन्दिकेश्वर ।
पूर्वं कूर्मशिवं ध्यात्वा मूलप्रकृति विग्रहम् ॥ १ ॥
अणोरप्यणुरूपं च महतोऽपि महीयसम् ।
सोमसूर्याग्नि तेजोऽयं यद्यत्तत्तन्मयो विभुः ॥ २ ॥
सितरक्तादिभिर्वर्णैः न ध्यातव्यं कदाचन ।
न व्यवस्था विशेषेण न भूतेषु गुणेषु च ॥ ३ ॥
प्। २४४)
अन्तर्बहिश्च तत्सर्वं व्याप्य सर्वत्र संस्थितम् ।
स्वसंवेद्यस्वरूपां तां दर्शनीयां गुरोर्मुखात् ॥ ४ ॥
पुन्नपुंसकयोस्तुल्या विनीत्मा विशिष्यते ।
प्रधान कूर्ममित्युक्तं शक्तिः पर्यायवाचकम् ॥ ५ ॥
तां शिलां वृत्तरूपां च सुगन्धाद्यैः समर्चयेत् ।
प्रथमं तारमुच्चार्य हां कूर्माय नमोऽन्तकम् ॥ ६ ॥
ॐ हां कूर्माय नमः ॥
कूर्मासनो परिस्थितां शक्तिमाधाररूपिणीम् ।
कूर्मकुन्दप्ररोहाभां नादरूपोज्वलाकृतिम् ॥ ७ ॥
ॐ हाम् आदौ वदेत्पश्चादाधारशक्तये नमः ।
शरदिन्दु प्रतीकाशं मृणालसदृश प्रभम् ॥ ८ ॥
प्। २४५)
एवं ब्रह्मशिलारूपमनन्ताख्यासनान्वितम् ।
ॐ हां स्कन्दाय च प्रोक्तो नमस्कारमतः परम् ॥ ९ ॥
ॐ हां स्कन्दाय नमः ॥ ॐ हां नालाय नमः ।
ॐ हां मुकुलाय नमः ॥
नालं च मुकुलं चैव नाममन्त्रेण पूजयेत् ।
बिम्बप्रवालवर्णाभमङ्कुरं रजत प्रभम् ॥ १० ॥
वैडूर्य सदृशं नालं कन्दाख्यं रक्तपिङ्गलम् ।
शङ्खवर्णा दलाग्राश्च रक्ताश्चोपदलाः स्मृताः ॥ ११ ॥
किञ्चिल्लोहित पीतानि मध्ये स्युः केसराणि तु ।
तन्मध्ये कलयेद्धीमान्कर्णिकां कनकप्रभाम् ॥ १२ ॥
प्। २४६)
नवबीजानि तन्मध्ये हेमाभानि प्रकल्पयेत् ।
अनन्ताख्यासनं वक्ष्ये समाहितमनाः शृणु ॥ १३ ॥
धर्मयुक्तो वृषाकारो ज्ञानस्सिंहस्वरूपकः ।
वैराग्यं पीतभूतं स्यादारोग्यं श्वेतकुञ्जरः ॥ १४ ॥
अनन्तासनपादानि पार्श्वयष्टिमथो शृणु ।
अधर्माज्ञानावैराग्यमनैश्वर्यं च कल्पयेत् ॥ १५ ॥
राजावर्तनिभास्सर्वे प्रागादिषु च कल्पयेत् ।
प्रथमं नागराजानमनन्तं वासुकिं तथा ॥ १६ ॥
तक्षकं चाथ कार्कोटं पद्माख्यं च ततः परम् ।
महापद्मं शङ्खपालं गुलिकं नवमं स्मृतम् ॥ १७ ॥
प्। २४७)
विद्येश्वराणामष्टानां प्रत्येकं रूपमास्थिताः ।
फणपञ्च त्रयं चैकं पुच्छादारभ्य नागवत् ॥ १८ ॥
पुरुषाकार संयुक्तमुदरे परिशोभितः ।
सुमुखं कुण्डलोपेतं सर्वाभरणभूषितम् ॥ १९ ॥
फणतत्परभागेऽपि द्विबाहुं क्षौमवस्त्रकम् ।
वरदाभयदं हस्तं सुवृत्तिं तद्वरं ततः ॥ २० ॥
गुलिकाद्यानन्तादीन् परितो दिक्षु कल्पयेत् ।
एकैकफणसंयुक्तं कृताञ्जलिपुटान्वितम् ॥ २१ ॥
प्रधानमीक्ष्य सर्वे ते नागाधिपमनूपमम् ।
ॐ हां पूर्वं समुच्चार्य नाममन्त्रेण पूजयेत् ॥ २२ ॥
प्। २४८)
ॐ हां नागराजाय नमः ॥ ॐ हाम् अनन्ताय नमः । इत्यादि ॥
फुल्लाष्टदलकं कृत्वा देवानन्तपङ्कजम् ।
नागाधिप शिरोदेशे कल्पयेन्नन्दिकेश्वर ॥ २३ ॥
अनन्तासनमित्युक्तं योगासनमतः परम् ।
अव्यक्तो नियतिःकालः कला चेति चतुष्टयम् ॥ २४ ॥
महादिक्षु न्यसेद्वृत्तं मध्यपादस्तु केशवः ।
अव्यक्तः सर्वनैजाभो यतिः कालाञ्जनद्युतिः ॥ २५ ॥
कालो डाडिमपुष्पाभः कला भिन्नाञ्जनप्रभा ।
ॐ हां चैवं समुच्चार्य स्वस्वनाम्नैव पूजयेत् ॥ २६ ॥
मध्ये तु केशवं पूज्य नीलजीमूतसन्निभम् ।
चतुर्बाहुं त्रिणेत्रं च शङ्खचक्राभयान्वितम् ॥ २७ ॥
प्। २४९)
वरदं दक्षहस्तेन सर्वाभरणभूषितम् ।
ऊर्ध्वाधोमुखपद्मं च कल्पयेत्तस्य मूर्धनि ॥ २८ ॥
ॐ हां पूर्वं समुच्चार्य अधश्छदहृदयाय नमः ।
ऊर्ध्वेऽप्येवं समुच्चार्य नमोऽन्तं योगपीठके ॥ २९ ॥
ॐ हाम् ऊर्ध्वश्छतीनाय नमः ।
ॐ हां योगपीठाय नमः ।
योगासनमिदं प्रोक्तमष्टकोणयुतं परम् ॥ ३० ॥
सिंहासनमथो वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
ऊर्ध्वच्छदं तु सम्पूज्य दशबीजं न्यसेत्क्रमात् ॥ ३१ ॥
ओङ्कारं प्रथमं बीजम् आकारं च द्वितीयकम् ।
ईकारं च तृतीयं स्यादूकारं च चतुर्थकम् ॥ ३२ ॥
प्। २५०)
व्योकारं पञ्चमं प्रोक्तं व्याङ्कारं षष्ठमेव च ।
व्यापिं च सप्तमं प्रोक्तम् अक्षरद्वय संयुतम् ॥ ३३ ॥
नैकारमष्टमं प्रोक्तं होकारं प्रतिबीजकम् ।
दशबीजमिदं प्रोक्तं पूर्वादीशान्तकं न्यसेत् ॥ ३४ ॥
ॐ हां ॐ नमः ॥ ॐ हाम् आं नमः ॥
ॐ हाम् ईं नमः ॥ ॐ हाम् ऊं नमः ॥
ॐ हां व्यों नमः ॥ ॐ हां व्यां नमः ॥
ॐ हां व्यापिन्नमः ॥ ॐ हां नें नमः ॥
ॐ हां ॐ नमः ।
कृतत्रेतादिरूपेण सिंहरूपेण पादकान् ।
कोटिकोटिकसङ्घैश्च प्रत्येकं परिवारितम् ॥ ३५ ॥
प्। २५१)
कन्दकाश्मीरमुक्ताभ भृङ्गाभास्वरवर्णकैः ।
दंष्ट्राकरालवदनैः त्रिणेत्रैर्भीमरूपिभिः ॥ ३६ ॥
कृतयुगादिनाम्ना तु नमोऽन्तं पूजयेत्क्रमात् ।
ॐ हां कृतयुगाय नमः इत्यादि ।
चतुरश्रं च सिंहाख्यं पद्मासनमतः परम् ॥ ३७ ॥
पूर्वं नालोत्थितं पद्ममष्टपत्रं स केसरम् ।
श्वेतं प्राप्तस्सुवर्णाभं चतुष्षष्टिककेसरम् ॥ ३८ ॥
पञ्चाशद्बीज संयुक्तं नवशक्ति समन्वितम् ।
वामा ज्येष्ठा च रौद्री च काली कलविकरिणी तथा ॥ ३९ ॥
तथा बलविकरिणी चेति बलप्रमथिनी तथा ।
सर्वभूतदमनी चैव मनोन्मन्यन्तशक्तयः ॥ ४० ॥
प्। २५२)
कोट्यादित्य समास्सर्वाः जटाखण्डेन्दु ताडिताः ।
चतुर्भुजास्त्रिणेत्राश्च घृतचामरहस्तकाः ॥ ४१ ॥
वरदाभय हस्ताश्च शिवासक्त कराम्बुजाः ।
पूर्वादीशान पत्रान्तं केसराग्रेषु विन्यसेत् ॥ ४२ ॥
शङ्खकुन्देन्दुधवलां कर्णिकायां मनोन्मनीम् ।
ॐ हां पूर्वं समुच्चार्य नमोऽन्तं स्वस्वनामभिः ॥ ४३ ॥
ॐ हां वामायै नमः । ॐ हां ज्येष्ठायै नमः ।
ॐ हां रौद्र्यै नमः । ॐ हां काल्यै नमः ॥
ॐ हां कलविकरिण्यै नमः । ॐ हां बलविकरिण्यै नमः ।
ॐ हां बल प्रमथिन्यै नमः । ॐ हां सर्वभूतदमन्यै नमः ।
ॐ हां मनोन्मन्यै नमः । इति कर्णिकायाम् ।
प्। २५३)
मण्डलत्रयमप्यासामूर्ध्वोर्ध्वे कल्पयेत्क्रमात् ।
कोट्यादित्यप्रतीकाशं शिवसूर्यस्य मण्डलम् ॥ ४४ ॥
आदित्यं चैव ब्रह्माणमात्म तत्वस्वरूपिणम् ।
पञ्चवक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् ॥ ४५ ॥
तप्तकार्तस्वराभासं सर्वाभरणभूषितम् ।
नमो रुद्रान्वितं देवं सृष्टिकारणकारणम् ॥ ४६ ॥
ॐ हां पूर्वं समुच्चार्य सूर्यमण्डलाय नमः ।
मण्डलान्तं पुनश्चोक्त्वा त्वधिपतये ब्रह्मणे नमः ॥ ४७ ॥
सूर्यमण्डलाय नमः ।
ॐ हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः ।
एवं क्रमेण विष्णुं च सोममण्डलनायकम् ।
प्। २५४)
तथैव वह्निबीजं च रुद्रं तत्रैव मन्त्रयुक् ॥ ४८ ॥
ब्रह्माणं चोर्ध्वमौलौ च चन्द्रबिम्बं सुभावयेत् ।
कोटिचन्द्रद्युतीयुक्तं कोटिचन्द्रसुशीतलम् ॥ ४९ ॥
ॐ हां सूर्यमण्डलाय नमः ।
तन्मध्ये चादिविष्णुं च नीलजीमूत सन्निभम् ।
भस्मोद्धूलितसर्वाङ्गं सर्वाभरणभूषितम् ॥ ५० ॥
एकवक्त्रं द्विनेत्रं च कर्णकुण्डलभूषितम् ।
चतुर्भुजं शङ्खचक्रं नमस्कार समन्वितम् ॥ ५१ ॥
पीताम्बरधरं विष्णुं स्थितिकारणकारणम् ।
किरीट मकुटोपेतं विद्यातत्व स्वरूपिणम् ॥ ५२ ॥
प्। २५७)
ॐ हां सोममण्डलाधिपतये विष्णवे नमः ।
आग्नेय लन्तस्य विष्णोर्मूर्ध्नि सुविन्यसेत् ॥ ५३ ॥
अनन्ताग्निसमप्रख्यं शैवाग्निं तत्र कल्पयेत् ।
ॐ हाम् अग्निमण्डलाय नमः ।
रुद्रं माणिक्यवर्णाभम् एकास्यं च त्रिलोचनम् ॥ ५४ ॥
चतुर्भुजं जटाजूड्मिन्दुरेखा प्रसूनकम् ।
भस्मोद्धूलित सर्वाङ्गं त्रिपुण्ट्रेण विराजितम् ॥ ५५ ॥
उमारुद्रान्वितं देवं लयकारणकारणम् ।
ॐ हां वह्निमण्डलाधिपतये रुद्राय नमः ।
तत्वत्रयाधि पाश्चैव सर्वविद्यासमन्विताः ॥ ५६ ॥
प्। २५८)
सर्वाभरणसंयुक्ताः प्रत्येकं भारयेत्क्रमात् ।
विमलासनमेवोक्तं बिम्बत्रयसमन्वितम् ॥ ५७ ॥
चिच्छक्तिमण्डलं पश्चात्सर्वतेजोमयं परम् ।
दलैः सहस्रैः सङ्कीर्णम् इन्दुगोक्षीरसन्निभम् ॥ ५८ ॥
गौरीगायत्रिसंयुक्तमिच्छा ज्ञानक्रियात्मकम् ।
क्षित्यादिशुद्धविद्यान्तं तत्वव्यापकमानसम् ॥ ५९ ॥
ॐ हां शक्तिमण्डलाय शिवासनाय नमः ।
ॐ हाम् इच्छाशक्तये नमः ।
ॐ हां क्रियाश्क्तये नमः ।
ॐ हां ज्ञानशक्तये नमः ।
ॐ हाम् अम्बिकाय विद्महे महातपाय धीमहि । तन्नो गौरी प्रचोदयात् ॥
प्। २५९)
उत्तरादि चतुर्दिक्षु गौरी गायत्रिमन्त्रयुक् ।
आत्मत्रयं च सम्पूज्य प्रणवाकार मध्यमे ॥ ६० ॥
प्रसाद बीजतन्मध्ये शिवासनमिदं परम् ।
तन्मध्ये देवदेवेशं परमेशं तु भावयेत् ॥ ६१ ॥
सदाशिव स्वरूपेण शुद्धस्फटिक सन्निभम् ।
पञ्चवक्त्रयुतं तेषु प्रतिवक्त्रं त्रिलोचनम् ॥ ६२ ॥
जटामकुटसंयुक्तं दशदोर्भिस्समन्वितम् ।
शूलं परशुखड्गं च वज्राभये च दक्षिणे ॥ ६३ ॥
पाशनागाङ्कुशं चैव घण्टां वह्निं च वामके ।
सर्वावयसम्पूर्णं दिव्याम्बरधरं शुभम् ॥ ६४ ॥
प्। २६०)
दिव्यगन्धानुलिप्ताङ्गं दिव्यपुष्पैरलङ्कृतम् ।
सर्वाभरणसंयुक्तमर्धेन्दुकृतशेखरम् ॥ ६५ ॥
द्वात्रिंशल्लक्षणोपेतं युवानं पुष्करस्रजम् ।
प्रसन्नवदनोपेतं प्रशान्तं सर्वकारणम् ॥ ६६ ॥
बद्धपद्मासनासीमं देवदेवं विचिन्तयेत् ।
एवं सदाशिवं न्यस्य मूर्तिशक्त्यान्तगोचरम् ॥ ६७ ॥
ॐ हां हं समुच्चार्य शिवमूर्तिं नमोन्तकम् ।
ॐ हां हं शिवमूर्तये नमः ।
अनेनैव तु मन्त्रेण चिदानन्दमयं प्रभुम् ॥ ६८ ॥
सन्मार्गनिष्कलं चैव विचिन्त्य परमेश्वरम् ।
ब्रह्मादिकारणं त्यक्त्वा मन्त्रं नीत्वा शिवास्पदम् ॥ ६९ ॥
प्। २६१)
पञ्चब्रह्म षडङ्गानां बीजमूलं महोदयम् ।
तद्बिन्दुनादसंयुक्तं शिवं परमकारणम् ॥ ७० ॥
ललाटे मध्ये तन्ध्यात्वा स्फुरत्तारापतीं प्रभाम् ।
कुसुमाञ्जलिकं भाव्यं लक्षमूर्तौ प्रवेशयेत् ॥ ७१ ॥
मूलमन्त्रं समुच्चार्य मुद्रया चार्चयेत्तदा ।
अथवा सूक्ष्ममूर्तीशं भूततत्वं सबिन्दुकम् ॥ ७२ ॥
शैवीं शक्तिमिति ध्यात्वा पूजयेल्लिङ्गं वेष्टयेत् ।
ॐ हाम् औं विद्यादेहाय नमोन्तमन्त्रमुच्चारयेत् ॥ ७३ ॥
ॐ हां हौं विद्यादेहाय नमः ।
सदाशिवस्य शक्त्या च व्यापिकां ब्रह्मरन्ध्रकाम् ।
सदासां मुख्यमूर्तिं तां लिङ्गदैर्घ्यं च पूजयेत् ॥ ७४ ॥
प्। २६२)
ईशाना शान्त्यतीतान्तं पुरुषं शान्तिवक्त्रकम् ।
अघोरविद्याहृदयं वामप्रेक्षणगुह्यकम् ॥ ७५ ॥
सद्योनिवृत्ति जान्वङ्घ्रिभुवनानां तनूरुहम् ।
ब्रह्मान्तं दुर्धरं देवं परमांस विराजितम् ॥ ७६ ॥
तत्वास्थिमज्जशुक्लादि सहितं धातुरूपकम् ।
दृक्क्रियेच्छात्रिपञ्चाक्ष ज्ञानचन्द्रकलोत्थितम् ॥ ७७ ॥
शुद्धस्फटिकसङ्काशमूर्ध्ववक्त्रं विशेषतः ।
पुरुषं कुङ्कुमाकारमघोरं भृङ्गभास्वरम् ॥ ७८ ॥
जपाकुसुमसङ्काशं वामदेवं प्रकीर्तितम् ।
शङ्खकुन्देन्दुगोक्षीरसदृशं सव्यवक्त्रकम् ॥ ७९ ॥
प्। २६३)
एवं ध्यानसमायुक्तं पूजयेन्नन्दिकेश्वर ।
आवाहन क्रमादीनां स्वरूपं कथ्यते शृणु ॥ ८० ॥
व्याप्तस्यातिविनीतस्य सादरं सम्मुखीक्रिया ।
आवाहनमितिप्रोक्तं मूर्त्त्यवच्छेदनेन तु ॥ ८१ ॥
हृत्कण्ठतालुभ्रूमध्य ब्रह्मरन्ध्रान्तमेव च ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ८२ ॥
कारणानां च पञ्चानां त्यागं कृत्वा समाहितः ।
द्वादशान्तोन्मनीशक्ति व्यापिनं परमेश्वरम् ॥ ८३ ॥
ज्योतिर्मन्त्रमयं बुध्वा ललाटाकृष्टबिन्दुकः ।
पुष्पयुक्तकरद्वन्द्वे हृन्मन्त्रे विन्यसेत्क्रमात् ॥ ८४ ॥
प्। २६४)
हृदारभ्य ललाटान्तं मूर्ध्नि चावाहनं हितम् ।
बद्धाञ्जलिं च हस्ताभ्यां कनिष्ठामूलपर्वणोः ॥ ८५ ॥
सन्ताग्राङ्गुष्ठयुग्योसौ मुद्राचावाहनी भवेत् ।
आवाहनमिदं प्रोक्तं स्थापनं तदनन्तरम् ॥ ८६ ॥
ॐ हां हौं शिवायनमः ।
भक्त्या निवेशनं तत्र मूर्तौ क्वचिदपि स्थिरः ।
अविच्छिन्नोपनीतं तु * * * * * कीर्तितः ॥ ८७ ॥
तथैवाधोमुखीं चैव स्थापनीबद्धमुष्टिकम् ।
परमेशतन् ध्यायेत् स्वस्वकार प्रदर्शनम् ॥ ८८ ॥
सन्निधीकरणं चोक्त्वा मूर्त्यवच्छेदबुद्धये ।
संसक्ता सुश्रिताङ्गुष्ठौ मुद्रा स्यात्सन्निधापिनी ॥ ८९ ॥
प्। २६५)
आकर्मणः समाप्तौ तु सन्निधेयो परिक्षये ।
निरोधस्सतु विज्ञेयः तद्वत्स्यापि वरस्य तु ॥ ९० ॥
गूढाङ्गुष्ठौ तथा युक्तौ भवेत्तत्वनिरोधनी ।
निष्ठुरेति च सा प्रोक्ता कामिकादि शिवागमे ॥ ९१ ॥
बोधानन्द स्वरूपस्य सर्वानन्दमयस्य च ।
अयोग्येष्वप्रकाशायेस्तं भवेदावकुण्ठनम् ॥ ९२ ॥
शिरस्यधोमुखी कृत्वा तन्नौ पुष्पाञ्जलिं करौ ।
तत आपादसंस्पर्शान् मुद्रा स्यादवकुण्ठनी ॥ ९३ ॥
मुद्रया यत्कृतं कर्म तदक्षय फलं भवेत् ।
लिङ्गमुद्रां नमो मुद्रां दर्शयेन्नन्दिकेश्वर ॥ ९४ ॥
प्। २६६)
उच्छ्रितां गुष्ठमध्ये तु लिङ्गमुष्टिरिहोच्यते ।
पाणिभ्यामञ्जलिं कृत्वा हृदये तु निवेशनम् ॥ ९५ ॥
नमोमुद्रेति सा प्रोक्ता योनिमुद्रां प्रदर्शयेत् ।
अनामिके तु संवेष्ट्य तर्जनीभ्यां तु मध्यमे ॥ ९६ ॥
प्रासार्यान्योन्य संयुक्ते ज्येष्ठात्वे मध्यमान्तरे ।
कृत्वा तु योनिमुद्रेयं लिङ्गपीठे प्रदर्शयेत् ॥ ९७ ॥
सकलीकरणं कुर्यात् षड्भिर्मन्त्रैरथैकदा ।
अजिनामङ्ग संयुक्तिरमृतीकरणं परम् ॥ ९८ ॥
हस्तौ तु सम्पुटं कुर्याद् अन्योन्याग्रथिताङ्गुलिम् ।
तर्जनीभ्यां मध्यमे तु कनिष्ठाभ्यामनामिके ॥ ९९ ॥
प्। २६७)
बध्वा तु धेनुमुद्रेयममृतीकरणं तथा ।
अथोक्त्वा तु प्रयुक्तेन गोस्तनाकारवद्भवेत् ॥ १०० ॥
सूर्यस्य रश्मिभिःकल्यो प्रधृष्यश्च प्रदीपितैः ।
निजाङ्गैर्देवदेवोऽपि ध्यातव्यो नन्दिकेश्वर ॥ १०१ ॥
चिच्छक्तिं हृदये न्यस्य विद्याद्यैश्वर्यमष्टधा ।
शिवत्वं नान्यधीनं यत् सा शिखोपरि संस्थिता ॥ १०२ ॥
अभेद्यं देवदेवस्य तेजोवर्जं निगद्यते ।
सर्वकालेऽपि सर्वत्र सदावस्था सु सन्ततम् ॥ १०३ ॥
आत्मनश्चा विशेषस्य सनिवारकदृक् च यत् ।
नेत्रं तदिति विज्ञेयं देवेशस्य शिवस्य तु ॥ १०४ ॥
प्। २६८)
अत्यसह्यप्रतापाग्नि विघ्नौघविनिवारकम् ।
देवेशस्यास्त्रमित्युक्तम् अभेद्यं देवदानवैः ॥ १०५ ॥
हृदयाद्यङ्गमन्त्राणां न्यासमुद्राः शृणुष्वथ ।
ज्येष्ठाग्रं च तु विन्यस्य मध्यमानामिकान्तरे ॥ १०६ ॥
मुष्टिबद्धेतराभ्यस्तु हृदये विनिवेशयेत् ।
हृदयाख्या भवेन्मुद्रा संसक्ताङ्गुष्ठमुष्टिकम् ॥ १०७ ॥
हस्तं शिरसि विन्यस्य शिरोमुद्रेयमीरिता ।
उच्छ्रिताङ्गुष्ठकं मुष्टिं शिरः पृष्ठे निवेशयेत् ॥ १०८ ॥
शिखामुद्रा भवेदेषा शिखरासन्निवेशिता ।
बद्धमुष्टिकरौ कृत्वा सारिताङ्गुष्ठतर्जनी ॥ १०९ ॥
प्। २६९)
तदूर्ध्वं शिरसो नीत्वा पार्श्वाभ्यां हृदये न्यसेत् ।
भवत्कवच मुद्रेयं सर्वरक्षाकरी मता ॥ ११० ॥
कनिष्ठाङ्गुष्ठकौ बध्वा किञ्चिदाकुञ्च्य तर्जनीम् ।
अनामिकां च नेत्राख्या मध्यमाङ्गुलि सारणा ॥ १११ ॥
तर्जन्यङ्गुष्ठकाभ्यां तु पार्श्वयोर्विसृजेद्बहिः ।
छोटिकामस्त्रमुद्रेयं सर्वोपद्रवहारिणी ॥ ११२ ॥
देवस्य पुरतो मूर्ध्नि हस्ताभ्यां मुकुलं भवेत् ।
तन्मुद्रां विसृजेत्पश्चादापादतललम्बिताम् ॥ ११३ ॥
पुनः पूर्ववदाकुर्यान् महामुद्रा च सा स्मृता ।
प्रभाकरवती कृत्य प्ररोच्य शिवमव्ययम् ॥ ११४ ॥
प्। २७०)
प्रसन्नस्य पदाम्भोजे पाद्यं दद्याद्धृदा सदा ।
ॐ हां ॐ पाद्यं शिवाय नमः ।
वक्त्रेष्वाचमनं दद्यात् स्वधान्ते प्राङ्मुखादिषु ॥ ११५ ॥
तथा च पुनरों हां हौं शिवाय मनसः स्वधा ।
ईशानादि सद्योजातान्तं शिवस्यार्घ्यं प्रदर्शयेत् ॥ ११६ ॥
ॐ हां हौं शिवायार्घ्यं स्वाहान्तं दापयेत्क्रमात् ।
गन्धं च पुष्पं धूपं च दीपं दूर्वाक्षतान्वितः ॥ ११७ ॥
वौषडन्तेन मन्त्रेण द्रव्यनाम्ना च पूजयेत् ।
गन्धं ललाटे पुष्पं च मूर्ध्नि धूपं तथैव च ॥ ११८ ॥
अगरुं चैकभागं स्यान् निर्यासं द्विगुणं भवेत् ।
चन्दनं द्विगुणं प्रोक्तमीषत्कर्पूरसंयुतम् ॥ ११९ ॥
प्। २७१)
मधुना प्लावितं ह्येतत् शीतारन्नाम धूपयेत् ।
नेत्रे प्रदेशे दीपं च पार्श्वे पृष्ठे निवेदयेत् ॥ १२० ॥
ॐ हां हौं शिवाय गन्धं वौषडित्यादि ।
पञ्चगव्याभिषेकं च मूलमन्त्रेण कारयेत् ॥ १२१ ॥
पञ्चामृतैश्च स्नपनं स्थाप्यमन्त्रैः पुनः क्रमात् ।
मध्ये मध्ये च धूपं च दीपं चैव प्रदापयेत् ॥ १२२ ॥
जलप्रदानं पुष्पं च तदेवार्घ्यं निवेदयेत् ।
सुगन्धिशालिपिष्टेन पीठं देवं विघृष्य च ॥ १२३ ॥
उद्वर्त्योद्वर्त्यबिल्वादि पत्रैरपि विशेषतः ।
नमोन्तं कवचेनैव निर्मार्जनमथो भवेत् ॥ १२४ ॥
प्। २७२)
ॐ हैं कवचाय नमः ।
ॐ हां शिवायोत्तिष्ठेति स्नपनं याचयेच्छिवम् ।
उत्तिष्ठमानं सम्भाव्य ॐ हां हौं शिवाय नमः ॥ १२५ ॥
ईषदुष्णजले नैव स्नानं कुर्यादनन्तरम् ।
महास्नानं ततः कार्यं गन्धैरामलकादिभिः ॥ १२६ ॥
सुगन्धवारिभिः पश्चाद् गण्डूकाणां क्रमेण तु ।
शतं साष्टोत्तरं देयमभिषेकं समाचरेत् ॥ १२७ ॥
आत्मार्थं स्नानकं दद्याद्वामहस्तजलेऽपि वा ।
पुष्पं यत्पूर्वं विन्यस्तं तदर्घ्येण विसर्जयेत् ॥ १२८ ॥
गण्डूकां मूलमन्त्रेण निपतेदाढकां पुनः ।
जलं देयं लिङ्गमूर्ध्नि शेषं वेद्यां विनिक्षिपेत् ॥ १२९ ॥
प्। २७३)
विशेषदिवसे काले यावत्कल्पितकं जलम् ।
तावत्स्नानं प्रकर्तव्यमभिषेकं क्रियाय च ॥ १३० ॥
अलाभे पञ्चगव्यादि स्नापयेच्छुद्धवारिणा ।
सम्मार्ज्य सूक्ष्मशुद्धेन वस्त्रेण तदनन्तरम् ॥ १३१ ॥
कुङ्कुमागरुकर्पूरचन्दनैः श्लक्ष्णपिष्टकैः ।
हिमाम्बुमिश्रितैर्गन्धैः लेपयेद्देव विग्रहे ॥ १३२ ॥
मूलमन्त्रेण कर्तव्यं पुष्पं शिरसि निक्षिपेत् ।
निबन्धयेदधोमुद्रां नोपरि भ्रामयेत्करम् ॥ १३३ ॥
सर्वदापुष्पमारोप्यमशून्यं लिङ्गमस्तके ।
वस्त्रमाभरणं पुष्पं धूपदीपौ ददेद्बुधः ॥ १३४ ॥
प्। २७४)
मूलमन्त्रेण तत्सर्वं कुर्यादस्त्रं विशेषतः ।
शिरसा पुष्पमभ्यर्च्य घण्टामन्त्रेण ताडयेत् ॥ १३५ ॥
स्वधान्तं हृदयेनैव कुर्यादाचमनीयकम् ।
ईशानं कर्णिकामध्ये पूर्वे तत्पुरुषं यजेत् ॥ १३६ ॥
अघोरं दक्षिणे पूज्य वामदेवं तु चोत्तरे ।
सद्यं पश्चिमदेशे तु पूजयेद्ब्रह्मपञ्चकम् ॥ १३७ ॥
आरात्रिकं समुत्तीर्य रक्षौघविनिवारकम् ।
भस्म दर्पणं छत्रं च चामरं तालवृन्तकम् ॥ १३८ ॥
एतैस्सन्तोष्य देवेशं कुशदूर्वाङ्कुरैस्सह ।
लक्ष्मीपुष्पैर्विशेषेण मौलौ वारोपयेत्तदा ॥ १३९ ॥
प्। २७५)
रजन्यां तु विशेषेण कुर्यादारात्रिकं क्रमैः ।
नीराजनं प्रकुर्वीत नवपात्रमथापि वा ॥ १४० ॥
पञ्चपात्रं समादाय दीपाधार समायुतम् ।
एकपिष्टेन सन्तप्तान् दीपान्प्रज्वाल्य सर्वशः ॥ १४१ ॥
यन्त्रिकोपरि संवेश्य दिव्यदृष्ट्या निरीक्षणम् ।
अस्त्रेण प्रोक्षणं प्रोक्तमभ्युक्षणमथो हृदा ॥ १४२ ॥
ताडनं च तथैवास्त्रमेवं संस्कारकं कुरु ।
नाभिस्थेनाग्निना चैव पूरकेणाग्निना सह ॥ १४३ ॥
संयोज्य रेचकेनैव नीत्वा सद्यादिमन्त्रयेत् ।
वह्निबिम्बे बहिःक्षिप्य क्षिपेदारात्रिकेऽथवा ॥ १४४ ॥
प्। २७६)
पाद्याचमनकार्यार्थम् अर्घ्यबिन्दुं त्रिवारकम् ।
प्रतिदीपं तथा दत्वा दीपमुद्रां प्रदर्शयेत् ॥ १४५ ॥
तां सर्वाङ्गुलिभिर्बद्धादन्तराले न्यसेत्क्रमात् ।
वामाङ्गुष्ठं निरोधाय दर्शयन्नवदीपकैः ॥ १४६ ॥
गन्धपुष्पादिना पूज्य त्रिवारं हृदयाणुना ।
उच्चनीचक्रमेणैव देवमस्तकसन्निधौ ॥ १४७ ॥
भ्रामयेन्नेत्रमन्त्रेण भक्तियुङ् नन्दिकेश्वर ।
सुगन्धिसितसूनानि प्रोक्षयेदस्त्रवारिणा ॥ १४८ ॥
अभिमन्त्र्य षडङ्गेन भस्मनाऽस्त्रेण मार्जयेत् ।
निक्षिप्य दीपे तत्रास्मै शेषभस्म च सङ्ग्रहे ॥ १४९ ॥
प्। २७७)
हृदयेनैव मन्त्रेण ललाटेषु न्यसेत्क्रमात् ।
हृदये बाहुदेशेषु चैशाने कोणके भवेत् ॥ १५० ॥
गन्धयोरेव तद्दद्यात् पृथग्देवी व्यवस्थिता ।
नीराजनादि तत्सर्वं पूर्ववत्कारयेत्क्रमात् ॥ १५१ ॥
विनायकस्कन्दयोश्च नीराजनविधिस्तदा ।
पात्राणि तानि सर्वाणि बहिःपीठे विनिक्षिपेत् ॥ १५२ ॥
ततः प्रणम्य देवाज्ञां लब्ध्वा गौरीं प्रपूजयेत् ।
अग्नीशाया तु वायूनां दिक्षु चत्वार्यनुक्रमात् ॥ १५३ ॥
हृन्मन्त्रमिन्दुसङ्काशं शिरः काञ्चनसन्निभम् ।
शिखा जपाभा नन्दीश तनुत्राणं च भृङ्गवत् ॥ १५४ ॥
प्। २७८)
सर्वतेजोमयं नेत्रं कर्णिकायां प्रपूजयेत् ।
अम्भोजासनसंयुक्ताज्जटामकुटधारिणः ॥ १५५ ॥
चतुर्भुजां स्त्रिणेत्रांश्च सर्वाभरणभूषितान् ।
शक्तिशूलाभयवरान् शिवस्याभिमुखस्थितान् ॥ १५६ ॥
चतुर्वक्त्रं निजैर्मन्त्रैरुच्चरेन्नन्दिकेश्वर ।
तत्कालदंष्ट्रमत्युग्रमस्त्रं चाशनि सन्निभम् ॥ १५७ ॥
पूर्वादिषु चतुर्दिक्षु पूजयेद्विघ्नवारकम् ।
स्वस्वमन्त्रेण सम्पूज्य पाद्यादीन् हृदयाणुना ॥ १५८ ॥
धूपदीपं च नैवेद्यं तोयमाचमनीयकम् ।
करोचर्तनताम्बूलं मुखवासं च दर्पणम् ॥ १५९ ॥
प्। २७९)
दद्यात्स परिवाराय शिवमन्त्रेण देशिकः ।
नैवेद्यं दापयेत्तस्माद् देवदेवस्य पूर्वके ॥ १६० ॥
अच्छिन्नैर्धवलैः शालीतण्डुलैः क्षालयेच्छुभैः ।
सुपक्वं च सुगन्धं च कल्पयेद्विधिना सह ॥ १६१ ॥
सुवर्णादिषु पात्रेषु यन्त्रिकासु विनिक्षिपेत् ।
आज्यान्नेषु घृतान्नेषु निक्षिपेत्तदनन्तरम् ॥ १६२ ॥
सूपापूपोपदंशाद्यैः फलैर्नानाविधैरपि ।
पक्वैरपक्वैस्तद्भूरि परितः परिमण्डयेत् ॥ १६३ ॥
चक्रार दलसोपान पङ्क्त्याद्याकृति संयुतः ।
पात्रकैः क्षीरदध्याज्य सुपक्वान्नेन संयुते ॥ १६४ ॥
प्। २८०)
सितां फलादि मुद्गादीन् कल्पयेद्विभवानुगम् ।
अन्नैर्नानाविधैः शुद्धैः घृतदध्यादिसंयुतैः ॥ १६५ ॥
नैवेद्यमीदृशं प्रोक्तमभावे भावना भवेत् ।
तत्प्रियं च प्रकर्तव्यं सुस्वच्छं तु विशेषतः ॥ १६६ ॥
अस्त्रमन्त्रेण संशोध्य रेचयेद्धेनुमुद्रया ।
कवचीकरणं कुर्याद् हृन्मन्त्रेण निवेदयेत् ॥ १६७ ॥
मध्यमानामिकाङ्गुष्ठ गतपुष्पेण दापयेत् ।
अस्त्रेण मनुना घण्टां ताडयेच्च क्षणात्तदा ॥ १६८ ॥
अङ्गानां परिवाराणां नैवेद्यं च प्रदापयेत् ।
पानीयं च प्रदातव्यं स्थल्या मज्जकमिन्दुवत् ॥ १६९ ॥
प्। २८१)
ईषच्चन्दनसंयुक्त नवमृद्घटसंयुतम् ।
सुस्वादुशीतलं तोयं पानीयं परिकल्पयेत् ॥ १७० ॥
हृदयेन तु मन्त्रेण चषकेन प्रदापयेत् ।
शिवादि परिवाराणां बलिं तत्र प्रदापयेत् ॥ १७१ ॥
निवेद्यान्तं प्रदातव्यं देवायाचमनं तदा ।
हस्तोद्वर्तनकार्यार्थं पटीरं दापयेत्पुनः ॥ १७२ ॥
निर्माल्यं चण्डदेवाय निवेद्यं च समाहितः ।
अस्त्रेण प्रोक्षयेत्पश्चात् ताम्बूलादीन्प्रदापयेत् ॥ १७३ ॥
शुभ्रं ताम्बूलपत्रं च पूगोत्तमफलानि च ।
तैलकर्पूरसंयुक्तं ताम्बूलमिति कीर्तितम् ॥ १७४ ॥
प्। २८२)
जातीलवङ्गतक्कोलमुखवासं प्रदापयेत् ।
तेजिष्ठं दर्पणं पश्चान् मूलमन्त्रेण दापयेत् ॥ १७५ ॥
पवित्रमक्षतोपेतं दूर्वायुक्तं विशेषतः ।
तत्वत्रयेण सञ्जप्य मूलमन्त्रेण दापयेत् ॥ १७६ ॥
मोक्षार्थी शिवतत्वानि भोगार्थी तद्विपर्ययात् ।
प्रत्यहं वाङ्मनः कायव्यापारजनितातलम् ॥ १७७ ॥
पूर्वं पवनधात्वर्थे पालनं च युतेऽपि च ।
शुद्धिरक्षां च कुरुते पवित्रमिति कीर्तितम् ॥ १७८ ॥
विष्णुब्रह्मेन्द्रदेवाद्यैस्तैस्तैर्नानाविधैरपि ।
सन्तुष्टं परमेशानं ताडयेन्नन्दिकेश्वर ॥ १७९ ॥
प्। २८३)
मूलमन्त्रं जपेत्पश्चादक्षमालासमन्वितम् ।
वामहस्ते च कुसुमं निक्षिपेद्दक्षपाणिना ॥ १८० ॥
दक्षहस्तं परेन्यस्य जपं कुर्याद्विशेषतः ।
मानसोपरि शिष्याणां प्रथमं चोत्तमोत्तमम् ॥ १८१ ॥
उपांशु मध्यमं प्रोक्तमधमं भाष्यते वचः ।
तस्माद्भाष्यं समुत्सृज्य मनसोपांशु वा जपेत् ॥ १८२ ॥
मूलस्याष्टशतं जप्त्वा न द्रुतं न विलम्बितम् ।
मन्त्रितं हृदयेनैव कवचेन तु वेष्टितम् ॥ १८३ ॥
अस्त्रेण रक्षितं चैव मुद्रयोद्भवसञ्ज्ञया ।
शिवाङ्गानां जपं चापि दशाङ्गं दापयेत्तदा ॥ १८४ ॥
प्। २८४)
गुह्याति गुह्य गोप्यस्त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे येन तत्प्रसादात्त्वयि स्थिते ॥ १८५ ॥
एतन्मन्त्रं जपित्वा तु भोगदेवस्य दक्षिणे ।
वामहस्ते प्रदातव्यं मूलमन्त्रार्घ्यवारिणा ॥ १८६ ॥
अर्घ्यं दक्षिणभागे तु चाग्निकार्याय यत्कृतम् ।
पश्चादागत्य तद्दत्वा विज्ञाप्य तदनन्तरम् ॥ १८७ ॥
देवस्य पुरतस्सव्ये गोमयेनोपलेपितम् ।
बहिस्सुतण्डुले कार्ये दूर्वापुष्पं च संयुतम् ॥ १८८ ॥
प्रातर्मध्याह्नकालेऽपि सायमक्षतकं भवेत् ।
ताम्रपात्रे कृताधारे लिङ्गं विन्यस्य देशिकः ॥ १८९ ॥
प्। २८५)
तारपूर्वं नमोन्तं वै चासनं परिकल्पयेत् ।
पाशुपतास्त्रमूर्तये नम इत्यासनमूर्तिको भवेत् ॥ १९० ॥
ॐ ग्लां पशुहुम्फडिति पाशुपतास्त्राय नमः ।
ॐ श्रीं पशुं हुम्फट् पाशुपतास्त्राय नमः ॥ १९१ ॥
हृदयाद्यङ्गमस्त्रेण न्यासं कृत्वा समाहितः ।
ॐ भों हृदयाय हुम्फट् ॐ श्रीं शिरसे हुम्फडन्तकम् ॥ १९२ ॥
ॐ श्रीं शिखायै हुम्फट् ॐ हुं कवचाय हुम्फडन्तकम् ।
ॐ हुं नेत्राभ्यां हुम्फडिति ॐ हं फडन्ताय हुम्फडन्तकम् ॥ १९३ ॥
षडङ्गमेवमुच्चार्य प्रत्येकं चार्चयेत्क्रमात् ।
अन्नलिङ्गार्चमथैकं वा पञ्चकं दशकं तु वा ॥ १९४ ॥
प्। २८६)
विन्यसेत्तत्र पात्रेषु पूजयेन्नन्दिकेश्वर ! ।
पात्रास्सोपादुकाद्वन्द्वं वज्राद्यायुध संयुतम् ॥ १९५ ॥
प्रणवेन वृषं पूज्य सवितानं ससात्विकम् ।
सर्वालङ्कार संयुक्तं गीतनृत्तकवाद्यकैः ॥ १९६ ॥
प्रदक्षिण क्रमेणैव नित्योत्सवालिं क्षिपेत् ।
अन्तः प्रविश्य प्रासादं संयोज्यैतान्समाहितः ॥ १९७ ॥
अन्नलिङ्गादि कान्सर्वान् सर्वान्हृत्य तदन्तरम् ।
शुद्धेन ताण्डवेनैव भगवन्तं प्रतोषयेत् ॥ १९८ ॥
तत्रदेवाग्रतो देशे नाट्यमण्डपके पुनः ।
गोमयेनोपलिप्तेन प्रणवासनके पुनः ॥ १९९ ॥
प्। २८७)
प्रणवेन तु मन्त्रेण मूर्तिं ध्यात्वा समाहितः ।
नन्दिदेवं समावाह्य सम्पूज्य तदनन्तरम् ॥ २०० ॥
स्वनाम्नैव तु सम्पूज्य शुद्धताण्डवकं भवेत् ।
रूपयौवन सम्पन्नां सुस्नातां सर्वभूषणाम् ॥ २०१ ॥
तां रुद्रकन्यामाहूय सम्प्रोक्ष्यास्त्रेण वारिणा ।
भस्म प्रधानमाल्यं च दत्वा ताण्डवमुत्तमम् ॥ २०२ ॥
भरतोक्तेन मार्गेण कारयेच्छुद्धताण्डवम् ।
ब्रह्माणं केशवं चैव रुद्रमीश्वरमेव च ॥ २०३ ॥
प्रातर्मध्याह्न सायेऽपि मध्यरात्रौ विशेषतः ।
लालकारण देवानां पूजनं स्वस्वनामभिः ॥ २०४ ॥
इति चिन्त्यविश्वसादाख्ये पूजार्णवे शिवकाण्डे त्रिंशत्पटलः ॥