वक्ष्ये नित्यार्चनं पुण्यं शिवदं पापनाशनम् ।
योगदं ज्ञानदं चैव मोक्षदं भक्तिवर्धनम् ॥ १ ॥
शिवपूजासमं पुण्यं न भूतं न भविष्यति ।
आत्मार्थं च परार्थं च द्विविधं शिवपूजनम् ॥ २ ॥
प्। १८७)
तत्फलं स्वार्थमापेक्ष्य आत्मार्थं प्रतिपद्यते ।
पूजाफलं तु सामान्ये सर्वभूताय निर्दिशेत् ॥ ३ ॥
तत्परार्थं समाख्यातं सर्वेषामात्मनः फलम् ।
सर्वतत्वादिकं ज्ञेयं सर्वकारणकारणम् ॥ ४ ॥
शिवरूपं परं ज्योतिर्लिङ्गमित्यभिधीयते ।
तत्प्रभा शक्तिरित्युक्ता पीठिका सैव नाद्यथा ॥ ५ ॥
सर्वस्योत्पत्ति लक्ष्यत्वात्प्रथमं लिङ्गमुच्यते ।
लीयते निखिलं तस्मिन् लयत्वाल्लिङ्गमुच्यते ॥ ६ ॥
शिवशक्त्यात्मकं सर्वं चराचरमिदं भवेत् ।
तृप्तिर्भवति शाखानां वृक्षमूले जलार्पणात् ॥ ७ ॥
प्। १८८)
तस्माल्लिङ्गार्चनात्तृप्ता गीर्वाणाः सर्वदेहिनः ।
आत्मार्थं चरलिङ्गं च तद्विशेषाच्छृणुष्वथ ॥ ८ ॥
शैलजं लोहजं चैव रत्नजं च त्रिधा भवेत् ।
शैलजं चैकभेदं स्याद् भोगमोक्ष फलप्रदम् ॥ ९ ॥
रत्नजं चाष्टभेदं स्याल्लोहजं च तथैव च ।
माणिक्यं च प्रबालं च वैडूर्यं स्फाटिकं तथा ॥ १० ॥
वज्रं मरकतं नीलं पुष्परागं च रत्नजम् ।
माणिक्यं श्रीप्रदं ज्ञेयं प्रवालं वश्यदं भवेत् ॥ ११ ॥
वैडूर्यं पुत्रसंसिद्ध्यै स्फाटिकं सर्वसिद्धिदम् ।
शत्रुक्षयकरं वज्रं मरकतं पुष्टिवर्धनम् ॥ १२ ॥
प्। १८९)
धनधान्यप्रदं नीलं पुष्परागं तु भोगदम् ।
एवं रत्नजमाख्यातं लोहजं पुनरुच्यते ॥ १३ ॥
सौवर्णं राजतं ताम्रं कांस्यं चैवारकूटकम् ।
आयसं सीसकं चैव त्रपुकं चैव लोहजम् ॥ १४ ॥
सौवर्णं श्रीप्रदं ज्ञेयं राजतं राजसिद्धिदम् ।
ताम्रं पुत्रप्रदं चैव विषमं कांस्यमेव च ॥ १५ ॥
उच्चाटनं चारकूटं जयकारणमायसम् ।
सीसकं रोगहरणं त्रिपु चायुष्यवर्धनम् ॥ १६ ॥
एवं लोहजमाख्यातं शैलजं पुनरुच्यते ।
नर्मदाद्यादितीर्थेषु सङ्गमेषु समुत्थितम् ॥ १७ ॥
प्। १९०)
यल्लिङ्गं तत्तु बाणाख्यं तल्लिङ्गं नैष्ठिकार्चनम् ।
सल्लिङ्गं पिण्डिकायुक्तं भुक्तिमुक्ति फलप्रदम् ॥ १८ ॥
तस्मात्तु भौतिकश्चैव नैष्ठिकश्च तथैव च ।
शौचमाचमनं स्नानं पूर्वोक्तविधिना सह ॥ १९ ॥
पादप्रक्षालनं कृत्वा पूजास्थानं समाविशेत् ।
उत्तराभिमुखो भूत्वा रुचिरासनमास्थितः ॥ २० ॥
परात्मार्थमथवा स्वात्मार्थं च विशेषतः ।
कराङ्गन्यासकं कृत्वा पूजाद्रव्याणि कल्पयेत् ॥ २१ ॥
प्रणवार्घ्यं च सङ्कल्प्य द्वारपूजां च कल्पयेत् ।
श्रीकरं ज्ञानदं चैव पूर्वद्वारस्य पूजनम् ॥ २२ ॥
प्। १९१)
विजयं कीर्तिसौभाग्यं दक्षिणं बलदं तथा ।
पश्चिमद्वारपूजायं वैराग्यं प्राभवन्तथा ॥ २३ ॥
भक्तेर्मोक्षस्य सामान्यं सर्वद्वारेषु पूजनम् ।
उदग्द्वारं न कर्तव्यं पूर्वद्वारमथोच्यते ॥ २४ ॥
ओङ्कारं दशकृत्वा तु जप्त्वा चार्घ्यं प्रकल्पयेत् ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य पूजयेद् द्वारपालकान् ॥ २५ ॥
द्वाराग्रे वृषभं पूज्य ॥ ॐ हां वृषभाय नमः ।
ॐ हाम् अस्त्राय नमः ॥
ऊर्ध्वोदम्बरके याम्ये गणेशं पूजयेत्तदा ।
रक्तवर्णं चतुर्बाहुं टङ्काङ्कुशसमन्वितम् ॥ २६ ॥
प्। १९२)
अक्षमालां स्वदन्तं च बीजपूरं च पुष्करे ।
ॐ हां गणपतये नमः ॥
द्वारस्योर्ध्वोत्तरे भागे पूजयेच्च सरस्वतीम् ॥ २७ ॥
इन्दु कुन्दसितां देवीं चतुर्हस्तां सुभूषिताम् ।
ॐ हां सरस्वत्यै नमः ।
तयोर्मध्ये महालक्ष्मीं स्वर्णवर्णां विभूषिताम् ॥ २८ ॥
गजहस्तस्थ शृङ्गार सुधाधाराभिषेचिताम् ।
चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ॥ २९ ॥
ॐ हां महालक्ष्म्यै नमः ॥
रक्तं त्रिनेत्रं जटिलं चतुर्बाहुं महोदरम् ।
मुद्गरं तर्जनीं चैव शूलमक्षस्रजं तथा ॥ ३० ॥
प्। १९३)
दधानं नन्दिनं चैव ॐ हां नन्दिने नमः ।
शुद्धस्फटिकसङ्काशां द्विनेत्रां द्विभुजां शिवाम् ॥ ३१ ॥
सर्वाभरणसंयुक्तां सर्वगन्धसमन्विताम् ।
मकरासनमारूढां सुधाकलशमुत्पलम् ॥ ३२ ॥
दधानां जलरूपार्थं ॐ हां गङ्गायै नमः ।
गङ्गां च नन्दिनं चैव शाखादक्षिणके यजेत् ॥ ३३ ॥
नीलजीमूतसङ्काशं चतुर्बाहुं त्रिनेत्रकम् ।
मुद्गरं च त्रिशूलं च शून्यमुद्रां कपालकम् ॥ ३४ ॥
व्यालयज्ञोपवीतं च भिन्नपाद युगं स्मरेत् ।
ॐ हां महाकालाय नम इति मन्त्रमुच्चरेत् ॥ ३५ ॥
प्। १९४)
यमुनां श्यामवर्णां च द्विभुजां च त्रिणेत्रकाम् ।
नीलोत्पलसुधापूर्णकलशेन समन्विताम् ॥ ३६ ॥
कूर्मवाहां प्रसन्नाक्षीं पुण्यराशिं शिवप्रियाम् ।
शाखाया उत्तरे भागे ॐ हां यमुनायै नमः ॥ ३७ ॥
आवाहनादि दीपान्तं प्रत्येकं पूजयेत्क्रमात् ।
अङ्गुष्ठानामिकाभ्यां ॐ हां हौं शिवाय नमोन्तम् ॥ ३८ ॥
नेत्रत्रये विन्यस्य निरस्येद्दिव्य विघ्नकान् ।
सन्त्यज्य दिव्यविघ्नांश्च पुनर्नाराच मुद्रया ॥ ३९ ॥
तर्जन्यङ्गुष्ठ पुष्णेत्य ॐ हः अस्त्राय फट् ।
इत्यन्तरिक्ष विघ्नानां निरासन्नन्दिकेश्वर ! ॥ ४० ॥
प्। १९५)
सव्यपार्ष्णित्रिघातेन भूमिष्ठान्विघ्ननाशनम् ।
हुम्फडन्तास्त्रमन्त्रेण विघ्ननिस्सरणं भवेत् ॥ ४१ ॥
परार्थदेहली शाखा दक्षिणाशाग्रतो भवेत् ।
दक्षिणेनैव पादेन प्रविशेन्मन्दिरं पुनः ॥ ४२ ॥
ॐ हामस्त्रायफडिति विन्यस्यास्यमू दुब्मरे ।
चतुर्वक्त्रं चतुर्बाहुं प्रदीप्ताग्निसमप्रभम् ॥ ४३ ॥
दक्षवामकरैश्शक्ति शूलाभयवरान्वितम् ।
जटामकुटसंयुक्तं मूर्धेन्दुकृतशेखरम् ॥ ४४ ॥
ॐ हां वास्त्वधिपतये ब्रह्मणे नम इत्यपि ।
देहलीमध्यमे चैव वास्तुदेवस्य पूजनम् ॥ ४५ ॥
प्। १९६)
द्वारस्याभ्यन्तरे युष्मत् पूजां कुर्वन्तु दक्षिणे ।
रक्तवर्णं चतुर्बाहुं त्रिणेत्रं चन्द्रशेखरम् ॥ ४६ ॥
जटामकुट संयुक्तं नमो मुद्रासमन्वितम् ।
परशुं च मृगं चैव धारिणं गणनायकम् ॥ ४७ ॥
वेत्रं स्वबाहुमूलेन्यत् क्षुरिकां च नितम्बके ।
सर्वाभरण संयुक्तं भस्मोद्धूलितविग्रहम् ॥ ४८ ॥
रुद्राक्षेणोपवीतं च शुक्लयज्ञोपवीतिनम् ।
रुद्राक्षालम्बमालां च हस्तमालां तथैव च ॥ ४९ ॥
ॐ ह्रीं श्रीं च स मुच्चार्य नन्दिकेश्वराय नमः ।
एवं च नन्दिनं पूज्य यशो देवीं च वामके ॥ ५० ॥
प्। १९७)
श्यामवर्णां प्रसन्नाक्षीं द्विभुजां गणनायकीम् ।
सर्वभूषण संयुक्तां सर्वलक्षणसुन्दरीम् ॥ ५१ ॥
उत्पलं दक्षहस्तेन दधानां पूजयेत्ततः ।
ॐ हां ह्रीं च समुच्चार्य यशोदेव्यै नमश्च हि ॥ ५२ ॥
एवं तां पूज्य भक्त्या च भोगमोक्षसुसिद्धये ।
ऐशान्ये स्वगुरौ भक्त्या चासनं पूजयेत्ततः ॥ ५३ ॥
ॐ हां गुं गुर्वासनाय नमश्चैव तु कल्पयेत् ।
पञ्चशुद्धिक्रमेणैव पूजयेच्छिवमव्ययम् ॥ ५४ ॥
आत्मशुद्धिं पुराकृत्वा स्थानशुद्धिमनन्तरम् ।
द्रव्यशुद्धिस्तृतीयास्याच्चतुर्थं मन्त्रशुद्धिका ॥ ५५ ॥
प्। १९८)
पञ्चमं लिङ्गशुद्धिःस्या देवं शुद्धिः क्रमोदिता ।
त्रिवारं मूलमन्त्रेण जप्त्वा संहारमुद्रया ॥ ५६ ॥
मूर्धादिपादपर्यन्तं कराभ्यां संस्पृशेत्तदा ।
ॐ हिं सद्योजात मूर्तये नम इत्यपि ॥ ५७ ॥
ॐ हिं वामदेवाय गुह्याय नम इत्यपि ।
ॐ हुं पूर्वमुच्चार्य अघोरं हृदयाय च ॥ ५८ ॥
नमस्कारन्नमः पश्चाद् ॐ हेन्तत्पुरुषन्तथा ।
वक्त्राय नम इत्यन्ते ॐ होमीशानमूर्तये ॥ ५९ ॥
नमस्कारं कनिष्ठाद्यमङ्गुष्ठान्तं न्यसेत्क्रमात् ।
ॐ सद्योजात पादमूर्तये नमः ॥ ॐ हिं वामदेवाय नमः ।
प्। १९९)
ॐ हुम् अघोरहृदयाय नमः ॥ ॐ हें तत्पुरुषाय नमः ।
ॐ होमीशानमूर्तये नमः ।
षडङ्गं तु ततः कुर्यादों हां हृदयाय नमः ॥ ६० ॥
ॐ हीं हं शिरसे स्वाहा । ॐ हों शिखायै च ततः परम् ।
वषडन्तं समुच्चार्य ततो ॐ हैं कवचाय हुम् ॥ ६१ ॥
ॐ हौं नेत्रत्रयाय वौषट् ॐ हः अस्त्राय फट् ।
अङ्गुलीषु सपर्या सु तदग्रेषु च विन्यसेत् ॥ ६२ ॥
कवचेन कराभ्यां च वेष्टयेत्तु विशेषतः ।
मूलमन्त्रं समुच्चार्य मूर्धाद्यर्घ्याद्यसंयुतम् ॥ ६३ ॥
महामुद्रां प्रदृश्येत चिन्तयेद्गुरु मण्डलम् ।
प्। २००)
शिखाग्रे द्वादशाङ्गुल्ये सहस्रदलसंयुतम् ॥ ६४ ॥
कोट्यादित्यप्रतीकाशं चन्द्रकोटि सुशीतलम् ।
चिच्छक्तिमात्रं रूपं च तारकर्णिकयोज्वलम् ॥ ६५ ॥
अष्टत्रिंशत्कलारूपं केसरोज्वलमुत्तमम् ।
पञ्चाक्षर स बीजाढ्यं यस्य मुखेतत्पुरुषं न्यसेत् ॥ ६६ ॥
अघोरं हृदये चैव वामं गुह्ये प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादौ मकुटादि क्रमोन्यसेत् ॥ ६७ ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखां शिखायां विन्यस्य कवचं स्तन मध्यतः ॥ ६८ ॥
प्। २०१)
नेत्रं नेत्रप्रदेशे वै दिक्ष्वस्त्रं विन्यसेत्क्रमात् ।
ओङ्कारं मूर्ध्नि विन्यस्य आकारं हृदि विन्यसेत् ॥ ६९ ॥
सूङ्कारं कण्ठदेशे तु विन्यसेन्नन्दिकेश्वर ! ।
अकारादिक्षकारान्तं श्रीकण्ठं विन्यसेत्क्रमात् ॥ ७० ॥
श्रीकण्ठान्तं ततः सूक्ष्मः त्रिमूर्तिरमरेश्वरः ।
अधिशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ७१ ॥
झषेशो भौतिकस्सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्वराणां मूर्तयो भवेत् ॥ ७२ ॥
क्रोधेशश्च ततश्चण्डः पञ्चान्तकशिवोत्तमः ।
एकरुद्रस्तथा कूर्म एकद्रुच्चतुराननः ॥ ७३ ॥
प्। २०२)
अजेशस्सर्व पेरीशो लाङ्गली दारुकस्तथा ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ ॥ ७४ ॥
अत्रिर्मीनश्च मेषश्च लोहिताश्च शिखी तथा ।
चलरण्डो द्विरण्डश्च समहाकालतानिनौ ॥ ७५ ॥
भुजङ्गेशोणिनाकीश खट्भीति च बकः पुनः ।
श्वेतेभ्र कूलकूली च शिवस्संवर्तकः स्मृतः ॥ ७६ ॥
पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ।
लोहालोहावर्तुला तु दीर्घकोणा तथैव च ॥ ७७ ॥
सुदीर्घमुखी गौरी च नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेशिन्यौ मुखी विकृतपूर्विका ॥ ७८ ॥
प्। २०३)
सज्वालिकीश्रिया विद्या मुख्याः स्युः स्वरशक्तयः ।
महाकाली सरस्वत्यौ सर्वसिद्धियुतौ तथा ॥ ७९ ॥
गौरीत्र्यैलोक्यविद्या च तथा मन्त्रात्मशक्तिके ।
भूतं माता विद्यते था लम्बोदरी नागर्ययौ ॥ ८० ॥
खेचरी मञ्जरी चैव विरूपी विरिणी तथा ।
कोदरी पूतना भद्रा कालीयोगिन्य एव च ॥ ८१ ॥
शङ्खिनी गर्जनी कालरात्रि कुब्जिन्य एव च ।
कपर्दिनी तथा भद्राजया च सुमुखेश्वरी ॥ ८२ ॥
रेवती मायवी चैव वारुणी वायवी तथा ।
रक्षोवधारिणीचान्या तथैव स गया च या ॥ ८३ ॥
प्। २०४)
लक्ष्मीश्च व्यापिनी मार्ये माख्या ताण्डवशक्तयः ।
एताभिः शक्तिभिः सार्धं विन्यसेदक्षरान्क्रमात् ॥ ८४ ॥
अकारं मूर्ध्नि विन्यस्य आकारं मुखवृत्तके ।
इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके ॥ ८५ ॥
उकारं दक्षिणे कर्णे ऊकारं वामकर्णके ।
ऋकारं दक्षिणे नासि ॠकारं वामनासिके ॥ ८६ ॥
ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ।
एकारं तु तथोर्ध्वोष्ठे ऐकारमधरे ततः ॥ ८७ ॥
ओकारमूर्ध्वदन्तोष्ठे औकारमथदन्तके ।
अङ्कारं तालुमूले च अःकारं तालुमध्यतः ॥ ८८ ॥
प्। २०५)
एवं विधिक्रमेणैव विन्यसेत्षोडश स्वरान् ।
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ॥ ८९ ॥
टवर्गं दक्षिणे पार्श्वे तवर्गं वामपार्श्वके ।
पवर्गं पृष्ठदेशे तु हकारं नाभ्यधःस्थितः ॥ ९० ॥
नाभौ मकारं न्यस्योर्ध्वे यकारायादि सप्तकान् ।
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्ला * * * * ॥ ९१ ॥
एकारं हृदये न्यस्य लकारं गुददेशतः ।
क्षकारं गुह्यके न्यस्य न्यासमन्त्र समन्वितः ॥ ९२ ॥
ॐ अं श्रीकण्ठाय पूर्णोदर्यै नमः ।
ॐ आम् अनन्ताय बिन्दुजायै नमः ॥
प्। २०६)
ॐ जं सूक्ष्माय शाल्यै नमः ॥
ॐ रं त्रिमूर्तये लोलाक्ष्यै नमः ॥
ॐ उम् अमरेश्वराय वर्तुलायै नमः ॥
ॐ ऊम् अघीशाय दीर्घकोणायै नमः ॥
ॐ रं स्थाणवे दीर्घजिह्विकायै नमः ॥
ॐ ऌं हाराय कुण्डोदर्यै नमः ॥
ॐ ऋं भारभूतये दीर्घमुख्यै नमः ॥
ॐ ॠम् अधीशाय गोमुख्यै नमः ॥
ॐ एं न्यण्डुशाय ऊर्ध्वकेश्यै नमः ॥
ॐ ऐं भौतिकाय विकृतमुख्यै नमः ॥
प्। २०७)
ॐ ॐ सद्योजाताय ज्वालामुख्यै नमः ॥
ॐ औम् अनुग्रहेशाय उल्कामुख्यै नमः ॥
ॐ अम् अक्रूराय श्रीमुख्यै नमः ॥
ॐ हः महासेनाय विद्यामुख्यै नमः ॥
ॐ क्रोधीशाय महाकाल्यै नमः ॥
ॐ खं चण्डीशाय सरस्वत्यै नमः ॥
ॐ गं पञ्चान्ताय सर्वसिद्धिकार्यै नमः ॥
ॐ घं शिवोत्तमाय त्रैलोक्य विद्यायै नमः ॥
ॐ ङम् एकरुद्राय मन्त्रशक्त्यै नमः ॥
ॐ चं कूर्माय शक्त्यै नमः ॥
प्। २०८)
उम् एकनेत्राय भूतमात्रे नमः ॥
जम् चतुराननाय लम्बोदर्यै नमः ॥
झम् अजेशाय द्राविण्यै नमः ॥
ञम् सर्वाय नगर्यै नमः ॥
टम् सोमेश्वराय खेचर्यै नमः ॥
ठम् लाङ्गलिने मञ्जर्यै नमः ॥
डम् दारुकाय रूपिण्यै नमः ॥
ढम् अर्धनारीश्वराय वीरिण्यै नमः ॥
णम् उमाकान्ताय काकोदर्यै नमः ॥
तम् आषाढाय पूतन्यै नमः ॥
थम् दण्डिने भद्रकाल्यै नमः ॥
प्। २०९)
दम् अत्रये योगिन्यै नमः ॥
धम् मीनाय शङ्खिन्यै नमः ॥
नम् मेषाय गर्भिण्यै नमः ॥
पम् लोहिताय कालरात्र्यै नमः ॥
फम् शिखिने कुब्जिन्यै नमः ॥
बम् चिकरण्डाय कपर्दिन्यै नमः ॥
भम् द्विरण्डाय वज्रायै नमः ॥
मम् महाकालाय जयायै नमः ॥
यम् त्वगात्मने बलिसम्मुखेश्वर्यै नमः ॥
रम् असृगात्मने भुजङ्गेशाय रेवत्यै नमः ॥
लम् मांसात्मने पिनाकिने माधव्यै नमः ॥
प्। २१०)
वम् मेदसात्मने खड्गिने वारुण्यै नमः ॥
शम् शुक्लात्मने बकेश वायव्यै नमः ॥
षम् मज्जात्मने श्वेताय रक्षोवधारिण्यै नमः ॥
सम् शुक्लात्मने भ्रुकुटीशाय सहजायै नमः ॥
ॐ ह्रौ हम् प्राणात्मने बकुलिने लक्ष्म्यै नमः ॥
लम् शक्त्यात्मने शिवाय व्यापिन्यै नमः ॥
क्षम् आत्मने संवर्तकाय मायायै नमः ॥
ॐ ह्रौं ह्रीं पृथगुच्चार्य ईशानाय मूर्ध्ने नमः ॥
तत्पुरुषाय वक्त्राय अघोराय हृदयाय वा ॥ ९३ ॥
वामदेवन्तु गुह्याय सद्योजातं तु मूर्तये ।
तारं बीजं च शक्तिं च मन्त्राद्यैकं तमोन्तिकम् ॥ ९४ ॥
प्। २११)
ॐ ह्रौं ह्रीम् ईशानाय मूर्ध्ने नमः ॥
ॐ ह्रौ ह्रीम् अघोराय हृदयाय नमः ॥
ॐ ह्रौं ह्रीं वामदेवाय गुह्याय नमः ॥
ॐ ह्रौं ह्रीं सद्योजाताय मूर्तये नमः ॥
हृदयानि षडङ्गानि विन्यसेन्नन्दिकेश्वर ।
शान्त्यतीतानि मूर्धादि चरणानि न्यसेत्क्रमात् ॥ ९५ ॥
अष्टत्रिंशत्कलान्यासं विन्यसेन्नन्दिकेश्वर ! ।
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः ॥ ९६ ॥
अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश ।
अष्टौ सद्यकला ज्ञेया मकुटादि क्रमान्न्यसेत् ॥ ९७ ॥
ईशानश्चेश्वरो ब्रह्म शिवश्चेति सदाशिवः ।
तत्पुरुषो महादेवो तन्नो रुद्रः प्रचोदयात् ॥ ९८ ॥
प्। २१२)
अघोरश्चाथघोरश्च ततो घोरस्तथैव च ।
ततो घोरतरेभ्यश्च सर्वतः शर्व इत्यपि ॥ ९९ ॥
सर्वेभ्यश्च नमस्तेस्तु रुद्रश्चाष्ट कलाः स्मृताः ।
वामो ज्येष्ठश्च रुद्रश्च कलविकरणस्तथा ॥ १०० ॥
बलविकरणो बलप्रमथनस्सर्वभूतदमनस्तथा ।
मनश्च उन्मनश्चैव वामदेवकलाः स्मृताः ॥ १०१ ॥
सद्योजातश्च सद्यश्च भवश्चोद्भव एव च ।
तथानादिभवश्चैव भवस्कभवदुद्भवः ॥ १०२ ॥
अष्टत्रिंशत्कलाः प्रोक्ताः कलाशक्तिरथोच्यते ।
शशिनीइ चाङ्गगा चेषा मरीच ज्वालिनी तथा ॥ १०३ ॥
प्। २१३)
एताः पञ्चकलाः पञ्चपञ्चमूलोपरि न्यसेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ १०४ ॥
एवं चतुष्कला शक्तिरीरिताचोर्ध्ववक्त्रके ।
तमो दोहाक्षया निद्रा धृतिः क्षान्तिः स्मृतिः क्षमा ॥ १०५ ॥
अघोरे चाष्टशक्तिश्च वामदेवे तथोच्यते ।
रजपक्षापतिः पाल्या कामांस्यन्धमनी क्रिया ॥ १०६ ॥
तृष्णा मोहक्षुधा चिन्ता मोहिनी भ्रमणी तथा ।
वामदेवकलाशक्तिस्त्रयोदश समीरिताः ॥ १०७ ॥
सिद्धिर्द्युतिश्च लक्ष्मी वा मेधा कान्तिःस्वधा प्रजा ।
सद्यश्चाष्टकलाशक्तिरीरिता नन्दिकेश्वर ॥ १०८ ॥
प्। २१४)
ईशानस्य कलाः पञ्च ऊर्ध्वमूर्धादि पञ्चके ।
ऊर्ध्ववक्त्रे शक्त्यतीतां पूर्वादि पुरुषोद्भवः ॥ १०९ ॥
एवं चतुर्षु वक्त्रेषु विन्यसेच्छक्तिसंयुताः ।
अघोरहृदये कर्णे सव्ये वामकरे तथा ॥ ११० ॥
नाभौ च जठरे पृष्ठे वाक्षस्यापि तथैव च ।
वामदेवं च गुह्ये च तथैव वृषणद्वये ॥ १११ ॥
ऊरुद्वये च जान्वोश्च जङ्घायुग्मे तथैव च ।
स्फिक्त्वज्ये च कटीदेशे पार्श्वयोर्विन्यसेत्क्रमात् ॥ ११२ ॥
सद्योजातः पदद्वन्द्वे पाणिद्वन्द्वे तथैव च ।
नासिकायां शिरोदेशे बाहुयुग्मे च विन्यसेत् ॥ ११३ ॥
प्। २१५)
ओमीशानस्सर्वविद्यानां शशिन्यै नमः इत्यूर्ध्वशिरसि ॥
ओमीश्वरस्सर्वभूतानां गदायै नमः इति पूर्वशिरसि ॥
ॐ ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा इष्टदायै नमः इति दक्षिण शिरसि ॥
ॐ शिवो मे अस्तु मरीच्यै नम इत्युत्तर शिरसि ॥ सदाशिवों ज्वालिन्यै नम इति
पश्चिम शिरसि ॥
ॐ शान्त्यतीताय नम इत्यूर्ध्ववक्त्राय नमः ॥
ॐ तत्पुरुषाय विद्महे शान्त्यै नम इति पूर्ववक्त्रे ॥
ॐ महादेवाय धीमहि विद्यायै नम इति दक्षिणवक्त्रे ॥
तन्नो रुद्रः प्रतिष्ठायै नमः । इत्युत्तरवक्त्रे ॥
प्रचोदयान्निवृत्त्यै नम इति पश्चिमवक्त्रे ॥
प्। २१६)
अघोरेभ्यस्तमां लयै नमः । इति हृदि ॥
अथ घोरेभ्यो मोहायै नमः । कण्ठे ॥
अघोरायै नमः दक्षिणांसे ।
अघोरतरेभ्यो निद्रायै नमः । वामहंसे ॥
सर्वतस्सर्वधृत्यै नमः नाभौ ॥
सर्वेभ्यः क्षान्त्यै नमः जठरे ॥ नमस्ते अस्तु रुद्रस्य समृतौ नमः पृष्ठे
॥
रूपेभ्यः क्षयायै नमः उरसि ॥ एवमष्टाघोरकलाः ॥
वामदेवायै नमः कलायै नमः गुह्ये ॥ च ज्येष्ठाय नमो यक्षाय नमो
लिङ्गे ॥ रुद्राय नमो रत्यै नमो दक्षिणोरौ ॥ कालाय नमः पाल्यायै नमो
नमः । वामोरौ ॥ कल विकरणाय विकरणायै नमः ॥
प्। २१७)
संयमिन्यै नमः वामजानुनी ॥ बलक्रियायै नमः दक्षिणजङ्घायाम् ॥
विकरणाय नमः स्त्रणायै कामायै नमः वामजङ्घायाम् ॥
बलमोहनायै नमः दक्षिणस्फिचि ॥ प्रमथनायै नमः क्षुधायै नमः
वामस्फिचि ॥ सर्वभूतदमनाय नमः दक्षिणजानुनि ॥ चितायै नमः
कट्याम् ॥ मोहिन्यै नमः दक्षिणपार्श्वे उन्मत्तायै नमः भ्रामिण्यै नमः
वामपार्श्वे ॥ वामदेवकलास्त्रयोदश ॥
सद्योजातः प्रपद्यामि सिद्ध्यै नमः दक्षिणपादे ॥
सद्योजाताय नमः ऋद्ध्यै नमः वामपादे ॥
प्। २१८)
भवेद्युतये नमः दक्षिणपाणौ ॥ अभवे अलक्ष्म्यै नमः वामपाणौ ॥
अनादिभवे नमः मेधायै नमः नासिकायाम् ॥ भजस्व मां कान्त्यै नमः
ललाटे ॥ भवस्वधायै नमः दक्षिणबाहौ ॥ उद्भवाय प्रजायै नमः
वामबाहौ ॥ इति सद्योजातकलाः अष्टौ ॥
पञ्चब्रह्मषडङ्गैश्च कलान्यासं समाचरेत् ।
केवलं बीजमन्त्रैश्च देववक्त्रादिरङ्गकैः ॥ ११४ ॥
नेत्रेषु देवस्योरसि मूलेन व्यापकं न्यसेत् ।
इति न्यासविधिः ॥
अन्तर्यागं ततः कुर्याद् ध्यानपूजापुरस्सरम् ॥ ११५ ॥
प्। २१९)
भावनाद्यैश्च पुष्पाद्यैर्हृदम्भोजे शिवं यजेत् ।
तन्नाभिकन्दात्सम्भूतं दलाष्टक समन्वितम् ॥ ११६ ॥
कर्णिकाकेसरैर्युक्तं सुषुम्नापार्श्व संस्थितम् ।
आधारशक्तिमारभ्य क्षित्यन्तं चासनं भवेत् ॥ ११७ ॥
शिवासनं च मूर्तिं च विन्यसेन्नन्दिकेश्वर ।
आवाहनादिबल्यन्तं मन्त्राणां तर्पणं तथा ॥ ११८ ॥
भावद्रव्यैरहंसाद्यैर्गन्धगत्या सुपूजयेत् ।
सदाशिवस्वरूपे तु भक्तियुक्तो विशेषतः ॥ ११९ ॥
पिङ्गलानाडिद्वारेण नाभिकुण्डे स्वकोदितम् ।
शिवाग्निं पूजयेत्तत्र बलिं याजनवत्क्रमात् ॥ १२० ॥
प्। २२०)
इडया पूरकाकृष्य सुधया च शिवाणुभिः ।
द्वादशान्तामृतेनैव कर्तव्यं नन्दिकेश्वर ॥ १२१ ॥
शरदिन्दु प्रतीकाशं बिन्दुरूपं महेश्वरम् ।
ललाटदेशमध्यस्थं विमलं चिन्तयेत्सदा ॥ १२२ ॥
आत्मशुद्धिक्रमश्चोक्तः स्थानशुद्धिं शृणुष्वह ।
प्रोक्षयेदस्त्रमन्त्रेण सामान्यार्घ्यजलेन च ॥ १२३ ॥
मूलं नेत्रत्रयं न्यस्य दिव्यदृष्ट्या वलोकयेत् ।
पात्रशुद्धिस्ततस्तत्र तत्तद्द्रव्यं च शोधयेत् ॥ १२४ ॥
सौवर्णं रजतं ताम्रं केवलाक्षरशङ्खकम् ।
पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् ॥ १२५ ॥
प्। २२१)
अन्यद्वा यन्त्रिकादिस्थं परमुक्तं शिवार्चने ।
प्रक्षाल्यास्त्राम्बुना पश्चाच्चर्मणाधोमुखं कुरु ॥ १२६ ॥
विजृम्भणं च नेत्रं च हृदयेन तु शोधयेत् ।
बिन्दुप्रसृतपीयूषरूपतोयेन पूरयेत् ॥ १२७ ॥
उशीरं चन्दनं पाद्ये पश्चादाचमनीयकम् ।
एलालवङ्गतक्कोलजातिकर्पूरसंयुतम् ॥ १२८ ॥
पूगरेणुकसप्तैते वेद्यमाचमनीयकम् ।
धूपक्षीरकुशाग्राणि पुष्पदूर्वाक्षतानि च ॥ १२९ ॥
तिलसिद्धार्थकं चैव मध्यमष्टाङ्गमुत्तमम् ।
शुद्धगन्धेन तोयेन हृदयेन च पूरयेत् ॥ १३० ॥
प्। २२२)
सामान्यार्घ्यं यथा युक्तं स्नापनं गन्धवारिणा ।
चन्दनागरुकर्पूरकोष्ठकुङ्कुम पत्रकम् ॥ १३१ ॥
उशीरं च जलं चैवमष्टगन्धं शिवार्चने ।
षडङ्गेन हृदा पूर्य पूरयित्वाऽभिमन्त्रयेत् ॥ १३२ ॥
रक्षां विधायशस्त्रेण वर्मणाचावगुण्ठयेत् ।
पुष्पं च निक्षिपेत्पात्रे शोधयेद्धेनुमुद्रया ॥ १३३ ॥
श्वेतार्कतुलसीं चैव निगुण्डी भद्रकासुमम् ।
दूर्वाम्रबिल्व जम्बूकमुनिपत्रकपित्थजम् ॥ १३४ ॥
मातुलुङ्गं च वकुलं कर्णिकारामहीवतीम् ।
सप्तच्छदं प्रियङ्गुं च लवङ्गं नागकेसरम् ॥ १३५ ॥
प्। २२३)
अङ्कोलं भुजपत्रं च कदम्बं बकपुष्पकम् ।
किरञ्चारण्डकं गुञ्जा दीर्घवृत्तं च चम्पकम् ॥ १३६ ॥
पुन्नागो देवदारुश्च बिल्वो धूर्धूर एव च ।
तमालश्चाग्निमन्थश्च पाटलो वरुका तथा ॥ १३७ ॥
ब्रह्मकी च परिक्रूर सभातेमाकुली तथा ।
भृङ्गराजश्च क्रीणीहिदानवं सुमुखी तथा ॥ १३८ ॥
सुगन्धि मुण्डिसूर्या च पादपर्णी तथैव च ।
देवताली च मल्ली च कङ्किरातं तथैव च ॥ १३९ ॥
या साचिकरवीरं च नन्द्यावर्तं तथैव च ।
ह्रीबेरं ग्रन्थिपर्णी च महापद्मं तथैव च ॥ १४० ॥
प्। २२४)
पद्मं च मालती चैव कल्हारं द्रोणपुष्पकम् ।
व्याघ्रात पुष्पमेतेषां सुपत्रैः पुष्पकैरपि ॥ १४१ ॥
नन्द्यावर्त्त्योदये चैव मध्याह्ने करवीरकम् ।
सायं च मल्लिका प्रोक्ता निशीथेऽपि च मालती ॥ १४२ ॥
यत्कालोचित पुष्पाणि तत्काले तैश्च पूजयेत् ।
मुकुलं पतितं शीर्णमाघ्रातं जन्तु दूषितम् ॥ १४३ ॥
अङ्गसंस्पृष्टकं वापि पर्यूषितं न पूजयेत् ।
सर्वेषां पद्मपुष्पाणां नीलोत्पलमिदं परम् ॥ १४४ ॥
सहस्रनीलोत्पलतो भक्तिरत्यन्तमुत्तमा ।
भक्तिः श्रद्धाभियुक्ता चेत्तस्मादभ्यधिकं फलम् ॥ १४५ ॥
प्। २२५)
भक्तिश्रद्धासुविश्वासैरेतैर्युक्तस्समो भवेत् ।
एकचित्तस्सुसंयुक्तो निन्दितैश्चापि पूजयेत् ॥ १४६ ॥
सद्यः पूजनमेवं हि भवेत्तत्त्रितयं परम् ।
पुष्पाभावेऽपि पत्रं स्यात्पत्राभावे फलं भवेत् ॥ १४७ ॥
फलाभावे तण्डुलाद्यै स्त्रितयैरपि पूजयेत् ।
पूजोपकारपुष्पादि निषिञ्चेदर्घ्यवारिणा ॥ १४८ ॥
अस्त्रदृष्टेन जप्तेन दिव्यदृष्ट्या वलोकयेत् ।
द्रव्यशुद्धिरियं प्रोक्ता मन्त्रशुद्धिरथोच्यते ॥ १४९ ॥
प्रणवं पूर्वमुच्चार्य बिन्दुनादं ततः परम् ।
सर्वमन्त्रं च तन्मध्ये नमस्कारान्तमुच्चरेत् ॥ १५० ॥
प्। २२६)
तदन्ते च कलायुक्ता मन्त्रशुद्धिरितीरिता ।
दिवा पूजां च गृह्णाति सूर्यस्सोमस्तथा निशि ॥ १५१ ॥
सन्ध्यायाः पूजनं चादौ गृह्णाति च पुनः पुनः ।
चन्द्रार्कनाशनं लब्ध्वा गुरुवक्त्रेण पूजयेत् ॥ १५२ ॥
आत्मानं चैव पुष्पेण पूजयेदर्घ्यवारिणा ।
पञ्चगव्यं च सङ्कल्प्य स्नपनार्थं विशेषतः ॥ १५३ ॥
लिङ्गस्य पूर्वभागे वा ईशाने वापि कल्पयेत् ।
गोमयेनोपलिप्याथ मण्डलं चतुरश्रकम् ॥ १५४ ॥
द्विहस्तं हस्तमात्रं वा स्थण्डिलं दर्भसंयुतम् ।
पञ्चकोष्ठं प्रकल्प्येत मध्ये शिवपदं यजेत् ॥ १५५ ॥
प्। २२७)
पूर्व सदाशिवं पूज्य विद्यातत्वं च दक्षिणे ।
उत्तरे पुरुषं तत्वं पश्चिमे कालतत्वकम् ॥ १५६ ॥
एवं क्रमेण सम्पूज्य तेषु पात्राणि विन्यसेत् ।
ॐ हां शिवतत्वाय नमः ॥
ॐ हां सदाशिवतत्वाय नमः ॥
ॐ हां विद्यातत्वाय नमः ॥
ॐ हां कालतत्वाय नमः ॥
सुप्रतिष्ठं च शान्तं च तेजोरूपं यथा तथा ॥ १५९ ॥
रक्षोदयामृतं रूपं पञ्चैतानि प्रपूजयेत् ।
मध्येक्षीर कुडुम्बं पूर्व प्रस्थास्य दध्युतः ॥ १५८ ॥
घृतं दक्षिणके चैककुडुम्बेन समन्वितम् ।
उत्तरे प्रस्थगोमूत्रं गोमयं गोकुलाहृतम् ॥ १५९ ॥
प्। २२८)
पश्चिमे जलसंयुक्तं पञ्चपादं भवेत्तदा ।
कुशोदकं चैशदेशे पूरयेच्छुद्धवारिणा ॥ १६० ॥
षट्त्रिंशद्दर्भ संयुक्तमथवा पञ्चविंशतिः ।
द्वादशं पञ्चकं वापि त्रिभिर्वा सम्प्रकल्पयेत् ॥ १६१ ॥
कूर्चं प्रदक्षिणं तत्र भस्ममात्रं च दीर्घकम् ।
ग्रन्थेरुपरि चाग्राणि चतुरङ्गुलमेव च ॥ १६२ ॥
कालमात्रेण वा कूर्चं कुशाय च कुशोदकम् ।
ईशानं क्षीरपात्रे तु वारमात्रं जपेत्क्रमात् ॥ १६३ ॥
द्विवारं पुरुषं पूर्वं पूजयेन्नन्दिकेश्वर ।
त्रिवारं घोरमन्त्रेण घृतपात्रं तु दक्षिणे ॥ १६४ ॥
प्। २२९)
उत्तरे वामदेवेन चतुर्वारं भवेत्ततः ।
सद्यः पश्चिमभागे च विन्यसेत्पञ्चवारकम् ॥ १६५ ॥
कुशोदकं षढृदयमन्त्रेणैव तु मन्त्रयेत् ।
मध्य पात्रे तु दध्यादीन्मूलमन्त्रेण योजयेत् ॥ १६६ ॥
पञ्चगव्यमिदं प्रोक्तं पञ्चामृतमथोच्यते ।
पञ्चगव्यं च पुरतः पूर्ववत्स्थण्डिलं भवेत् ॥ १६७ ॥
क्षीरं मध्ये दधि पूर्वे दक्षिणे घृतमेव च ।
उत्तरे मधु संयोज्य शर्करा पश्चिमे भवेत् ॥ १६८ ॥
अध्योदक प्रदानं च मन्त्रन्यासादि पूर्ववत् ।
पञ्चामृतमिदं प्रोक्तं शिवस्य स्नपनं भवेत् ॥ १६९ ॥
प्। २३०)
पावके नैर्-ऋते वापि सुखासनः शिवं यजेत् ।
सम्मुखीकृत्य देवेशं पूजने चोपचारकम् ॥ १७० ॥
पूजासम्भारमखिलं हृदयेनाभिमन्त्रितम् ।
कवचे नावगुण्ठ्यैव धेनुमुद्रां प्रदर्शयेत् ॥ १७१ ॥
कुसुमं चासने दत्वा तस्मिन्नीराजनम् ।
याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च ।
आवश्य बन्धनैर्वस्त्रैः सदावाचंयमो भवेत् ॥ १७३ ॥
आत्मार्थं च विशेषेण प्रस्थारादींश्च कारयेत् ।
तारयित्वा महाघण्टान्निरासायश्च लक्षणम् ॥ १७४ ॥
प्। २३१)
पूर्वकालेन सहितां पूजां चैव विशेषतः ।
गायत्र्या लिङ्गमभ्यर्च्य पञ्चब्रह्मभिरर्चयेत् ॥ १७५ ॥
तेन सद्यादिनाबाह्य निर्माल्यं लिङ्गतः क्षिपेत् ।
कनिष्ठानामिकाभ्यां तु पुष्पं सङ्गृह्य संयुतः ॥ १७६ ॥
निर्माल्यक्षेपणे काले पुष्पं तन्मूर्ध्नि विन्यसेत् ।
कदाचित्पुष्पशून्यं तु न कुर्याल्लिङ्गमूर्धनि ॥ १७७ ॥
ऐशं चण्डाय निर्माल्यं हृदयेन निवेदयेत् ।
अस्त्रेण पिण्डितालिङ्गं प्रक्षाल्य च मुहुर्मुहुः ॥ १७८ ॥
योगिनस्तु विशेषेण नवधारं विचिन्तयेत् ।
सकलीकरणं पश्चात् कनिष्ठाद्यं गुलान्तकम् ॥ १७९ ॥
प्। २३२)
हृदादिमन्त्रविन्यासकरणं भजते सुधीः ।
कूर्ममुद्रां परित्यज्य महामुद्रां प्रकल्पयेत् ॥ १८० ॥
मूलेन व्यापकं कुर्यात् करयोरुभयोरपि ।
कोटिकोटि शिवस्यास्त्रं रक्षार्थं विघ्नवारणम् ॥ १८१ ॥
क्षिपेदाशासु काष्ठासु तालत्रय पुरस्सरम् ।
प्राकारं कवचेनैव परिघावेष्टितं बहिः ॥ १८२ ॥
ऊर्ध्वाधश्शक्तिजालेन सर्वत्रैव तु भावयेत् ।
दर्शयेत्तु महामुद्रां मस्तकाच्चरणावधि ॥ १८३ ॥
प्राणायामत्रयं कृत्वा प्रणवेन समन्वितम् ।
वामेन षोडशं मात्राम् अकारेण तु पूरयेत् ॥ १८४ ॥
प्। २३३)
उकारेण चतुष्षष्टिमात्रकं कुम्भयेत्ततः ।
द्वात्रिंशन्मात्रयारेच्यं मकारेण विशेषतः ॥ १८५ ॥
कनिष्ठाङ्गुष्ठपूर्वं तु संहारं सद्यपूर्वकम् ।
नेत्रहस्ततले न्यस्य तर्जन्या चास्त्रकं भवेत् ॥ १८६ ॥
पादादिमूर्धपर्यन्तं यदिना न्यास उच्यते ।
अङ्गुष्ठादि कनिष्ठान्तमैशान्यादिश्च सृष्टिकम् ॥ १८७ ॥
मध्यमानामिके चैव कनिष्ठा जैर्पिका तथा ।
न तु त्रयं शिखां चैव शिरोहृदयादिना क्रमात् ॥ १८८ ॥
निवृत्त्यादिकलाः पञ्च क्रमेणैव तु विन्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य * * * * * * * * ॥ १८९ ॥
प्। २३४)
एवं पद्मं सुसञ्चिन्त्य तस्मिन्सम्पूजयेत् क्रमात् ।
परात्परतरं पश्चात् परात्परमनन्तरम् ॥ १९० ॥
एवं प्रकारं स्वगुरुं चिन्तयेत्पद्ममध्यमे ।
ज्ञानयोग विहीनश्चेद् दीपाकारं विचिन्तयेत् ॥ १९१ ॥
हृत्पद्मकर्णिका मध्ये सूर्यसोमाग्निशक्तिवत् ।
एवं बिम्बचतुष्काणाम् ऊर्ध्वे संहार मुद्रया ॥ १९२ ॥
(देह * * * * * * * * * * * * * *
ॐ हां हं हां समुच्चार्य चात्मने नम इत्यपि ।
ॐ हां हं हाम् आत्मने नमः ॥
तस्योपरि च शक्तिं च व * * * * * * *
प्। २३५)
अथापि द्वादशान्तेन विधायान्यत्र शोधयेत् ।
पृथिव्यादीनि भूतानि म * * * * * * *
लकार बीजसंयुक्तमिन्द्रबीजस्य दैवतम् ।
हृद्वं सद्यमन्त्रस्य निवृत्तिकलया * * * ॥
ब्रह्मास्यान्मण्डलेशः स्यात्यादजान्वन्तरं स्मरन् ।
ओङ्कारं पूर्वमुच्चार्य * * * * * * * * ॥
हाङ्कारं पञ्च * * * * * श्श्छेदकं भवेत् ॥ १९५ ॥
ॐ ह्लां ह्लां ह्लां ह्लां ह्लां हुं फट् ॥
एवं भूमण्डलं चिन्त्य वारुणं मण्डलं तथा ॥ १९६ ॥
प्। २३६)
द्रवरूपं वकाराढ्यं वारुणं बीजदैवतम् ।
पद्मद्वितीयसंयुक्तं शिरोधाम समन्वितम् ॥ १९७ ॥
मण्डलाधि पतिर्विष्णुः प्रतिष्ठा कलयान्वितः ।
आप्यमेवं सुसञ्चिन्त्य प्रणवं पूर्वमुच्चरन् ॥ १९८ ॥
ह्रीङ्कार * * * * * * * * * * * * *
दर्शं च रूपं च गुणत्रयसमन्वितम् ।
रुद्राधिदैवतं बिम्बं चिन्तयेन्नन्दिकेश्वर ॥ १९९ ॥
गलाद्भूदेशपर्यन्तं बिन्दुषट्के ।
युङ्कार संयुतम् ॥
बीजाधि दैवतं वायुः शान्त्या च कलयान्वितम् ॥ २०० ॥
कवचं पुरुष संयुक्तं शब्दस्व ।
प्। २३७)
महेशस्तत्र कीर्तितः ।
औङ्कारमादौ सञ्जप्य हैं हुं फट् कककास्तथा ॥ २०१ ॥
ॐ ह्यैं ह्यैं हुं फट् कृतम् । ए * * * * * * परम् ।
भ्रूदेशाद्ब्रह्मरन्ध्रान्तं शुद्धस्फटिकसन्निभम् ॥ २०२ ॥
संवृत्तलाञ्छनं बिन्दुबीजं हुङ्कारमेव च ।
शब्द जम देवस्सदाशिव इतीरितः ॥ २०३ ॥
अस्त्रं चैशानमन्त्रं च ॐ जं हुं फट् ततः पुनः ।
एतेषां * * * * * * * * * * * स्तधा ।
सदाशिवोपरिगतो बिन्दुनाथस्ततोपरि ॥ २०४ ॥
नादो परिस्थिता शक्तिश्शक्तिमध्ये परः शिवः ।
शिवो ब्रह्म परन्धाम परमात्मा सनातनः ॥ २०५ ॥
प्। २३८)
तत्वं सूक्ष्मं परेशानं शक्तिस्थान निरञ्जनम् ।
अव्यक्तं व्यक्ताव्यक्तं वाच्यावाच्यमनौपमम् ॥ २०६ ॥
तस्माद्योगेन मनसा निध्यायेदीश्वरः परः ।
गुरुप्रसादमार्गेण सर्वं सिध्यति सर्वदा ॥ २०७ ॥
तस्मात्सर्वार्थ सिद्ध्यर्थं गुरुवन्दनमुत्तमम् ।
अथ मारुतरन्ध्रेण पृथिवीं शोषयेत्ततः ॥ २०८ ॥
पृथिवीमन्त्रकेणैव गुणवर्णादिकं पुनः ।
ब्रह्मणे निखिलं दद्याद्विष्णवे वारिमण्डलम् ॥ २०९ ॥
वह्निना शोध्य तद्बिम्बं वह्ने बिम्बगुणादिकम् ।
रुद्राय दद्यात्तत्सर्वं वह्निं तोयेन शोधयेत् ॥ २१० ॥
प्। २३९)
वायुं बिम्बगुणादींस्तु चेश्वराय निवेदयेत् ।
पृथिव्यां वायुं संशोध्य व्योमशब्दगुणादिकम् ॥ २११ ॥
सदाशिवाय तद्दद्याद् दिव्यभावेन शोधयेत् ।
अथवा स्वशरीरं च वटवृक्षादिकं स्मरन् ॥ २१२ ॥
ऊर्ध्वमूलमधश्शाखं शोषणादि च पूर्ववत् ।
पादाङ्गुष्ठद्वयोर्मध्ये विचिन्त्यसुषिरं तनौ ॥ २१३ ॥
व्यापिनं चिन्तयेच्छक्तिं सुषिरान्तर्बहिः क्रमात् ।
ह्यैङ्कारशान्तियुक्तेन कुम्भकेनाथ शोधयेत् ॥ २१४ ॥
ह्यैः ह्यैः शान्तिकलायैव हुम्फड्मन्त्रं भवेत्ततः ।
ह्राङ्कारेणाग्निबीजेन सुषिरं चिन्तयेत्पुनः ॥ २१५ ॥
प्। २४०)
विद्यया कलया युक्तं ज्वलत्कालानलोपमम् ।
ॐ ह्रूं ह्रूं ह्रूं विद्याकलायै नमः ।
हुं फट् ततश्च काख्येन तत्सर्वं हृदि भावयेत् ॥ २१६ ॥
वायुनापि प्रतिध्यायेत्तत्सर्वं क्षीरसागरे ।
रेचकाख्येन कर्तव्यं नभोरूपमतीतया ॥ २१७ ॥
ॐ हां शान्त्यतीतकलायै नमः । हुं फट् कृतः ।
एकोच्चारेण कर्तव्यं नभोरूपं तु धारणात् ॥ २१८ ॥
शुद्धस्फटिकसङ्काशं चिन्तयेन्नन्दिकेश्वर ।
शिरोह्यनन्त पद्माद्यैः सौरीं धारां विचिन्तयेत् ॥ २१९ ॥
तस्मिन्मन्त्रं समुच्चार्य ॐ हौं च शक्तये वौषट् ।
ब्रह्मरन्ध्र शान्त्यतीतकलावधिः ॥ २२० ॥
प्। २४१)
एकोच्चारेण कर्तव्यं ततः शान्तिकलावधि ।
सामान्यार्घ्य जलेनैव स्नापयेल्लिङ्ग शुद्धये ॥ २२१ ॥
लिङ्गशुद्धिः क्रमादुक्ता पञ्चशुद्धिरिहोच्यते ।
इत्थमात्माश्रयं द्रव्यं मन्त्रलिङ्गं विशुद्धिषु ॥ २२२ ॥
कृतासु पूजनं कार्यं देवस्य वचनं यथा
ताम्रपीठे च नैर्-ऋत्यां पूजयेत्तु गजाननम् ॥ २२३ ॥
ऐशान्यां गुरुपङ्क्तिं च पूजयेन्नन्दिकेश्वर ।
आवाहनादिकं सर्वं स्वस्वमन्त्रेण कारयेत् ॥ २२४ ॥
दक्षिणे दक्षिणामूर्तिमुत्तरे तु नटेश्वरम् ।
ब्राह्मे विरिञ्च वारुण्याम् आग्नेय्यां महिषान्तकीम् ॥ २२५ ॥
प्। २४२)
वायव्यां दिशि गाङ्गेयं पूजयेच्च समाहितः ।
प्रणवं पूर्वमुच्चार्य ह्रीं गणपतये नमः ॥ २२६ ॥
समस्तमन्त्र संसृष्टिस्थिति संहृतिकारणम् ।
समस्ताधारमाधेयं गुरुमन्त्रं महाद्भुतम् ॥ २२७ ॥
हुङ्कारबीजसंयुक्तम् आं हां गुं गुरुभ्यो नमः ।
ॐ हां हीं समुच्चार्य दक्षिणामूर्तये नमः ॥ २२८ ॥
ॐ हां महेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥
ॐ हां महेश्वराय नमः ।
ॐ हां ब्रह्मेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥ २२९ ॥
ॐ हां ह्रीं ब्रह्मेश्वराय नमः ।
ॐ हां हुङ्कारमुच्चार्य दुर्गायै च नमोन्तकम् ।
ॐ हां हुं दुर्गायै नमः ।
प्। २४३)
ॐ हां स्कन्दाय सम्भाष्य नमस्कारान्तमीरितम् ॥ २३० ॥
ॐ हां स्कन्दाय नमः ॥
इति षमणीये पूजार्णवे शिवकाण्डे अन्तर्यागादि विधिरेकोन त्रिंशत् पटलः ॥